हरिवंश · अध्याय 114
जनमेजयस्य के पुत्राः पठ्यन्ते लोमहर्षणे
हरिवंशस्य शेषस्य कथां पापप्रणाशनीम् ।
कस्मिन् प्रतिष्ठितो वंशः पाण्डवानां महात्मनाम् ॥
पारिक्षितस्य काश्यायां द्वौ पुत्रौ संबभूवतुः
चन्द्रापीडश् च नृपतिः सूर्यापीडश् च मोक्षवित् ॥
चन्द्रापीडस्य पुत्राणां शतम् उत्तमधन्विनाम्
जनमेजय इत्य् एव क्षत्रं भुवि परिश्रुतम् ॥
तेषां ज्येष्ठस् तु राजासीत् पुरे वारणसाह्वये
सत्यकर्णो महाबाहुर् यज्वा विपुलदक्षिणः ॥
सत्यकर्णस्य दायादः श्वेतकर्णः प्रतापवान्
अपुत्रः स तु धर्मात्मा प्रविवेश तपोवनम् ॥
तस्माद् वनगताद् गर्भं यादवी प्रत्यपद्यत
सुचारोर् दुहिता सुभ्रूर् मालिनी भ्रातृमालिनि ॥
स त्व् अजन्मनि गर्भस्य श्वेतकर्णः प्रजेश्वरः
अन्वगच्छत तं पूर्वैर् महाप्रस्थानम् अच्युतम् ॥
सा दृष्ट्वा संप्रयातं तं मालिनी पृष्ठतो ऽन्वगात्
पथि सा सुषुवे सुभ्रूर् वने राजीवलोचनम् ॥
तम् अपाश्य च तत्रैव राजानं सान्वगच्छत
पतिव्रता महाभागा द्रौपदीव पुरा पतीन् ॥
सुकुमारः कुमारो ऽसौ गिरिकुञ्जे रुरोद ह
दयार्थं तस्य मेघास् तु प्रादुरासन् महात्मनः ॥
श्रविष्ठायाश् च पुत्रौ द्वौ पैप्पलादौ च तौ द्विजौ
दृष्ट्वा कृपान्वितौ गृह्य तं प्रक्षालयतां जले ॥
विघृष्टे तस्य ते पार्श्वे खेलेन रुधिरस्रवे
अजश्यामौ च पार्श्वौ ताव् उभाव् अपि समाहितौ ॥
तथैव च समारूढाव् अजपार्श्वस् ततो ऽभवत्
आजश्यामस्य ते पार्श्वे रूढे वै संअभूवतुः ।
तं तथैव च तिष्ठन्तं अजपार्श्वे कुमारकम् ।
ततो ऽजपार्श्व इति तौ चक्राते तस्य नाम ह ॥
स तु वेमकशालायां उभाभ्याम् अभिवर्धितः ॥
वेमकस्य तु भार्या तम् उद्वहत् पुत्रकारणात्
सेवकस्य तु तां भार्याम् ऊहतुस् तस्य कारणात् ।
वेमक्याः स तु पुत्रो ऽभूद् ब्राह्मणौ सुचिवौ च तौ ॥
तेषां पुत्राश् च पौत्राश् च युगपत् तुल्यजीविनः
स एष पौरवो वंशः पाण्डवानां प्रतिष्ठितः ॥
श्लोको ऽपि चात्र गीतो ऽयं नाहुषेण ययातिना
जरासंक्रमणे पूर्वं तदा प्रीतेन धीमता ॥
अचन्द्रार्कग्रहा भूमिर् भवेद् अपि न संशयः
अपौरवा न तु मही भविष्यति कदाचन ॥
मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0