भाषा

ENहिગુ
ग्रंथ पाठ

हरिवंश · अध्याय 12

12.1

ततो हं तस्य वचनान् मार्कण्डेयं समाहितः
प्रश्नं तम् एवान्वपृच्छं यन् मे पृष्टः पुरा पिता ॥

12.2

स माम् उवाच धर्मात्मा मार्कण्डेयो महातपाः
भीष्म वक्ष्यामि तत्त्वेन शृणुष्व प्रयतो नघ ॥

12.3

मयापि हि प्रसादाद् वै दीर्घायुष्ट्वं पितुः प्रभो
पितृभक्त्यैव लब्धं च प्राग्लोके परमं यशः ॥

12.4

सो हं युगस्य पर्यन्ते बहुवर्षसहस्रिके
अधिरुह्य गिरिं मेरुं तपो तप्यं सुदुश्चरम् ॥

12.5

ततः कदाचित् पश्यामि दिवं प्रज्वाल्य तेजसा
विमानं महद् आयान्तम् उत्तरेण गिरेस् तदा ॥

12.6

अपश्यं तत्र चैवाहं शयानं दीप्ततेजसम्
अङ्गुष्ठमात्रं पुरुषम् अग्नाव् अग्निम् इवाहितम् ॥

12.7

सो हं तस्मै नमस् कृत्वा प्रणम्य शिरसा प्रभुम्
संनिविष्टं विमानस्थं पाद्यार्घ्याभ्यां अपूजयम् ॥

12.8

अपृच्छं चैव दुर्धर्षं विद्याम त्वाम् कथं प्रभो
दैवतं ह्य् असि देवानाम् इति मे वर्तते मतिः ॥

12.9

स माम् उवाच धर्मात्मा स्मयमान इवानघ
न ते तपः सुचरितं येन मां नावबुध्यसे ॥

12.10

क्षणेनैव प्रमाणं स बिभ्रद् अन्यद् अनुत्तमम्
रूपेण न मया कश्चिद् दृष्टपूर्वः पुमान् क्वचित् ॥

12.11

विद्धि मां ब्रह्मणः पुत्रं मानसं पूर्वजं प्रभो
तपोवीर्यात् समुत्पन्नं नारायणगुणात्मकम् ॥

12.12

सनत्कुमार इति यः श्रुतो वेदेषु वै पुरा
सो स्मि भार्गव भद्रं ते कं कामं करवाणि ते ॥

12.13

ये त्व् अन्ये ब्रह्मणः पुत्रा यवीयांसस् तु ते मम
भ्रातरः सप्त दुर्धर्षा येषां वंशाः प्रतिष्ठिताः ॥

12.14

क्रतुर् वसिष्ठः पुलहः पुलस्त्यो त्रिस् तथाङ्गिराः
मरीचिस् तु तथा विद्वान् देवगन्धर्वसेविताः ।
त्रींल् लोकाण् धारयन्तीमान् देवदानवपूजिताः ॥

12.15

वयं तु यतिधर्माण आरोप्यात्मानम् आत्मनि
प्रजाधर्मं च कामं च वर्तयामो महामुने ॥

12.16

यथोत्पन्नस् तथैवाहं कुमार इति विद्धि माम्
तस्मात् सनत्कुमारेति नामैतन् मे प्रतिष्ठितम् ॥

12.17

मद्भक्त्या ते तपश् चीर्णं मम दर्शनकाङ्क्षया
एष दृष्टो सि भवता कं कामं करवाणि ते ॥

12.18

इत्य् उक्तवन्तं तम् अहं प्रत्यवोचं सनातनम्
अनुज्ञातो भगवता प्रीयता तेन भारत ॥

12.19

ततो हम् अर्थम् एतं वै तम् अपृच्छं सनातनम्
पृष्टः पितॄणां सर्गं च फलं श्राद्धस्य चानघ
चिच्छेद संशयं भीष्म स तु देवेश्वरो मम ॥

12.20

स माम् उवाच प्रीतात्मा कथान्ते बहुवार्षिके
रमे त्वयाहं विप्रर्षे शृणु सर्वं यथातथम् ॥

12.21

देवान् असृजत ब्रह्मा मां यक्ष्यन्तीति भार्गव
तम् उत्सृज्य तदात्मानम् अयजंस् ते फलार्थिनः ॥

12.22

ते शप्ता ब्रह्मणा मूढा नष्टसंज्ञा विचेतसः
न स्म किंचित् प्रजानन्ति ततो लोको व्यमुह्यत ॥

12.23

ते भूयः प्रणताः सर्वे प्रायाचन्त पितामहम्
अनुग्रहाय लोकानां ततस् तान् अब्रवीत् प्रभुः ॥

12.24

प्रायश्चित्तं चरध्वं वै व्यभिचारो हि वः कृतः
पुत्रांश् च परिपृच्छध्वं ततो ज्ञानम् अवाप्स्यथ ॥

12.25

प्रायश्चित्तक्रियार्थं ते पुत्रान् पप्रच्छुर् आर्तवत्
तेभ्यस् ते प्रयतात्मानः शशंसुर् तनयास् तदा ॥

12.26

प्रायश्चित्तानि धर्मज्ञा वाङ्मनःकर्मजानि वै
शंसन्ति कुशला नित्यं चक्षुष्मन्तो हि तत्त्वतः ॥

12.27

प्रायश्चित्तार्थतत्त्वज्ञा लब्धसंज्ञा दिवौकसः
गम्यतां पुत्रकाश् चेति पुत्रैर् उक्ताश् च ते तदा ॥

12.28

अभिशप्तास् तु ते देवाः पुत्रवाक्येन तेन वै
पितामहम् उपागच्छन् संशयच्छेदनाय वै ॥

12.29

ततस् तान् अब्रवीद् देवो यूयं वै ब्रह्मवादिनः
तस्माद् यद् उक्ता यूयं तैस् तत् तथा न तद् अन्यथा ॥

12.30

यूयं शरीरकर्तारस् तेषां देवा भविष्यथ
ते तु ज्ञानप्रदातारः पितरो वो न संशयः ॥

12.31

अन्योन्यपितरो यूयं ते चैवेति निबोधत
देवाश् च पितरश् चैव तद् बुध्यध्वं दिवौकसः ॥

12.32

ततस् ते पुनर् आगम्य पुत्रान् ऊचुर् दिवौकसः
ब्रह्मणा छिन्नसंदेहाः प्रीतिमन्तः परस्परम् ॥

12.33

यूयं वै पितरो स्माकं यैर् वयं प्रतिबोधिताः
धर्मज्ञाः कश् च वः कामः को वरो वः प्रदीयताम्
यद् उक्तं चैव युष्माभिस् तत् तथा न तद् अन्यथा ॥

12.34

उक्ताश् च यस्माद् युष्माभिः पुत्रका इति वै वयम्
तस्माद् भवन्तः पितरो भविष्यन्ति न संशयः ॥

12.35

यो निष्ट्वा च पितॄन् श्राद्धैः क्रियाः काश्चित् करिष्यति
राक्षसा दानवा नागाः फलं प्राप्स्यन्ति तस्य तत् ॥

12.36

श्राद्धैर् आप्यायिताश् चैव पितरः सोमम् अव्ययम्
आप्याय्यमानं युष्माभिर् वर्धयिष्यन्ति नित्यदा ॥

12.37

श्राद्धैर् आप्यायितः सोमो लोकम् आप्याययिष्यति
समुद्रपर्वतवनं जंगमाजंगमैर् वृतम् ॥

12.38

श्राद्धानि पुष्टिकामाश् च ये करिष्यन्ति मानवाः
तेभ्यः पुष्टिं प्रजाश् चैव दास्यन्ति पितरः सदा ॥

12.39

श्राद्धे च ये प्रदास्यन्ति त्रीन् पिण्डान् नामगोत्रतः
सर्वत्र वर्तमानांस् तान् पितरः सपितामहाः
भावयिष्यन्ति सततं श्राद्धदानेन पूजिताः ॥

12.40

इति तद् वचनं सत्यं भवत्व् अद्य दिवौकसः
पुत्राश् च पितरश् चैव वयं सर्वे परस्परम् ॥

12.41

त एते पितरो देवा देवाश् च पितरस् तथा
अन्योन्यपितरो ह्य् एते देवाश् च पितरश् च ह ॥

मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc