हरिवंश · अध्याय 11
कथं वै श्राद्धदेवत्वम् आदित्यस्य विवस्वतः
श्रोतुम् इच्छामि विप्राग्र्य श्राद्धस्य च परं विधं
पितॄणाम् आदिसर्गं च क एते पितरः स्मृताः ॥
एवं च श्रुतम् अस्माभिः कथ्यमानं द्विजातिभिः
स्वर्गस्थाः पितरो न्ये स्म देवानाम् अपि देवताः
इति देवविदः प्राहुर् एतद् इच्छामि वेदितुं ॥
यावन्तश् च गणाः प्रोक्ता यच् च तेषां परं बलम्
यथा च कृतम् अस्माभिः श्राद्धं प्रीणाति वै पितॄन् ॥
प्रीताश् च पितरो येन श्रेयसा योजयन्ति हि
एतद् वै श्रोतुम् इच्छामि पितॄणां सर्गम् उत्तमम् ॥
हन्त ते कथयिष्यामि पितॄणां सर्गम् उत्तमम्
मार्कण्डेयेन कथितं भीष्माय परिपृच्छते ॥
अपृच्छद् धर्मराजो हि शरतल्पगतं पुरा
एवम् एव पुरा प्रश्नं यन् मां त्वं परिपृच्छसि ॥
तत् ते नुपूर्व्या वक्ष्यामि भीष्मेणोदाहृतं यथा
गीतं सनत्कुमारेण मार्कण्डेयाय पृच्छते ॥
पुष्टिकामेन धर्मज्ञ कथं पुष्टिर् अवाप्यते
एतद् आख्यातम् इच्छामि किं कुर्वाणो न शोचति ॥
श्राद्धैः प्रीणाति हि पितॄन् सर्वकामफलैस् तु यः
तत्परः प्रयतः श्राद्धी प्रेत्य चेह च मोदते ॥
पितरो धर्मकामस्य प्रजाकामस्य चाभिभो
पुष्टिकामस्य पुष्टिं च प्रयच्छन्ति युधिष्ठिर ॥
वर्तन्ते पितरः स्वर्गे केषांचिन् नरके पुनः
प्राणिनां नियतं ह्य् उक्तम् कर्मजं फलम् उच्यते ॥
श्राद्धानि चैव कुर्वन्ति फलकामा न संशयः
अभिसंधाय पितरं पितुष् च पितरं तथा
पितुः पितामहं चैव त्रिषु पिण्डेशु नित्यदा ॥
तानि श्राद्धानि दत्तानि कथं गच्छन्त्य् अथो पितॄन्
कथं च शक्तास् ते दातुं निरयस्थाः फलं पुनः
के वा ते पितरो न्ये स्म कान् यजामो वयं पुनः ॥
देवा अपि पितॄन् स्वर्गे यजन्तीति च नः श्रुतं
एतद् इच्छाम्य् अहं श्रोतुं विस्तरेण महाद्युते ॥
स भवान् कथयत्व् एनां कथाम् अमितबुद्धिमान्
यथा दत्तं पितॄणां वै तारणायेह कल्पते ॥
अत्र ते वर्तयिष्यामि यथातत्त्वम् अरिंदम
ये च ते पितरो न्ये स्म यान् यजामो वयं पुनः ।
पित्रा मम पुरा गीतं लोकान्तरगतेन वै ॥
श्राद्धकाले मम पितुर् मया पिण्डः समुद्यतः
तं पिता मम हस्तेन भित्त्वा भूमिम् अयाचत ॥
हस्ताभरणपूर्णेन केयूरभरितेन च
रक्ताङ्गुलितलेनाथ यथा दृष्टः पुरा मया ॥
नैष कल्पविधिर् दृष्ट इति निश्चित्य चाप्य् अहम्
कुशेष्व् एव तदा पिण्डं दत्तवान् अविचारयन् ॥
ततः पिता मे सुप्रीतो वाचा मधुरया तदा
उवाच भरतश्रेष्ठ प्रीयमाणो मयानघ ॥
त्वया दायादवान् अस्मि कृतार्थो मुत्र चेह च
सत्पुत्रेण त्वया पुत्र धर्मज्ञेन विपश्चिता ॥
मया च तव जिज्ञासा प्रयुक्तैषा दृढव्रत
व्यवस्थानं च धर्मेषु कर्तुं लोकस्य चानघ ॥
प्रमाणं यद् धि कुरुते धर्माचारेषु पार्थिवः
प्रजास् तद् अनुवर्तन्ते प्रमाणाचरितं सदा ॥
त्वया च भरतश्रेष्ठ वेदधर्माश् च शाश्वताः
कृताः प्रमाणं प्रीतिश् च मम निर्वर्तितातुला ॥
तस्मात् तवाहं सुप्रीतः प्रीत्या वरम् अनुत्तमम्
ददानि त्वं प्रतीच्छस्व त्रिषु लोकेषु दुर्लभम् ॥
न ते प्रभविता मृत्युर् यावज् जीवितुम् इच्छसि
त्वत्तो भ्यनुज्ञां संप्राप्य मृत्युः प्रभविता तव ॥
किं वा ते प्रार्थितं भूयो ददानि वरम् उत्तमम्
तद् ब्रूहि भरतश्रेष्ठ यत् ते मनसि वर्तते ॥
इत्य् उक्तवन्तं तम् अहम् अभिवाद्य कृताञ्जलिः
अब्रुवं कृतकृत्यो हं प्रसन्ने त्वयि सत्तम ॥
यदि त्व् अनुग्रहं भूयस् त्वत्तो र्हामि महाद्युते
प्रश्नम् इच्छाम्य् अहं किंचिद् व्याहृतं भवता स्वयम् ॥
स माम् उवाच धर्मात्मा ब्रूहि भीष्म यद् इच्छसि
छेत्तास्मि संशयं तात यन् मां पृच्छसि भारत ॥
अपृच्छं तम् अहं तात तत्रान्तर्हितम् एव च
गतं सुकृतिनां लोकं जातकौतूहलस् तदा ॥
श्रूयन्ते पितरो देवा देवानाम् अपि देवताः
ते वाथ पितरो न्ये वा कान् यजामो वयं पुनः ॥
कथं च दत्तम् अस्माभिः श्राद्धं प्रीणाति वै पितॄन्
लोकान्तरगतांस् तात किं नु श्राद्धस्य वै फलम् ॥
अत्र मे संशयस् तीव्रः कौतूहलम् अतीव च
तद् ब्रूहि मम धर्मज्ञ सर्वज्ञो ह्य् असि मे मतः ॥
संक्षेपेणैव ते वक्ष्ये यन् मां पृच्छसि भारत
पितॄणां कारणं श्राद्धे फलं दत्तस्य चानघ
पितरश् च यथोद्भूताः शृणु सर्वं समाहितः ॥
आदिदेवसुतास् तात पितरो दिवि देवताः
तान् यजन्ति स्म लोका वै सदेवनरदानवाः
सयक्षरक्षोगन्धर्वाः सकिंनरमहोरगाः ॥
आप्यायिताश् च ते श्राद्धैः पुनर् आप्याययन्ति वै
जगत् सदेवगन्धर्वम् इति ब्रह्मानुशासनम् ॥
तान् यजस्व महाभागाञ् श्राद्धी श्राद्धैर् अतन्द्रितः
ते ते श्रेयो विधास्यन्ति सर्वकामफलप्रदाः ॥
त्वयैवाराध्यमानास् ते नामगोत्रादिकीर्तनैः
अस्मान् आप्याययिष्यन्ति स्वर्गस्थान् अपि भारत ॥
मार्कण्डेयस् तु ते शेषम् एतत् सर्वं वदिष्यति
एष वै पितृभक्तश् च विदितात्मा च भार्गवः ॥
उपस्थितश् च श्राद्धे द्य ममैवानुग्रहाय वै
एनं पृच्छ महाभागम् इत्य् उक्त्वान्तरधीयत ॥
मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0