हरिवंश · अध्याय 28
भजमानस्य पुत्रो ऽथ रथमुख्यो विदूरथः
राजाधिदेवः शूरस् तु विदूरथसुतो ऽभवत् ॥
राजाधिदेवस्य सुता जज्ञिरे वीर्यवत्तराः
दत्तातिदत्तौ बलिनौ शोणाश्वः श्वेतवाहनः ॥
शमी च दण्डशर्मा च दत्तशत्रुश् च शत्रुजित्
श्रवणा च श्रविष्ठा च स्वसारौ संबभूवतुः ॥
शमीपुत्रः प्रतिक्षत्रः प्रतिक्षत्रस्य चात्मजः
स्वयंभोजः स्वयंभोजाद् धृदिकः संबभूव ह ॥
तस्य पुत्रा बभूवुर् हि सर्वे भीमपराक्रमाः
कृतवर्माग्रजस् तेषां शतधन्वा तु मध्यमः ॥
देवान्तश् च नरान्तश् च भिषग् वैतरणश् च यः
सुदान्तश् चाधिदान्तश् च कीनाशो दामदम्भकौ ॥
देवान्तस्याभवत् पुत्रो विद्वान् कम्बलबर्हिषः
क्रोष्टोः पुत्रो ऽनमित्रस् तु तस्माद् वै देवमीढुषः ।
असमौजास् तथा वीरो नासमौजाश् च ताव् उभौ ॥
अजातपुत्राय सुतान् प्रददाव् असमौजसे
सुदंष्ट्रं च सुचारुं च कृष्णम् इत्य् अन्धकाः स्मृताः ॥
गान्धारी चैव माद्री च क्रोष्टोर् भार्ये बभूवतुः
गान्धारी जनयाम् आस सुमित्रं मित्रनन्दनम् ॥
माद्री युधाजितं पुत्रं ततो वै देवमीढुषम्
अनमित्रम् अमित्राणां जेतारं च महाबलम् ॥
अनमित्रसुतो निघ्नो निघ्नस्य द्वौ बभूवतुः
प्रसेनश् चाथ सत्राजिच् छत्रुसेनाजिताव् उभौ ॥
प्रसेनो द्वारवत्यां तु निविशन्त्यां महामणिम्
दिव्यं स्यमन्तकं नाम समुद्राद् उपलब्धवान् ॥
स मणिः स्यन्दते रुक्मं वृष्ण्यन्धकनिवेशने
कालवर्षी च पर्जन्यो न च व्याधिभयं भवेत् ॥
लिप्सां चक्रे प्रसेनात् तु मणिरत्नं स्यमन्तकम्
गोविन्दो न च तं लेभे शक्तो ऽपि न जहार सः ॥
कदाचिन् मृगयां यातः प्रसेनस् तेन भूषितः
स्यमन्तककृते सिंहाद् वधं प्राप वनेचरात् ॥
अथ सिंहं प्रधावन्तम् ऋक्षराजो महाबलः
निहत्य मणिरत्नं तम् आदाय बिलम् आविशत् ॥
ततो वृष्ण्यन्धकाः कृष्णं प्रसेनवधकारणात्
प्रार्थनां तां मणेर् बुद्ध्वा सर्व एव शशङ्किरे ॥
स शङ्क्यमानो धर्मात्मा नकारी तस्य कर्मणः
आहरिष्ये मणिम् इति प्रतिज्ञाय वनं ययौ ॥
प्रसेनस्य पदं गृह्य पुरुषैर् आप्तकारिभिः
ऋक्षवन्तं गिरिवरं विन्ध्यं च गिरिम् उत्तमम् ॥
अन्वेषयन् परिश्रान्तः स ददर्श महामनाः
साश्वं हतं प्रसेनं तु नाविन्दच् चैव तं मणिम् ॥
अथ सिंहः प्रसेनस्य शरीरस्याविदूरतः
ऋक्षेन निहतो दृष्टः पादैर् ऋक्षस्य सूचितः ॥
पादैस् तैर् अन्वियायाथ गुहाम् ऋक्षस्य माधवः
महत्य् ऋक्षबिले वाणीं शुश्राव प्रमदेरिताम् ॥
धात्र्या कुमारम् आदाय सुतं जाम्बवतो नृप
क्रीडापयन्त्या मणिना मा रोदीर् इत्य् अथेरिताम् ॥
सिंहः प्रसेनम् अवधीत् सिंहो जाम्बवता हतः
सुकुमारक मा रोदीस् तव ह्य् एष स्यमन्तकः ॥
व्यक्तीकृतश् च शब्दः स तूर्णं चापि ययौ बिलम्
प्रविश्य चापि भगवांस् तम् ऋक्षबिलम् अञ्जसा ।
स्थापयित्वा बिलद्वारि यदूंल् लाङ्गलिना सह ।
शार्ङ्गधन्वा बिलस्थं तु जाम्बवन्तं ददर्श ह ॥
युयुधे वासुदेवस् तु बिले जाम्बवता सह
बाहुभ्याम् एव गोविन्दो दिवसान् एकविंसतिम् ॥
प्रविष्टे तु बिलं कृष्णे वसुदेवपुरःसराः
अदृष्ट्वा निर्गमं शौरेः प्रविष्टस्य बिलं जनाः ।
प्रतीक्ष्य द्वादशाहानि दुःखिताः स्वपुरं ययुः ।
पुनर् द्वारवतीम् एत्य हतं कृष्णं न्यवेदयन् ॥
वासुदेवस् तु निर्जित्य जाम्बवन्तं महाबलम्
जाम्बवन्तं विनिर्जित्य वासुदेवो महाबलम् ।
लेभे जाम्बवतीं कन्याम् ऋक्षराजस्य संमताम् ॥
मणिं स्यमन्तकं चैव जग्राहात्मविशुद्धये
अनुनीयर्क्षराजानं निर्ययौ च तदा बिलात् ॥
एवं स मणिम् आहृत्य विशोध्यात्मानम् अच्युतः
ददौ सत्राजिते तं वै सर्वसात्वतसंसदि ॥
एवं मिथ्याभिशस्तेन कृष्णेनामित्रघातिना
आत्मा विशोधितः पापाद् विनिर्जित्य स्यमन्तकम् ॥
सत्राजितो दश त्व् आसन् भार्यास् तासां शतं सुताः
ख्यातिमन्तस् त्रयस् तेषां भङ्गकारस् तु पूर्वजः ॥
वीरो वातपतिश् चैव उपस्वावांस् तथैव च
कुमार्यश् चापि तिस्रो वै दिक्षु ख्याता नराधिप ॥
सत्यभामोत्तमा स्त्रीणां व्रतिनी च दृढव्रता
तथा पद्मावती चैव भार्याः कृष्णस्य ता ददौ ॥
सभाक्षो भङ्गकारात् तु नारेयश् च नरोत्तमौ
जज्ञाते गुणसंपन्नौ विश्रुतौ गुणसंपदा ॥
मधोः पुत्रस्य जज्ञे ऽथ पृश्निः पुत्रो युधाजितः
जज्ञाते तनयौ पृश्नेः श्वफल्कश् चित्रकस् तथा ॥
श्वफल्कः काशिराजस्य सुतां भार्याम् अविन्दत
गांदीं तस्यास् तु गांदीत्वं सदा गाः प्रददौ हि सा ॥
तस्यां जज्ञे तदा वीरः श्रुतवान् इति भारत
अक्रूरो ऽथ महाभागो यज्वा विपुलदक्षिणः ॥
उपासङ्गस् तथा मद्गुर् मृदुरश् चारिमर्दनः
गिरिक्षिपस् तथोपेक्षः शत्रुहा चारिमेजयः ॥
चर्मभृच् चारिवर्मा च गृध्रम् ओजा नरस् तथा
आवाहप्रतिवाहौ च सुन्दरा च वराङ्गना ॥
विश्रुता साम्बमहिषी कन्या चास्य वसुंधरा
रूपयौवनसंपन्ना सर्वसत्त्वमनोहरा ॥
अक्रूरेणौग्रसेन्यां तु सुगात्र्यां कुरुनन्दन
सुदेवश् चोपदेवश् च जज्ञाते देववर्चसौ ॥
चित्रकस्याभवन् पुत्राः पृथुर् विपृथुर् एव च
अश्वसेनो ऽश्वबाहुश् च सुपार्श्वकगवेषणौ ॥
अरिष्टनेमेस् तु सुता धर्मो धर्मभृद् एव च
सुबाहुर् बहुबाहुश् च श्रविष्ट्ःआश्रवणे स्त्रियौ ॥
इमां मिथ्याभिशस्तिं यः कृष्णस्य समुदाहृताम्
वेद मिथ्याभिशापास् तं न स्पृशन्ति कदाचन ॥
मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0