भाषा

ENहिગુ
ग्रंथ पाठ

हरिवंश · अध्याय 24

24.1

गान्धारी चैव माद्री च क्रोष्टोर् भार्ये बभूवतुः
गान्धारी जनयाम् आस अनमित्रं महाबलम् ॥

24.2

माद्री युधाजितं पुत्रं ततो वै देवमीढुषम्
तेषां वंशस् त्रिधा भूतो वृष्णीनां कुलवर्धनः ॥

24.3

माद्र्याः पुत्रौ तु जज्ञाते श्रुतौ वृष्ण्यन्धकाव् उभौ
जज्ञाते तनयौ वृष्णेः श्वफल्कश् चित्रकस् तथा ॥

24.4

श्वफल्कस् तु महाराज धर्मात्मा यत्र वर्तते
नास्ति व्याधिभयं तत्र नावर्षभयम् अप्युत ॥

24.5

कदा चित् काशिराजस्य विभोर् भरतसत्तम
त्रीणि वर्षाणि विषये नावर्षत् पाकशासनः ॥

24.6

स तत्र वासयाम् आस श्वफल्कं परमार्चितम्
श्वफल्कपरिवर्ते च ववर्ष हरिवाहनः ॥

24.7

श्वफल्कः काशिराजस्य सुतां भार्याम् अविन्दत
गान्दिनीं नाम सा गां तु ददौ विप्रेषु नित्यशः ॥

24.8

दाता यज्वा च धीरश् च श्रुतवान् अतिथिप्रियः
अक्रूरः सुषुवे तस्माच् छ्वफल्काद् भूरिदक्षिणः ॥

24.9

उपमद्गुस् तथा मद्गुर् मृदरश् चारिमेजयः
अरिक्षेपस् तथोपेक्षः शत्रुघ्नो ऽथारिमर्दनः ॥

24.10

चर्मभृद् युधिवर्मा च गृध्रमोजास् तथान्तकः
आवाहप्रतिवाहौ च सुन्दरा च वराङ्गना ॥

24.11

अक्रूरेणौग्रसेन्यां तु सुगात्र्यां कुरुनन्दन
प्रसेनश् चोपदेवश् च जज्ञाते देववर्चसौ ॥

24.12

चित्रकस्याभवन् पुत्राः पृथुर् विपृथुर् एव च
अश्वग्रीवो ऽश्वबाहुश् च सुपार्श्वकगवेषणौ ॥

24.13

अरिष्टनेमिर् अश्वश् च सुधर्मा धर्मभृत् तथा
सुबाहुर् बहुबाहुश् च श्रविष्ठाश्रवणे स्त्रियौ ॥

24.14

अश्मक्यां जनयाम् आस शूरं वै देवमीढुषम्
महिष्यां जज्ञिरे शूराद् भोज्यायां पुरुषा दश ॥

24.15

वसुदेवो महाबाहुः पूर्वम् आनकदुन्दुभिः
जज्ञे यस्य प्रसूतस्य दुन्दुभ्यः प्राणदन् दिवि ॥

24.16

आनकानां च संह्रादः सुमहान् अभवद् दिवि
पपात पुष्पवर्षं च शूरस्य भवने महत् ॥

24.17

मनुष्यलोके कृत्स्ने ऽपि रूपे नास्ति समो भुवि
यस्यासीत् पुरुषाग्र्यस्य कान्तिश् चन्द्रमसो यथा ॥

24.18

देवभागस् ततो जज्ञे ततो देवश्रवाः पुनः
अनाधृष्टिः कनवको वत्सवान् अथ गृञ्जिमः ॥

24.19

श्यामः शमीको गण्डूषः पञ्च चास्य वराङ्गनाः
पृथुकीर्तिः पृथा चैव श्रुतदेवा श्रुतश्रवा
राजाधिदेवी च तथा पञ्चैता वीरमातरः ॥

24.20

कुन्त्यस्य श्रुतदेवायाम् अगृध्नुः सुषुवे नृपः
श्रुतदेव्यां केकयस् तु पञ्च पुत्रान् अकल्मषान् ।
सुतर्दनपुरोगांस् तु जनयाम् आस भारत ॥
राजाधिदेवी राजेन्द्र पुत्रौ परमधर्मिकौ ।
विन्दानुविन्दाव् आवन्त्यौ सुषुवे भरतर्षभ ।
श्रुतश्रवायां चैद्यस् तु शिशुपालो महाबलः ॥

24.21

हिरण्यकशिपुर् यो ऽसौ दैत्यराजो ऽभवत् पुरा
पृथुकीर्त्यां तु संजज्ञे तनयो वृद्धशर्मणः ॥

24.22

करूषाधिपतेर् वीरो दन्तवक्त्रो महाबलः
पृथां दुहितरं चक्रे कौन्त्यस् तां पाण्डुर् आवहत् ॥

24.23

यस्यां स धर्मविद् राजा धर्माद् जज्ञे युधिष्ठिरः
भीमसेनस् तथा वाताद् इन्द्राच् चैव धनंजयः
लोके ऽप्रतिरथो वीरः शक्रतुल्यपराक्रमः ॥

24.24

अनमित्राच् छनिर् जज्ञे कनिष्ठाद् वृष्णिनन्दनात्
शैनेयः सत्यकस् तस्माद् युयुधानस् तु सात्यकिः ॥

24.25

उद्धवो देवभागस्य महाभागः सुतो ऽभवत्
पण्डितानां परं प्राहुर् देवश्रवसम् उद्धवम् ॥

24.26

अश्मक्य् अलभतापत्न्यम् अनाधृष्टिं यशस्विनम्
निवृत्तशत्रुं शत्रुघ्नं श्रुतदेवा व्यजायत ॥

24.27

श्रुतदेवाप्रजातस् तु नैषादिर् यः परिश्रुतः
श्रुतदेवात् तु नैषादिः सो ऽस्माभिर् यःपरिश्रुतः ।
एकलव्यो महाराज निषादैः परिवर्धितः ॥

24.28

वत्सावते त्व् अपुत्राय वसुदेवः प्रतापवान्
अद्भिर् ददौ सुतं वीरं शौरिः कौशिकम् औरसम् ॥

24.29

गण्डूषाय त्व् अपुत्राय विष्वक्सेनो ददौ सुतम्
चारुदेष्णं सुचारुं च पञ्चालं कृतलक्षणम् ॥

24.30

असंग्रामेण यो वीरो नावर्तत कदा चन
रौक्मिणेयो महाबाहुः कनीयान् भरतर्षभ ॥

24.31

वायसानां सहस्राणि यं यान्तं पृष्ठतो ऽन्वयुः
चारून् अद्योपयोक्ष्यामश् चारुदेष्णहतान् इति ॥

24.32

तन्त्रिजस् तन्त्रिपालश् च सुतौ कनवकस्य तु
वीरश् चाश्वहनुश् चैव वीरौ ताव् अथ गृञ्जिमौ ॥

24.33

श्यामपुत्रः सुमित्रस् तु शमीको राज्यम् आवहत्
जुगुप्समानो भोजत्वाद् राजसूयमवाप सः ।
अजातशत्रुः शत्रूणां जज्ञे तस्य विनाशनः ॥

24.34

वसुदेवस्य तु सुतान् कीर्तयिष्याम्य् ताञ् शृणु ॥

24.35

वृष्णेस् त्रिविधम् एतं तु बहुशाखं महौजसम्
प्रकृतानुपयुक्तत्वाद् विस्तरान् नानुकीर्तनम् ।
धारयन् विपुलं वंशं नानर्थैर् इह युज्यते ॥

मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc