हरिवंश · अध्याय 116
आसन्नं विप्रकृष्टं वा यदि कालं न विद्महे
तस्माद् द्वापरविध्वंसाद् युगान्तं स्पृहयाम्य् अहम् ॥
प्राप्ता वयं हि तं कालम् अनया धर्मतृष्णया
प्राप्ता वयं च धर्मं स्वं सुखम् अल्पेन कर्मणा ॥
प्रजासमुद्वेगकरं युगान्तं समुपस्थितम्
तस्मात् समुद्वेगकरे युगान्ते प्रत्युपस्थिते ।
प्रनष्टधर्मं धर्मज्ञ निमित्तैर् वक्तुम् अर्हसि ॥
पृष्ट एवं भविष्यस्य गतिं तत्त्वेन चिन्तयन्
एवं भविष्ये तु गतिं योगेनैव विचिन्तयन् ।
युगान्ते पूर्वरूपाणि भगवान् अब्रवीत् तदा ॥
अरक्षितारो हर्तारो बलिभागस्य पार्थिवाः
युगान्ते प्रभविष्यन्ति स्वरक्षणपरायणाः ॥
अक्षत्रियाश् च राजानो विप्राः शूद्रोपजीविनः
शूद्राश् च ब्राह्मणाचारा भविष्यन्ति युगक्षये ॥
काण्डपृष्ठाः श्रोत्रियाश् च हवींषि भरतर्षभ
एकपङ्क्त्याम् अशिष्यन्ति युगान्ते जनमेजय ॥
शिल्पवन्तो ऽनृतपराः नरा मद्यामिषप्रियाः
परं धर्मं हनिष्यन्ति मनुष्या मन्दबुद्धयः ।
भार्यामित्रा भविष्यन्ति युगान्ते जनमेजय ॥
राजवृत्ते स्थिताश् चोरा राकानश् चोरशीलिनः
भृत्या अनिर्विष्टभुजो भविष्यन्ति युगक्षये ॥
धनानि श्लाघनीयानि सतां वृत्तम् अपूजितम्
नार्यश् चापि करिष्यन्ति कृषिम् एव कलौ युगे ।
अकुत्सना च पतिते भविष्यति युगक्षये ॥
प्रनष्टचेतना मर्त्या मुक्तकेशा विचूलिनः
उनषोडशवर्षाश् च प्रजास्यन्ति नरास् तदा ॥
अट्टशूला जनपदाः शिवशूलाश् चतुष्पथाः
प्रमदाः केशशूलाश् च भविष्यन्ति युगक्षये ॥
सर्वे ब्रह्म वदिष्यन्ति सर्वे वाजसनेयिनः
शूद्रा भोवादिनश् चैव भविष्यन्ति युगक्षये ॥
तपोयज्ञार्थवेदानां विक्रेतारो द्विजातयः
ऋतवश् च भविष्यन्ति विपरीता युगक्षये ॥
शुक्लदन्ताजिताक्षाश् च मुण्डाः काषायवाससः
शूद्रा धर्मं चरिष्यन्ति शाक्यबुद्धोपजीविनः ॥
श्वापदप्रचुरत्वं च गवां चैव परिक्षयः
स्वादूनां विनिवृत्तिश् च विद्याद् अन्तगते युगे ॥
अन्त्या मध्ये निवत्स्यन्ति मध्याश् चान्तावसायिनः
यथानिम्नं प्रजाः सर्वा गमिष्यन्ति युगक्षये ॥
तथा द्विहायना दम्यास् तथा पल्वलकर्षकाः
चित्रवर्षी च पर्जन्यो युगे क्षीणे भविष्यति ॥
न ते धर्मं चरिष्यन्ति मानवा निर्गते युगे
ऊषराबहुला भूमिः पन्थानो नगरान्तरा
सर्वे वाणिजकाश् चैव भविष्यन्ति कलौ युगे ॥
पितृकृत्यानि देयानि विधमन्तः सुतास् तदा
हरणाय प्रपत्स्यन्ते लोभानृतविरोधिताः ॥
सौकुमार्ये तथा रूपे रत्ने चोपक्षयं गते
भविष्यन्ति युगस्यान्ते नार्यः केशैर् अलंकृताः ॥
निर्विहारस्य भीतस्य गृहस्थस्य भविष्यति
युगान्ते समनुप्राप्ते नान्या भार्यासमा रतिः ॥
कुशीलानार्यभूयिष्ठं वृथारूपसमावृतम्
पुरुषाल्पं बहुस्त्रीकं तद् युगान्तस्य लक्षणम् ॥
बहुयाचनका लोका दास्यन्ते च परस्परम्
अविचार्य ग्रहीष्यन्ति दानं वर्णान्तरात् तथा ।
राजचोरादिदण्डार्तो जनः क्षयम् उपैष्यति ॥
सस्यनिष्पत्तिर् अफला तरुणा वृद्धशीलिनः
ईहयासुखिनो लोका भविष्यन्ति गते युगे ॥
वर्षासु वाताः पुरुषा नीचाः शर्करवर्षिणः
संदिग्धः परलोकश् च भविष्यति युगक्षये ॥
वैश्याचाराश् च राजन्या धनधान्योपजीविनः
युगापक्रमणे पूर्वं भविष्यन्ति द्विजातयः ॥
अप्रवृत्ताः प्रपत्स्यन्ते समयाः शपथास् तथा
ऋणं च विनयभ्रंशो युगे क्षीणे भविष्यति ॥
भविष्यत्य् अफलो हर्षः क्रोधश् च सफलो नृणाम्
अजाश् चैवोपयोक्ष्यन्ते पयसो ऽर्थे युगक्षये ॥
अशास्त्रविहिता प्रज्ञा एवम् एव भविष्यति
अशास्त्रविदुषां पुंसाम् एवम् एव स्वभावतः ।
अप्रमाणं करिष्यन्ति नीतिं पण्डितमानिनः ।
शास्त्रोक्तस्याप्रवक्तारो भविष्यन्ति युगक्षये ॥
सर्वः सर्वं विजानाति वृद्धान् अनुपसेव्य च
न कश्चिद् अकविर् नाम युगान्ते प्रत्युपस्थिते ॥
न क्षत्राणि नियोक्ष्यन्ति विकर्मस्था द्विजातयः
चोरप्रायाश् च राजानो युगान्ते प्रत्युपस्थिते ॥
कुण्डा वृषा नैकृतिकाः सुरापा ब्रह्मवादिनः
अश्वमेधेन यक्ष्यन्ति युगान्ते जनमेजय ॥
अयाज्यान् याजयिष्यन्ति तथाभक्ष्यस्य भक्षिणः
ब्राह्मणा धनतृष्णार्ता युगान्ते समुपस्थिते ॥
भोगार्थम् अभिपत्स्यन्ते न च कश्चित् पठिष्यति
एकशङ्खास् तथा नार्यो गवेधुकपिनद्धकाः ॥
नक्षत्राणि विहीनानि विपरीता दिशस् तथा
संध्यारागो ऽथ दिग्दाहो भविष्यत्य् अपरे युगे ॥
पितॄन् पुत्रा नियोक्ष्यन्ति वध्वः श्वश्रूश् च कर्मसु
वाक्शरैस् तर्जयिष्यन्ति गुरूञ् शिष्यास् तथैव च ।
मुखेषु च प्रयोक्ष्यन्ति प्रमत्ताश् च नरास् तदा ।
वियोनिषु चरिष्यन्ति प्रमदासु नरास् तदा ॥
अकृताग्राणि भोक्ष्यन्ति नराश् चैवाग्निहोत्रिणः
भिक्षां बलिम् अदत्त्वा च भोक्ष्यन्ति पुरुषाः स्वयम् ॥
पतीन् सुप्तान् वञ्चयित्वा गमिष्यन्ति स्त्रियो अण्यतः
पुरुषाश् च प्रसुप्तासु भार्यासु च परस्त्रियम् ॥
नाव्यधितो नाप्य् अरुजो जनः सर्वो ऽभ्यसूयकः
न कृतप्रतिकर्ता च काले क्षीणे भविष्यति ॥
मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0