भाषा

ENहिગુ
ग्रंथ पाठ

हरिवंश · अध्याय 29

29.1

यत् तत् सत्राजिते कृष्णो मणिरत्नं स्यमन्तकम्
अदात् तद् धारयद् बभ्रुर् भोजेन शतधन्वना ॥

29.2

सदा हि प्रार्थयाम् आस सत्यभामाम् अनिन्दिताम्
अक्रूरो ऽन्तरम् अन्विच्छन् मणिं चैव स्यमन्तकम् ॥

29.3

सत्राजितं ततो हत्वा शतधन्वा महाबलः
रात्रौ तं मणिम् आदाय ततो ऽक्रूराय दत्तवान् ॥

29.4

अक्रूरस् तु तदा रत्नम् आदाय भरतर्षभ
समयं कारयां चक्रे नावेद्यो ऽहं त्वयाच्युते ॥

29.5

वयम् अभ्युपपत्स्यामः कृष्णेन त्वां प्रधर्षितम्
ममाद्य द्वारका सर्वा वशे तिष्ठत्य् असंशयम् ॥

29.6

हते पितरे दुःखार्ता सत्यभामा यशस्विनी
प्रययौ रथम् आरुह्य नगरं वारणावतम् ॥

29.7

सत्यभामा तु तद् वृत्तं भोजस्य शतधन्वनः
भर्तुर् निवेद्य दुःखार्ता पार्श्वस्थाश्रूण्य् अवर्तयत् ॥

29.8

पाण्डवाणां तु दग्धानां हरिः कृत्वोदकं तदा
कुल्यार्थे च स भ्रातॄणां न्ययोजयत सात्यकिम् ॥

29.9

ततस् त्वरितम् आगम्य द्वारकां मधुसूदनः
पूर्वजं हलिनं श्रीमान् इदं वचनम् अब्रवीत् ॥

29.10

हतः प्रसेनः सिंहेन सत्राजिच् छतधन्वना
स्यमन्तकः स मद्गामी तस्य प्रभुर् अहं विभो ॥

29.11

तदारोह रथं शीघ्रं भोजं हत्वा महाबलम्
स्यमन्तको महाबाहो सह नौ स भविष्यति ॥

29.12

ततः प्रववृते युद्धं तुमुलं भोजकृष्णयोः
शतधन्वा ततो ऽक्रूरम् अवैक्षत् सर्वतोदिशम् ॥

29.13

अनाप्तौ च वधार्हौ च कृत्वा भोजजनार्दनौ
शक्तो ऽपि शाठ्याद् धार्दिक्यं नाक्रूरो ऽभ्युपपद्यत ॥

29.14

अपयाने ततो बुद्धिं भोजश् चक्रे भयार्दितः
योजनानां शतं साग्रं हयया प्रत्यपद्यत ॥

29.15

विख्याता हृदया नाम शतयोजनगामिनी
भोजस्य वडवा राजन् यया कृष्णम् अयोधयत् ॥

29.16

क्षीणां जवेन हृदयाम् अध्वनः शतयोजने
दृष्ट्वा रथस्य स्वां वृद्धिं शतधन्वानम् आर्दयत् ॥

29.17

ततस् तस्या हयायास् तु श्रमात् खेदाच् च भारत
खम् उत्पेतुर् अथ प्राणाः कृष्णो रामम् अथाब्रवीत् ॥

29.18

तिष्ठस्वेह महाबाहो दृष्टदोषा हया मया
पद्भ्यां गत्वा हरिष्यामि मणिरत्नं स्यमन्तकम् ॥

29.19

पद्भ्याम् एव ततो गत्वा शतधन्वानम् अच्युतः
मिथिलाम् अभितो राजञ् जघान परमास्त्रवित् ॥

29.20

स्यमन्तकं च नापश्यद् धत्वा भोजं महाबलम्
निवृत्तं चाब्रवीत् कृष्णं रत्नं देहीति लाङ्गली ॥

29.21

नास्तीति कृष्णश् चोवाच ततो रामो रुषान्वितः
धिक्शब्दपूर्वम् असकृत् प्रत्युवाच जनार्दनम् ॥

29.22

भ्रातृत्वान् मर्षयाम्य् एष स्वस्ति ते ऽस्तु व्रजाम्य् अहम्
कृत्यं न मे द्वारकया न त्वया न च वृष्णिभिः ॥

29.23

प्रविवेश ततो रामो मिथिलाम् अरिमर्दनः
सर्वकामैर् उपचितैर् मैथिलेनाभिपूजितः ॥

29.24

एतस्मिन्न् एव काले तु बभ्रुर् मतिमतां वरः
नानारूपान् क्रतून् सर्वान् आजहार निरर्गलान् ॥

29.25

दीक्षामयं स कवचं रक्षार्थं प्रविवेश ह
स्यमन्तककृते प्राज्ञो गांदीपुत्रो महायशाः ॥

29.26

अर्थान् रत्नानि चाग्र्याणि द्रव्याणि विविधानि च
षष्टिं वर्षाणि धर्मात्मा यज्ञेषु विनियोजयत् ॥

29.27

अक्रूरयज्ञा इति ते ख्यातास् तस्य महात्मनः
बह्वन्नदक्षिणाः सर्वे सर्वकामप्रदायिनः ॥

29.28

अथ दुर्योधनो राजा गत्वा स मिथिलां प्रभुः
गदाशिक्षां ततो दिव्यां बलभद्राद् अवाप्तवान् ॥

29.29

प्रसाद्य तु ततो रामो वृष्ण्यन्धकमहारथैः
आनीतो द्वारकाम् एव कृष्णेन च महात्मना ॥

29.30

अक्रूरस् त्व् अन्धकैः सार्धम् अपायाद् भरतर्षभ
हत्वा सत्राजितं युद्धे सहबन्धुं महाबली ॥

29.31

ज्ञातिभेदभयात् कृष्णस् तम् उपेक्षितवान् अथ
अपयाते तदाक्रूरे नावर्षत् पाकशासनः ॥

29.32

अनावृष्ट्या तदा राष्ट्रम् अभवद् बहुधा कृशम्
ततः प्रसादयाम् आसुर् अक्रूरं कुकुरान्धकाः ॥

29.33

पुनर् द्वारवतीं प्राप्ते तस्मिन् दानपतौ ततः
प्रववर्ष सहस्राक्षः कच्छे जलनिधेस् तदा ॥

29.34

कन्यां च वासुदेवाय स्वसारं शीलसंमताम्
अक्रूरः प्रददौ धीमान् प्रीत्यर्थं कुरुनन्दन ॥

29.35

अथ विज्ञाय योगेन कृष्णो बभ्रुगतं मणिम्
सभामध्यगतं प्राह तम् अक्रूरं जनार्दनः ॥

29.36

यत् तद् रत्नं मणिवरं तव हस्तगतं विभो
तत् प्रयच्छस्व मानार्ह मयि मानार्यकं कृथाः ॥

29.37

षष्टिवर्षगते काले यद् रोषो ऽभूत् तदा मम
स संरूढो ऽसकृत्प्राप्तस् ततः कालात्ययो महान् ॥

29.38

ततः कृष्णस्य वचनात् सर्वसात्वतसंसदि
प्रददौ तं मणिं बभ्रुर् अक्लेशेन महामतिः ॥

29.39

ततस् तम् आर्यवत्प्राप्तं बभ्रोर् हस्ताद् अरिंदमः
ददौ हृष्टमनाः कृष्णस् तं मणिं बभ्रवे पुनः ॥

29.40

स कृष्णहस्तात् संप्राप्य मणिरत्नं स्यमन्तकम्
आबध्य गांदिनीपुत्रो विरराजांशुमान् इव ॥

मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc