हरिवंश · अध्याय 1
सौते सुमहदाख्यानं भवता परिकीर्तितम्
भारतानां च सर्वेषां पार्थिवानां तथैव च ॥
देवानां दानवानां च गन्धर्वोरगरक्षसाम्
दैत्यानाम् अथ सिद्धानां गुह्यकानां तथैव च ॥
अत्यद्भुतानि कर्माणि विक्रमा धर्मनिश्चयाः
विचित्राश् च कथायोगा जन्म चाग्र्यम् अनुत्तमम् ॥
कथितं भवता पुण्यं पुराणं श्लक्ष्णया गिरा
मनःकर्णसुखं तन् मां प्रीणात्य् अमृतसंमितम् ॥
तत्र जन्म कुरूणां वै त्वयोक्तं लोमहर्षिणे
न तु वृष्ण्यन्धकानां वै तद् भवान् प्रब्रवीतु मे ॥
जनमेजयेन यत् पृष्टः शिष्यो व्यासस्य धीमतः
धर्मवित् कथयाम् आस कुलं तेषां सविस्तरम् ।
तत् ते ऽहं संप्रवक्ष्यामि वृष्णीनां वंशम् आदितः ॥
श्रुत्वेतिहासं कार्त्स्न्येन भरतानां स भारतः
जनमेजयो महाप्राज्ञो वैशंपायनम् अब्रवीत् ॥
महाभारतम् आख्यानं बह्वर्थं बहुविस्तरम्
कथितं भवता विप्र विस्तरेण मया श्रुतम् ॥
तत्र शूराः समाख्याता बहवः पुरुषर्षभाः
नामभिः कर्मभिश् चैव वृष्ण्यन्धकमहारथाः ॥
तेषां कर्मावदातानि त्वयोक्तानि द्विजोत्तम
तत्र तत्र समासेन विस्तरेणैव चाभिभो ॥
न च मे तृप्तिर् अस्तीह कीर्त्यमाने पुरातने
एकश् च मे मतो राशिर् वृष्णयः पाण्डवास् तथा ॥
भवांश् च वंशकुशलस् तेषां प्रत्यक्षदर्शिवान्
कथयस्व कुलं तेषां विस्तरेण तपोधन ॥
यस्य यस्यान्वये ये ये तांस् तान् इच्छामि वेदितुम्
पूर्वं कथा समाख्याता विचित्रा च महीपते ।
तेषां पूर्वविसृष्टिं च विचित्राम् आ प्रजापतेः ॥
सत्कृत्य परिपृष्टस् तु स महात्मा महातपाः
विस्तरेणानुपूर्व्या च कथयाम् आस तां कथाम् ॥
शृणु राजन् कथां दिव्यां पुण्यां पापप्रणाशिनीम्
कथ्यमानां मया चित्रां बह्वर्थां श्रुतिसंमिताम् ॥
यश् चैनां धारयेत् तात शृणुयाद् वाप्य् अभीक्ष्णशः
यश् चैनां धारयेद् विप्रः श्रावयेद् वा महात्मनाम् ।
स्ववंशधारणं कृत्वा स्वर्गलोके महीयते ॥
अव्यक्तं कारणं यत् तन् नित्यं सदसदात्मकम्
प्रधानं पुरुषं तस्मान् निर्ममे विश्वम् ईश्वरः ॥
तं वै विद्धि महाराज ब्रह्माणम् अमितौजसम्
स्रष्टारं सर्वभूतानां नारायणपरायणम् ॥
अहंकरस् तु महतस् तस्माद् भूतानि जज्ञिरे
भूतभेदाश् च भूतेभ्य इति सर्गः सनातनः ॥
विस्तरावयवं चैव यथाप्रज्ञं यथाश्रुतम्
कीर्त्यमानं शृणु मया पूर्वेषां कीर्तिवर्धनम् ॥
धन्यं यशस्यं शत्रुघ्नं स्वर्ग्यम् आयुर्विवर्धनम्
कीर्तनं स्थिरकीर्तीनां सर्वेषां पुण्यकर्मणाम् ॥
तस्मात् कल्याय ते कल्यः समग्रं शुचये शुचिः
तस्मै हिरण्यगर्भाय पुरुषायेश्वराय च ।
अजाय प्रथमायैव वरिष्ठाय प्रजापते ।
ब्रह्मणे लोकनाथाय गरिष्ठाय स्वयंभुवे ।
प्रणम्य प्रभवे पूर्वं तस्मै अमिततेजसे ।
आ वृष्णिवंशाद् वक्ष्यामि भूतसर्गम् अनुत्तमम् ॥
विष्णुः स्वयंभूर् भगवान् सिसृक्षुर् विविधाः प्रजाः
अप एव ससर्जादौ तासु वीर्यम् अवासृजत् ॥
आपो नारा इति प्रोक्ता नाम्ना पूर्वम् इति श्रुतिः
अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः ॥
हिरण्यवर्णम् अभवत् तद् अण्डम् उदकेशयम्
तत्र जज्ञे स्वयं ब्रह्मा स्वयंभूर् इति नः श्रुतम् ॥
हिरण्यगर्भो भगवान् उषित्वा परिवत्सरम्
तद् अण्डम् अकरोद् द्वैधं दिवं भुवम् अथापि च ॥
तयोः शकल्योर् मध्यम् आकाशम् अकरोत् प्रभुः
अप्सु पारिप्लवां पृथ्वीं दिशश् च दशधा दधे ॥
तत्र कालं मनो वाचं कामं क्रोधम् अथो रतिम्
ससर्ज सृष्टिं तद्रूपां स्रष्टुम् इच्छन् प्रजापतिम् ॥
मरीचिम् अत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम्
वसिष्ठं च महातेजाः सो ऽसृजत् सप्त मानसान् ॥
सप्त ब्रह्माण इत्य् एते पुराणे निश्चयं गताः
नारायणात्मकानां वै सप्तानां ब्रह्मजन्मनाम् ॥
ततो ऽसृजत् पुनर् ब्रह्मा रुद्रं रोषात्मसंभवम्
सनत्कुमारं च ऋषिं पूर्वेषाम् अपि पूर्वजम् ॥
सप्त त्व् एते प्रजायन्ते प्रजा रुद्रश् च भारत
स्कन्दः सनत्कुमारश् च तेजः संक्षिप्य तिष्ठतः ॥
तेषां सप्त महावंशा दिव्या देवगणान्विताः
क्रियावन्तः प्रजावन्तो महर्षिभिर् अलंकृताः ॥
विद्युतो ऽशनिमेघांश् च रोहितेन्द्रधनूंसि च
सनश् च योगतत्त्वज्ञं सनकं च सनन्दनम् ।
एते सप्त समाख्याता ऋषयः संशितव्रताः ।
यादांसि च ससर्जादौ पर्जन्यं च ससर्ज ह ॥
ऋचो यजूंषि सामानि निर्ममे यज्ञसिद्धये
मुखाद् देवान् अजनयत् पितॄंश् चेशो ऽपि वक्षसः ।
प्रजनाच् च मनुष्यान् वै जघनान् निर्ममे ऽसुरान् ।
साध्यांस् तैर् अयजन् देवान् इत्य् एवम् अनुशुश्रुमः ॥
उच्चावचानि भूतानि गात्रेभ्यस् तस्य जज्ञिरे
ब्रह्माणं हृदयं भित्त्वा निश्चितो भगवान् भृगुः ॥
स्तनं तु दक्षिणं भित्त्वा ब्रह्मजेन च विग्रहः ।
निश्रितो भगवान् धर्मः सर्वलोकसुखावहः ॥
त्रयस् तस्य वराः पुत्राः सर्वभूतमनोहराः ।
कामः शमश् च हर्षश् च तेजसा लोकधारिणः ॥
कामस्य तु रतिर् भार्या शमस्य प्रीतिर् अङ्गना ।
नन्दा भार्या च हर्षस्य त्रयो लोकाः प्रतिष्ठिताः ।
आपवस्य प्रजासर्गं सृजतो हि प्रजापतेः ॥
द्विधा कृत्वात्मनो देहम् अर्धेन पुरुषो ऽभवत्
अर्धेन नारी तस्यां स ससृजे विविधाः प्रजाः
दिवं च पृथिवीं चैव महिम्ना व्याप्य तिष्टति ॥
विराजम् असृजद् विष्णुः सो ऽसृजत् पुरुषं विराट्
पुरुषं तं मनुं विद्धि तद् वै मन्वन्तरं स्मृतम्
द्वितीयम् आपवस्यैतन् मनोर् अन्तरम् उच्यते ॥
स वैराजः प्रजासर्गं ससर्ज पुरुषः प्रभुः
मनुं प्रजापतिं विद्धि ससर्ज प्रभुर् ईश्वरः ।
नारायणविसर्गः स प्रजास् तस्याप्य् अयोनिजाः ॥
आयुष्मान् कीर्तिमान् धन्यः प्रजावांश् च भवेन् नरः
स्थिरवंशश् च भवति मृतः स्वर्गे महीयते ।
आदिसर्गं विदित्वेमं यथेष्टां प्राप्नुयाद् गतिम् ॥
मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0