भाषा

ENहिગુ
ग्रंथ पाठ

हरिवंश · अध्याय 15

15.1

तस्मिन्न् अन्तर्हिते देवे वचनात् तस्य वै विभो
चक्षुर् दिव्यं सविज्ञानं प्रादुर् आसीन् ममानघ ॥

15.2

ततो ऽहं तान् अपश्यं वै ब्राह्मणान् कौशिकात्मजान्
आपगेय कुरुक्षेत्रे यान् उवाच विभुर् मम ॥

15.3

ब्रह्मदत्तो ऽभवद् राजा यस् तेषां सप्तमो द्विजः
पितृवर्तीति विख्यातो नाम्ना शीलेन कर्मणा ॥

15.4

शुकस्य कन्या कृत्वी तं जनयाम् आस पार्थिवम्
अणुहात् पार्थिवश्रेष्ठात् काम्पिल्ये नगरोत्तमे ॥

15.5

अणुहः कस्य वै पुत्रः कस्मिन् काले बभूव ह
राजा धर्मभृतां श्रेष्ठो यस्य पुत्रो महायशाः ॥

15.6

ब्रह्मदत्तो नरपतिः किंवीर्यश् च बभूव ह
कथं च सप्तमस् तेषां संबभूव नराधिपः ॥

15.7

न ह्य् अल्पवीर्याय शुको भगवांल् लोकपूजितः
कन्यां प्रदद्याद् योगात्मा कृत्वीं कीर्तिमतीं प्रभुः ॥

15.8

एतद् इच्छाम्य् अहं श्रोतुं विस्तरेण महाद्युते
ब्रह्मदत्तस्य चरितं तद् भवान् वक्तुम् अर्हति ॥

15.9

यथा च वर्तमानास् ते संसारेषु द्विजातयः
मार्कण्डेयेन कथितास् तद् भवान् प्रब्रवीतु मे ॥

15.10

प्रतीपस्य स राजर्षे तुल्यकालो नराधिपः
पितामहस्य मे राजन् बभूवेति मया श्रुतम् ॥

15.11

ब्रह्मदत्तो महाराजो योगी राजर्षिसत्तमः
रुतज्ञः सर्वभूतानां सर्वभूतहिते रतः ॥

15.12

सखा हि गालवो यस्य योगाचार्यो महायशाः
शिक्षां उत्पाद्य तपसा क्रमो येन प्रवर्तितः
कण्डरीकश् च योगात्मा तस्यैव सचिवो ऽभवत् ॥

15.13

जात्यन्तरेषु सर्वेषु सहायाः सर्व एव ते
सप्तजातिषु सप्तैव बभूवुर् अमितौजसः
यथोवाच महातेजा मार्कण्डेयो महातपाः ॥

15.14

तस्य वंशम् अहं राजन् कीर्तयिष्यामि तच् छृणु
ब्रह्मदत्तस्य पौराणं पौरवस्य महात्मनः ॥

15.15

पुरुमित्रस्य दायादो राजा बृहदिषुर् नृप
बृहद्धनुर् बृहदिषोः पुत्रस् तस्य महायशाः
आसीद् बृहदिषोः पुत्रो बृहद्धर्मेति विश्रुतः ।
बृहद्धर्मेति विख्यातो राजा परमधार्मिकः ॥

15.16

सत्यजित् तस्य तनयो विश्वजित् तस्य चात्मजः
पुत्रो विश्वजितश् चापि सेनजित् पृथिवीपतिः ॥

15.17

पुत्राः सेनजितश् चासंश् चत्वारो लोकसंमताः
रुचिरः श्वेतकाश्यश् च महिम्नारस् तथैव च
वत्सश् चावन्तको राजा यस्यैते परि वत्सकाः ॥

15.18

रुचिरस्य तु दायादः पृथुषेणो महायशाः
पृथुषेणस्य पारस् तु पारान् नीपो ऽथ जज्ञिवान् ॥

15.19

नीपस्यैकशतं तात पुत्राणाम् अमितौजसाम्
महारथानां राजेन्द्र शूराणां बाहुशालिनाम्
नीपा इति समाख्याता राजानः सर्व एव ते ॥

15.20

तेषां वंशकरो राजा नीपानां कीर्तिवर्धनः
काम्पिल्ये समरो नाम स चेष्टसमरो ऽभवत् ॥

15.21

समरस्य पुरः पारः सदश्व इति ते त्रयः
पुत्राः परमधर्मज्ञाः पारपुत्रः पृथुर् बभौ ॥

15.22

पृथोस् तु सुकृतो नाम सुकृतेनेह कर्मणा
जज्ञे सर्वगुणोपेतो विभ्राजस् तस्य चात्मजः ॥

15.23

विभ्राजस्य तु पुत्रो ऽभूद् अणुहो नाम पार्थिवः
बभौ शुकस्य जामाता कृत्वीभर्ता महायशाः ॥

15.24

पुत्रो ऽणुहस्य राजर्षिर् ब्रह्मदत्तो ऽभवत् प्रभुः
योगात्मा तस्य तनयो विष्वक्सेनः परंतपः ॥

15.25

विभ्राजः पुनर् आजातः सुकृतेनेह कर्मणा
ब्रह्मदत्तस्य तनयो विष्वक्सेन इति श्रुतः ॥

15.26

विष्वक्सेनस्य पुत्रो ऽभूद् दण्डसेनो महीपतिः
भल्लाटश् च कुमारो ऽभूद् राधेयेन हतः पुरा ॥

15.27

दण्डसेनात्मजः शूरो महात्मा कुलवर्धनः
भल्लाटपुत्रो दुर्बुद्धिर् अभवज् जनमेजयः ॥

15.28

स तेषाम् अभवद् राजा नीपानाम् अन्तकृन् नृपः
उग्रायुधेन यस्यार्थे सर्वे नीपा विनाशिताः ॥

15.29

उग्रायुधः स चोत्सिक्तो मया विनिहतो युधि
दर्पान्वितो दर्परुचिः सततं चानये रतः ॥

15.30

उग्रायुधः कस्य सुतः कस्मिन् वंशे ऽथ जज्ञिवान्
किमर्थं चैव भवता निहतस् तद् ब्रवीहि मे ॥

15.31

अजमीढस्य दायादो विद्वान् राजा यवीनरः
धृतिमांस् तस्य पुत्रस् तु तस्य सत्यधृतिः सुतः ॥

15.32

जज्ञे सत्यधृतेः पुत्रो दृढनेमिः प्रतापवान्
दृढनेमिसुतश् चापि सुधर्मा नाम पार्थिवः ॥

15.33

आसीत् सुधर्मणः पुत्रः सार्वभौमः प्रजेश्वरः
सार्वभौम इति ख्यातः पृथिव्यां एकराट् तदा ॥

15.34

तस्यान्ववाये महति महान् पौरवनन्दनः
महतश् चापि पुत्रस् तु नाम्ना रुक्मरथः स्मृतः ॥
पुत्रो रुक्मरथस्यापि सुपार्श्वो नाम पार्थिवः ।
सुपार्श्वतनयश् चापि सुमतिर् नाम धार्मिकः ।
जज्ञे संनतिमान् राजा संनतिर् नाम वीर्यवान् ॥

15.35

तस्य वै संनतेः पुत्रः कार्तो नाम महाबलः
शिष्यो हिरण्यनाभस्य कौसल्यस्य महात्मनः ।
चतुर्विंशतिधा तेन प्रोक्तास् ताः सामसंहिताः ।
स्मृतास् ते प्राच्यसामानः कार्ता नाम्ना तु सामगाः ॥
कार्तिर् उग्रायुधः सो ऽथ वीरः पौरवनन्दनः ।
बभूव येन विक्रम्य पृषतस्य पितामहः
नीपो नाम महाराज पाञ्चालाधिपतिर् हतः ॥

15.36

स चाप्य् उग्रायुधस् तात दुर्बुद्धिर् वैरकृत् सदा
प्रदीप्तचक्रो बलवान् नीपान्तकरणो ऽभवत् ॥

15.37

स दर्पपूर्णो हत्वाजौ नीपान् अन्यांश् च पार्थिवान्
पितर्य् उपरते मह्यं श्रावयाम् आस किल्बिषम् ॥

15.38

माम् अमात्यैः परिवृतं शयानं धरणीतले
उग्रायुधस्य राजेन्द्र दूतो ऽभ्येत्य वयो ऽब्रवीत् ॥

15.39

अद्य त्वं जननीं भीष्म गन्धकालीं यशस्विनीं
स्त्रीरत्नं मम भार्यार्थे प्रयच्छ कुरुपुंगव ॥

15.40

एवं राज्यं च ते स्फीतं बलानि च न संशयः
त्वया राज्ये च ते स्थितिम् ।
चतुरङ्गयुतान्य् अद्य ।
प्रदास्यामि यथाकामम् अहं वै रत्नभाग् भुवि ॥

15.41

राष्ट्रस्येच्छसि चेत् स्वस्ति प्राणानां वा कुलस्य वा
शासने मम तिष्ठस्व न हि ते शान्तिर् अन्यथा ॥

15.42

अधः प्रस्तारशयने शयानस् तेन चोदितः
दूतान्तरितम् एतद् वै वाक्यम् अग्निशिखोपमम् ॥

15.43

ततो ऽहं तस्य दुर्बुद्धेर् विज्ञाय मतम् अच्युत
आज्ञप्तवान् वै संग्रामे सेनाध्यक्षांश् च सर्वशः ॥

15.44

मम प्रज्वलितं चक्रं निशाम्यैतत् सुदुर्जयम्
शत्रवो विद्रवन्त्य् आजौ दर्शनाद् एव भारत ॥

15.45

विचित्रवीर्यं बालं च मदपाश्रयम् एव च
दृष्ट्वा क्रोधपरीतात्मा युद्धायैव मनो दधे ॥

15.46

निगृहीतस् तदाहं तु सचिवैर् मन्त्रकोविदैः
ऋत्विग्भिर् देवकल्पैश् च सुहृद्भिर् नरपुंगव ॥

15.47

स्निग्धैश् च शास्त्रविद्भिश् च संयुगस्य निवर्तने
कारणं श्रावितश् चास्मि युक्तरूपं तदानघ ॥

15.48

प्रवृत्तचक्रः पापो ऽसौ त्वं चाशौचगतः प्रभो
न चैष प्रथमः कल्पो युद्धं नाम कदाचन ॥

15.49

ते वयं साम पूर्वं वै दानं भेदं तथैव च
प्रयोक्ष्यामस् ततः शुद्धो दैवतान्य् अभिवाद्य च ॥

15.50

कृतस्वस्त्ययनो विप्रैर् हुत्वाग्नीन् वाच्य च द्विजान्
ब्राह्मणैर् अभ्यनुज्ञातः प्रयास्यसि जयाय वै ॥

15.51

अस्त्राणि न प्रयोज्यानि न प्रवेश्यश् च संगरः
आशौचे वर्तमानेन वृद्धानाम् इति शासनम् ॥

15.52

सामदानादिभिः पूर्वम् अपि भेदेन वा ततः
तं हनिष्यसि विक्रम्य शम्बरं मघवान् इव ॥

15.53

प्राज्ञानां वचनं काले वृद्धानां च विशेषतः
श्रोतव्यम् इति तच् छ्रुत्वा निवृत्तो ऽस्मि नराधिप ॥

15.54

ततस् तैः स क्रमः सर्वः प्रयुक्तः शास्त्रकोविदैः
तस्मिन् काले कुरुश्रेष्ठ कर्म चारब्धम् उत्तमम् ॥

15.55

स सामादिभिर् अप्य् आदाव् उपायैः शास्त्रचिन्तकैः
अनुनीयमानो दुर्बुद्धिर् अनुनेतुं न शक्यते ॥

15.56

प्रवृत्तं तस्य तच् चक्रम् अधर्मनिरतस्य वै
परदाराभिलाषेण सद्यस् तात निवर्तितम् ॥

15.57

न त्व् अहं तस्य जाने वै निवृत्तं चक्रम् उत्तमम्
हतं स्वकर्मणा तत् तु पूर्वं सद्भिश् च निन्दितम् ॥

15.58

कृतशौचः शरावापी रथी निष्क्रम्य वै पुरात्
कृतस्वस्त्ययनो विप्रैः प्रायोधयम् अहं रिपुम् ॥

15.59

ततः संसर्गम् आगम्य बलेनास्त्रबलेन च
त्र्यहम् उन्मत्तवद् युद्धं देवासुरम् इवाभवत् ॥

15.60

स मयास्त्रप्रतापेन निर्दग्धो रणमूर्धनि
पपाताभिमुखः शूरस् त्यक्त्वा प्राणान् अरिंदम ॥

15.61

एतस्मिन्न् अन्तरे तात काम्पिल्यात् पृषतो ऽभ्ययात्
हते नीपेश्वरे चैव हते चोग्रायुधे नृपे ॥

15.62

आहिच्छत्रं स्वकं राज्यं पित्र्यं प्राप्य महाद्युतिः
द्रुपदस्य पिता राजन् ममैवानुमते तदा ॥

15.63

ततो ऽर्जुनेन तरसा निर्जित्य द्रुपदं रणे
अहिच्छत्रं सकाम्पिल्यं द्रोणायाथापवर्जितम् ॥

15.64

प्रतिगृह्य ततो द्रोण उभयं जयतां वरः
काम्पिल्यं द्रुपदायैव प्रायच्छद् विदितं तव ॥

15.65

एष ते द्रुपदस्यादौ ब्रह्मदत्तस्य चैव ह
वंशः कार्त्स्न्येन वै प्रोक्तो वीरस्योग्रायुधस्य च ॥

15.66

अतस् ते वर्तयिष्ये ऽहम् इतिहासं पुरातनम्
गीतं सनत्कुमारेण मार्कण्डेयाय पृच्छते ॥

15.67

श्राद्धस्य फलम् उद्दिश्य नियतं सुकृतस्य च
तन्निबोध महाराज सप्तजातिषु भारत ॥

15.68

सगालवस्य चरितं कण्डरीकस्य चैव ह
ब्रह्मदत्ततृतीयानां योगिनां ब्रह्मचारिणाम् ॥

मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc