हरिवंश · अध्याय 17
ततस् तं चक्रवाकौ द्वाव् ऊचतुः सहचारिणौ
आवां ते सचिवौ स्यावस् तव प्रियहितैषिणौ ॥
तथेत्य् उक्त्वा च तस्यासीत् तदा योगात्मनो मतिः
एवं ते समयं चक्रुः सुवाक्तं प्रत्यभाषत ॥
यस्मात् कामप्रधानस् त्वं योगधर्मम् अपास्य वै
अवरं वरं प्रार्थयसे तस्माद् वाक्यं निबोध मे ॥
राजा त्वं भविता तात काम्पिल्ये नगरोत्तमे
भविष्यतः सखायौ च द्वाव् इमौ सचिवौ तव ॥
शप्त्वा तान् अभिभाष्याथ चत्वारश् चक्रुर् अण्डजाः
तांस् त्रीन् अभीप्सतो राज्यं व्यभिचारप्रधर्षितान् ॥
शप्ताः खगास् त्रयस् ते तु योगभ्रष्टा विचेतसः
तान् अयाचन्त चतुरस् त्रयस् ते सहचारिणः ॥
तेषां प्रसादं चक्रुस् ते अथैतान् सुमनाब्रवीत्
सर्वेषाम् एव वचनात् प्रसादानुगतं तदा ॥
अन्तवान् भविता शापो युष्माकं नात्र संशयः
इतश् च्युताश् च मानुष्यं प्राप्य योगम् अवाप्स्यथ ॥
सर्वसत्त्वरुतज्ञश् च स्वतन्त्रो ऽयं भविष्यति
पितृप्रसादो ह्य् अस्माभिर् अस्य प्राप्तः कृतेन वै ॥
गां प्रोक्षयित्वा धर्मेण पितृभ्य उपकल्पताम्
अस्माकं ज्ञानसंयोगः सर्वेषां योगसाधनः ॥
इदं च वाक्यसंदर्भ+ +श्लोकम् एकम् उदाहृतम्
पुरुषान्तरितं श्रुत्वा ततो योगम् अवाप्स्यथ ॥
मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0