हरिवंश · अध्याय 23
पूरोर् वंशम् अहं ब्रह्मञ् श्रोतुम् इच्छामि तत्त्वतः
द्रुह्योश्चानोर् यदोश् चैव तुर्वसोश् च द्विजोत्तम
विस्तरेणानुपूर्व्या च तद् भवान् वक्तुम् अर्हति ॥
वृष्णिवंशप्रसङ्गेन स्वं वंशं पूर्वम् एव हि
शृणु पूरोर् महाराज वंशम् अग्रे महात्मनः
विस्तरेणानुपूर्व्या च यत्र जातो ऽसि पार्थिव ॥
हन्त ते वर्तयिष्यामि पूरोर् वंशम् अनुत्तमम्
द्रुह्योश्चानोर् यदोश् चैव तुर्वसोश् च परंतप ॥
पूरोः प्रवीरः पुत्रो ऽभून् मनस्युस् तस्य चात्मजः
राजा चाभयदो नाम मनस्योर् अभवत् सुतः ॥
तथैवाभयदस्यासीत् सुधन्वा च महीपतिः
सुधन्वनः सुबाहुस् तु रौद्राश्वस् तस्य चात्मजः ॥
रौद्राश्वस्य दशार्णेयुः कृकणेयुस् तथैव च
दशाप्सरसि सूनवः ।
ऋचेयुश् प्रथमस् तेषां ।
कक्षेयुः स्थण्डिलेयुश् च संनतेयुस् तथैव च ॥
ऋचेयुश् च जलेयुश् च स्थलेयुश् च महाबलः
षष्ठश् चैव रुचेयुश् च जलेयुश् चैवसप्तमः ।
धर्मेयुश् च दृढेयुश् च वनेयुर् दशमः स्मृतः ।
वननित्यो वनेयुश् च पुत्रिकाश् च दश स्त्रियः ॥
भद्रा शूद्रा च मद्रा च मलदा मलहा तथा
खला बला च राजेन्द्र तलदा सुरथापि च
तथा गोपबला च स्त्री रत्नकूटा च ता दश ॥
ऋषिर् जातो ऽत्रिवंशे च तासां भर्ता प्रभाकरः
रुद्रायां जनयाम् आस सोमं पुत्रं यशस्विनम् ॥
स्वर्भानुना हते सूर्ये पतमाने दिवो महीम्
तमोभिभूते लोके च प्रभा येन प्रवर्तिता ॥
स्वस्ति ते ऽस्त्व् इति चोक्तो वै पतमानो दिवाकरः
वचनात् तस्य विप्रर्षेर् न पपात दिवो महीम् ॥
अत्रिश्रेष्ठानि गोत्राणि यश् चकार महातपाः
यज्ञेष्व् अत्रिधनं चैव सुरैर् यस्य प्रवर्तितम् ॥
स तासु जनयाम् आस पुत्रिकासु सनामकान्
दश पुत्रान् महात्मानस् तपस्य् उग्रे रतान् सदा ॥
ते तु गोत्रकरा राजन्न् ऋषयो वेदपारगाः
स्वस्त्यात्रेया इति ख्याताः किं त्व् अत्रिधनवर्जिताः ॥
कक्षेयुतनयास् त्व् आसंस् त्रय एव महारथाः
सभानरश् चाक्षुषश् च परमेक्षुस् तथैव च ॥
सभानरस्य पुत्रस् तु विद्वान् कालानलो नृपः
कालानलस्य धर्मज्ञः सृञ्जयो नाम वै सुतः ॥
सृञ्जयस्याभवत् पुत्रो वीरो राजा पुरंजयः
जनमेजयो महाराज पुरंजयसुतो ऽभवत् ॥
जनमेजयस्य राजर्षेर् महासालो ऽभवत् सुतः
देवेषु स परिज्ञातः प्रतिष्ठितयशास् तथा ॥
महामना नाम सुतो महासालस्य धार्मिकः
जज्ञे वीरः सुरगणैः पूजितः स महामनाः ॥
महामनास् तु पुत्रौ द्वौ जनयाम् आस भारत
उशीनरं च धर्मज्ञं तितिक्षुं च महाबलम् ॥
उशीनरस्य पत्न्यस् तु पञ्च राजर्षिवंशजाः
नृगा कृमी नवा दर्वा पञ्चमी च दृषद्वती ॥
उशीनरस्य पुत्रास् तु पञ्च तासु कुलोद्वहाः
तपसा चैव महता जाता वृद्धस्य चात्मजाः ॥
नृगायास् तु नृगः पुत्रः कृम्याः कृमिर् अजायत
नवायास् तु नवः पुत्रो दर्वायाः सुव्रतो ऽभवत् ॥
दृषद्वत्यास् तु संजज्ञे शिबिर् औशीनरो नृप
शिबेस् तु शिबयस् तात यौधेयास् तु नृगस्य ह ॥
नवस्य नवराष्ट्रं तु कृमेस् तु कृमिला पुरी
सुव्रतस्य तथाम्बष्ठा तितिक्षोस् तु प्रजाः शृणु ॥
तितिक्षुर् अभवद् राजा पूर्वस्यां दिशि भारत
उषद्रथो महाबाहुस् तस्य फेनः सुतो ऽभवत् ॥
फेनात् तु सुतपा जज्ञे जज्ञे सुतपसः सुतः
बलिर् मानुषयोनौ तु स राजा काञ्चनेषुधिः ॥
महायोगी स तु बलिर् बभूव नृपतिः पुरा
पुत्रान् उत्पादयाम् आस पञ्च वंशकरान् भुवि ॥
अङ्गः प्रथमतो जज्ञे वङ्गः सुह्मस् तथैव च
पुण्ड्रः कलिङ्गश् च तथा बालेयं क्षत्रम् उच्यते
बालेया ब्राह्मणाश् चैव तस्य वंशकरा भुवि ॥
बलेस् तु ब्रह्मणा दत्तो वरः प्रीतेन भारत
महायोगित्वम् आयुश् च कल्पस्य परिमाणतः
संग्रामे चाप्य् अजेयत्वं धर्मे चैव प्रधानताम् ।
त्रैलोक्यदर्शनं चापि प्राधान्यं प्रसवे तथा ।
बलस्याप्रतिमत्वं वै धर्मतत्त्वार्थदर्शनम् ।
चतुरो नियतान् वर्णांस् त्वं च स्थापयितेति ह ॥
इत्य् उक्तो विभुना राजा बलिः शान्तिं परां ययौ
तस्य ते तनयाः सर्वे क्षेत्रजामुनिपुंगवाः ।
संभूता दीर्घतपसः सुदेष्णायां महौजसः ।
बलिस् तान् अभिषिच्ये ह पञ्च पुत्रान् अकल्मषान् ॥
कृतार्थः सो ऽपि योगात्मा योगम् आश्रित्य स प्रभुः ।
अधृष्यः सर्वभूतानां कालापेक्षी चरत्य् उत ।
कालेन महता राजन् स्वं च स्थानम् उपागमत् ॥
तेषां जनपदाः पञ्च वङ्गाङ्गाः सुह्मकास् तथा
कलिङ्गाः पुण्ड्रकाश् चैव प्रजास् त्व् अङ्गस्य मे शृणु ॥
अङ्गपुत्रो महान् आसीद् राजेन्द्रो दधिवाहनः
दधिवाहनपुत्रस् तु राजा दिविरथस् तथा ॥
पुत्रो दिविरथस्यासीच् छक्रतुल्यपराक्रमः
विद्वान् धर्मरथो नाम तस्य चित्ररथः सुतः ॥
तेन धर्मरथेनाथ तदा विष्णुपदे गिरौ
यजता सह शक्रेण सोमः पीतो महात्मना ॥
अथ चित्ररथस्यापि पुत्रो दशरथो ऽभवत्
लोमपाद इति ख्यातो यस्य शान्ता सुताभवत् ॥
तस्य दाशरथिर् वीरश् चतुरङ्गो महायशाः
ऋष्यशृङ्गप्रभावेन जज्ञे कुलविवर्धनः ॥
चतुरङ्गस्य पुत्रस् तु पृथुलाक्ष इति स्मृतः
पृथुलाक्षसुतो राजा चम्पो नाम महायशाः
चम्पस्य तु पुरी चम्पा या पूर्वं मालिनी बभौ ॥
पूर्णभद्रप्रसादेन हर्यङ्गो ऽस्य सुतो ऽभवत्
ततो विभाण्डकस् तस्य वारणं शत्रुवारणम्
अवतारयाम् आस महीं मन्त्रैर् वाहनम् उत्तमम् ॥
हर्यङ्गस्य सुतः कर्णो विकर्णस् तस्य चात्मजः
राजा भद्ररथः स्मृतः ।
पुत्रो भद्ररथस्यासीद् बृहत्कर्मा प्रजेश्वरः ।
बृहद्दर्भः सुतस् तस्य यस्माज् जज्ञे बृहन्मनाः ॥
बृहन्मनास् तु राजेन्द्रो जनयाम् आस वै सुतम् ।
नाम्ना जयद्रथं नाम यस्माद् दृढरथो नृपः ॥
आसीद् दृढरथस्यापि विश्वजिज् जनमेजय ।
दायादस् तस्य कर्णस् तु ।
तस्य पुत्रशतं त्व् आसीद् अङ्गानां कुलवर्धनम् ॥
एते ऽङ्गवंशजाः सर्वे राजानः कीर्तिता मया
सत्यव्रता महात्मानः प्रजावन्तो महारथाः ॥
ऋचेयोस् तु महाराज रौद्राश्वतनयस्य वै
शृणु वंशम् अनुप्रोक्तं यत्र जातो ऽसि पार्थिव ॥
ऋचेयुतनयो राजन् मतिनारो महीपतिः
मतिनारसुताश् चासंस् त्रयः परमधार्मिकाः ॥
तंसुरोघो ऽप्रतिरथः सुबाहुश् चैव धार्मिकः
गौरी कन्या चविख्याता मान्धातृजननी शुभा ।
सर्वे वेदव्रतस्नाता ब्रह्मण्याः सत्यवादिनः ॥
इला नाम तु यस्यासीत् कन्या वै जनमेजय
ब्रह्मवादिन्य् अधित्री च तंसुस् ताम् अध्यगच्छत ॥
तंसोः सुरौघो राजर्षिर् धर्मनेत्रो महायशाः
ब्रह्मवादी पराक्रान्तस् तस्य भार्योपदानवी ॥
उपदानवी सुतांल् लेभे चतुरस् तान् सुरौघतः
ततश् चोत्पादयाम् आस चतुरः पुरुनन्दनान् ।
दुःषन्तम् अथ सुःषन्तं प्रवीरम् अनघं तथा ॥
दुःषन्तस्य तु दायादो भरतो नाम वीर्यवान्
स सर्वदमनो नाम नागायुतबलो महान् ॥
चक्रवर्ती सुतो जज्ञे दुःषन्तस्य महायशाः
शकुन्तलायां भरतो यस्य नाम्ना स्थ भारताः ॥
भरतस्य विनष्टेषु तनयेषु महीपतेः
मातॄणां तात कोपेण यथा ते कथितं तदा ॥
बृहस्पतेर् अङ्गिरसः पुत्रो राजन् महामुनिः
अयाजयद् भरद्वाजो महद्भिः क्रतुभिर् विभुः ॥
पूर्वं तु वितथे तस्य कृते वै पुत्रजन्मनि
ततो ऽथ वितथो नाम भरद्वाजात् सुतो ऽभवत् ॥
स चापि वितथः पुत्राञ् जनयाम् आस पञ्च वै
सुहोत्रं सुतहोतारं गयं गर्गं तथैव च ॥
कपिलं च महात्मानं सुतहोतुः सुतद्वयम्
काशिकश् च महासत्त्वस् तथा गृत्समतिः प्रभुः ॥
तथा गृत्समतेः पुत्रा ब्राह्मणाः क्षत्रिया विशः
काश्यस्य काशयो राजन् पुत्रो दीर्घतपास् तथा ॥
बभूव दीर्घतपसो विद्वान् धन्वंतरिः सुतः
धन्वंतरेस् तु तनयः केतुमान् इति विश्रुतः ॥
अथा केतुमतः पुत्रो वीरो भीमरथः स्मृतः
सुतो भीमरथस्यासीद् दिवोदासःप्रजेश्वरः ।
दिवोदास इति ख्यातः सर्वरक्षःप्रणाशनः ॥
एतस्मिन्न् एव काले तु पुरीं वाराणसीं नृपः
शून्यां निवेशयाम् आस क्षेमको नाम राक्षसः ॥
शप्ता हि सा मतिमता निकुम्भेन महात्मना
शून्या वर्षसहस्रं वै भवित्रीति नरर्षभ ॥
तस्यां तु शप्तमात्रायां दिवोदासः प्रजेश्वरः
विषयान्ते पुरीं रम्यां गोमत्यां संन्यवेशयत् ॥
भद्रश्रेण्यस्य पुत्राणां शतम् उत्तमधन्विनाम्
हत्वा निवेशयाम् आस दिवोदासः प्रजेश्वरः ॥
दिवोदासस्य पुत्रस् तु वीरो राजा प्रतर्दनः
प्रतर्दनस्य पुत्रौ द्वौ वत्सो भार्गव एव च ॥
अलर्को राजपुत्रश् च राजा संनतिमान् भुवि
हेहयस्य तु दायाद्यं हृतवान् वै महीपतिः ॥
आजह्रे पितृदायाद्यं दिवोदासहृतं बलात्
तस्यान्वये सुहोत्रो ऽभूद् राजा परमधार्मिकः ।
भद्रश्रेण्यस्य पुत्रेण दुर्दमेन महात्मना
दिवोदासेन बालो हि घृणया स विसर्जितः ॥
अष्टारथो नाम नृपः सुतो भीमरथस्य वै
तेन पुत्रेषु बालेषु प्रहृतं तस्य भारत
वैरस्यान्तं महाराज क्षत्रियेण विधित्सता ॥
अलर्कः काशिराजस् तु ब्रह्मण्यः सत्यसंगरः
अलर्कं प्रति राजानं श्लोको गीतः पुरातनम् ।
षष्टिं वर्षसहस्राणि षष्टिं वर्षशतानि च ॥
युवा रूपेण संपन्न आसीत् काशिकुलोद्वहः
लोपामुद्राप्रसादेन परमायुर् अवाप सः ॥
वयसो ऽन्ते महाबाहुर् हत्वा क्षेमकराक्षसम्
रम्यां निवेशयाम् आस पुरीं वाराणसीं नृपः ॥
अलर्कस्य तु दायादः क्षेमो नाम महायशाः
क्षेमको नाम पार्थिवः ।
क्षेमकस्य तु पुत्रो वै ।
क्षेमस्य केतुमान् पुत्रो वर्षकेतुस् ततो ऽभवत् ॥
वर्षकेतोस् तु दायादो विभुर् नाम प्रजेश्वरः
आनर्तस् तु विभोः पुत्रः सुकुमारस् ततो ऽभवत् ॥
सुकुमारस्य पुत्रस् तु सत्यकेतुर् महारथः
सुतो ऽभवन् महातेजा राजा परमधार्मिकः
करन्तुर् नाम नृपतिस् तस्य पुत्रौ बभूवतुः ।
ब्रह्मण्यौ सत्यसंपन्नौ भार्गो वत्सस् तथैव च ।
वत्सस्य वत्सभूमिस् तु भार्गभूमिस् तु भार्गवात् ॥
एते त्व् अङ्गिरसः पुत्रा जाता वंशे ऽथ भार्गवे
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश् च भरतर्षभ ॥
सुहोत्रस्य बृहत् पुत्रो बृहतस् तनयास् त्रयः
अजमीढो द्विमीढश् च पुरुमीढश् च वीर्यवान् ॥
अजमीढस्य पत्न्यस् तु तिस्रो वै यशसान्विताः
नीली च केशिनी चैव धूमिनी च वराङ्गना ॥
अजमीढस्य केशिन्यां जज्ञे जह्नुः प्रतापवान्
य आजह्रे महासत्त्रं सर्वमेधम् महामखम् ॥
पतिलोभेन यं गङ्गा वितते ऽभिससार ह
नेच्छतः प्लावयाम् आस तस्य गङ्गा च तत् सदः ॥
तया च प्लावितं दृष्ट्वा यज्ञवाटं समन्ततः
सौहोत्रिर् अब्रवीद् गङ्गां क्रुद्धो भरतसत्तम ॥
एष ते त्रिषु लोकेषु संक्षिप्यापः पिबाम्य् अहम्
अस्य गङ्गे ऽवलेपस्य सद्यः फलम् अवाप्नुहि ॥
ततः पीतां महात्मानो गङ्गां दृष्ट्वा महर्षयः
उपनिन्युर् महाभागां दुहितृत्वाय जाह्नवीम् ॥
युवनाश्वस्य पुत्रीं तु कावेरीं जह्नुर् आवहत्
गङ्गाशापेन देहार्धं यस्याः पश्चान् नदीकृतम् ॥
जह्नोस् तु दयितः पुत्रो अजको नाम वीर्यवान्
अजकस्य तु दायादो बलाकाश्वो महीपतिः ॥
बभूव मृगयाशीलः कुशिकस् तस्य चात्मजः
पह्लवैः सह संवृद्धो राजा वनचरैः स ह ॥
कुशिकस् तु तपस् तेपे पुत्रम् इन्द्रसमं प्रभुः
लभेयम् इति तं शक्रस् त्रासाद् अभ्येत्य जज्ञिवान् ॥
स गाधिर् अभवद् राजा मघवान् कौशिकः स्वयम्
विश्वामित्रस् तु गाधेयो राजा विश्वरथश् च ह ॥
विश्वजिद् विश्वकृच् चैव तथा सत्यवती नृप
ऋचीकाज् जमदग्निस् तु सत्यवत्याम् अजायत ॥
विश्वामित्रस्य तु सुता देवरातादयः स्मृताः
प्रख्यातास् त्रिषु लोकेषु तेषां नामानि मे शृणु ॥
देवश्रवाः कतिश् चैव यस्मात् कात्यायनाः स्मृताः
शालापतिर् हिरण्याक्षो रेणुर् यस्याथ रेणुका ॥
सांकृत्यो गालवो राजन् मौद्गल्यश्वेति विश्रुताः
तेषां ख्यातानि गोत्राणि कौशिकानां महात्मनाम् ॥
पाणिनो बभ्रवश् चैव धानंजय्यास् तथैव च
पार्थिवा देवराताश् च सालङ्कायनसौश्रवाः ॥
लोहित्या यमदूतश् च तथा कारीषयः स्मृताः
विश्रुताः कौशिका राजंस् तथान्ये सैन्धवायनाः
ऋष्यन्तरविवाह्याश् च कौशिका बहवः स्मृताः ॥
पौरवस्य महाराज ब्रह्मर्षेः कौशिकस्य च
संबन्धो ह्य् अस्य वंशे ऽस्मिन् ब्रह्मक्षत्रस्य विश्रुतः ॥
विश्वामित्रात्मजानां तु शुनःशेपो ऽग्रजः स्मृतः
भार्गवः कौशिकत्वं हि प्राप्तः स मुनिसत्तमः ॥
शबरादयश् च सप्तान्ये विश्वामित्रस्य वै सुताः
दृषद्वतीसुतश् चापि विश्वामित्राद् अथाष्टकः ॥
अष्टकस्य सुतो लौहिः प्रोक्तो जह्नुगणो मया
आजमीढो ऽपरो वंशः श्रूयतां भरतर्षभ ॥
अजमीढात् तु नील्यां वै सुशान्तिर् उदपद्यत
पुरुजातिः सुशान्तेस् तु बाह्याश्वः पुरुजातितः ॥
बाह्याश्वतनयाः पञ्च बभूवुर् अमरोपमाः
मुद्गलः सृञ्जयश् चैव राजा बृहदिषुस् तथा ॥
यवीनरश् च विक्रान्तः कृमिलाश्वश् च पञ्चमः
पञ्चेमे रक्षणायालं देशानाम् इति विश्रुताः ॥
पञ्चानां विद्धि पाञ्चालान् स्फीतान् पुण्यजनावृतान्
अलं संरक्षणे तेषां पाञ्चाला इति विश्रुताः ॥
मुद्गलस्य तु दायादो मौद्गल्यः सुमहायशाः
सर्व एते महात्मानः क्षत्रोपेताद्विजातयः ।
एते ह्य् अङ्गिरसः पक्षं संश्रिताः कण्वमौद्गलाः ॥
मुद्गलस्य सुतो ज्येष्ठो ब्रह्मर्षिः सुमहातपाः ।
इन्द्रसेना यतो गर्भं वध्र्यश्वं प्रत्यपद्यत ॥
आसीत् पञ्चवनः पुत्रः सृञ्जयस्य महात्मनः
सुतः पञ्चवनस्यापि सोमदत्तो महीपतिः ॥
सोमदत्तस्य दायादः सहदेवो महायशाः
सहदेवसुतश् चापि सोमको नाम पार्थिवः ॥
सोमकस्य सुतो जन्तुर् यस्य पुत्रशतं बभौ
तेषां यवीयान् पृषतो द्रुपदस्य पिता प्रभुः ॥
महिषी त्व् अजमीढस्य धूमिनी पुत्रगृद्धिनी
तृतीया तव पूर्वेषां जननी पृथिवीपते ॥
सा तु पुत्रार्थिनी देवी व्रतचर्यासमाहिता
तपो वर्षाशतं तेपे स्त्रीभिः परमदुश्चरम् ॥
हुत्वाग्निं विधिवत् सा तु पवित्रमितभोजना
अग्निहोत्रकुशेष्व् एव सुष्वाप जनमेजय ॥
धूमिन्या स तया देव्या अजमीढः समेयिवान्
ऋक्षं सा जनयाम् आस धूमवर्णं सुदर्शनम् ॥
ऋक्षात् संवरणो जज्ञे कुरुः संवरणात् तथा
यः प्रयागाद् अपक्रम्य कुरुक्षेत्रं चकार ह ॥
पुण्यं च रमणीयं च पुण्यकृद्भिर् निषेवितम्
तस्यान्ववायः सुमहान् यस्य नाम्ना स्थ कौरवाः ॥
कुरोश् च पुत्राश् चत्वारः सुधन्वा सुधनुस् तथा
परीक्षिच् च महाबाहुः प्रवरश् चारिमेजयः ॥
परीक्षितस् तु तनयो धार्मिको जनमेजयः
जनमेजयस्य दायादास् त्रय एव महारथाः ।
जह्नोस् तुकथयिष्यामि यत्र जातो ऽसि पार्थिव ॥
जह्नुस् त्व् अजनयत् पुत्रं सुरथं नाम भूमिपम् ।
श्रुतसेनो ऽग्रसेनौ च भीमसेनश् च नामतः ॥
जनमेजयस्य पुत्रौ तु सुरथो मतिमांस् तथा
सुरथस्य तु विक्रान्तः पुत्रो जज्ञे विदूरथः ॥
विदूरथस्य दायाद ऋक्ष एव महारथः
द्वितीयः स बभौ राजा नाम्ना तेनैव संज्ञितः ॥
द्वाव् ऋक्षौ तव वंशे ऽस्मिन् द्वाव् एव च परीक्षितौ
भीमसेनास् त्रयो राजन् द्वाव् एव जनमेजयौ ॥
ऋक्षस्य तु द्वितीयस्य भीमसेनो ऽभवत् सुतः
प्रतीपो भीमसेनस्य प्रतीपस्य तु शांतनुः
देवापिर् बाह्लिकश् चैव त्रय एव महारथाः ॥
शांतनोः प्रसवस् त्व् एष यत्र जातो ऽसि पार्थिव
बाह्लिकस्य तु राज्यं वै सप्तबाह्ल्यं विशां पते ॥
बाह्लिकस्य सुतश् चैव सोमदत्तो महायशाः
जज्ञिरे सोमदत्तात् तु भूरिर् भूरिश्रवाः शलः ॥
उपाध्यायस् तु देवानां देवापिर् अभवन् मुनिः
च्यवनस्य पुत्रः कृतक इष्टश् चासीन् महात्मनः ॥
शांतनुस् त्व् अभवद् राजा कौरवाणां धुरंधरः ॥
काली विचित्रवीर्यं तु जनयाम् आस भारत
शांतनोर् दयितं पुत्रं धर्मात्मानम् अकल्मषम् ॥
कृष्णद्वैपायनच् चैव क्षेत्रे वैचित्रवीर्यके
धृतराष्ट्रं च पाण्डुं च विदुरं चाप्य् अजीजनत् ॥
पाण्डोर् धनंजयः पुत्रः सौभद्रस् तस्य चात्मजः
अभिमन्योः परीक्षित् तु पिता तव जनेश्वर ॥
एष ते पौरवो वंशो यत्र जातो ऽसि पार्थिव
तुर्वसोस् तु प्रवक्ष्यामि द्रुह्योश् चानोर् यदोस् तथा ॥
तुर्वसोस् तु सुतो वह्निर् वह्नेर् गोभानुर् आत्मजः
गोभानोस् तु सुतो राजा त्रिशानुर् अपराजितः ॥
करंधमस् तु त्रिशानोर् मरुत्तस् तस्य चात्मजः
अन्यस् त्व् आविक्षितो राजा मरुत्तः कथितस् तव ॥
अनपत्यो ऽभवद् राजा यज्वा विपुलदक्षिणः
दुहिता संमता नाम तस्यासीत् पृथिवीपतेः ॥
दक्षिणार्थं हि सा दत्ता संवर्ताय महात्मने
दुःषन्तं पौरवं चापि लेभे पुत्रम् अकल्मषम् ॥
एवं ययातेः शापेन जरासंक्रमणे तदा
पौरवं तुर्वसोर् वंशः प्रविवेश नृपोत्तम ॥
दुःषन्तस्य तु दायादः शरुत्थामः प्रजेश्वरः
शरुत्थामाद् अथाक्रीडश् चत्वारस् तस्य चात्मजाः ॥
पाण्ड्यश् च केरलश् चैव कोलश् चोलश् च पार्थिवः
तेषां जनपदाः स्फीताः पाण्ड्यश् चोलश् च केरलाः ॥
द्रुह्योस् तु तनयो राजन् बभ्रुसेनश् च पार्थिवः
अङ्गारसेतुस् तत्पुत्रो मरुतां पतिर् उच्यते ॥
यौवनाश्वेन समरे कृच्छ्रेण निहतो बली
युद्धं सुमहद् आसीद् धि मासान् परि चतुर्दश ॥
अङ्गारस्य तु दायादो गान्धारो नाम पार्थिवः
ख्यायते यस्य नाम्ना वै गान्धारविषयो महान्
गान्धारदेशजाश् चैव तुरगा वाजिनां वराः ॥
अनोस् तु पुत्रो धर्मो ऽभूद् धृतस् तस्यात्मजो ऽभवत्
धृतात् तु दुदुहो जज्ञे प्रचेतास् तस्य चात्मजः
प्रचेतसः सुचेतास् तु कीर्तिता ह्य् अनवो मया ॥
बभूवुस् तु यदोः पुत्राः पञ्च देवसुतोपमाः
सहस्रदः पयोदश् च क्रोष्टा नीलो ऽञ्जिकस् तथा ॥
सहस्रदस्य दायादास् त्रयः परमधार्मिकाः
शतजिन् नाम पार्थिवः ।
शतजितः सुताः ख्यातास् ।
हेहयश् च हयश् चैव राजन् वेणुहयस् तथा ॥
हेहयस्याभवत् पुत्रो धर्मनेत्र इति श्रुतः
धर्मनेत्रस्य कान्तस् तु कान्तपुत्रास् ततो ऽभवन् ॥
कृतवीर्यः कृतौजाश् च कृतधन्वा तथैव च
कृताग्निश् च चतुर्थो ऽभूत् कृतवीर्यात् तथार्जुनः ॥
यः स बाहुसहस्रेण सप्तद्वीपेश्वरो ऽभवत्
जिगाय पृथिवीम् एको रथेनादित्यवर्चसा ॥
स हि वर्षशतं तप्त्वा तपः परमदुश्चरम्
दत्तम् आराधयाम् आस कार्तवीर्यो ऽत्रिसंभवम् ॥
तस्मै दत्तो वरान् प्रादाच् चतुरो भूरितेजसः
पूर्वं बाहुसहस्रं तु प्रार्थितं परमं वरम् ॥
अधर्मे धीयमानस्य सद्भिः स्यान् मे निबर्हणम्
उग्रेण पृथिवीं जित्वा धर्मेणैवानुरञ्जनम् ॥
संग्रामान् सुबहूञ् जित्वा हत्वा चारीन् सहस्रशः
संग्रामे वर्तमानस्य वधं चाभ्यधिकाद् रणे ॥
तस्य बाहुसहस्रं तु युध्यतः किल भारत
योगाद् योगेश्वरस्याग्रे प्रादुर्भवति मायया ॥
तेनेयं पृथिवी कृत्स्ना सप्तद्वीपा सपत्तना
ससमुद्रा सनगरा उग्रेण विधिना जिता ॥
तेन सप्तसु द्वीपेषु सप्त यज्ञशतानि वै
प्राप्तानि विधिना राज्ञा श्रूयन्ते जनमेजय ॥
सर्वे यज्ञा महाबाहो तस्यासन् भूरिदक्षिणाः
सर्वे काञ्चनयूपाश् च सर्वे काञ्चनवेदयः ॥
सर्वे देवैर् महाराज विमानस्थैर् अलंकृताः
गन्धर्वैर् अप्सरोभिश् च नित्यम् एवोपशोभिताः ॥
यस्य यज्ञे जगौ गाथां गन्धर्वो नारदस् तथा
वरीदासात्मजो विद्वान् महिम्ना तस्य विस्मितः ॥
न नूनं कार्तवीर्यस्य गतिं यास्यन्ति पार्थिवाः
यज्ञैर् दानैस् तपोभिर् वा विक्रमेण श्रुतेन वा ॥
स हि सप्तसु द्वीपेषु खड्गी चर्मी शरासनी
रथी द्वीपान् अनुचरन् योगी संदृश्यते नृभिः ॥
स भिक्षाम् अददाद् वीरः सप्त द्वीपान् विभावसोः
पुराणिग्रामघोषांश् च विषयांश् चैव सर्वशः ।
जज्वाल तस्य सर्वाणि चित्रभानुर् दिधक्षया ॥
स तस्य पुरुषेन्द्रस्य प्रभावेण महात्मनः ।
ददाह कार्तवीर्यस्य शैलांश् चैव वनानि च ॥
स शून्यम् आश्रमं रम्यं वरुणस्यात्मजस्य वै ।
ददाह बलवद्भीतश् चित्रभानुः स हैहयः ।
यं लेभे वरुणः पुत्रं पुरा भास्वन्तम् उत्तमम् ।
वसिष्ठं नाम स मुनिः ख्यात आपव इत्य् उत ।
यत्रापवस् तु तं क्रोधाच् छप्तवान् अर्जुनं विभुः ॥
यस्मान् न वर्जितम् इदं वनं ते मम हेहय
तस्मात् ते दुष्करं कर्म कृतम् अन्यो हरिष्यति
अर्जुनो नाम कौरव्यः पाण्डवः कुन्तिनन्दनः ॥
छित्त्वा बाहुसहस्रं ते प्रमथ्य तरसा बली
तपस्वी ब्राह्मणश् च त्वां हनिष्यति स भार्गवः ॥
अनष्टद्रव्यता यस्य बभूवामित्रकर्शन
प्रभावेण नरेन्द्रस्य प्रजा धर्मेण रक्षतः ॥
रामात् ततो ऽस्य मृत्युर् वै तस्य शापान् महामुनेः
वरश् चैष हि कौरव्य स्वयम् एव वृतः पुरा ॥
तस्य पुत्रशतस्यासन् पञ्च शेषा महात्मनः
कृतास्त्रा बलिनः शूरा धर्मात्मानो यशस्विनः ॥
शूरसेनश् च शूरश् च धृष्टोक्तः कृष्ण एव च
जयध्वजश् च नाम्नासीद् आवन्त्यो नृपतिर् महान्
कार्तवीर्यस्य तनया वीर्यवन्तो महारथाः ॥
जयध्वजस्य पुत्रस् तु तालजङ्घो महाबलः
तस्य पुत्राः शताख्यास् तु तालजङ्घा इति श्रुताः ॥
तेषां कुले महाराज हेहयानां महात्मनाम्
वीतिहोत्राः सुजाताश् च भोजाश् चावन्तयस् तथा ॥
तौण्डिकेरा इति ख्यातास् तालजङ्घास् तथैव च
भरताश् च सुजाताश् च बहुत्वान् नानुकीर्तिताः ॥
वृषप्रभृतयो राजन् यादवाः पुण्यकर्मिणः
वृषो वंशधरस् तत्र तस्य पुत्रो ऽभवन् मधुः
मधोः पुत्रशतं त्व् आसीद् वृषणस् तस्य वंशभाक् ॥
वृषणाद् वृष्णयः सर्वे मधोस् तु माधवाः स्मृताः
यादवा यदुना चाग्रे निरुच्यन्ते च हेहयाः ॥
न तस्य वित्तनाशः स्यान् नष्टं प्रतिलभेच् च सः
कार्तवीर्यस्य यो जन्म कथयेद् इह नित्यशः ॥
एते ययातिपुत्राणां पञ्च वंशा विशां पते
कीर्तिता लोकवीराणां ये लोकान् धारयन्ति वै
भूतानीव महाराज पञ्च स्थावरजङ्गमम् ॥
श्रुत्वा पञ्चविसर्गं तु राजा धर्मार्थकोविदः
वशी भवति पञ्चानाम् आत्मजानां तथेश्वरः ॥
लभेत् पञ्च वरांश् चैष दुर्लभान् इह लौकिकान्
आयुः कीर्तिं धनं पुत्रान् ऐश्वर्यं भूय एव च
धारणाच् छ्रवणाच् चैव पञ्चवर्गस्य भारत ॥
क्रोष्टोस् तु शृणु राजेन्द्र वंशम् उत्तमपूरुषम्
यदोर् वंशधरस्येह यज्वनः पुण्यकर्मणः ॥
क्रोष्टोर् हि वंशं श्रुत्वेमं सर्वपापैः प्रमुच्यते
यस्यान्ववायजो विष्णुर् हरिर् वृष्णिकुलप्रभुः ॥
मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0