हरिवंश · अध्याय 113
ततो दृष्ट्वैव गरुडम् अनिरुद्धशरीरगाः
एवं वरान् बहूंल् लब्ध्वा बाणः प्रीतिमान् अभवत् ।
जगाम सह रुद्रेण महाकालत्वम् आगतः ।
वासुदेवो ऽपि बहुधा नारदं पर्यपृच्छत ।
क्वानिरुद्धस् तु भगवान् संयतो नागबन्धनैः ।
श्रोतुम् इच्छामि तत्त्वेन स्नेहक्लिन्नं हि मे मनः ॥
अनिरुद्धे हृते वीरे क्षुभिता द्वारका पुरी ।
शीघ्रं तं मोक्षयिष्यामि यद् अर्थं वयम् आगताः ॥
अद्य तं नष्टशत्रुं वै द्रष्टुम् इच्छामहे वयम् ।
स प्रदेशस् तु भगवन् विदितस् तव सुव्रत ॥
एवम् उक्तस् तु कृष्णेन नारदः प्रत्यभाषत ।
कन्यापुरे कुमारो ऽसौ बद्धो नागैश् च माधव ॥
एतस्मिन्न् अन्तरे शीघ्रं चित्रलेखा ह्य् उपस्थिता ।
बाणस्योत्तमसत्त्वस्य दैत्येन्द्रस्य महात्मनः ।
इदम् अन्तःपुरं देव प्रविशस्व यथासुखम् ॥
ततः प्रविष्टास् ते सर्वे अनिरुद्धस्य मोक्षणे ।
बलः सुपर्णः कृष्णश् च प्रद्युम्नो नारदस् तथा ।
वासुदेवो ऽपि सहसा विवेशान्तःपुरे रिपोः ।
शररूपा महासर्पा वेष्टयित्वा तनुं स्थिताः ॥
ते सर्वे सहसा देहात् तस्य निःसृत्य भोगिनः
क्षितिं सर्वे ऽभ्यधावन्त प्रकृत्यावस्थिताः शराः ॥
दृष्टः स्पृष्टश् च कृष्णेन सो ऽनिरुद्धो महात्मना
स्थितिः प्रीतिमना भूत्वा प्राञ्जलिर् वाक्यम् अब्रवीत् ॥
देवदेव सदा युधे जेता त्वम् असि कस् तव
शक्तो वै प्रमुखे स्थातुं साक्षाद् अपि शतक्रतुः ॥
आरोह गरुडं तूर्णं गच्छाम द्वारकां पुरीम्
इत्युक्तः सो ऽधिरूढस् तु सह दानवकन्यया ॥
ततस् ते दीर्घम् अध्वानं प्रययुः पुरुषर्षभाः
चक्रायुधो गृह्य तदानिरुद्धं ।
निघ्नं चक्रे बाणम् उदीर्णचक्रम् ।
छित्त्वा तु बाणस्य स बाहुचक्रं ।
चक्रायुधो गृह्य तदानिरुद्धम् ।
पुरो महाबाणम् उदीर्णचक्र+ ।
+निपातिते बाहुविशीर्णगात्रे ।
आरुह्य गरुडं सर्वे जित्वा बाणं महासुरम् ॥
ततो ऽम्बरतलस्थास् ते वारुणीं दिशम् आश्रिताः
अपश्यन्त महात्मानो गावो दिव्यपयःप्रदाः ।
वेलावनविचारिण्यो नानावर्णाः सहस्रशः ॥
निशम्य बाणगावस् तु तासु चक्रे मनस् तदा
आस्थितो गरुडं देवः सर्वलोकादिर् अव्ययः ॥
आह मां सत्यभामा च बाणगावो ममानय
यासां पीत्वा किल क्षीरं न जीर्यन्ति महासुराः ॥
ता ममानय भद्रं ते यदि कार्यं न लुप्यते
अथ कार्यनिरोधः स्यान् नैव तासु मनः कृथाः ॥
दृश्यन्ते गाव एतास् ता मां दृष्ट्वा वरुणालयम्
विशन्ति सहिताः सर्वाः कार्यम् अत्र विधीयताम् ॥
तथेत्य् उक्त्वा तु गरुडः पक्षवातेन सागरम्
सो ऽवगाढो हि सहसा वरुणालयम् अन्तिकात् ॥
ततस् तु वारुणं सैन्यम् अभियातं सुदारुणम्
प्रमुखे वासुदेवस्य नानाप्रहरणोद्यतम् ॥
तेषाम् आपततां संख्ये वारुणानां सहस्रशः
देहा विद्योतयन्ति स्म कृत्स्नं वै वरुणालयम् ।
चक्रेण भगवाञ् शौरिश् चकार कदनं महत् ।
भग्नं बलम् अनाधृष्यं केशवेन महात्मना ।
ते भग्नाः सहसा यान्ति तम् एव वरुणालयम् ॥
षष्टिं रथसहस्राणि षष्टिं रथशतानि च
वरुणेन प्रयुक्तानि दीप्तशस्त्राणि संयुगे ॥
तद् बलं कृष्णबाणौघैर् दह्यमानं समन्ततः
भग्नं वरुणम् आश्रित्य नैव स्थानम् अविन्दत ॥
ऋषिभिर् देवगन्धर्वैस् तथैवाप्सरसां गणैः
संस्तूयमानो बहुधा वरुणः पर्यवस्थितः ॥
छत्रेण ध्रियमाणेन पाण्डुरेण वपुष्मता
सलिलस्राविणा श्रेष्ठं चापम् उद्यम्य विष्ठितः ॥
अपां पतिर् अभिक्रुद्धः पुत्रपौत्रबलान्वितः
आह्वयन्न् इव युद्धे स विस्फारितमहाधनुः ॥
स तु प्रध्मापयञ् शङ्खं वरुणः समधावत
हरिं हर इव क्रोधाद् बाणजालैः समावृणोत् ॥
ततः प्रध्माय जलजं पाञ्चजन्यं महाबलः
बाणवर्षाकुलाः सर्वा दिशश् चक्रे जनार्दनः ॥
ततः शरौघैर् बहुधा वरुणः पीडितो रणे
स्मयन्न् इव तदा कृष्णं वरुणः प्रत्ययुध्यत ॥
ततो ऽस्त्रं वैष्णवं घोरम् अभिमन्त्र्याहवे स्थितः
वासुदेवो ऽब्रवीद् वाक्यं प्रमुखे तस्य संस्थितः ॥
इदम् अस्त्रं महाघोरं वैष्णवं शत्रुमर्दनम्
मयोद्यतं वधार्थं ते तिष्ठेदानीं स्थिरो भव ॥
ततस् तद् वरुणो देवो ह्य् अस्त्रं वैष्णवम् उद्यतम्
वारुणास्त्रेण संयोज्य ननाद स महाबलः ॥
तस्यास्त्रवितता ह्य् आपो वरुणास्याभिनिःसृताः
वैष्णवास्त्रस्य शमने वर्तन्ते समितिंजय ॥
दह्यन्ते वारुणाः सर्वे ततो ऽस्त्रे ज्वलिते पुनः
वैष्णवे तु महावीर्ये दिशो भीताः प्रदुद्रुवुः ॥
तांस् तु प्रज्वलतो दृष्ट्वा वरुणो वाक्यम् अब्रवीत्
स्मर तां प्रकृतिं पूर्वाम् अव्यक्तां व्यक्तलक्षणां
तमो जहि महाभाग रजसा मुह्यसे कथम् ॥
सत्त्वस्थो नित्यम् आसीत् त्वं योगीश्वर महामते
पञ्चभूताश्रयान् दोषान् अहंकारं च संत्यज ॥
येयं ते वैष्णवी मूर्तिस् तस्या ज्येष्ठो ह्य् अहं तव
ज्येष्ठभावेन मान्यस् ते किं मां दग्धुम् इच्छसि ॥
नाग्निर् विक्रमते ह्य् अग्नौ त्यज कोपं युधां वर
त्वयि न प्रभविष्यन्ति जगतः प्रभवो ह्य् असि ॥
पूर्वं हि या त्वया सृष्टा प्रकृतिर् विकृतात्मिका
धर्मिणी बीजभावेन पूर्वधर्मसमाश्रिता ॥
आग्नेयं चैव सौम्यं च प्रकृत्यैवेदम् आदितः
त्वया सृष्टं जगद् इदं स कथं मन्यसे मयि ॥
अजेयः शाश्वतो नित्यं स्वयंभूर् भूतभावनः
अक्षयश् चाव्ययश् चैव भवान् एव महाद्युते ॥
रक्ष मां रक्षणीयो ऽहं त्वयानघ नमो ऽस्तु ते
आदिकर्तासि लोकस्य त्वयैव बहुलीकृतम् ॥
किं क्रीडसि महादेव बालः क्रीडनकैर् इव
न ह्य् अहं प्रकृतिद्वेषी नाहं प्रकृतिदूषकः ॥
प्रकृतिर् या विकारेषु वर्तते पुरुषोत्तम
तस्या विकारशमने वर्तसे त्वं यथाविधि ॥
विकारो ऽसि विकाराणां विकारायतने ऽनघ
तान् अधर्मविदो मन्दान् भवान् विकुरुते सदा ॥
इयं हि प्रकृतिर् दोषैस् तमसा युज्यते सदा
रजसा वापि संदुष्टा ततो मोहः प्रवर्तते ॥
परावरज्ञः सर्वज्ञ ऐश्वर्यविधिम् आस्थितः
किं मोहयसि नः सर्वान् प्रजापतिर् इव स्वयम् ॥
इत्येवमुक्तः प्रहसन् कृष्णो वचनम् अब्रवीत्
गाः संप्रयच्छ मे देव शान्त्यर्थं भीमविक्रम ॥
बाणेन सार्धं समयो मया देव पुरा कृतः
कथं च समयं कृत्वा कुर्यां विफलम् अन्यथा ॥
जीवन् नाहं प्रदास्यामि गावो वै वृषभेक्षण
हत्वा मां नय गावस् त्वम् एष मे समयः कृतः ॥
वरुणेनैवम् उक्तस् तु मुक्त्वा गा वै महायशाः
एवम् उक्तो ऽथ बाणस्य गावो मुक्त्वा महायशाः ।
अभेद्यं समयं मत्वा न्यस्तवादो गवां प्रति ।
प्रहस्य वरुणं देवं मानयाम् आस माधवः
संप्रहस्य ततो वाक्यं व्याजहारार्थकोविदः ।
मानयन् वरुणं देवो गा बाणस्य व्यमुञ्चत ।
तस्मान् मुक्तो ऽसि यद्य् एवं बाणेन समयः कृतः ।
प्रसृतैर् मधुरैर् वाक्यैस् तत्त्वार्थम् अनुभाषितैः ॥
कथं पापं करिष्यामि वरुण त्वय्य् अहं प्रभो ।
गच्छ मुक्तो ऽसि वरुण सत्यसंधो ऽस्तु नो भवान् ।
त्वत्प्रियार्थं मया मुक्ता बाणगावो न संशयः ॥
ततस् तूर्यनिनादैश् च भेरीणां च महास्वनैः ।
अर्घम् आदाय वरुणः केशवं प्रत्यपूजयत् ॥
केशवो ऽर्धं तदा गृह्य वरुणाद्यदुनन्दनः ।
बलं पूजयते देवः कुशली च समाहितः ॥
वरुणायाभयं दत्त्वा वासुदेवः प्रतापवान् ।
त्वदर्थं धेनवो मुक्ता बाणस्य तु दुरात्मनः ।
इत्य् उक्त्वा वरुणं देवो गा बाणस्य विमुञ्चत ।
प्रययौ द्वारकां चापि शक्राद्यैर् अमरैर् वृतः ॥
तत्र देवाः समरुतः ससाध्याः समितिंजय
गन्धर्वाप्सरसश् चैव किंनराश् चान्तरिक्षगाः ।
ऋषयो नारदमुखा वसिष्टाद्या तपोधनाः ।
अनुगच्छन्ति विश्वेशं सर्वभूतादिम् अव्ययम् ॥
आदित्या वसवो रुद्रा अश्विनौ च महाबलौ
विद्याधरगणाश् चैव ये चान्ये सिद्धचारणाः ।
आयान्तम् अनुगच्छन्ति यशसा विजयेन च ॥
दुराद् एव तु तां दृष्ट्वा द्वारकां द्वारमालिनीम्
पाञ्चजन्यस्य निर्घोषं चक्रे चक्रगदाधरः ॥
देवानुयात्रनिर्घोषं पाञ्चजन्यस्य निस्वनम्
श्रुत्वा द्वारवती सर्वा प्रहर्षम् अतुलं गता ॥
वैनतेयसमासीनं नीलाञ्जनचयोपमम्
अवन्दन्यादवाः कृष्णं श्रिया परमया युतम् ॥
ऋषिभिर् देवगन्धर्वैश् चारणैश् च समन्ततः
संस्तूयमानो गोविन्दो द्वारकोपरि विष्ठितः ॥
तदाश्चर्यम् अपश्यन्त दाशार्हगणसत्तमाः
प्रहर्षम् अतुलं प्राप्ता दृष्ट्वा कृष्णं महाभुजम् ।
बाणं जित्वा महादेवम् आयान्तं पुरुषोत्तमम् ॥
द्वारकावासिनां वाचश् चरन्ति बहुधा तदा
प्राप्ते कृष्णे महाभागे सात्वतानां महारथे ॥
धन्याः स्मो ऽनुगृहीताः स्मो येषां नो जगतः पतिः
रक्षिता चापि गोप्ता च दीर्घबाहुर् जनार्दनः ॥
वैनतेयं समारुह्य बाणं जित्वा सुदुर्जयम्
प्राप्तो ऽयं पुण्डरीकाक्षो मनांस्य् आह्लादयन्न् इव ॥
एवं कथयताम् एव द्वारकावासिनां तदा
वासुदेवगृहं देवा विविशुस् ते महारथाः ॥
तानि तेषां विमानानि दिवि संचरतां तदा
स्थितान्य् एव प्रदृश्यन्ते नानारूपाणि सर्वशः ॥
सिंहर्षभमृगैर् नागैर् वाजिसारसबर्हिणैः
भास्वन्ति तानि दृश्यन्ते विमानानि सहस्रशः ॥
एते रुद्रास् तथादित्या वसवो ऽथाश्विनाव् अपि
साध्या देवास् तथान्ये चाप्य् अवन्दंस् तान् यथाक्रमम् ॥
अहो वै महद् आश्चर्यं वासुदेवस्य संश्रयात्
प्राप्यते यद् इहास्माभिर् इति वाचश् चरन्ति हि ॥
ततश् चन्दनचूर्णैश् च पुष्पवर्षैश् च सर्वशः
किरन्ति पौराः सर्वांस् तान् पूजयन्तो दिवौकसः ॥
लाजैः प्रणामैर् धूपैश् च वाग्बुद्धिनियतास् तथा
द्वारकावासिनः सर्वे पूजयन्ति दिवौकसः ॥
आहुकं वसुदेवं च साम्बं च यदुनन्दनम्
सात्यकिं चोल्मुकं चैव विपृथुं च महाबलम् ॥
एतान् परिष्वज्य तदा मूर्ध्नि चाघ्राय वीर्यवान्
अथ शक्रो महाभागः समक्षं यदुमण्डले ।
स्तुवन्तं केशिहन्तारं तत्रोवाचोत्तरं वचः ।
अन्धकं च शुभाक्षं च ततो वचनम् अब्रवीत् ॥
वासवः सात्वतान् सर्वान् एष वो यदुनन्दनः
योजयित्वा रणे चैव यशसा पौरुषेण च ॥
महादेवस्य मिषतो गुहस्य च तथैव च
एष बाणं रणे जित्वा द्वारकां पुनर् आगताः ॥
सहस्रबाहोर् बाहूनां कृत्वा क्षयम् अनुत्तमम्
स्थापयित्वा द्विबाहुत्वे प्राप्तो ऽयं स्वपुरीं हरिः ॥
यदर्थं जन्म कृष्णस्य मानुषेषु महात्मनः
तद् अप्य् अवसितं कृत्स्नं नष्टशोका वयं कृताः ॥
पिबन्तो मधुमाध्वीकं रंस्यामः प्रीतिसंयुताः
कालो यास्यत्य् अविरतं विषयेष्व् एव सज्जताम् ॥
बाहूनां संश्रयात् सर्वे वयम् अस्य महात्मनः
प्रनष्टशोका रंस्यामः सर्व एवामराः सुखम् ॥
एवम् उक्त्वा परिष्वज्य कृष्णं कमललोचनम्
एवं स्तुत्वा सहस्राक्षः केशवं दानवान्तकम् ।
आपृच्छ्य तं महाभागः सर्वैर् देवगणैर् वृतः ॥
ततः पुनः परिष्वज्य कृष्णं लोकनमस्कृतम् ।
इत्य् उक्त्वा यादवान् सर्वान् कृष्णं संपूज्य वासवः ।
पुरंदरो दिवं यातः सर्वामरगणैर् वृतः
ऋषयश् च महात्मानो जयाशीर्भिर् महौजसम् ।
यथागतं पुनर् याता यक्षराक्षसकिंनराः ॥
पुरंदरे दिवं याते पद्मनाभो महाबलः ।
अपृच्छत महाभागः सर्वान् कुशलम् अव्ययम् ॥
ततः किलकिलाशब्दं निर्वमन्तः सहस्रशः ।
गच्छन्ति कौमुदीं द्रष्टुं सो ऽनघः प्रियया सह ।
द्वारकां प्राप्य कृष्णस् तु रेमे यदुगणैर् वृतः ॥
एवम् एषो ऽवतीइर्णो वै पृथिव्यां पृथिवीपते
विष्णुर् यदुकुलश्रेष्ठो वासुदेवेति विश्रुतः ॥
एतैश् च कारणैः श्रीमान् वसुदेवकुले प्रभुः
जातो वृष्णिषु देवक्यां यन् मां त्वं परिपृच्छसि ॥
निवृत्ते नारदप्रश्ने मयोक्तं ते समासतः
उक्तास् ते विस्तराः सर्वे पूर्वं ये जनमेजय ॥
विष्णोस् तु माथुरे कल्पे यत्र ते संशयो महान्
वासुदेवगतिश् चैव सा मया समुदाहृता ॥
आश्चर्यश् चैव नान्यो ऽस्ति कृष्णश् चाश्चर्यसंनिधिः
सर्वेष्व् आश्चर्यकल्पेषु नास्त्य् आश्चर्यम् अवैष्णवम् ॥
स एव धन्यो धनिनां धन्यकृद् धन्यभावनः
देवेष्व् अपि सदैत्येषु नास्ति धन्यतरो ऽच्युतात् ॥
आदित्या वसवो रुद्रा अश्विनौ मरुतस् तथा
गगनं भूर् दिशश् चैव सलिलं ज्योतिर् एव च ॥
एष धाता विधाता च संहर्ता काल एव च
सत्यं धर्मस् तपश् चैव ब्रह्म चैव सनातनम्
अनन्तश् चैव नागानां रुद्राणां शंकरः स्मृतः ।
जङ्गमाजङ्गमं चैव जगन्नारायणोद्भवं ।
एतस्माच् च जगत् सर्वं प्रसूयेत जनार्दनात् ।
जगच् च सर्वं देवेशस् तं नमस् कुरु भारत ॥
इत्युक्तं बाणयुद्धं ते माहात्म्यं केशवस्य च
वंशप्रतिष्ठां अतुलां श्रवणादेव लप्स्यसे ॥
ये चेदं धारयिष्यन्ति बाणयुद्धम् अनुत्तमम्
केशवस्य च माहात्म्यं नाधर्मस् तान् भजिष्यति ॥
एषा ते वैष्णवी चर्या मया कार्त्स्न्येन कीर्तिता
पृच्छतस् तात यज्ञे ऽस्मिन् निवृत्ते जनमेजय ॥
आश्चर्यपर्वम् अखिलं यो हीदं धारयेन् नृप
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ।
कल्प उत्थाय यो नित्यं कीर्तयेत् सुसमाहितः ।
न तस्य दुर्लभं किं चिद् इह लोके परत्र च ॥
ब्राह्मणः सर्ववेदी स्यात् क्षत्रियो विजयी भवेत् ।
वैश्यो धनसमृद्धः स्याच् छूद्रो गच्छेच् च सद्गतिम् ।
नाशुभं प्राप्नुयात् किंचिद् दीर्घम् आयुर् अवाप्नुयात् ॥
इति पारिक्षितो राजा वैशंपायनभाषितम्
श्रुतवान् अमलो भूत्वा हरिवंशं द्विजर्षभाः ॥
एवं शौनक संक्षेपाद् विस्तरेण तथैव च
संक्षेपाद् विस्तरेणापि तत्र सर्वे तपोधनाः ।
प्रोक्ता वै सर्ववंशास् ते किं भूयः कथयामि ते ॥
मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0