भाषा

ENहिગુ
ग्रंथ पाठ

हरिवंश · अध्याय 118

118.1

इत्य् एवम् आश्वासयतो राजानं जनमेजयम्
अतीतानागतं वाक्यम् ऋषेः परिषदा श्रुतम् ॥

118.2

अमृतस्येव चास्वादः प्रभा चन्द्रमसो यथा
अतर्पयत तच् छोत्रं महर्षेर् वाङ्मयो रसः ॥

118.3

धर्मार्थकामसंयुक्तं करुणं वीरहर्षणम्
रमणीयं तद् आख्यानं कृत्स्नं परिषदा श्रुतम् ॥

118.4

केचिद् अश्रूणि मुमुचुः श्रुत्वा दध्युस् तथापरे
इतिहासं तम् ऋषिणा पाराशर्येण दर्शितम् ॥

118.5

सदस्यान्तो ऽभ्यनुज्ञाय कृत्वा चापि प्रदक्षिणम्
पुनर् द्रक्ष्याम इत्य् उक्त्वा जगाम भगवान् ऋषिः ॥

118.6

अनुजग्मुस् ततः सर्वे प्रयान्तम् ऋषिसत्तमम्
लोके प्रवदतां श्रेष्ठं शिष्टाः सर्वे तपोधनाः ॥

118.7

याते भगवति व्यासे विप्राः सह महर्षिभिः
ऋत्विजः पार्थिवाश् चैव प्रतिजग्मुर् यथागतम् ॥

118.8

पन्नगानां सुघोराणां कृत्वा तां वैरयातनाम्
जगाम रोषम् उत्सृत्य राजा विषम् इवोरगः ॥

118.9

होत्राग्निदीप्तशिरसं परित्राय च तक्षकम्
आस्तीको ऽप्य् आश्रमपदं जगाम च महामुनिः ॥

118.10

राजापि हास्तिनपुरं प्रविवेश जनावृतः
अन्वशासच् च मुदितस् तदा प्रमुदिताः प्रजाः ॥

118.11

कस्यचित् त्व् अथ कालस्य स राजा जनमेजयः
दीक्षितो वाजिमेधाय विधिवद् भूरिदक्षिणः ॥

118.12

संज्ञप्तम् अश्वं तत्रास्य देवी काश्या वपुष्टमा
संविवेशोपगम्याथ विधिदृष्टेन कर्मणा ॥

118.13

तां तु सर्वानवद्याङ्गीं चकमे वासवस् तदा
संज्ञप्तम् अश्वं आविश्य तया मिश्रीबभूव सः ॥

118.14

तस्मिन् विकारे जनिते विदित्वा तत्त्वतश् च तत्
असंज्ञप्तो ऽयम् अश्वस् ते ध्वंसेत्य् अध्वर्युम् अब्रवीत् ॥

118.15

अध्वर्युर् ज्ञानसंपन्नस् तदिन्द्रस्य विचेष्टितम्
कथयामास राजर्षेः शशाप स पुरंदरम् ॥

118.16

यद्य् अस्ति मे यज्ञफलं तपो वा रक्षतः प्रजाः
फलेन तेन सर्वेण ब्रवीमि श्रूयताम् इदम् ॥

118.17

अद्यप्रभृति देवेन्द्रम् अजितेन्द्रियम् अस्थिरम्
क्षत्रिया वाजिमेधेन न यक्ष्यन्तीति शौनक ॥

118.18

ऋत्विजश् चाब्रवीत् क्रुद्धः स राजा जनमेजयः
दौर्बल्यं भवताम् एतद् यद् अयं धर्षितः क्रतुः ॥

118.19

विषये मे न वस्तव्यं ध्वंसध्वं सह बान्धवैः
इत्य् उक्तास् तत्यजुर् विप्रास् तं नृपं जातमन्यवः ॥

118.20

अमर्षाद् अन्वशासच् च पत्नीशालागताः स्त्रियः
राजा परमधर्मज्ञस् तदासौ जनमेजयः ।
असतीं वपुष्टमाम् एतां निर्वासयत मे गृहात्
यया मे चरणो मूर्ध्नि भस्मरेणूषितः कृतः ॥

118.21

शौण्डीर्यं मे ऽनया भग्नं यशो मानश् च दूषितः
नैनां द्रष्टुम् अपीच्छामि परिक्लिष्टाम् इव स्रजम् ॥

118.22

न स्वादु सो ऽश्नाति नरः सुखं स्वपिति वा रहः
अन्वास्ते यः प्रियां भार्यां परेण मृदिताम् इह ॥

118.23

एवम् उच्चैः प्रभाषन्तं क्रुद्धं पारिक्षितं नृपम्
गन्धर्वराजः प्रोवाच विश्वावसुर् इदं वाचः ॥

118.24

त्रियज्ञशतयज्वानं वासवस् त्वां न मृष्यति
न दुष्यतीयं पत्नी ते विहितेयं वपुष्टमा ॥

118.25

रम्भा नामाप्सरा देवी काशिराजसुता मता
सैषा योषिद्वरा राजन् रत्नभूतानुभूयताम् ॥

118.26

यज्ञे विवरम् आसाद्य विघ्नम् इन्द्रेण ते कृतम्
यज्वा ह्य् असि कुरुश्रेष्ठ समृद्ध्या वासवोपमः ॥

118.27

बिभेत्य् अभिभवाच् छक्रस् तव क्रतुफलैर् नृप
तस्माद् आवर्तितश् चैव क्रतुर् इन्द्रेण ते विभो ॥

118.28

मायैषा वासवेनेह प्रयुक्ता विघ्नम् इच्छता
यज्ञे विवरम् आसाद्य संज्ञप्तं दृश्य वाजिनम्
रतिम् इन्द्रेण रम्भायां मन्यसे यां वपुष्टमाम् ॥

118.29

अथ ते गुरवः शप्तास् त्रियज्ञशतयाजिनः
भ्रंशितस् त्वं च विप्राश् च फलाद् इन्द्रसमाद् इह
त्वत्तश् चैव सुदुर्धर्षात् त्रियज्ञशतयाजिनः ॥

118.30

बिभेति हि सदा त्वत्तो ब्राह्मणेभ्यो ऽपि वासवः
एकेन वै तद् उभयं तीर्णं शक्रेण मायया ॥

118.31

स एष सुमहातेजा विजिगीषुः पुरंदरः
कथम् अन्यैर् अनाचीर्णं नप्तुर् दारान् अतिक्रमेत् ॥

118.32

यथैव हि परा बुद्धिः परो धर्मः परो दमः
यथैव परमैश्वर्यं कीर्तिश् च हरिवाहने
तथैव तव दुर्धर्ष त्रियज्ञशतयाजिनः ॥

118.33

मा वासवं मा च गुरुम् आत्माणं मा वपुष्तमाम्
गच्छ दोषेण कालो हि सर्वथा दुरतिक्रमः ॥

118.34

ऐश्वर्येणाश्वम् आविश्य देवेन्द्रेणाभिरोषितः
आनुकूल्येन देवस्य वर्तितव्यं सुखार्थिना ॥

118.35

दुस्तरं प्रतिकूलं हि प्रतिस्रोत इवाम्भसः
स्त्रीरत्नम् उपभुङ्क्ष्वेमाम् अपापां विगतज्वरः ॥

118.36

अपापास् त्यज्यमाना वै शपेयुर् अपि योषितः
अदुष्टास् तु स्त्रियो राजन् दिव्यास् तु सविशेषतः ॥

118.37

भानोः प्रभा शिखा वह्नेर् वेदीहोत्रे तथाहुतिः
परामृष्टाप्य् असंरक्ता नोपदुष्यन्ति योषितः ॥

118.38

ग्राह्या लालयितव्याश् च पूज्याश् च सततं बुधैः
शीलवत्यो नमस्कार्याः पूज्याः स्त्रिय इव स्त्रियः ॥

118.39

एवं स विश्वावसुनानुनीतः प्रसादम् आगम्य वपुष्टमायाम्
चकार मिथ्याव्यतिशङ्कितात्मा शान्तिं परां तत्र स धर्मजुष्टाम् ॥

118.40

श्रमम् अभिविनिवर्त्य मानसं स समभिलषज्जनमेजयो यशः स्वम्
विषयम् अनुशशास धर्मबुद्धिर् मुदितमना रमयन् वपुष्टमां ताम् ॥

118.41

न च विरमति विप्रपूजनान् न च विनिवर्तति यज्ञशीलनात्
न च विषयपरिरक्षणाच् च्युतो ऽसौ न च परिगर्हति वपुष्टमां च ॥

118.42

विधिविहितम् अशक्यम् अन्यथा हि कर्तुम् यद् ऋषिर् अचिन्त्यतपाः पुराब्रवीत् सः
न च तद् अशक्यम् अन्यथा हि कर्तुम् ।
इति नरपतिर् आत्मवांस् तदासौ तद् अनुविचिन्त्य बभूव वीतमन्युः ॥

118.43

इदं महाकाव्यम् ऋषेर् महात्मनः पठन् नृणां पूज्यतमो भवेन् नरः
प्रकृष्टम् आयुः समवाप्य दुर्लभं लभेत सर्वज्ञफलं च केवलम् ॥

118.44

शतक्रतोः कल्मषविप्रमोक्षणं पठन् इदम् मुच्यति कल्मषान् नरः
तथैव कामान् विविधान् समश्नुते समाप्तकामश् च चिराय नन्दति ॥

118.45

यथा हि पुष्पप्रभवं फलं द्रुमात् ततः प्रजायन्ति पुनश् च पादपाः
तथा महर्षिप्रभवा इमा गिरः प्रवर्धयन्ते तम् ऋषिं प्रवर्तिताः ॥

118.46

पुत्रान् अपुत्रो लभते सुवर्चसश् च्युतः पुनर् विन्दति चात्मनः स्थितिम्
व्याधिं न चाप्नोति चिरं च बन्धनं क्रियां च पुण्यां लभते गुणान्वितः ॥

118.47

पतिम् उपलभते च सत्सु कन्या श्रवणम् उपेत्य शुभा मुनेस् तु वाचः
जनयति च सुतान् गुणैर् उपेतान् रिपुजनमर्दनवीर्यशालिनश् च ॥

118.48

विजयति वसुधां च क्षत्रवृत्तिर् धनम् अतुलं लभते द्विषज्जयं च
विपुलम् अपि धनं लभेच् च वैश्यः सुगतिम् इयाच् छ्रवणाच् च शूद्रजातिः ॥

118.49

पुराणम् एतच् चरितं महात्मनाम् अधीत्य बुद्धिं लभते च नैष्ठिकीम्
विहाय दुःखानि विमुक्तसङ्गः स वीतरागो विचरेद् वसुंधराम् ॥

118.50

इत्य् एतद् आख्यानम् उदाहृतं वः प्रतिस्मरन्तो द्विजमण्डलेषु
स्थैर्येण जातेन पुनः स्मरन्तः सुखं भवन्तो विचरन्तु लोकम् ॥

118.51

इति चरितम् इदं महात्मनाम् ऋषिकृतम् अद्भुतवीर्यकर्मणाम्
कथितम् इदं हि समासविस्तरैः किम् अपरम् इच्छसि किं ब्रवीमि ते ॥

मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc