हरिवंश · अध्याय 115
उक्तो ऽयं हरिवंशस् ते पर्वाणि निखिलानि च
यथा पुरोक्तानि तथा व्यासशिष्येण धीमता ॥
तत् कथ्यमानम् अमृतम् इतिहाससमन्वितम्
प्रीणात्य् अस्मान् अमृतवत् सर्वपापप्रणाशनम् ॥
जनमेजयस् तु नृपतिः श्रुत्वाख्यानम् अनुत्तमम्
सौते किम् अकरोत् पश्चात् सर्पसत्राद् अनन्तरम् ॥
जनमेजयस् तु नृपतिः श्रुत्वाख्यानम् अनुत्तमम्
यद् आरभत् तद् आख्यास्ये सर्पसत्राद् अनन्तरम् ॥
तस्मिन् सत्रे समाप्ते तु राजा पारिक्षितस् तदा
यष्टुं स वाजिमेधेन संभारान् उपचक्रमे ॥
ऋत्विक्पुरोहिताचार्यान् आहूयेदम् उवाच ह
यक्ष्ये ऽहं वाजिमेधेन हय उत्सृज्यताम् इति ॥
ततो ऽस्य विज्ञाय चिकीर्षितं तदा कृष्णो महात्मा सहसाजगाम
पारिक्षितं द्रष्टुम् अदीनसत्त्वम् द्वैपायनः सर्वपरावरज्ञः ॥
पारिक्षितस् तु नृपतिर् दृष्ट्वा तम् ऋषिम् आगतम्
अर्घ्यपाद्यासनं दत्त्वा पूजयामास शास्त्रतः ॥
तौ चोपविष्टाव् अभितः सदस्यास् तस्य शौनक
ततस् तेषूपविष्टेषु सदस्यैः सह शौनक ।
कथा बहुविधाश् चित्राश् चक्राते वेदसंहिताः ॥
ततः कथान्ते नृपतिश् चोदयामास तं मुनिम्
पितामहं पाण्डवानां आत्मनः प्रपितामहम् ॥
महाभारतम् आख्यानं बह्वर्थं बहुविस्तरम्
निमेषमात्रम् इव मे सुखश्रव्यतया गतम् ॥
विभूतिविस्तरकथं सर्वेषां वै यशस्करम्
त्वया त्व् अभिहितं ब्रह्मञ् शङ्खे क्षीरम् इवाहितम् ॥
नामृतेनापि तृप्तिः स्याद् यथा स्वर्गसुखेन वा
तथा तृप्तिं न गच्छामि श्रुत्वेमां भारतीं कथाम् ॥
अनुमान्य तु सर्वज्ञं पृच्छामि भगवन्न् अहम्
हेतुः कुरूणां नाशस्य राजसूयो मतो मम ॥
दुःसहानां यथा ध्वंसो राजन्यानाम् उपप्लवः
राजसूयं तथा मन्ये युद्धार्थम् उपकल्पितम् ॥
राजसूयो हि सोमेन श्रूयते पूर्वम् आहृतः
तस्यान्ते सुमहद्युद्धम् अभवत् तारकामयम् ॥
आहृतो वरुणेनापि तस्यान्ते सुमहाक्रतोः
देवासुरम् अभूद् युद्धं सर्वभूतक्षयावहम् ॥
हरिश्चन्द्रस् तु राजर्षिर् एतं क्रतुम् अवाप्तवान्
तत्राप्य् आडीबकम् अभूद् युद्धं क्षत्रविनाशनम् ॥
ततो ऽनन्तरम् आर्येण पाण्डवेनापि दुस्तरः
महाभारतसंहारः संभृतो ऽग्निर् इव क्रतुः ॥
तस्य मूलं हि युद्धस्य लोकक्षयकरस्य ह
राजसूयो महायज्ञः किमर्थं न निवारितः ॥
राजसूये ह्य् असंहार्ये यज्ञाङ्गैश् च दुरासदैः
मिथ्याप्रणीते यज्ञाङ्गे प्रजानां संक्षयो ध्रुवः ॥
भवान् अपि च सर्वेषां पूर्वेषां नः पितामहः
अतीतानागतज्ञश् च नाथश् चादिकरश् च नः ॥
ते कथं भगवन् नेत्रा बुद्धिमन्तश् च्युता नयात्
अनाथा ह्य् अपराध्यन्ते कुनेतारश् च मानवाः ॥
कालेनाद्य परीतास् ते तव वत्स पितामहाः
न मां भविष्यं पप्रच्छुर् न चापृष्टो ब्रवीम्य् अहम् ॥
निःसामर्थ्यं च पश्यामि भविष्यस्य निवेदनम्
परिहर्तुं न शक्ष्यामि कालनिष्ठां हि तां गतिम् ॥
त्वया त्व् इदम् अहं पृष्टो वक्ष्याम्य् आगन्तु भावि यत्
अतश् च बलवान् कालः श्रुत्वापि न करिष्यसि ॥
न संरम्भान् न चारम्भान् न वै स्थास्यसि पौरुषे
लेखा हि काललिखिता वेलेव दुरतिक्रमाः ॥
अश्वमेधः क्रतुः श्रेष्ठः क्षत्रियाणां परिश्रुतः
तेन भावेन ते यज्ञं वासवो धर्षयिष्यति ॥
यदि तच् छक्यते राजन् परिहर्तुं कथंचन
दैवं पुरुषकारेण मा यजेथाश् च तं क्रतुम् ॥
न चापराधः शक्रस्य नोपध्यायगणस्य ते
तव वा यजमानस्य कालो ऽत्र परमेश्वरः ॥
तस्य संस्थापनम् इदम् कालस्य वशवर्ति वै
तत् प्रणेयं निबोधस्य त्रैलोक्यं सचराचरम् ॥
यथा यष्टा नृपः स्वर्गं गमिष्यति युगक्षये
तथा यज्ञफलानां च विक्रेतारो द्विजातयः ॥
निवृत्ताव् अश्वमेधस्य किं निमित्तं भविष्यति
श्रुत्वा परिहरिष्यामि भगवन् यदि शक्यते ॥
निमित्तं भविता तत्र ब्रह्मकोपकृतं प्रभो
यतस्व परिहर्तुं तद् इत्य् एतद् भद्रम् अस्तु ते ॥
त्वया धृतः क्रतुश् चैव वाजिमेधः परंतप
क्षत्रिया नाहरिष्यन्ति यावद् भूमिर् धरिष्यति ॥
निवृत्ताव् अश्वमेधस्य विप्रशापाग्नितेजसा
अहं निमित्तं इति चेद् भयं तीव्रं च जायते ॥
कथं ह्य् अकीर्त्त्या संयुक्तः सुकृती मद्विधो जनः
लोकान् उत्सहते गन्तुं खं सपाश इव द्विजः ॥
यथा ह्य् अनागतम् इदम् दृष्टम् अत्र प्रणाशनम्
यज्ञस्य पुनरावृत्तिर् यद्य् अस्त्य् आश्वासयस्व माम् ॥
उपात्तयज्ञो देवेभ्यो ब्राह्मणेषु निवत्स्यति
विहितो यज्ञ एषो ऽत्र देवैश् च ब्राह्मणैर् अपि ।
तेजसाभ्याहृतं तेजस् तेजस्येवावतिष्ठते ॥
औद्भिदो भविता कश्चित् सेनानीः काश्यपो द्विजः
अश्वमेधं कलियुगे पुनः प्रत्याहरिष्यति ॥
तद्युगे तत्कुलीनश् च राजसूयम् अपि क्रतुम्
आहरिष्यति राजेन्द्र श्वेतग्रहम् इवान्तकः ॥
यथाबलं मनुष्याणां कर्तॄणां दास्यते फलम्
युगान्तद्वारम् ऋषिभिः संवृतं विचरिष्यति ॥
तदाप्रभृति हास्यन्ते नृणां प्राणाः पुराकृतीः
विनिवर्तिष्यते लोके वृत्तान्ते वृत्तिमत्स्व् अपि ॥
तदा सूक्ष्मो महोदर्को दुस्तरो दानमूलवान्
चातुराश्रम्यशिथिलो धर्मः प्रविचलिष्यति ॥
तदा ह्य् अल्पेन तपसा सिद्धिं यास्यन्ति मानवाः
धन्या धर्मं चरिष्यन्ति युगाम्ते जनमेजय ॥
मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0