हरिवंश · अध्याय 117
एषं विलुलिते लोके मनुष्याः केन पालिताः
निवत्स्यन्ति किमाचाराः किमाहारविहारिणः ॥
किंकर्माणः किमीहन्तः किंप्रमाणाः किमायुषः
कां च काष्ठां समासाद्य प्रपत्स्यन्ति कृतं युगम् ॥
अत ऊर्ध्वं च्युते धर्मे गुणहीनाः प्रजास् ततः
शीलव्यसनम् आसाद्य प्राप्स्यन्ते ह्रासम् आयुषः ॥
आयुर्हार्न्या बलग्लानिर् बलग्लान्या विवर्णता
वैवर्ण्याद् व्याधिसंपीडा निर्वेदो व्याधिपीडनात् ॥
निर्वेदाद् आत्मसंबोधः संबोधाद् धर्मशीलता
एवं गत्वा परां काष्ठां प्रपत्स्यन्ति कृतं युगम् ॥
उद्देशतो धर्मशीलाः केचिन् मध्यस्थतां गताः
विमर्शशीलाः केचित् तु हेतुवादकुतूहलाः ॥
प्रत्यक्षम् अनुमानं च प्रमाणम् इति निश्चिताः
प्रमाणं किं करिष्यति नेति पण्डितमानिनः
अप्रमाणं करिष्यन्ति वेदोक्तम् अपरे जनाः ॥
नास्तिक्यपरमाश् चापि केचिद् धर्मविलोपकाः
भविष्यन्ति नरा मूढा मन्दाः पण्डितमानिनः ॥
तदात्वमात्रश्रद्धेयाः शास्त्रज्ञानविमूर्छिताः
दाम्भिकास् ते भविष्यन्ति वादशीलपरायणाः ॥
तदा विचलिते धर्मे जनाः शेषपुरस्कृताः
शुभान्य् एवाचरिष्यन्ति दानसत्यसमन्विताः ॥
सर्वभक्षो ह्य् असंगुप्तो निर्गुणो निरपत्रपः
भविष्यति तदा लोकस् तत् कषायस्य लक्षणम् ॥
विप्राणां शाश्वतीं वृत्तिं यदा वर्णावरो जनः
अभिपत्स्यति वृत्त्यर्थं तत् कषायस्य लक्षणम् ॥
कषायोपप्लवे काले ज्ञानविद्याप्रणाशने
सिद्धिम् अल्पेन कालेन यास्यन्ति निरुपस्कृताः ॥
महायुद्धं महानादं महावर्षं महाभयम्
भविष्यति युगे क्षीणे तत् कषायस्य लक्षणम् ॥
विप्ररूपाणि रक्षांसि राजानः कर्णवेदिनः
चरिष्यन्ति वसुंधरां ।
प्रनष्टवर्णधर्माश् च ।
पृथिवीम् उपभोक्ष्यन्ति युगान्ते प्रत्युपस्थिते ॥
निःस्वाध्यायवषट्कारा मुनयश् चाभिमानिनः
क्रव्यादा ब्रह्मरूपेण सर्वभक्षा वृथाव्रताः ॥
मूर्खाः स्वार्थपरा लुब्धाः क्षुद्राः क्षुद्रपरिच्छदाः
व्यवाहारोपवृत्ताश् च च्युता धर्माच् च शाश्वतात् ॥
हर्तारः पररत्नानां परदारप्रधर्षकाः
कामात्मानो दुरात्मानः सोपधाः प्रियसाहसाः ॥
तेषु प्रभवमानेषु तुल्यशीलेषु सर्वतः
अभाविनो भविष्यन्ति मुनयो बहुरूपिणः ॥
उत्पन्ना ये कृतयुगे प्रधानपुरुषाश्रयाः
कथायोगेन तान् सर्वान् पूजयिष्यन्ति मानवाः ॥
सस्यचोरा भविष्यन्ति तथा चैलापहारिणः
भक्ष्यभोज्यहराश् चैव भाण्डानां चैव हारिणः ॥
चोराश् चोरस्य हर्तारो हन्ता हर्तुर् भविष्यति
चोराश् चोरक्षये चापि कृते क्षेमं भविष्यति ॥
निःसारे क्षुभिते लोके निष्क्रिये व्यन्तरे स्थिते
नराः श्रयिष्यन्ति वनं करभारप्रपीडिताः ॥
यज्ञकर्मण्य् उपरते रक्षांसि श्वापदानि च
कोटिमूषकसर्पाश् च धर्षयिष्यन्ति मानवान् ॥
क्षेमं सुभिक्षम् आरोग्यं सामग्र्यम् अथ बन्धुभिः
उद्देशेन नरश्रेष्ठ भविष्यन्ति युगक्षये ॥
स्वयंपालाः स्वयंचोरा युगसंभारसंभृताः
मण्डलैः प्रभविष्यन्ति देशे देशे पृथक् पृथक् ॥
स्वदेशेभ्यः परिभ्रष्टा निःसाराः सह बन्धुभिः
नरास् तदा भविष्यन्ति सर्वे कालप्रतीक्षिणः ॥
तदा स्कन्धे समादाय कुमारान् प्रद्रुता भयात्
कौशिकीं संश्रयिष्यन्ति नराः क्षुद्भयपीडिताः ॥
अङ्गान् वङ्गान् कलिङ्गांश् च काश्मीरान् अथ मेकलान्
ऋषिकान्तगिरिद्रोणीः संश्रयिष्यन्ति मानवाः ॥
कृत्स्नं च हिमवत्पार्श्वं कूलं च लवणाम्भसः
अरण्यानि च वत्स्यन्ति नरा म्लेच्छगणैः सह ॥
नैव शून्या न चाशून्या भविष्यति वसुंधरा
गोप्तारश् चाप्य् अगोप्तारः प्रभविष्यन्ति शासिनः ॥
मृगैर् मत्स्यैर् विहंगैश् च श्वापदैः सर्वकीटकैः
मृगमत्स्यविहंगैश् च कीटश्वापदवंगमैः (?) ।
मधुशाकफलैर् मूलैर् वर्तयिष्यन्ति मानवाः ॥
चीरं पर्णं च विविधं वल्कलान्य् अजिनानि च
स्वयं कृत्वा निवत्स्यन्ति यथा मुनिजनास् तथा ॥
बीजानाम् आकृतिं निम्नेष्व् ईहन्ते काष्ठशङ्कुभिः
अजैडकं खरोष्ट्रं च पालयिष्यन्ति यत्नतः ॥
नदीस्रोतांसि रोत्स्यन्ति तोयार्थं कूलम् आश्रिताः
पक्वान्नव्यवहारेण विपणन्तः परस्परम् ॥
तनूरुहैर् यथाजातैः समलान्तरसंवृतैः
बह्वपत्याः प्रजाहीनाः क्रूरा लक्षणवर्जिताः ॥
एवं भविष्यन्ति तदा मनुष्याः कालकारिताः
हीनाद्द् हीनं तदा धर्मं प्रजा समनुवर्त्स्यति ॥
आयुस् तत्र च मर्त्यानां परं त्रिंशद् भविष्यति
दुर्बला विषयग्लाना रजसा समभिप्लुताः ॥
भविष्यति तदा तेषां रोगैर् इन्द्रियसंक्षयः
आयुःप्रक्षयसंरोधाद्द् हिंसा चोपरमिष्यति ॥
शुश्रूषवो भविष्यन्ति साधूनां दर्शने रताः
सत्यं चापि प्रपत्स्यन्ति व्यवहारापशङ्कया ॥
भविष्यन्ति च कामानाम् अलाभाद् धर्मशीलिनः
करिष्यन्ति च संकोचं स्वपक्षक्षयपीडिताः ॥
एवं शुश्रूषवो दाने सत्ये प्राणाभिरक्षणे
चतुष्पादप्रवृत्तं च धर्मम् आप्स्यन्ति मानवाः ॥
तेसां धर्माभिमानानां गुणेषु परिवर्तताम्
स्वादु किं न्व् इति विज्ञाय धर्म एव स्वदिष्यति ॥
यथा हानिः क्रमप्राप्ता तथा वृद्धिः क्रमागता
यदा हानिर् भविष्यति कलेः सर्वाणि भूपते ।
प्रगृहीते ततो धर्मे प्रपत्स्यन्ति कृतं पुनः ॥
साधुवृत्तिः कृतयुगे कषाये हानिर् उच्यते
एक एव तु कालः स हीनवर्णो यथा शशी ॥
छन्नो हि तमसा सोमो यथा कलियुगे तथा
पूर्णश् च तपसा हीनो यथा कलियुगे तथा ॥
अर्थवादपरो धर्मो वेदार्थ इति तु विदुः
अनिर्णिक्तम् अविज्ञातं दायाद्यम् इव धार्यते ॥
इष्टं दानं तपो नाम ब्रह्मचर्यं सुपूजितम्
गुणैः कर्माभिनिर्वृत्तिर् गुणास् तथ्येन कर्मणा ॥
आशीस् तु पुरुषं दृष्ट्वा देशकालानुवर्तिनी
युगे युगे यथाकालम् ऋषिभिः समुदाहृता ॥
इह धर्मार्थकामानां वेदानां च प्रतिक्रिया
आशिषश् च शुभाः पुण्यास् तथैवायुर् युगे युगे ॥
यथा युगानां परिवर्तनानि चिरप्रवृत्तानि विधिस्वभावात्
क्षणं न संतिष्ठति जीवलोकः क्षयोदयाभ्यां परिवर्तमानः ॥
मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0