भाषा

ENहिગુ
ग्रंथ पाठ

हरिवंश · अध्याय 32

32.1

विश्वत्वं शृणु मे विष्णोर् हरित्वं च कृते युगे
वैकुण्ठत्वं च देवेषु कृष्णत्वं मानुषेषु च ॥

32.2

ईश्वरस्य हि तस्येमां कर्मणां गहनां गतिम्
संप्रत्यतीतां भाव्यां च शृणु राजन् यथातथम् ॥

32.3

अव्यक्तो व्यक्तलिङ्गस्थो य एष भगवान् प्रभुः
नारायणो ह्य् अनन्तात्मा प्रभवो ऽव्यय एव च ॥

32.4

एष नारायणो भूत्वा हरिर् आसीत् सनातनः
ब्रह्मा शक्रश् च सोमश् च धर्मः शुक्रो बृहस्पतिः ॥

32.5

अदितेर् अपि पुत्रत्वम् एत्य यादवनन्दनः
एष विष्णुर् इति ख्यात इन्द्राद् अवरजो ऽभवत् ॥

32.6

प्रसादजं ह्य् अस्य विभोर् अदित्यां पुत्रजन्म तत्
वधार्थं सुरशत्रूणां दैत्यदानवरक्षसाम् ॥

32.7

प्रधानात्मा पुरा ह्य् एष ब्रह्माणम् असृजत् प्रभुः
सो ऽसृजत् पूर्वपुरुषः पुराकल्पे प्रजापतीन् ॥

32.8

ते तन्वानास् तनूस् तत्र ब्रह्मवंशान् अनुत्तमान्
तेभ्यो ऽभवन् महात्मभ्यो बहुधा ब्रह्म शाश्वतम् ॥

32.9

एतद् आश्चर्यभूतस्य विष्णोः कर्मानुकीर्तनम्
कीर्तितं कीर्तनीयस्य कीर्त्यमानं निबोध मे ॥

32.10

वृत्ते वृत्रवधे तात वर्तमाने कृते युगे
आसीत् त्रैलोक्यविख्यातः संग्रामस् तारकामयः ॥

32.11

तत्र स्म दानवा घोराः सर्वे संग्रामदर्पिताः
घ्नन्ति देवान् सगन्धर्वान् सयक्षोरगचारणान् ॥

32.12

ते वध्यमाना विमुखाः क्षीणप्रहरणा रणे
त्रातारं मनसा जग्मुर् देवं नारायणं प्रभुम् ॥

32.13

एतस्मिन्न् अन्तरे मेघा निर्वाणाङ्गारवर्चसः
सार्कचन्द्रग्रहगणं छादयन्तो नभस्तलम् ॥

32.14

चञ्चद्विद्युद्गणाविद्धा घोरा निह्रादकारिणः
अन्योन्यवेगाभिहताः प्रववुः सप्त मारुताः ॥

32.15

दीप्ततोयाशनीपातैर् वज्रवेगानलानिलैः
ररास घोरैर् उत्पातैर् दह्यमानम् इवाम्बरम् ॥

32.16

पेतुर् उल्कासहस्राणि पेतुर् आकाशगान्य् अपि
न्युब्जानि च विमानानि प्रपतन्त्य् उत्पतन्ति च ॥

32.17

चतुर्युगान्तपर्याये लोकानां यद्भयं भवेत्
अरूपवन्ति रूपाणि तस्मिन्न् उत्पातलक्षणे ॥

32.18

तमसा निष्प्रभं सर्वं न प्राज्ञायत किंचन
तिमिरौघपरिक्षिप्ता न रेजुश् च दिषो दश ॥

32.19

विवेश रूपिणी काली कालमेघावगुण्ठिता
द्यौर् न भात्य् अभिभूतार्का घोरेण तमसा वृता ॥

32.20

तान् घनौघान् सतिमिरान् दोर्भ्यां विक्षिप्य स प्रभुः
वपुः संदर्शयाम् आस दिव्यं कृष्णवपुर् हरिः ॥

32.21

बलाहकाञ्जननिभं बलाहकतनूरुहम्
तेजसा वपुषा चैव कृष्णं कृष्णम् इवाचलम् ॥

32.22

दीप्तपीताम्बरधरं तप्तकाञ्चनभूषणम्
धूमान्धकारवपुषं युगान्ताग्निम् इवोत्थितम् ॥

32.23

चतुर्द्विगुणपीनांसां किरीटच्छन्नमूर्धजम्
चामीकरकरासक्तम् आयुधैर् उपशोभितम् ॥

32.24

चन्द्रार्ककिरणोपेतं गिरिकूटम् इवोच्छ्रितम्
नन्दकानन्दितकरं शराशीविषधारिणम् ॥

32.25

शक्तिचित्रं हलोदग्रं शङ्खचक्रगदाधरम्
विष्णुशैलं क्षमामूलं श्रीवृक्षं शार्ङ्गशृङ्गिणम् ॥

32.26

हर्यश्वरथसंयुक्ते सुपर्णध्वजशोभिते
चन्द्रार्कचक्ररचिते मन्दराक्षधृतान्तरे ॥

32.27

अनन्तरश्मिसंयुक्ते दुर्दर्शे मेरुकूबरे
तारकाचित्रकुसुमे ग्रहनक्षत्रवन्धुरे ॥

32.28

भयेष्व् अभयदं व्योम्नि देवा दैत्यपराजिताः
ददृशुस् ते स्थितं देवं दिव्यलोकमये रथे ॥

32.29

ते कृताञ्जलयः सर्वे देवाः शक्रपुरोगमाः
जयशब्दं पुरस्कृत्य शरण्यं शरणं गताः ॥

32.30

स तेषां तां गिरं श्रुत्वा विष्णुर् दयितदैवतः
मनश् चक्रे विनाशाय दानवानां महामृधे ॥

32.31

आकाशे तु स्थितो विष्णुर् उत्तमं वपुर् आस्थितः
उवाच देवताः सर्वाः सप्रतिज्ञम् इदं वचः ॥

32.32

शान्तिं व्रजत भद्रं वो मा भैष्ट मरुतां गणाः
जिता मे दानवाः सर्वे त्रैलोक्यं प्रतिगृह्यताम् ॥

32.33

ते तस्य सत्यसंधस्य विष्णोर् वाक्येन तोषिताः
देवाः प्रीतिं परां जग्मुः प्राप्येवामृतम् उत्तमम् ॥

32.34

ततस् तमः संह्रियते विनेशुश् च बलाहकाः
प्रववुश् च शिवा वाताः प्रसन्नाश् च दिशो दश ॥

32.35

सुप्रभाणि च ज्योतिंषि चन्द्रं चक्रुः प्रदक्षिणम्
दीप्तिमन्ति च तेजांसि चक्रुर् अर्कं प्रदक्षिणम् ॥

32.36

न विग्रहं ग्रहाश् चक्रुः प्रसेदुश् चापि सिन्धवः
विरजस्का बभुर् मार्गा नाकमार्गादयस् त्रयः ॥

32.37

यथार्थम् ऊहुः सरितो नापि चुक्षुभिरे ऽर्णवाः
आसञ् शुभानीन्द्रियाणि नराणाम् अन्तरात्मसु ॥

32.38

महर्षयो वीतशोका वेदानुच्चैर् अधीयिरे
यज्ञेषु च हविः स्वादु शिवम् आप च पावकः ॥

32.39

प्रवृत्तधर्माः संवृत्ता लोका मुदितमानसाः
सर्वे लोका मुदान्विताः ।
बभूवुर् अधिकाश् चैव ।
प्रीत्या परमया युक्ता देवदेवस्य भूपतेः ।
विष्णोर् दत्तप्रतिज्ञस्य श्रुत्वारिनिधने गिरम् ॥

मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc