हरिवंश · अध्याय 14
आसन् पूर्वयुगे तात भरद्वाजात्मजा द्विजाः
योगधर्मम् अनुप्राप्य भ्रष्टा दुश्चरितेन वै ॥
अपभ्रंशम् अनुप्राप्ता योगधर्मापचारिणः
महतस् तमसः पारे मानसस्य विसंज्ञिताः ॥
तम् एवार्थम् अनुध्यान्तो नष्टम् अप्स्व् इव मोहिताः
अप्राप्य योगं ते सर्वे संयुक्ताः कालधर्मणा ॥
ततस् ते योगविभ्रष्टा देवेषु सुचिरोषिताः
जाताः कौशिकदायादाः कुरुक्षेत्रे नरर्षभ ॥
हिंसया विचरिष्यन्तो धर्मं पितृकृतेन वै
ततस् ते पुनर् आजातिं भ्रष्टाः प्राप्स्यन्ति कुत्सितां ॥
तेषां पितृप्रसादेन पूर्वजातिकृतेन च
स्मृतिर् उत्पत्स्यते प्राप्य तां तां जातिं जुगुप्सिताम् ॥
ते धर्मचारिणो नित्यं भविष्यन्ति समाहिताः
ब्राह्मण्यं प्रतिलप्स्यन्ति ततो भूयः स्वकर्मणा ॥
ततश् च योगं प्राप्स्यन्ति पूर्वजातिकृतं पुनः
भूयः सिद्धिम् अनुप्राप्ताः स्थानं प्राप्स्यन्ति शाश्वतम् ॥
एवं धर्मे च ते बुद्धिर् भविष्यति पुनः पुनः
योगधर्मे च निरतः प्राप्स्यसे सिद्धिम् उत्तमाम् ॥
योगधर्माद् धि धर्मज्ञ न धर्मो ऽस्ति विशेषवान्
वरिष्ठं सर्वधर्माणां तं समाचर भार्गव ॥
कालस्य परिणामेन लघ्वाहारो जितेन्द्रियः
तत्परः प्रयतः श्राद्धी योगधर्मम् अवाप्स्यसि
इत्य् उक्त्वा भगवान् देवस् तत्रैवान्तरधीयत ॥
अष्टादशानां वर्षाणाम् एकाहम् इति मे मतिः
उपासतश् च देवेशं वर्षाण्य् अष्टादशैव मे ॥
प्रसादात् तस्य देवस्य न ग्लानिर् अभवत् तदा
न क्षुत्पिपासे कालं वा जानामि स्म तदानघ
पश्चाच् छिष्यसकाशात् तु कालः संविदितो मम ॥
मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0