हरिवंश · अध्याय 16
हन्त ते वर्तयिष्यामि श्राद्धस्य फलम् उत्तमम्
ब्रह्मदत्तेन यत् प्राप्तं सप्तजातिषु भारत ॥
तत एव हि धर्मस्य बुद्धिर् निर्वर्तते शनैः
पीडयाप्य् अथ धर्मस्य कृते श्राद्धे पुरानघ ॥
ततो ऽहं नातिधर्मिष्ठान् कुरुक्षेत्रे पितृव्रतान्
सनत्कुमारनिर्दिष्टान् अपश्यं सप्त वै द्विजान् ॥
वाग्दुष्टः क्रोधनो हिंस्रः पिशुनः कविर् एव च
खसृमः पितृवर्ती च नामभिः कर्मभिस् तथा ॥
कौशिकस्य सुतास् तात शिष्या गार्ग्यस्य भारत
पितर्य् उपरते सर्वे व्रतवन्तस् तदाभवन् ॥
नियोगात् ते गुरोस् तस्य गां दोग्ध्रीं समकालयन्
समानवत्सां कपिलां सर्वे न्यायागतां तदा ॥
तेषां पथि क्षुधार्तानां बाल्यान् मोहाच् च भारत
क्रूरा बुद्धिः समभवत् तां गां वै हिंसितुं तदा ॥
तान् कविः खसृमश् चैव याचेते नेति वै तदा
न चाशक्यन्त ते ताभ्यां तदा वारयितुं द्विजाः ॥
पितृवर्ती तु यस् तेषां नित्यं श्राद्धाह्निको द्विजः
स सर्वान् अब्रवीद् भ्रातॄन् कोपाद् धर्मसमन्वितः ॥
यद्य् अवश्यं प्रकर्तव्या पितॄन् उद्दिश्य साध्व् इमां
प्रकुर्वीमहि गां सम्यक् सर्व एव समाहिताः ॥
एवम् एषा च गौर् धर्मं प्राप्स्यते नात्र संशयः
पितॄन् अभ्यर्च्य धर्मेण नाधर्मो ऽस्मिन् भविष्यति ॥
तथेत्य् उक्त्वा च ते सर्वे प्रोक्षयित्वा च गां ततः
पितृभ्यः कल्पयित्वैनाम् उपयुज्यन्त भारत ॥
उपयुज्य च गां सर्वे गुरोस् तस्य न्यवेदयत्
शार्दूलेन हता धेनुर् वत्सो ऽयं गृह्यताम् इति
आर्जवात् स तु वत्सं तं प्रतिजग्राह वै द्विजः ॥
मिथ्योपचर्य ते तं तु गुरुम् अन्यायतो द्विजाः
कालेन समयुज्यन्त सर्व एवायुषः क्षये ॥
ते वै हिंस्रतया क्रूरा अनार्यत्वाद् गुरोस् तदा
उग्रा हिंसाविहाराश् च सप्ताजायन्त सोदराः
लुब्धकस्यात्मजास् तात बलवन्तो मनस्विनः ॥
पितॄन् अभ्यर्च्य धर्मेण प्रोक्षयित्वा च गां तदा
स्मृतिः प्रत्यवमर्शश् च तेषां जात्यन्तरे ऽभवत् ॥
जाता व्याधा दशार्णेषु सप्त धर्मविचक्षणाः
स्वधर्मनिरताः सर्वे लोभानृतविवर्जिताः ॥
तावन् मात्रं प्रकुर्वन्ति यावता प्राणधारणम्
शेषं धर्मपराः कालम् अनुध्यान्ति स्वकर्म तत् ॥
नामधेयानि चाप्य् एषाम् इमान्य् आसन् नराधिप
निर्वैरो निर्वृतः क्षान्तो निर्मन्युः कृतिर् एव च
वैधसो मातृवर्ती च व्याधाः परमधार्मिकाः ॥
तैर् एवम् उषितैस् तात हिंसाधर्मपरैर् वने
माता च पूजिता वृद्धा पिता च परितोषितः ॥
यदा माता पिता चैव संयुक्तौ कालधर्मणा
तदा धनूंषि ते त्यक्त्वा वने प्राणान् अवासृजन् ॥
शुभेन कर्मणा तेन जाता जातिस्मरा मृगाः
त्रासोद्वेगेन संविग्ना रम्ये कालंजरे गिरौ ॥
उन्मुखो नित्यवित्रस्तः स्तब्धकर्णो विलोचनः
पण्डितो घस्मरो नादी नामभिस् ते ऽभवन् मृगाः ॥
तम् एवार्थम् अनुध्यान्तो जातिस्मरणसंभवम्
आसन् वनेचराः क्षान्ता निर्द्वन्द्वा निष्परिग्रहाः ॥
ते सर्वे शुभकर्माणः सधर्माणो वनेचराः
मरुं साध्य जहुः प्राणांल् लघ्वाहारास् तपस्विनः ॥
तेषां मरुं साधयतां पदस्थानानि भारत
तथैवाद्यापि दृश्यन्ते गिरौ कालञ्जरे ऽच्युत ॥
कर्मणा तेन ते तात शुभेनाशुभवर्जिताः
शुभाच् छुभतरां योनिं चक्रवाकत्वम् आगताः ॥
शुभे देशे सरिद्द्वीपे सप्तैवासञ् जलौकसः
त्यक्त्वा सहचरीधर्मं मुनयो धर्मचारिणः ॥
सुमना मुनिः सुवाक् शुद्धः पञ्चमश् छिद्रदर्शनः
सुनेत्रश् च स्वतन्त्रश् च शकुना नामतः स्मृताः ॥
पञ्चमः पञ्चिकस् तत्र सप्तजातिष्व् अजायत
षष्ठस् तु कण्डरीको ऽभूद् ब्रह्मदत्तस् तु सप्तमः ॥
तेषां तु तपसा तेन सप्तजातिकृतेन वै
योगस्य चाभिनिर्वृत्त्या प्रतिभानाच् च शोभनात् ॥
पूर्वजातिषु यद् ब्रह्म श्रुतं गुरुकुलेषु वै
तथैव तत्स्थितं ब्रह्म संसारेष्व् अपि वर्तताम् ॥
ते ब्रह्मचारिणः सर्वे विहङ्गाः कामचारिणः
योगधर्मम् अनुध्यान्तो विहरन्ति स्म तत्र ह ॥
तेषां तत्र विहङ्गानां चरतां सहचारिणाम्
नीपानाम् ईश्वरो राजा विभ्राजः पौरवान्वयः ॥
विभ्राजमानो वपुषा प्रभावेन समन्वितः
श्रीमान् अन्तःपुरवृतो वनं तत् प्रविवेश ह ॥
स्वतन्त्रश् चक्रवाकस् तु स्पृहयाम् आस तं नृपम्
दृष्ट्वायान्तं श्रियोपेतं भवेयम् अहम् ईदृशः ॥
यद्य् अस्ति सुकृतं किंचित् तपो वा नियमो ऽपि वा
खिन्नो ह्य् अस्म्य् उपवासेन तपसा निष्फलेन च ॥
मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0