भाषा

ENहिગુ
ग्रंथ पाठ

हरिवंश · अध्याय 2

2.1

स सृष्टासु प्रजास्व् एवम् आपवो वै प्रजापतिः
लेभे वै पुरुषः पत्नीं शतरूपाम् अयोनिजाम् ॥

2.2

आपवस्य महिम्ना तु दिवम् आवृत्य तिष्ठतः
धर्मेणैव महाराज शतरूपा व्यजायत ॥

2.3

सा तु वर्षायुतं तप्त्वा तपः परमदुश्चरम्
भर्तारं दीप्ततपसं पुरुषं प्रत्यपद्यत ॥

2.4

स वै स्वायंभुवस् तात पुरुषो मनुर् उच्यते
तस्यैकसप्ततियुगं मन्वन्तरम् इहोच्यते ॥

2.5

वैराजात् पुरुषाद् वीरं शतरूपा व्यजात
प्रियव्रतोत्तानपादौ वीरात् काम्या व्यजायत ॥

2.6

काम्या नाम महाबाहो कर्दमस्य प्रजापतेः
सुता सुतपसा युक्ता महती लोकधारिणी ।
काम्यापुत्राश् च चत्वारः सम्राट् कुक्षिर् विराट् प्रभुः ॥

2.7

उत्तानपादं जग्राह पुत्रम् अत्रिः प्रजापतिः
उत्तानपादाच् चतुरः सूनृता सुषुवे सुतान् ॥

2.8

धर्मस्य कन्या सुश्रोणी सूनृता नाम विश्रुता
उत्पन्ना वाचि धर्मेण ध्रुवस्य जननी शुभा ॥

2.9

ध्रुवं च कीर्तिमन्तं चाप्य् अयस्मन्तम् अयस्पतिम्
उत्तानपादो ऽजनयत् सूनृतायां प्रजापतिः ॥

2.10

ध्रुवो वर्षसहस्राणि त्रीणि दिव्यानि भारत
तपस् तेपे महाराज प्रार्थयन् सुमहद् यशः ॥

2.11

तस्मै ब्रह्मा ददौ प्रीतः स्थानम् आत्मसमं प्रभुः
अचलम् चैव पुरतः सप्तर्षीणां प्रजापतिः ॥

2.12

तस्याभिमानम् ऋद्धिं च महिमानं निरीक्ष्य च
देवासुराणाम् आचार्यः श्लोकम् अप्य् उशना जगौ ॥

2.13

अहो यस्य तपसो वीर्यम् अहो श्रुतम् अहो व्रतम्
यम् अद्य पुरतः कृत्वा ध्रुवं सप्तर्षयः स्थिताः ॥

2.14

तस्माच् छ्लिष्टं च मान्यं च ध्रुवाच् छम्बुर् व्यजायत
श्लिष्टेर् आधत्त सुच्छाया पञ्च पुत्रान् अकल्मषान्
प्राचीनगर्भं वृकतिं वृकलं वृकतेजसम् ।
पत्नी प्राचीनगर्भस्य सूनृता सुषुवे नृप ।
नाम्नोदारधियं पुत्रम् इन्द्रो यः पूर्वजन्मनि ॥
उदारधीः सुतं भद्रा+ +जनयद् वै दिवंजयम् ।
रिपुं रिपुंजयं जज्ञे वराङ्गी सा दिवंजयात् ।
रिपुं रिपुंजयं विप्रं वृकलम् वृकतेजसम् ॥

2.15

रिपोर् आधत्त बृहती चाक्षुषम् सर्वतेजसम्
अजीजनत् पुष्करिण्यां वैरण्यां चाक्षुषो मनुम् ॥

2.16

प्रजापतेर् आत्मजायां वीरणस्य महात्मनः
मनोर् अजायन्त दश नड्वलायां महौजसः
कन्यायां भरतश्रेष्ठ वैराजस्य प्रजापतेः ॥

2.17

ऊरुः पूरुः शतद्युम्नस् तपस्वी सत्यवित् कविः
अग्निष्टुद् अतिरात्रश् च सुद्युम्नश् चेति तेनव
अभिमन्युश् च दशमो नड्वलायां महौजसः ॥

2.18

ऊरोर्ऽजनयत् पुत्रान् षडाग्नेयी महाप्रभान्
अङ्गं सुमनसं स्वातिं क्रतुम् आङ्गिरसं शिवम् ॥

2.19

अङ्गात् सुनीथापत्यं वै वेनम् एकं व्यजायत
अपचारेण वेनस्य प्रकोपः सुमहान् अभूत् ॥

2.20

प्रजार्थम् ऋषयो ऽथास्य ममन्थुर् दक्षिणं करम्
वेनस्य पाणौ मथिते संबभूव महान् ऋषिः ॥

2.21

तं दृष्ट्वा मुनयः प्राहुर् एष वै मुदिताः प्रजाः
करिष्यति महातेजा यशश् च प्राप्स्यते महत् ॥

2.22

स धन्वी कवची जातस् तेजसा निर्दहन्न् इव
बद्धगोधाङ्गुलित्रवान् ।
प्रजारक्षाकृतोत्साहः ।
पृथुर् वैन्यस् तदा चेमां ररक्ष क्षत्रपूर्वजः ॥

2.23

राजसूयाभिषिक्तानाम् आद्यः स वसुधाधिपः
तस्माच् चैव समुत्पन्नौ निपुणौ सूतम् अगधौ ॥

2.24

तेनेयं गौर् महाराज दुग्धा सस्यानि भारत
प्रजानां वृत्तिकामेन देवैः सर्षिगणैः सह ॥

2.25

सर्पैः पुण्यजनैश् चैव वीरुद्भिः पर्वतैस् तथा ॥

2.26

तेषु तेषु च पात्रेषु दुह्यमाना वसुंधरा
प्रादाद् यथेप्सितं क्षीरं तेन प्राणान् अधार्यन् ॥

2.27

पृथुपुत्रौ तु धर्मज्ञौ जज्ञाते ऽन्तर्धिपालिनौ
शिखण्डिनी हविर्धानम् अन्तर्धानाद् व्याजायत ॥

2.28

हविर्धानात् षडाग्नेयी धिषणाजनयत् सुतान्
प्राचीनबर्हिषं शुक्रम् गयं कृष्णं व्रजाजिनौ ॥

2.29

प्राचीनबर्हिर् भगवान् महान् आसीत् प्रजापतिः
हविर्धानान् महाराज येन संवर्धिताः प्रजाः ॥

2.30

प्राचीनाग्राः कुशास् तस्य पृथिव्यां जनमेजय
प्राचीनबर्हेर् अभवन् पृथिवीतलचारिणः ॥

2.31

समुद्रतनयायां तु कृतदारो ऽभवत् प्रभुः
महतस् तपसः पारे सवर्णायां महीपतिः ॥

2.32

सवर्णाधत्त सामुद्री दश प्राचीनबर्हिषः
पुत्रान् वै जनयाम् आस सर्वलोकाभिपूजितान् ।
सर्वे प्रचेतस नाम धनुर्वेदस्य पारगाः ॥

2.33

अपृथग्धर्मचरणास् ते ऽतप्यन्त महत् तपः
दश वर्षसहस्राणि समुद्रसलिलेशयाः ॥

2.34

तपश् चरत्सु पृथिवीं प्रचेतःसु महीरुहः
अरक्ष्यमाणाम् आवव्रुर् बभूवाथ प्रजाक्षयः ॥

2.35

नाशकन् मारुतो वातुं वृतं खम् अभवद् द्रुमैः
दश वर्षसहस्राणि न शेकुश् चेष्टितुं प्रजाः ॥

2.36

तद् उपश्रुत्य तपसा युक्ताः सर्वे प्रचेतसः
प्राचेतसम् उपस्तव्य तपसः सर्वपर्वतैः ।
मुखेभ्यो वायुम् अग्निं च ते ऽसृजञ् जातमन्यवः ॥

2.37

उन्मूलान् अथ वृक्षांस् तान् कृत्वा वायुर् अशोषयत्
तान् अग्निर् अदहद् घोर एवम् आसीद् द्रुमक्षयः ॥

2.38

द्रुमक्षयम् अथो बुद्ध्वा किंचिच् छिष्टेषु शाखिषु
उपगम्याब्रवीद् एतान् राजा सोमः प्रतापवान् ॥

2.39

कोपं यच्छत राजानः सर्वे प्राचीनबर्हिषः
वृक्षशून्या कृता पृथ्वी शाम्येताम् अग्निमारुतौ ॥

2.40

रत्नभूता च कन्येयं वृक्षाणां वरवर्णिनी
भविष्यं जानता तात धृता गर्भेण वै मया ॥

2.41

मारिषा नाम नाम्नैषा वृक्षाणाम् इति निर्मिता
भार्या वो ऽस्तु महाभागा सोमवंशविवर्धिनी ॥

2.42

युष्माकं तेजसो ऽर्धेन मम चार्धेन तेजसः
अस्याम् उत्पत्स्यते विद्वान् दक्षो नाम प्रजापतिः ॥

2.43

स इमां दग्धभूयिष्ठां युष्मत्तेजोमयेन वै
अग्निनाग्निसमो भूयः प्रजाः संवर्धयिष्यति ॥

2.44

ततः सोमस्य वचनाज् जगृहुस् ते प्रचेतसः
संहृत्य कोपं वृक्षेभ्यः पत्नीं धर्मेण मारिषाम् ॥

2.45

दशभ्यस् तु प्रचेतोभ्यो मारिषायां प्रजापतिः
दक्षो जज्ञे महातेजाः सोमस्यांशेन भारत ॥

2.46

पुत्रान् उत्पादयाम् आस सोमवंशविवर्धनान्
अचरांश् च चरांश् चैव द्विपदो ऽथ चतुष्पदः ॥

2.47

स सृष्ट्वा मनसा दक्षः पल्श्चाद् असृजत स्त्रियः
तदा प्रजाविवृद्ध्यर्थं महातेजाः प्रजापतिः ।
ददौ स दश दर्माय कश्यपाय त्रयोदश
शिष्टाः सोमाय राज्ञे तु नक्षत्राख्या ददौ प्रभुः ॥

2.48

तासु देवा खगा गावो नागा दितिजदानवाः
गन्धर्वाप्सरसश् चैव जज्ञिरे ऽन्याश् च जातयः ॥

2.49

ततःप्रभृति राजेन्द्र प्रजा मैथुनसंभवाः
संकल्पाद् दर्शनात् स्पर्शात् पूर्वेषां सृष्टिर् उच्यते ॥

2.50

देवानां दानवानां च गन्धर्वोरगरक्षसाम्
संभवः कथितः पूर्वं दक्षस्य च महात्मनः ॥

2.51

अङ्गुष्ठाद् ब्रह्मणो जातो दक्षश् चोक्तस् त्वयानघ
वामाङ्गुष्ठात् तथा चैव तस्य पत्नी व्यजायत ।
कथं प्राचेतसत्वं स पुनर् लेभे महातपाः ॥

2.52

एतं मे संशयं विप्र व्याख्यातुं त्वम् इहार्हसि
दौहित्रश् चैव सोमस्य कथं श्वशुरतां गतः ॥

2.53

उत्पत्तिश् च निरोधश् च नित्यौ भूतेषु भारत
ऋषयो ऽत्र न मुह्यन्ति विद्यावन्तश् च ये जनाः ॥

2.54

युगे युगे भवन्त्य् एते सर्वे दक्षादयो नृप
पुनश् चैव निरुध्यन्ते विद्वांस् तत्र न मुह्यति ॥

2.55

ज्यैष्ठ्यं कानिष्ठ्यम् अप्य् एषां पूर्वं नासीज् जनाधिप
तप एव गरीयो ऽभूत् प्रभावश् चैव कारणम् ॥

2.56

इमां हि सृष्टिं दक्षस्य यो विद्यात् सचराचरम्
प्रजावान् आयुर् उत्तीर्णः स्वर्गलोके महीयते ॥

मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc