भाषा

ENहिગુ
ग्रंथ पाठ

हरिवंश · अध्याय 19

19.1

ब्रह्मदत्तस्य तनयः स वैभ्राजस् त्व् अजायत
योगात्मा तपसा युक्तो विष्वक्सेन इति श्रुतः ॥

19.2

कदाचिद् ब्रह्मदत्तस् तु भार्यया सहितो वने
विजहार प्रहृष्टात्मा यथा शच्या शतक्रतुः ॥

19.3

ततः पिपीलिकरुतं स शुश्राव नराधिपः
कामिनीं कामिनस् तस्य याचतः क्रोशतो भृशम् ॥

19.4

श्रुत्वा तु याच्यमानां तां क्रुद्धां सूक्ष्मां पिपीलिकाम्
ब्रह्मदत्तो महाहासम् अकस्माद् एव चाहसत् ॥

19.5

ततः सा संनतिर् दीना व्रीडिता दीनचेतना
निराहारा बहुतिथं बभूवामित्रकर्शन ॥

19.6

प्रसाद्यमाना भर्त्रा सा तम् उवाच शुचिस्मिता
त्वयावहसिता राजन् नाहं जीवितुम् उत्सहे ॥

19.7

स तत्कारणम् आचख्यौ न च सा श्रद्दधाति तत्
उवाच चैनं कुपिता नैष भावो ऽस्ति पार्थिव ॥

19.8

को वै पिपीलिकरुतं मानुषो वेत्तुम् अर्हति
ऋते देवप्रसादाद् वै पूर्वजातिकृतेन वा
तपःफलेन वा राजन् विद्यया वा नराधिप ॥

19.9

साहं यथैव जानीयां तथा प्रत्याययस्व माम्
प्राणान् वापि परित्यक्ष्ये राजन् सत्येन ते शपे ॥

19.10

तत् तस्या वचनं श्रुत्वा महिष्याः परुषं विभो
स राजा परमापन्नो देवश्रेष्ठम् अगात् तदा
शरण्यं सर्वभूतेशं भक्त्या नारायणं प्रभुम् ॥

19.11

समाहितो निराहारः षड्रात्रेण महायशाः
ददर्श दर्शने राजा देवं नारायणं हरिम् ॥

19.12

उवाच चैनं भगवान् सर्वभूतानुकम्पकः
ब्रह्मदत्त प्रभाते त्वं कल्याणं समवाप्स्यसि
इत्य् उक्त्वा भगवान् देवस् तत्रैवान्तरधीयत ॥

19.13

चतुर्णां तु पिता यो ऽसौ ब्राह्मणानां महात्मनाम्
श्लोकं सो ऽधीत्य पुत्रेभ्यः कृतकृत्य इवाभवत् ॥

19.14

स राजानम् अथान्विच्छत् सहमन्त्रिणम् अच्युतम्
न ददर्शान्तरं चापि श्लोकं श्रावयितुं तदा ॥

19.15

अथ राजा शिरःस्नातो लब्ध्वा नारायणाद् वरम्
प्रविवेश पुरीं प्रीतो रथम् आरुह्य काञ्चनम् ॥

19.16

तस्य रश्मीन् अगृह्णाच् च कण्डरीको द्विजर्षभः
चमरव्यजनं चापि बाभ्रव्यः समवाक्षिपत् ॥

19.17

इदम् अन्तरम् इत्य् एव ततः स ब्राह्मणस् तदा
श्रावयाम् आस राजानं श्लोकं तं सचिवौ च तौ ॥

19.18

सप्त व्याधा दशार्णेषु मृगाः कालंजरे गिरौ
हंसाः सरसि मानसे ।
ते स्म जाताः कुरुक्षेत्रे ब्राह्मणा वेदपारगाः ।
प्रस्थिता दूरम् अध्वानं ।
चक्रवाकाः सरिद् द्वीपे यूयं तेभ्यो ऽवसीदथ ॥

19.19

तच् छ्रुत्वा मोहम् अगमद् ब्रह्मदत्तस् तदानघ
सचिवौ चास्य पाञ्चालः कण्डरीकश् च भारत ॥

19.20

स्रस्तरश्मिप्रतोदौ तौ पतितव्यजनाव् उभौ
दृष्ट्वा बभूवुर् अस्वस्थाः पौराश् चागन्तवश् च ह ॥

19.21

मुहूर्ताद् इव राजा स सह ताभ्यां रथे स्थितः
प्रतिलभ्य ततः संज्ञां प्रत्यागच्छद् अरिंदम ॥

19.22

ततस् ते तत् सरः स्मृत्वा योगं तम् उपलभ्य च
ब्राःमणं विपुलैर् अर्थैर् भोगैश् च समयोजयन् ॥

19.23

अभिषिच्य स्वराज्ये तु विष्वक्सेनम् अरिंदमम्
जगाम ब्रह्मदत्तो ऽथ सदारो वनम् एव ह ॥

19.24

अथैनं संनतिर् धीरा देवलस्य सुता तदा
उवाच परमप्रीता योगाद् वनगतं नृपम् ॥

19.25

जानन्त्या त्वं महाराज पिपीलिकरुतज्ञताम्
चोदितः क्रोधम् उद्दिश्य सक्तः कामेषु वै मया ॥

19.26

इतो वयं गमिष्यामो गतिम् इष्टाम् अनुत्तमाम्
तव चान्तर्हितो योगस् ततः संस्मारितो मया ॥

19.27

स राजा परमप्रीतः पत्न्याः श्रुत्वा वचस् तदा
प्राप्य योगं वनाद् एव गतिं प्राप सुदुर्लभाम् ॥

19.28

कण्डरीको ऽपि योगात्मा सांख्ययोगम् अनुत्तमम्
प्राप्य योगगतिं सिद्धो विशुद्धः स्वेन कर्मणा ॥

19.29

क्रमं प्रणीय पाञ्चालः शिक्षाम् उत्पाद्य केवलाम्
योगाचार्यगतिं प्राप यशश् चाग्र्यं महातपाः ॥

19.30

एवम् एतत् पुरा वृत्तं मम प्रत्यक्षम् अच्युत
तद् धारयस्व गाङ्गेय श्रेयसा योक्ष्यसे ततः ॥

19.31

ये चान्ये धारयिष्यन्ति तेषां चरितम् उत्तमम्
तिर्यग्योनिषु ते जातु न भविष्यन्ति कर्हिचित् ॥

19.32

श्रुत्वा चेदम् उपाख्यानं महार्थं महतां गतिम्
योगधर्मो हृदि सदा परिवर्तेत भारत ॥

19.33

स तेनैवानुबन्धेन कदाचिल् लभते शमम्
य इमं श्रावयेच् छ्राद्धे पितॄन् प्रीणाति पुण्यकृत् ।
अक्षयं च पितॄणां वै प्रीतिर् भवति शाश्वती ॥
ये पठन्ति च शृण्वन्ति श्रावयन्ति च ये द्विजान् ।
ततो मनोगतिं याति सिद्धानां भुवि दुर्लभाम् ॥

19.34

एवम् एतत् पुरा गीतं मार्कण्डेयेन धीमता
श्राद्धस्य फलम् उद्दिश्य सोमस्याप्यायनाय वै ॥

19.35

सोमो हि भगवान् देवो लोकस्याप्यायनं परम्
वृष्णिवंशप्रसङ्गेन तस्य वंशं निबोध मे ॥

मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc