भाषा

ENहिગુ
ग्रंथ पाठ

हरिवंश · अध्याय 20

20.1

पिता सोमस्य वै राजञ् जज्ञे ऽत्रिर् भगवान् ऋषिः
अथातः श्रूयतां राजन् वंशः सोमस्य पावनः ।
यस्मिन्न् ऐलादयो भूपाः कीर्त्यन्ते पुण्यकीर्तयः ॥
यत्र जातो हरिः साक्षात् कृष्णस् त्रैलोक्यपावनः ।
सहस्रशिरसः पुंसो नाभिह्रदसरोरुहात् ॥
जातस्यासीत् सुतो धातुर् अत्रिः पितृसमो गुणैः ।
ब्रह्मणो मानसात् पूर्वं प्रजासर्गं विधित्सतः ।
तत्रात्रिः सर्वलोकानां तस्थौ स्वविनयैर् वृतः
कर्मणा मनसा वाचा शुभान्य् एव चचार ह ॥

20.2

अहिंस्रः सर्वभूतेषु धर्मात्मा संशितव्रतः
काष्ठकुड्यशिलाभूत ऊर्ध्वबाहुर् महाद्युतिः ॥

20.3

अनुत्तमं नाम तपो येन तप्तं महत् पुरा
त्रीणि वर्षसहस्राणि दिव्यानीति हि नः श्रुतम् ॥

20.4

ततोर्ध्वरेतसस् तस्य स्थितस्यानिमिषस्य हि
सोमत्वं तनुर् आपेदे महाबुद्धस्य भारत ॥

20.5

ऊर्ध्वम् आचक्रमे तस्य सोमत्वं भावितात्मनः
नेत्राभ्यां वारि सुस्राव दशधा द्योतयद् दिशः ॥

20.6

तं गर्भं दशधा दृष्ट्वा दश देव्यो दधुस् ततः
समेत्य धारयाम् आसुर् न च ताः तम् अशक्नुवन् ॥

20.7

स ताभ्यः सहसैवाथ दिग्भ्यो गर्भः प्रभान्वितः
पपात भासयंल् लोकाञ् शीतांशुः सर्वभावनः ॥

20.8

यदा न धारणे शक्तास् तस्य गर्भस्य ता दिशः
ततस् ताभिः सहैवाशु निपतात वसुंधराम् ॥

20.9

पतितं सोमम् आलोक्य ब्रह्मा लोकपितामहः
रथम् आरोपयाम् आस लोकानां हितकाम्यया ॥

20.10

स हि वेदमयस् तात धर्मात्मा सत्यसंगरः
युक्तो वाजिसहस्रेण सितेनेति हि नः श्रुतम् ॥

20.11

तस्मिन् निपतिते देवाः पुत्रे ऽत्रेः परमात्मनि
तुष्टुवुर् ब्रह्मणः पुत्रा मानसाः सप्त ये श्रुताः ॥

20.12

तथैवाङ्गिरसस् तत्र भृगोर् एवात्मजैः सह
ऋग्भिर् यजुर्भिः सामभिर् अथर्वाङ्गिरसैर् अपि ॥

20.13

तस्य संस्तूयमानस्य तेजः सोमस्य भास्वतः
आप्यायमानं लोकांस् त्रीन् भावयाम् आस सर्वतः ॥

20.14

स तेन रथमुख्येन सागरान्तां वसुंधराम्
त्रिःसप्तकृत्वो ऽतियशाश् चकाराभिप्रदक्षिणाम् ॥

20.15

तस्य यच् च्यावितं तेजः पृथिवीम् अन्वपद्यत
ओषध्यस् ताः समुद्भूतास् तेजसा प्रज्वलन्त्य् उत ॥

20.16

ताभिऋ धार्यो ह्य् अयं लोकः प्रजाश् चैव चतुर्विधाः
पोष्टा हि भगवान् सोमो जगतो जगतीपते ॥

20.17

स लब्धतेजा भगवान् संस्तवैः स्वैश् च कर्मभिः
तपस् तेपे महाभाग पद्मानां दशतीर् दश ॥

20.18

हिरण्यवर्णा या देव्यो धारयन्त्य् आत्मना जगत्
निधिस् तासाम् अभूद् देवः प्रख्यातः स्वेन कर्मणा ॥

20.19

ततस् तस्मै ददौ राज्यं ब्रह्मा ब्रह्मविदां वरः
बीजौषधीनां विप्राणाम् अपां च जनमेजय ॥

20.20

सो ऽभिषिक्तो महातेजा राजराज्येन राजराट्
त्रींल् लोकान् भावयाम् आस स्वभासा भास्वतां वरः ॥

20.21

सप्तविंशतिम् इन्दोस् तु दाक्षायण्यो महाव्रताः
ददौ प्राचेतसो दक्षो नक्षत्राणीति या विदुः ॥

20.22

स तत् प्राप्य महद् राज्यं सोमः सोमवतां वरः
समाजह्रे राजसूयं सहस्रशतदक्षिणम् ॥

20.23

होतास्य भगवान् अत्रिर् अध्वर्युर् भगवान् भृगुः
हिरण्यगर्भश् चोद्गाता ब्रह्मा ब्रह्मात्वम् एयिवान् ॥

20.24

सदस्यस् तत्र भगवान् हरिर् नारायणः प्रभुः
सनत्कुमारप्रमुखैर् आद्यैर् ब्रह्मर्षिभिर् वृतः ॥

20.25

दक्षिणाम् अददात् सोमस् त्रींल् लोकान् इति नः श्रुतम्
तेभ्यो ब्रह्मर्षिमुख्येभ्यः सदस्येभ्यश् च भारत ॥

20.26

सिनीवाली कुहूश् चैव द्युतिः पुष्टिः प्रभा वसुः
कीर्तिर् धृतिश् च लक्ष्मीश् च नव देव्यः सिषेविरे ॥

20.27

प्राप्यावभृथम् अव्यग्रः सर्वदेवर्षिपूजितः
तं मूर्ध्न्य् उपाघ्राय तदा सोमो धाता प्रजापतिः ।
विरराजाति राजेन्द्रो दशधा भावयन् दिशः ॥

20.28

तस्य तत् प्राप्य दुष्प्राप्यम् ऐश्वर्यं मुनिसत्कृतम्
विबभ्राम मतिस् तात विनयाद् अनयाहृता ॥

20.29

बृहस्पतेः स वै भार्यां तारां नाम यशस्विनीम्
जहार तरसा सर्वान् अवमत्याङ्गिरःसुतान् ॥

20.30

स याच्यमानो देवैश् च तथा देवर्षिभिः सह
नैव व्यसर्जयत् तारां तस्मा अङ्गिरसे तदा ॥

20.31

उशना तस्य जग्राह पार्ष्णिम् अङ्गिरसस् तदा
स हि शिष्यो महातेजाः पितुः पूर्वं बृहस्पतेः ॥

20.32

तेन स्नेहेन भगवान् रुद्रस् तस्य बृहस्पतेः
पार्ष्णिग्राहो ऽभवद् देवः प्रगृह्याजगवं धनुः ॥

20.33

तेन ब्रह्मशिरो नाम परमास्त्रं महात्मना
उद्दिश्य देवान् उत्सृष्टं येनैषां नाशितं यशः ॥

20.34

तत्र तद् युद्धम् अभवत् प्रख्यातं तारकामयम्
देवानां दानवानां च लोकक्षयकरं महत् ॥

20.35

तत्र शिष्टास् तु ये देवास् तुषिताश् चैव ये भारत
ब्रह्माणं शरणं जग्मुर् आदिदेवं पितामहम् ॥

20.36

ततो निवार्योशनसं तं वै रुद्रं च शंकरम्
ददाव् अङ्गिरसे तारां स्वयम् एव पितामहः ॥

20.37

ताम् अन्तःप्रसवां दृष्ट्वा विप्रः प्राह बृहस्पतिः
मदीयायां न ते योनौ गर्भो धार्यः कथं चन ॥

20.38

अयोनाव् असृजत्तं तु कुमारं दस्युहन्तमम्
इषीकास्तम्बम् आसाद्य ज्वलन्तम् इव पावकम् ॥

20.39

जातमात्रः स भगवान् देवानाम् आक्षिपद् वपुः
ततः संशयम् आपन्नास् ताराम् अकथयन् सुराः ॥

20.40

सत्यं ब्रूहि सुतः कस्य सोमस्याथ बृहस्पतेः
पृच्छ्यमाना यदा देवैर् नाह सा साध्व् असाधु वा
कुमारो मातरं प्राह कुपितो ऽलीकलज्जया ।
किं न वोचस्य् असद्वृत्ते आत्मावद्यं वदाशु मे ।
तदा तां शप्तुम् आरब्धः कुमारो दस्युहन्तमः ॥

20.41

तं निवार्य ततो ब्रह्मा तारां पप्रच्छ संशयम्
यद् अत्र तथ्यं तद् ब्रूहि तारे कस्य सुतो ह्य् अयम् ॥

20.42

सा प्राञ्जलिर् उवाचेदं ब्रह्माणं वरदं प्रभुम्
सोमस्येति महात्मानं कुमारं दस्युहन्तमम् ॥

20.43

तं मूर्ध्न्य् उपाघ्राय तदा सोमो धाता प्रजापतिः
बुध इत्य् अकरोन् नाम तस्य पुत्रस्य धीमतः
प्रतिकूलं च गगने समभ्युत्तिष्ठते बुधः ॥

20.44

उत्पादयाम् आस तदा पुत्रं वै राजपुत्रिका
तस्यापत्यं महाराजो बभूवैलः पुरूरवाः
उर्वश्यां जज्ञिरे यस्य पुत्राः सप्त महात्मनः ॥

20.45

प्रसह्य धर्षितस् तत्र विवशो राजयक्ष्मणा
ततो यक्ष्माभिभूतस् तु सोमः प्रक्षीणमण्डः
जगाम शरणायाथ पितरं सो ऽत्रिम् एव च ॥

20.46

तस्य तत् पापशमनं चकारात्रिर् महायशाः
स राजयक्ष्मणा मुक्तः श्रिया जज्वाल सर्वशः ॥

20.47

एतत् सोमस्य ते जन्म कीर्तितं कीर्तिवर्धनम्
वंशम् अस्य महाराज कीर्त्यमानम् अतः शृणु ॥

20.48

धन्यम् आयुष्यम् आरोग्यं पुण्यं संकल्पसाधकम्
सोमस्य जन्म श्रुत्वैव सर्वपापैः प्रमुच्यते ॥

मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc