हरिवंश · अध्याय 30
विस्तरेणैव सर्वाणि कर्माणि रिपुघातिनः
श्रोतुम् इच्छाम्य् अशेषेण हरेः कृष्णस्य धीमतः ॥
कर्मणाम् आनुपूर्व्या च प्रादुर्भावाश् च ये विभोः
या चास्य प्रकृतिर् ब्रह्मंस् तां च व्याख्यातुम् अर्हसि ॥
कथं च भगवान् विष्णुः सुरेशो ऽरिनिषूदनः
वसुदेवकुले धीमान् वासुदेवत्वम् आगतः ॥
अमरैर् आवृतं पुण्यं पुण्यकृद्भिर् अलंकृतम्
देवलोकं समुत्सृज्य मर्त्यलोकम् इहागतः ॥
देवमानुषयोर् नेता द्योर् भुवः प्रभवो विभुः
किमर्थं दिव्व्यम् आत्मानं मानुष्ये संन्ययोजयत् ॥
यश् चक्रं वर्तयत्य् एको मानुषाणाम् अनामयम्
मानुष्ये स कथं बुद्धिं चक्रे चक्रभृतां वरः ॥
गोपायनं यः कुरुते जगतः सार्वलौकिकम्
स कथं गां गतो विष्णुर् गोपत्वम् अगमद् विभुः ॥
महाभूतानि भूतात्मा यो दधार चकार च
श्रीगर्भः स कथं गर्भे स्त्रिया भूचरया धृतः ॥
येन लोकान् क्रमैर् जित्वा त्रिभिस् त्रींस् त्रिदशेप्सया
स्थापिता जगतो मार्गास् त्रिवर्गप्रभवास् त्रयः ॥
यो ऽन्तकाले जगत् पीत्वा कृत्वा तोयमयं वपुः
लोकम् एकार्णवं चक्रे दृश्यादृश्येन वर्त्मना ॥
यः पुराणे पुराणात्मा वाराहं वपुर् आस्थितः
विषाणाग्रेण वसुधाम् उज्जहारारिसूदनः ॥
यः पुरा पुरुहूतार्थे त्रैलोक्यम् इदम् अव्ययम्
ददौ जित्वा वसुमतीं सुराणां सुरसत्तमः ॥
येन सैंहं वपुः कृत्वा द्विधा कृत्वा च तत् पुनः
पूर्वदैत्यो महावीर्यो हिरण्यकशिपुर् हतः ॥
यः पुरा ह्य् अनलो भूत्वा और्वः संवर्तको विभुः
पातालस्थो ऽर्णवगतं पपौ तोयमयं हविः ॥
सहस्रचरणं ब्रह्मन् सहस्रांशुं सहस्रशः
सहस्रशिरसं देवं यम् आहुर् वै युगे युगे ॥
नाभ्यरण्यां समुत्पन्नं यस्य पैतामहं गृहम्
एकार्णवगते लोके तत् पङ्कजम् अपङ्कजम् ॥
येन ते निहता दैत्याः संग्रामे तारकामये
सर्वदेवमयं कृत्वा सर्वायुधधरं वपुः
गरुडस्थेन चोत्सिक्तः कालनेमिर् निपातितः ॥
उत्तरान्ते समुद्रस्य क्षीरोदस्यामृतोदधेः
यः शेते शाश्वतं योगम् आस्थाय तिमिरं महत् ॥
सुरारणिर् गर्भम् अधत्त दिव्यं तपःप्रकर्षाद् अदितिः पुराणम्
शक्रं च यो दैत्यगणावरुद्धं गर्भावसाने नकृशं चकार ॥
पदानि यो लोकपदानि कृत्वा चकार दैत्यान् सलिलाशयस्थान्
कृत्वा च देवांस् त्रिदिवस्य देवांश् चक्रे सुरेशं पुरुहूतम् एव ॥
गार्हपत्येन विधिना अन्वाहार्येण कर्मणा
अग्निम् आहवनीयं च वेदीं चैव कुशान् स्रुवम् ॥
प्रोक्षणीयं ध्रुवां चैव आवभृथ्यं तथैव च
अरांस् त्रीणि च यश् चक्रे हव्यकव्यप्रदान् मखे ॥
हव्यादांश् च सुरांश् चक्रे कव्यादांश् च पितॄन् अपि
भागार्थे यज्ञविधिना योगज्ञो यज्ञकर्मणि ॥
यूपान् समित् स्रुचं सोमं पवित्रं परिधीन् अपि
यज्ञियानि च द्रव्याणि यज्ञांश् च चयनानलान्
सदस्यान्य् अजमानांश् च मेधादींश् च क्रतूत्तमान् ॥
विबभाज पुरा यश् च पारमेष्ठ्येन कर्मणा
युगानुरूपं यः कृत्वा लोकान् अनु परिक्रमन् ॥
क्षणा निमेषाः काष्ठाश् च कलास् त्रैकाल्यम् एव च
मुहूर्तास् तिथयो मासा दिनसंवत्सरास् तथा ॥
ऋतवः कालयोगाश् च प्रमाणं विविधं नृषु
आयुः क्षेत्राण्य् उपचयो लक्षणं रूपसौष्ठवम् ॥
त्रयो वर्णास् त्रयो लोकास् त्रैविद्यं पावकास् त्रयः
त्रैकाल्यं त्रीणि कर्माणि त्रयो ऽपायास् त्रयो गुणाः
सृष्टा लोकास् त्रयो ऽनन्ता येनानन्त्येन वर्त्मना ॥
सर्वभूतगुणस्रष्टा सर्वभूतगुणात्मकः
नृणाम् इन्द्रियपूर्वेण योगेन रमते च यः
गतागताभ्यां यो नेता तत्रेह च विधीश्वरः ॥
यो गतिर् धर्मयुक्तानाम् अगतिः पापकर्मणाम्
चातुर्वर्ण्यस्य प्रभवश् चातुर्वर्ण्यस्य रक्षिता ॥
चातुर्विद्यस्य यो वेत्ता चातुराश्रम्यसंश्रयः
दिगन्तरो नभोभूतो वायुर् वायुविभावनः ॥
चन्द्रसूर्यद्वयं ज्योतिर् योगीशः क्षणदातनुः
यः परं श्रूयते ज्योतिर् यः परं श्रूयते तपः ॥
यः परं प्राह परतः परं यः परमात्मवान्
नारायणपरा वेदा नारायणपराः क्रियाः ।
नारायणपरो धर्मो नारायणपरा गतिः ।
नारायणपरं सत्यं नारायणपरं तपः ।
नारायणपरो मोक्षो नारायणपरं परम् ।
आदित्यादिस् तु यो दिव्यो यश् च दैत्यान्तको विभुः ॥
युगान्तेष्व् अन्तको यश् च यश् च लोकान्तकान्तकः
सेतुर् यो लोकसेतूनां मेध्यो यो मेध्यकर्मणाम् ॥
वेद्यो यो वेदविदुषां प्रभुर् यः प्रभवात्मनाम्
सोमभूतश् च भूतानाम् अग्निभूतो ऽग्निवर्चसाम् ॥
मनुष्याणां मनोभूतस् तपोभूतस् तपस्विनाम्
विनयो नयवृत्तानां तेजस् तेजस्विनाम् अपि ॥
सर्गकारश् च सर्गाणां लोकहेतुर् अनुत्तमः
विग्रहो विग्रहार्हाणां गतिर् गतिमताम् अपि ॥
आकाशप्रभवो वायुर् वायुप्राणो हुताशनः
देवा हुताशनप्राणाः प्राणो ऽग्नेर् मधुसूदनः ॥
रसाद् वै शोणितं भवति शोणितान् मांसम् उच्यते
मांसात् तु मेदसो जन्म मेदसो ऽस्थि निरुच्यते ॥
अस्थ्नो मज्जा समभवन् मज्जायाः शुक्रसंभवः
शुक्राद् नर्भः समभवद् रसमूलेन कर्मणा ॥
तत्रापां प्रथमो भागः स सौम्यो राशिर् उच्यते
गर्भोष्मसंभवो ज्ञेयो द्वितीयो राशिर् उच्यते ॥
शुक्रं सोमात्मकं विद्याद् आर्तवं पावकात्मकम्
भावौ रसानुगाव् एतौ वीर्यं च शशिपावकौ ॥
कफवर्गे भवेच् छुक्रं पित्तवर्गे च शोणितम्
कफस्य हृदयं स्थानं नाभ्यां पित्तं प्रतिष्ठितम् ॥
देहस्य मध्ये हृदयं स्थानं तु मनसः स्मृतम्
नाभिकण्ठान्तरस्थस् तु तत्र देवो हुताशनः ॥
मनः प्रजापतिर् ज्ञेयः कफः सोमो विभाव्यते
पित्तम् अग्निः स्मृतस् त्व् एवम् अग्नीषोममयं जगत् ॥
एवं प्रवर्तिते गर्भे वर्तिते ऽर्बुदसंनिभे
वायुः प्रवेशनं चक्रे संगतः परमात्मना ॥
स पञ्चधा शरीरस्थो भिद्यते वर्धते पुनः
प्राणापानौ समानश् च उदानो व्यान एव च ॥
प्राणो ऽस्य प्रथमं स्थानं वर्धयन् परिवर्तते
अपानः पश्चिमं कायम् उदानोर्ध्वं शरीरिणः ॥
व्यानो व्यायच्छते येन समानः संनिवर्तते
भूतावाप्तिस् ततस् तस्य जायतेन्द्रियगोचरा ॥
पृथिवी वायुर् आकाशम् आपो ज्योतिश् च पञ्चमम्
तस्येन्द्रियाणि शिष्टानि स्वं स्वं योगं प्रचक्रिरे ॥
पार्थिवं देहम् आहुस् तु प्राणात्मानं च मारुतम्
छिद्राण्य् आकाशयोनीनि जलस्रावः प्रवर्तते ॥
ज्योतिश् चक्षुषि तेजश् च तेषां यन्तृ मनः स्मृतम्
ग्राम्याश् च विषयाश् चैव यस्य वीर्यात् प्रवर्तिताः ॥
इत्य् एतान् पुरुषः सर्वान् सृजंल् लोकान् सनातनान्
नैधने ऽस्मिन् कथं लोके नरत्वं विष्णुर् आगतः ॥
एष मे संशयो ब्रह्मन्न् एष मे विस्मयो महान्
कथं गतिर् गतिमताम् आपन्नो मानुषीं तनुम् ॥
श्रुतो मे स्वस्य वंशस्य पूर्वजानां च संभवः
श्रोतुम् इच्छामि विष्णोस् तु वृष्णीनां च यथाक्रमम् ॥
आश्चर्यं परमं विष्णुर् देवैर् दैत्यैश् च कथ्यते
विष्णोर् उत्पत्तिम् आश्चर्यं ममाचक्ष्व महामुने ॥
एतद् आश्चर्यम् आख्यानं कथयस्व सुखावहम्
प्रख्यातबलवीर्यस्य विष्णोर् अमिततेजसः
कर्मणाश्चर्यभूतस्य विष्णोस् तत्त्वम् इहोच्यताम् ॥
मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0