हरिवंश · अध्याय 13
इत्य् उक्तो ऽहं भगवता देवदेवेन भास्वता
सनत्कुमारेण पुनः पृष्टवान् देवम् अव्ययम् ॥
संदेहम् अमरश्रेष्ठं भगवन्तम् अरिंदम
निबोध तन् मे गाङ्गेय निखिलं सर्वम् आदितः ॥
कियन्तो वै पितृगणाः कस्मिंल् लोके च ते गणाः
वर्तन्ति देवप्रवरा देवानां सोमवर्धनाः ॥
सप्तैते जपतां श्रेष्ठ स्वर्गे पितृगणाः स्मृताः
चत्वारो मूर्तिमन्तो वै त्रय एषां अमूर्तयः ॥
तेषां लोकं विसर्गं च कीर्तयिष्यामि तच् छृणु
प्रभावं च महत्त्वं च विस्तरेण तपोधन ॥
धर्ममूर्तिधरास् तेषां त्रयो ये परमा गणाः
तेषां नामानि लोकांश् च कीर्तयिष्यामि तच् छृणु ॥
लोकाः सनातना नाम यत्र तिष्ठन्ति भास्वराः
अमूर्तयः पितृगणास् ते वै पुत्राः प्रजापतेः ॥
विराजस्य द्विजश्रेष्ठ वैराजा इति विश्रुताः
यजन्ति तान् देवगणा विधिदृष्टेन कर्मना ॥
एते वै योगविभ्रष्टा लोकान् प्राप्य सनातनान्
पुनर् युगसहस्रान्ते जायन्ते ब्रह्मवादिनः ॥
ते प्राप्य तां स्मृतिं भूयः सांख्ययोगम् अनुत्तमम्
यान्ति योगगतिं सिद्धाः पुनर् आवृत्तिदुर्लभाम् ॥
एते स्म पितरस् तात योगिनां योगवर्धनाः
आप्याययन्ति ये पूर्वं सोमं योगबलेन वै ॥
तस्माच् छ्राद्धानि देयानि योगिनां द्विजसत्तम
एष वै प्रथमः कल्पः सोमपानां अनुत्तमः ॥
एतेषां मानसी कन्या मेना नाम महागिरेः
पत्नी हिमवतः श्रेष्ठा यस्या मैनाक उच्यते ॥
मैनाकस्य सुतः श्रीमान् क्रौञ्चो नाम महागिरिः
पर्वतप्रवरः शुभ्रो नानारत्नसमाचितः ॥
तिस्रः कन्यास् तु मेनायां जनयाम् आस शैलराट्
अपर्णाम् एकपर्णां च तृतीयाम् एकपाटलाम् ॥
तपश् चरन्त्यः सुमहद् दुश्चरं देवदानवैः
लोकान् संतापयाम् आसुस् तास् तिस्रः स्थाणुजंगमान् ॥
आहारम् एकपर्णेन सैकपर्णा समाचरत्
पाटलापुष्पम् एकं च विदधे चैकपाटला ॥
एका तत्र निराहारा तां माता प्रत्यषेधयत्
उ मा इति निषेधन्ती मातृस्नेहेन दुःखिता ॥
सा तथोक्ता तया मात्रा देवी दुष्चरचारिणी
उमेत्य् एवाभवत् ख्याता त्रिषु लोकेषु सुन्दरी ॥
तपःशरीराः सर्वास् तास् तिस्रो योगबलान्विताः
सर्वास् ता वै महाभागाः सर्वाश् च स्थिरयौवनाः ।
ता लोकमातरश् चैव ब्रह्मचारिण्य एव च ।
सर्वाश् च ब्रह्मवादिन्यः सर्वाश् चैवोर्ध्वरेतसः ॥
उमा तासां वरिष्ठा च ज्येष्ठा च वरवर्णिनी
महायोगबलोपेता महादेवम् उपस्थिता ॥
असितस्यैकपर्णा तु देवलस्य महात्मनः
पत्नी दत्ता महाब्रह्मन् योगाचार्याय धीमते ॥
जैगीषव्यस्य तु तथा विद्धि ताम् एकपाटलाम्
एते चापि महाभागे योगाचार्याव् उपस्थिते ॥
लोकाः सोमपदा नाम मरीचेर् यत्र वै सुताः
पितरो दिवि वर्तन्ते देवास् तान् भावयन्त्य् उत
अग्निष्वात्ता इति ख्याताः सर्व एवामितौजसः ॥
एतेषां मानसी कन्या अच्छोदा नाम निम्नगा
अच्छोदं नाम तद् दिव्यं सरो यस्याः समुत्थितम् ॥
सा दृष्ट्वा पितरं वव्रे वसुं नामान्तरिक्षगम्
नाम्ना वसुम् इति ख्यातम् आयोः पुत्रं यशस्विनम् ॥
सा तेन व्यभिचारेण मनसः कामचारिणी
पितरं प्रार्थयित्वान्यं योगभ्रष्टा पपात ह ॥
त्रीण्य् अपश्यद् विमानानि पतमाना दिवश् च्युता
त्रसरेणुप्रमाणानि सापश्यत् तेषु तान् पितॄन् ॥
सुसूक्ष्मान् अपरिव्यक्तान् अग्नीन् अग्निष्व् इवाहितान्
त्रायध्वं इत्य् उवाचार्ता पतन्ती तान् अवाक्शिराः ॥
तैर् उक्ता सा तु मा भैषीर् इति व्योम्नि व्यवस्थिता
ततः प्रसादयाम् आस स्वान् पितॄन् दीनया गिरा ॥
ऊचुस् ते पितरः कन्यां भ्रष्टैश्वर्यां व्यतिक्रमात्
भ्रष्टैश्वर्या स्वदोषेण पतसि त्वं शुचिस्मिते ॥
यैः क्रियन्ते हि कर्माणि शरीरैर् दिवि दैवतैः
तैर् एव तत्कर्मफलं प्राप्नुवन्तीह देवताः ॥
सद्यः फलन्ति कर्माणि देवत्वे प्रेत्य मानुषे
यानि कर्माणि देवत्वे तानि सन्त्य् एव मानुषे ।
तस्मात् त्वं तपसः पुत्रि प्रेत्येह प्राप्स्यसे फलम् ॥
इत्य् उक्ता पितृभिः सा तु पितॄन् स्वान् संप्रसादयत्
ध्यात्वा प्रसादं ते चक्रुस् तस्याः सर्वे ऽनुकम्पया ॥
अवश्यंभाविनं ज्ञात्वा ते ऽर्थम् ऊचुस् ततश् च ताम्
तस्य राज्ञो वसोः कन्या त्वम् अपत्यं भविष्यसि
उत्पन्नस्य पृथिव्यां तु मानुषेषु महात्मनः ।
कन्यैव भूत्वा लोकान् स्वान् पुनः प्राप्स्यसि दुर्लभान् ॥
पराशरस्य दायादं त्वं विप्रं जनयिष्यसि
स वेदम् एकं ब्रह्मर्षिश् चतुर्धा विभजिष्यति ॥
महाभिषस्य पुत्रौ च शंतनोः कीर्तिवर्धनौ
विचित्रवीर्यं धर्मज्ञं तथा चित्राङ्गदं प्रभुम् ॥
एतान् उत्पाद्य पुत्रांस् त्वं पुनर् लोकान् अवाप्स्यसि
प्राप्यैतत् सुमहाभागे कुत्सितेन स्वकर्मणा ।
व्यतिक्रमात् पितॄणां च जन्म प्राप्स्यसि कुत्सितम् ॥
तस्यैव राज्ञस् त्वं कन्या अद्रिकायां भविष्यसि
अष्टाविंशे भवित्री त्वं द्वापरे मत्स्ययोनिजा ॥
एवम् उक्ता तु दासेयी जाता सत्यवती तदा
मत्स्ययोनौ अनुपमा राज्ञस् तस्य वसोः सुता ॥
बैभ्राजा नाम ते लोका दिवि भान्ति सुदर्शनाः
यत्र बर्हिषदो नाम पितरो दिवि विष्रुताः ॥
तान् दानवगणाः सर्वे यक्षगन्धर्वराक्षसाः
नागाः सर्पाः सुपर्णाश् च भावयन्त्य् अमितौजसः ॥
एते पुत्रा महात्मानः पुलस्त्यस्य प्रजापतेः
महात्मानो महाभागास् तेजोयुक्तास् तपस्विनः ॥
एतेषां मानसी कन्या पीवरी नाम विश्रुता
योगा च योगपत्नी च योगमाता तथैव च
भवित्री द्वापरं प्राप्य युगं धर्मभृतां वरा ॥
पराशरकुलोद्भूतः शुको नाम महातपाः
भविष्यति युगे तस्मिन् महायोगी द्विजर्षभः
व्यासाद् अरण्यां संभूतो विधूमो ऽग्निर् इव ज्वलन् ॥
स तस्यां पितृकन्यायां पीवर्यां जनयिष्यति
कन्यां पुत्रांश् च चतुरो योगाचार्यान् महाबलान् ॥
कृष्णं गौरं प्रभुं शंभुं कन्यां कृत्वीं तथैव च
कन्यां कीर्तिमतीं षष्ठीं योगमातां च योगिनीम् ।
कृत्वीं कन्यां कीर्तिमतीं योगां योगस्य मातरम् ।
ब्रह्मदत्तस्य जननी महिषी त्व् अणुहस्य या ॥
एतान् उत्पाद्य धर्मात्मा योगाचार्याण् महाव्रताण्
श्रुत्वा स जनकाद् धर्मान् व्यासाद् अमितबुद्धिमान् ।
महायोगी तदा गन्ता पुनर् आवर्तिनीं गतिम् ॥
अमूर्तिमन्तः पितरो धर्ममूर्तिधरा मुने
कथा यत्र समुत्पन्ना वृष्ण्यन्धककुलान्वया ॥
त्रय एते मया प्रोक्ताश् चतुरो ऽन्यान् निबोध मे
यान् वक्ष्यामि द्विजश्रेष्ठ मूर्तिमन्तो हि ते स्मृताः
समुत्पन्नाः स्वधायां तु काव्याद् अग्नेः कवेः सुताः ॥
सुकाला नाम पितरो वसिष्ठस्य प्रजापतेः
निरता देवलोकेषु ज्योतिर्भासिषु भार्गव
सर्वकामसमृद्धेषु द्विजास् तान् भावयन्त्य् उत ॥
तेषां वै मानसी कन्या गौर् नाम दिवि विश्रुता
तवैव वंशे या दत्ता शुकस्य महिषी द्विज ॥
एकशृङ्गा इति ख्याता साध्यानां कीर्तिवर्धनी
मरीचिगर्भान् सा लोकान् समावृत्य व्यवस्थिता ॥
ये त्व् अथाङ्गिरसः पुत्राः साध्यैः संवर्धिताः पुरा
उपहूताः स्मृतास् ते वै पितरो भास्वरा दिवि ।
तान् क्षत्रियगणास् तात भावयन्ति फलार्थिनः ॥
एतेषां मानसी कन्या यशोदा नाम विश्रुता
पत्नी या विश्वमहतः स्नुषा वै वृद्धशर्मणः
राजर्षेर् जननी तात दिलीपस्य महात्मनः ॥
तस्य यज्ञे पुरा गीता गाथाः प्रीतैर् महर्षिभिः
तदा देवयुगे तात वाजिमेधे महामखे ॥
अग्नेर् जन्म तथा श्रुत्वा शाण्डिल्यस्य महात्मनः
दिलीपं यजमानं ये पश्यन्ति सुसमाहिताः
सत्यवन्तं महात्मानं ते ऽपि स्वर्गजितो नराः ॥
सुस्वधा नाम पितरः कर्दमस्य प्रजापतेः
समुत्पन्नस्य पुलहान् महात्मानो द्विजर्षभाः ॥
लोकेषु दिवि वर्तन्ते कामगेषु विहंगमाः
तांस् तु वैश्यगणास् तात भावयन्ति फलार्थिनः ॥
तेषां वै मानसी कन्या विरजा नाम विश्रुता
ययातेर् जननी ब्रह्मन् महिषी नहुषस्य च ॥
त्रय एते गणाः प्रोक्ताश् चतुर्थं तु निबोध मे
उत्पन्ना ये स्वधायां तु सोमपा वै कवेः सुताः ॥
हिरण्यगर्भस्य सुताः शूद्रास् तान् भावयन्त्य् उत
मानसा नाम ते लोका यत्र वर्तन्ति ते दिवि ॥
तेषां वै मानसी कन्या नर्मदा सरितां वरा
या भावयति भूतानि दक्षिणापथगामिनी
पुरुकुत्सस्य या पत्नी त्रसद्दस्योर् जनन्य् अपि ॥
तेषाम् अथाभ्युपगमान् मनुस् तात युगे युगे
प्रवर्तयति श्राद्धानि नष्टे धर्मे प्रजापतिः ॥
पितॄणाम् आदिसर्गेण सर्वेषां द्विजसत्तम
तस्माद् एनं स्वधर्मेण श्राद्धदेवं वदन्ति वै ॥
सर्वेषां राजतं पात्रम् अथ वा रजतान्वितम्
दत्तं स्वधां पुरोधाय श्राद्धे प्रीणाति वै पितॄन् ॥
सोमस्याप्यायनं कृत्वा वह्नेर् वैवस्वतस्य च
उदगायनम् अप्य् अग्नाव् अग्न्यभावे ऽप्सु वा पुनः ॥
पितॄन् प्रीणाति यो भक्त्या पितरः प्रीणयन्ति तम्
यच्छन्ति पितरः पुष्टिं प्रजाश् च विपुलास् तथा
स्वर्गम् आरोग्यम् एवाथ यद् अन्यद् अपि चेप्सितम् ॥
देवकार्याद् अपि मुने पितृकार्यं विशिष्यते
देवतानां हि पितरः पूर्वम् आप्यायनं स्मृतम् ॥
शीघ्रप्रसादा ह्य् अक्रोधा लोकस्याप्यायनं परम्
स्थिरप्रसादाश् च सदा तान् नमस्यस्व भार्गव ॥
पितृभक्तो ऽसि विप्रर्षे सद्भक्तश् च न संशयः
श्रेयस् ते ऽद्य विधास्यामि प्रत्यक्षं कुरु तत् स्वयम् ॥
चक्षुर् दिव्यं सविज्ञानं प्रदिशामि च ते ऽनघ
गतिम् एताम् अप्रमत्तो मार्कण्डेय निशामय ॥
न हि योगगतिर् दिव्या न पितॄणां परा गतिः
त्वद्विधेनापि सिद्धेन दृश्यते मांसचक्षुषा ॥
एवम् उक्त्वा स देवेशो माम् उपस्थितम् अग्रतः
चक्षुर् दत्त्वा सविज्ञानं देवानाम् अपि दुर्लभम्
जगाम गतिम् इष्टां वै द्वितीयो ऽग्निर् इव ज्वलन् ॥
तन् निबोध कुरुश्रेष्ठ यन् मयासीन् निशामितम्
प्रसादात् तस्य देवस्य दुर्ज्ञेयं भुवि मानुषैः ॥
मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0