हरिवंश · अध्याय 18
ते योगधर्मनिरताः सप्त मानसचारिणः
पद्मगर्भो ऽरविन्दाक्षः क्षीरगर्भः सुलोचनः ।
ऊरुबिन्दुः सुबिन्दुश् च हैमगर्भस् तु सप्तमः ।
हंसा जाता महात्मानो मानसेषु सरःसु च ॥
सुमनाः सुवाक् सुशुद्धश् च तत्त्वदर्षी च तत्त्ववित् ।
सुनेत्रश् च सुहोत्रश् च द्विजा नामभिर् एव च ॥
ते ब्रह्मचारिणः सर्वे विहगाः कामचारिणः ।
वाय्वम्बुभक्षाः सततं शरीराण्य् उपशोषयन् ॥
राजा विभ्राजमानस् तु वपुषा तद् वनं तदा
चचारान्तःपुरवृतो नन्दनं मघवान् इव ॥
स तान् अबुध्यत् खचरान् योगधर्मात्मकान् बुधः
निर्वेदाच् च तम् एवार्थम् अनुध्यात्वा पुरं ययौ ॥
अणुहो नाम तस्यासीत् पुत्रः परमधार्मिकः
अणुधर्मरतिर् नित्यम् अणुहो ऽध्यगमत् पदम् ॥
प्रादात् कन्यां शुकस् तस्मै कृत्वीं पूजितलक्षणाम्
सत्त्वशीलगुणोपेतां योगधर्मरतां सदा ॥
सा ह्य् उद्दिष्टा पुरा भीष्म पितृकन्या मणीषिणा
सनत्कुमारेण तदा संनिधौ मम शोभना ॥
सत्यधर्मभृतां श्रेष्ठा दुर्विज्ञेयाकृतात्मभिः
योगा च योगपत्नी च योगमाता तथैव च
यथा ते कथितं पूर्वं पितृसर्गेषु वै मया ॥
विभ्राजस् त्व् अणुहं राज्ये स्थापयित्वा नरेश्वरः
आमन्त्र्य पौरान् प्रीतात्मा ब्राह्मणान् स्वस्ति वाच्य च
प्रायात् सरस् तपश् चर्तुं यत्र ते सहचारिणः ॥
स वै तत्र निराहारो वायुभक्षो महातपाः
त्यक्त्वा कामांस् तपस् तेपे सरसस् तस्य पार्ष्वतः ॥
तस्य संकल्प आसीच् च तेषाम् अन्यतरस्य वै
पुत्रत्वं प्राप्य योगेन युज्येयम् इति भारत ॥
कृत्वाभिसंधिं तपसा महता स समन्वितः
महातपाः स विभ्राजो विरराजांशुमान् इव ॥
ततो विभ्राजितं तेन वैभ्राजम् इति तद् वनम्
सरस् तच् च कुरुश्रेष्ठ वैभ्राजम् इति शब्दितम् ॥
यत्र ते शकुना राजंश् चत्वारो योगधर्मिणः
योगभ्रष्टास् त्रयश् चैव देहन्यासकृतो ऽभवन् ॥
काम्पिल्ये नगरे ते तु ब्रह्मदत्तपुरोगमाः
जाताः सप्त महात्मानः सर्वे विगतकल्मषाः
स्मृतिमन्तो ऽत्र चत्वारस् त्रयस् तु परिमोहिताः ॥
स्वतन्त्रस् त्व् अणुहाज् जज्ञे ब्रह्मदत्तो महायशाः
यथास्यासीत् पक्षिभावे संकल्पः पूर्वचिन्तितः ॥
छिद्रदर्शी सुनेत्रश् च तथा बाभ्रव्यवत्सयोः
जातौ श्रोत्रियदायादौ वेदवेदाङ्गपारगौ ॥
सखायौ ब्रह्मदत्तस्य पूर्वजातिसहोषितौ
पाञ्चालः पञ्चमस् तत्र कण्डरीकस् तथापरः ॥
पाञ्चालो बह्वृचस् त्व् आसीद् आचार्यत्वं चकार ह
द्विवेदः कण्डरीकस् तु छन्दोगो ऽध्वर्युर् एव च ॥
सर्वसत्त्वरुतज्ञश् च राजासीद् अणुहात्मजः
पाञ्चालकण्डरीकाभ्यां तस्य संविद् अभूत् तदा ॥
ते ग्राम्यधर्मनिरताः कामस्य वशवर्तिनः
पूर्वजातिकृतेनासन् धर्मकामार्थकोविदाः ॥
अणुहस् तु नृपश्रेष्ठो ब्रह्मदत्तम् अकल्मषम्
अभिषिच्य तदा राज्ये परां गतिम् अवाप्तवान् ॥
ब्रह्मदत्तस्य भार्या तु देवलस्यात्मजाभवत्
असितस्य योगदुर्धर्षा संनतिर् नाम भारत ॥
ताम् एकभावसंयुक्तां लेभे कन्याम् अनुत्तमाम्
संनतिं संनतिमतीं देवलाद् योगधर्मिणीम् ॥
शेषास् तु चक्रवाका वै काम्पिल्ये सहचारिणः
ते जाताः श्रोत्रियकुले सुदरिद्रे सहोदराः ॥
धृतिर् महामना विद्वांस् तत्त्वदर्शी च नामतः
वेदाध्ययनसंपन्नाश् चत्वारो ऽच्छिन्नदर्शिनः ॥
तेषां संविदथोत्पन्ना पूर्वजातिकृता तदा
ते योगनिरताः सिद्धाः प्रस्थिताः सर्व एव हि ॥
आमन्त्र्य पितरं तात पिता तान् अब्रवीत् तदा
अधर्म एष युष्माकं यन् मां त्यक्त्वा गमिष्यथ ॥
दारिद्र्यम् अनपाकृत्य पुत्रार्थांश् चैव पुष्कलान्
कामान् अभीप्सितान् सर्वान् मम कृत्वाद्य पुत्रकाः ।
शुश्रूषाम् अप्रयुक्त्वा च कथं वै गन्तुम् अर्हथ ॥
ते तम् ऊचुर् द्विजाः सर्वे पितरं पुनर् एव हि
करिष्यामो विधानं ते येन त्वं वर्तयिष्यसि ॥
इमं श्लोकं महार्थं त्वं राजानं सहमन्त्रिणम्
श्रावयेथाः समागम्य ब्रह्मदत्तम् अकल्मषम् ॥
प्रीतात्मा दास्यति स ते ग्रामान् भोगांश् च पुष्कलान्
यथेप्सितांश् च सर्वार्थान् गच्छ तात यथासुखम् ॥
एतावद् उक्त्वा ते सर्वे पूजयित्वा च तं गुरुं
योगधर्मम् अनुप्राप्य परमां निर्वृतिं ययुः ॥
मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0