भाषा

ENहिગુ
ग्रंथ पाठ

हरिवंश · अध्याय 22

22.1

नहुषस्य तु दायादाः षड् इन्द्रोपमतेजसः
यतिर् ययातिः संयातिर् आयातिर् यातिर् उद्धवः
उत्पन्नाः पितृकन्यायां विरजायां महौजसः ।
षड् इमे नहुषस्यासन्न् इन्द्रयाणीव देहिनः ।
सुयातिः षष्ठस् तेषां वै ययातिःपार्थिवो ऽभवत् ।
यतिर् ज्येष्ठस् तु तेषां वै ययातिस् तु ततः परम् ॥

22.2

ककुत्स्थकन्यां गां नाम न लेभे स यतिस् तदा
राज्यं नैच्छद् यतिः पित्रा दत्तं तत्परिणामवित् ।
यत्र प्रविष्टः पुरुष आत्मानं नावबुध्यते ।
तेनासौ मोक्षम् आस्थाय ब्रह्मभूतो ऽभवन् मुनिः ॥

22.3

तेषां ययातिः पञ्चानां विजित्य वसुधाम् इमाम्
देवयानीम् उशनसः सुतां भार्याम् अवाप ह
शर्मिष्ठाम् आसुरीं चैव तनयां वृषपर्वणः ॥

22.4

यदुं च तुर्वसुं चैव देवयानी व्यजायत
द्रुह्युं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी ॥

22.5

तस्य शक्रो ददौ प्रीतो रथं परमभास्वरम्
असङ्गं काञ्चनं दिव्यं दिव्यैः परमवाजिभिः
युक्तं मनोजवैः शुभ्रैर् येन भार्यां समुद्वहत् ॥

22.6

स तेन रथमुख्येन षड्रात्रेणाजयन् महीम्
ययातिर् युधि दुर्धर्षस् तथा देवान् सवासवान् ॥

22.7

स रथः पौरवाणां तु सर्वेषाम् अभवत् तदा
यावत् तव सनामा वै पौरवो जनमेजय ॥

22.8

कुरोः पौत्रस्य राज्ये तु राज्ञः पारिक्षितस्य ह
ब्रह्महत्यायुतः पाप इन्द्रः क्रुद्धो ऽहरद् रथम् ।
जगाम स रथो नाशं शापाद् गर्गस्य धीमतः ॥

22.9

गर्गस्य हि सुतं बालं स राजा जनमेजयः
वाक्क्रूरं हिंसयाम् आस ब्रह्महत्याम् अवाप सः ॥

22.10

स लोहगन्धी राजर्षिः परिधावन्न् इतस् ततः
पौरजानपदैस् त्यक्तो न लेभे शर्म कर्हिचित् ॥

22.11

ततः स दुःखसंतप्तो नालभत् संविदं क्व चित्
इन्द्रोतं शौनकं राजा शरणं प्रत्यपद्यत ॥

22.12

याजयाम् आस चेन्द्रोतः शौनको जनमेजय
अश्वमेधेन राजानं पावनार्थं द्विजोत्तमाः
स लोहगन्धो व्यनशत् तस्यावभृथम् एत्य ह ॥

22.13

स च दिव्यो रथो राजन् वसोश् चेदिपतेस् तदा
दत्तः शक्रेण तुष्टेन लेभे तस्माद् बृहद्रथः ॥

22.14

ततो हत्वा जरासंधं भीमस् तं रथम् उत्तमम्
प्रददौ वासुदेवाय प्रीत्या कौरवनन्दन ॥

22.15

सप्तद्वीपां ययातिस् तु जित्वा पृथ्वीं ससागराम्
व्यभजत् पञ्चधा राज्यं पुत्राणां नाहुषस् तदा ॥

22.16

दिशि दक्षिणपूर्वस्यां तुर्वसुं मतिमान् नृपः
प्रतीच्याम् उत्तरस्यां तु द्रुह्युं चानुंच नाहुषः ॥

22.17

दिशि पूर्वोत्तरस्यां तु यदुं ज्येष्ठं न्ययोजयत्
मध्ये पूरुं च राजानम् अभ्यषिञ्चत् स नाहुषः ॥

22.18

तैर् इयं पृथिवी सर्वा सप्तद्वीपा सपत्तना
यथाप्रदेशम् अद्यापि धर्मेण परिपाल्यते
प्रजास् तेषां पुरस्तात् तु वक्ष्यामि नृपसत्तम ॥

22.19

धनुर् न्यस्य पृषत्कांश् च पञ्चभिः पुरुषर्षभैः
जिगाय पृथिवीं सर्वां सप्तद्वीपवतीं नृपः ।
परवान् अभवद् राजा भारम् आवेश्य बन्धुषु ॥

22.20

निक्षिप्तशस्त्रः पृथिवीं निरीक्ष्य पृथिवीपतिः
प्रीतिमान् अभवद् राजा ययातिर् अपराजितः ॥

22.21

एवं विभज्य पृथिवीं ययातिर् यदुम् अब्रवीत्
जरां मे प्रतिगृह्णीष्व पुत्र कृत्यान्तरेण वै ॥

22.22

तरुणस् तव रूपेण चरेयं पृथिवीम् इमाम्
जरां त्वयि समाधाय तं यदुः प्रत्युवाच ह ॥

22.23

अनिर्दिष्टा मया भिक्षा ब्राह्मणस्य प्रतिश्रुता
अनपाकृत्य तां राजन् न ग्रहीष्यामि ते जराम् ॥

22.24

जराया बहवो दोषाः पानभोजनकारिताः
तस्माज् जरां न ते राजन् ग्रहीतुम् अहम् उत्सहे ॥

22.25

सन्ति ते बहवः पुत्रा मत्तः प्रियतरा नृप
प्रतिग्रहीतुं धर्मज्ञ पुत्रम् अन्यं वृणीष्व वै ॥

22.26

स एवम् उक्तो यदुना राजा कोपसमन्वितः
उवाच वदतां श्रेष्ठो ययातिर् गर्हयन् सुतम् ॥

22.27

क आश्रमस् तवान्यो ऽस्ति को वा धर्मो विधीयते
माम् अनादृत्य दुर्बुद्धे यद् अहं तव देशिकः ॥

22.28

एवम् उक्त्वा यदुं तात शशापैनं स मन्युमान्
अराज्या ते प्रजा मूढ भवित्रीति नराधिप ॥

22.29

स तुर्वसुं स द्रुह्युं च अनुं च भरतर्षभ
एवम् एवाब्रवीद् राजा प्रत्याख्यातश् च तैर् अपि ॥

22.30

शशाप तान् अपि क्रुद्धो ययातिर् अपराजितः
यथा ते कथितं पूर्वं मया राजर्षिसत्तम ॥

22.31

एवं शप्त्वा सुतान् सर्वांश् चतुरः पूरुपूर्वजान्
तद् एव वचनं राजा पूरुम् अप्य् आह भारत ॥

22.32

तरुणस् तव रूपेण चरेयं पृथिवीम् इमाम्
जरां त्वयि समाधाय त्वं पूरो यदि मन्यसे ॥

22.33

स जरां प्रतिजग्राह पितुः पूरुः प्रतापवान्
ययातिर् अपि रूपेण पूरोः पर्यचरन् महीम् ॥

22.34

स मार्गमाणः कामानाम् अन्तं भरतसत्तम
विश्वाच्या सहितो रेमे वने चैत्ररथे प्रभुः ॥

22.35

स यदा ददृशो कामान् वर्धमानान् महीपतिः
ततः पूरोः सकाशाद् वै स्वां जरां प्रत्यपद्यत ॥

22.36

तत्र गाथा महाराज शृणु गीता ययातिना
याभिः प्रत्याहरेत् कामान् सर्वशो ऽङ्गानि कूर्मवत् ॥

22.37

न जातु कामः कामानाम् उपभोगेन शाम्यति
हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥

22.38

यत् पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः
नालम् एकस्य तत् सर्वम् इति मत्वा शमं व्रजेत् ॥

22.39

यदा भावं न कुरुते सर्वभूतेषु पापकम्
कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा ॥

22.40

यदान्येभ्यो न बिभेति यदा चास्मान् न बिभ्यति
यदा नेच्छति न द्वेष्टि ब्रह्म संपद्यते तदा ॥

22.41

एवम् उक्त्वा स राजर्षिः सदारः प्राविशद् वनम्
कालेन महता चापि चचार विपुलं तपः ॥

22.42

भृगुतुङ्गे तपश् चीर्त्वा तपसो ऽन्ते महायशाः
अनश्नन् देहम् उत्सृज्य सदारः स्वर्गम् आप्तवान् ॥

22.43

तस्य वंशे महाराज पञ्च राजर्षिसत्तमाः
यैर् व्याप्ता पृथिवी सर्वा सूर्यस्येव गभस्तिभिः ॥

22.44

यदोस् तु शृणु राजर्षे वंशं राजर्षिसत्कृतम्
यत्र नारायणो जज्ञे हरिर् वृष्णिकुलोद्वहः ॥

22.45

स्वस्थः प्रजावान् आयुष्मान् कीर्तिमांश् च भवेन् नरः
धन्यस्य महतो धर्म्यं श्रीमतो धीमतस्तथा ।
ययातेश् चरितं नित्यम् इदं शृण्वन् नराधिप ॥

मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc