भाषा

ENहिગુ
ग्रंथ पाठ

हरिवंश · अध्याय 21

21.1

बुधस्य तु महाराज विद्वान् पुत्रः पुरूरवाः
तेजस्वी दानशीलश् च यज्वा विपुलदक्षिणः ॥

21.2

ब्रह्मवादी पराक्रान्तः शत्रुभिर् युधि दुर्जयः
आहर्ता चाग्निहोत्रस्य यज्ञानां च दिवो महीम् ॥

21.3

सत्यवादी पुण्यमतिः काम्यः संवृतमैथुनः
अतीव त्रिषु लोकेषु यशसाप्रतिमः सदा ॥

21.4

तं ब्रह्मवादिनं क्षान्तं धर्मज्ञं सत्यवादिनम्
उर्वशी वरयाम् आस हित्वा मानं यशस्विनी ॥

21.5

तया सहावसद् राजा दश वर्षाणि पञ्च च
पञ्च षट् सप्त चाष्टौ च दश चाष्टौ च भारत ॥

21.6

वने चैत्ररथे रम्ये तथा मन्दाकिनीतटे
अलकायां विशालायां नन्दने च वनोत्तमे ॥

21.7

उत्तरान् स कुरून् प्राप्य मनोररथफलद्रुमान्
गन्धमादनपादेषु मेरुशृङ्गे तथोत्तरे ॥

21.8

एतेषु वनमुख्येषु सुरैर् आचरितेषु च
उर्वश्या सहितो राजा रेमे परमया मुदा ॥

21.9

देशे पुण्यतमे चैव महर्षिभिर् अभिष्टुते
राज्यं स कारयाम् आस प्रयागे पृथिवीपतिः ॥

21.10

तस्य पुत्रा बभूवुस् ते षड् इन्द्रोपमतेजसाः
दिवि जाता महात्मान आयुर् धीमान् अमावसुः
विश्वायुश् चैव धर्मात्मा श्रुतायुश् च तथापरः ।
दृढायुश् च वनायुश् च शतायुश् चोर्वशीसुताः ॥

21.11

आयोः पुत्राश् तथा पञ्च सर्वे वीरा महारथाः
स्वर्भानुतनयायां च प्रभायां जज्ञिरे नृप ।
नहुषः प्रथमं जज्ञे वृद्धशर्मा ततः परम्
दम्भो रजिर् अनेनाश् च त्रिषु लोकेषु विश्रुताः ॥

21.12

रजिः पुत्रशतानीह जनयाम् आस पञ्च वै
राजेयम् इति विख्यातं क्षत्रम् इन्द्रभयावहम् ॥

21.13

यत्र देवासुरे युद्धे समुपोढे सुदारुणे
देवाश् चैवासुराश् चैव पितामहम् अथाब्रुवन् ॥

21.14

आवयोर् भगवन् युद्धे विजेता को भविष्यति
ब्रूहि नः सर्वभूतेश श्रोतुम् इच्छामहे वचः ॥

21.15

येषाम् अर्थाय संग्रामे रजिर् आत्तायुधः प्रभुः
योत्स्यते ते विजेष्यन्ति त्रींल् लोकान् नात्र संशयः ॥

21.16

यतो रजिर् धृतिस् तत्र श्रीश् च तत्र यतो धृतिः
यतो धृतिश् च श्रीश् चैव धर्मस् तत्र जयस् तथा ॥

21.17

ते देवा दानवाः प्रीता देवेनोक्ता रजेर् जये
अभ्ययुर् जयम् इच्छन्तो वृण्वाना भरतर्षभ ॥

21.18

स हि स्वर्भानुदौहित्रः प्रभायां समपद्यत
राजा परमतेजस्वी सोमवंशविवर्धनः ॥

21.19

ते हृष्टमनसः सर्वे रजिं दैतेयदानवाः
ऊचुर् अस्मज्जयाय त्वं गृहाण वरकार्मुकम् ॥

21.20

यदि देवगणान् सर्वाञ् जित्वा शक्रपुरोगमान्
इन्द्रो भवामि धर्मेण ततो योत्स्यामि संयुगे ॥

21.21

अस्माकम् इन्द्रः प्रह्रादो यस्यार्थे विजयामहे ॥

21.22

अस्मिंस् तु समये राजंस् तिष्ठेथा देवचोदितः
स तथेति ब्रुवन्न् एव देवैर् अप्य् अभिचोदितः ।
भविष्यसीन्द्रो जित्वैव देवैर् उक्तस् स पार्थिवः
जघान दानवान् सर्वान् ये वध्या वज्रपाणिना ॥

21.23

स विप्रनष्टां देवानां परमश्रीः श्रियं वशी
निहत्य दानवान् सर्वान् आजहार रजिः प्रभुः ॥

21.24

ततो रजिं महावीर्यं देवैः सह शतक्रतुः
रजिपुत्रो ऽहम् इत्य् उक्त्वा पुनर् एवाब्रवीद् वचः ॥

21.25

इन्द्रो ऽसि तात भूतानां सर्वेषां नात्र संशयः
यस्याहम् इन्द्रः पुत्रस् ते ख्यातिं यास्यामि कर्मभिः ॥

21.26

स तु शक्रवचः श्रुत्वा वञ्चितस् तेन मायया
तथेत्य् एवाब्रवीद् राजा प्रीयमाणः शतक्रतुम् ॥

21.27

तस्मिंस् तु देवैः सदृशो दिवं प्राप्ते महीपतौ
दायाद्यम् इन्द्राद् आजह्रुर् आचारात् तनया रजेः ॥

21.28

तानि पुत्रशतान्य् अस्य तद् वै स्थानं शतक्रतोः
समाक्रामन्त बहुधा स्वर्गलोकं त्रिविष्टपम् ॥

21.29

ततो बहुतिथे काले समतीते महाबलः
हृतराज्यो ऽब्रवीच् छक्रो हृतभागो बृहस्पतिम् ॥

21.30

बदरीफलमात्रं वै पुरोडाशं विधत्स्व मे
ब्रह्मर्षे येन तिष्ठेयं तेजसाप्यायितः सदा ॥

21.31

ब्रह्मन् कृशो ऽहं विमना हृतराज्यो हृताशनः
हतौजा दुर्बलो मूढो रजिपुत्रैः कृतो विभो ॥

21.32

यद्य् एवं चोदितः शक्र त्वया स्यां पूर्वम् एव हि
नाभविष्यत् त्वत्प्रियार्थम् अकर्तव्यं मयानघ ॥

21.33

प्रयतिष्यामि देवेन्द्र त्वत्प्रियार्थं न संशयः
यथा भागं च राज्यं च न चिरात् प्रतिलप्स्यसे
तथा तात करिष्यामि मा ते भूद् विक्लवं मनः ॥

21.34

ततः कर्म चकारास्य तेजसो वर्धनं तदा
तेषां च बुद्धिसंमोहम् अकरोद् ऋषिसत्तमः ॥

21.35

ते यदा स्म सुसंमूढा रागोन्मत्ता विधर्मिणः
ब्रह्मद्विषश् च संवृत्ता हतवीर्यपराक्रमाः ॥

21.36

ततो लेभे सुरैश्वर्यम् इन्द्रः स्थानं तथोत्तमम्
हत्वा रजिसुतान् सर्वान् कामक्रोधपरायणान् ॥

21.37

य इदं च्यावनं स्थानात् प्रतिष्ठां च शतक्रतोः
शृणुयाद् धारयेद् वापि न स दौरात्म्यम् आप्नुयात् ॥

मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc