हरिवंश · अध्याय 112
ततस् ते सहिताः सर्वे त्रयस्त्रय इवाग्नयः
वैनतेयं समारुह्य युध्यमाना रणे स्थिताः ॥
ततः सर्वाण्य् अनीकानि बाणवर्षैर् महाबलाः
अर्दयन् वैनतेयस्था नदन्तो ऽतिबला रणे ॥
चक्रलाङ्गलपातैश् च बाणवर्षैश् च पीडितम्
संचुकोप महानीकं दानवानां महात्मनाम् ॥
कक्षे ऽग्निर् इव संवृद्धः शुष्केन्धनसमीरिताः
कृष्णबाणाग्निर् उद्भूतो विवृद्धिम् उपगच्छति ॥
स दानवसहस्राणि तस्मिन् समरमूर्धनि
युगान्ताग्निर् इवार्चिष्मान् दहमानो व्यराजत ॥
तां दीर्यमाणां महतीं नानाप्रहरणोद्यताम्
सेनां बाणः समासाद्य वारयन् वाक्यम् अब्रवीत् ॥
लाघवं समुपागम्य किम् एवं भयविक्लवाः
दैत्यवंशसमुत्पन्नाः पलायध्य्वं महामृधे ॥
कवचासिगदाप्रासान् खड्गचर्मपरश्वधान्
उत्सृज्योत्सृज्य गच्छन्ति किं भवन्तो ऽन्तरिक्षगाः ॥
स्वजातिं चैव वासं च हरसंसर्गम् एव च
मानयद्भिर् न गन्तव्यम् एषो ह्य् अहम् अवस्थितः ॥
एवम् उच्चारितां वाचं शृण्वन्तस् ताम् अचिन्त्य वै
अपक्रामन्त ते सर्वे दानवा भयपीडिताः ॥
प्रमाथगणशेषं तु तदनीकपुरःसरम्
भग्नावशेषं युद्धाय मनश् चक्रे पुनस् तदा ॥
कुम्भाण्डो नाम बाणस्थ सखामात्यश् च वीर्यवान्
बलं भग्नं समालोक्य वचनं चेदम् अब्रवीत् ॥
एष बाणः स्थितो युद्धे शंकरो ऽयं गुहस् तथा
किमर्थं युद्धम् उत्सृज्य भवन्तो भयमोहिताः ॥
नन्दीश्वरसमायुक्तं रथम् आस्थाय वीर्यवान्
संदष्टौष्ठपुटो रुद्रः प्रधावति यतो हरिः ॥
पिबन्न् इव तदाकाशं सिंहयुक्तो महास्वनः
रथो भाति घनोन्मुक्तः पौर्णमास्यां यथा शशी ॥
वैनतेयस्थम् अस्यन्तम् आयान्तम् अग्रणीर् हरः
तिष्ठ तिष्ठेति चोवाच क्रुद्धो ऽहंकारगर्वितः ॥
भगवान् अपि गोविन्दः स्मयन्न् इव च संस्थितः ।
स्थितो ऽस्मि तव संग्रामे यथेष्टं क्रियताम् इति ।
हरिं विव्याध कुपितो नाराचानां शतेन सः ॥
स शरैर् अर्दितस् तेन हरेणामित्रघातिना
हरिर् जग्राह कुपितो ह्य् आस्त्रं पार्जन्यम् उत्तमम् ॥
ततः शतसहस्राणि शराणां नतपर्वणाम्
निष्पेतुः सर्वतो दिग्भ्यो यतो हरतनुस् ततः ॥
अथाग्नेयं महारौद्रम् अस्त्रम् अस्त्रविदां वरः
मुमोच रुषितो रुद्रस् तद् अद्भुतम् इवाभवत् ॥
ततो विशीर्णदेहास् ते चत्वारो ऽपि समन्ततः
नादृश्यन्त शरैश् छन्ना दह्यमानाश् च वह्निना ॥
सिंहनादं ततश् चक्रुः सर्व एवासुरोत्तमाः
हतो ऽयम् इति विज्ञाय आग्नेयान्तर्हिते हरौ ॥
ततस् तद् विषहित्वाजौ ह्य् अस्त्रम् अस्त्रविदां वरः
ततः क्रुद्धो हृषीकेशः प्रतिषिध्याग्निसंचयं ।
जग्राह वारुणं सो ऽस्त्रं वासुदेवः प्रतापवान् ॥
उद्यते वारुणास्त्रे तु वासुदेवेन धीमता
प्रयुक्ते वासुदेवेन वारुणास्त्रे ऽतितेजसि ।
आग्नेयं प्रशमं यातम् अस्त्रं वारुणतेजसा ॥
पैशाचं राक्षसं चैव रौद्रम् आङ्गिरसं भवः
मुमोचास्त्राणि चत्वारि युगान्ताग्निनिभानि सः ॥
वायव्यम् अथ सावित्रं वासवं मोहनं तथा
अत्राणां वारुणार्थाय वासुदेवो मुमोच ह ॥
अस्त्रैश् चतुर्भिश् चत्वारि वारयित्वा च केशवः
जग्राह वैष्णवं सो ऽस्त्रं व्यादितास्यान्तकोपमम् ॥
वैष्णवास्त्रे विमुक्ते तु सर्व एवासुरोत्तमाः
भूतयक्षगणाश् चैव बाणानीकं च सर्वशः ।
दिशः प्रदुद्रुवुः सर्वे भयमोहितलोचनाः ॥
अन्धकारीकृते लोके प्रदीप्ते त्र्यम्बके तदा
न नन्दी नापि च रथो न रुद्रः प्रत्यदृश्यत ॥
द्विगुणं दीप्तदेहस् तु रोषेण च बलेन च
अस्त्रं नारायणं नाम नारायणजिघांसया ।
जग्राह शूली भूतात्मा देवानाम् अथ पश्यताम् ॥
मुमोच च यथाशक्ति रुद्रो ब्रह्मात्मसंभवः ।
विमुक्तं तेन तच् चास्त्रं जगाम च समीपतः ॥
शंकरस्य तद् अस्त्रं तु प्रहसन् केशवस् तदा ।
जग्राह लीलया विष्णुस् तूणौ तच् च व्यनिक्षिपत् ॥
कुपितो रुद्ररूपेण रुद्रः संहारमूर्तिमान् ॥
ततः शूलं समादाय सर्वशत्रुविदारणम् ।
देवदानवगन्धर्व+ +यक्षपन्नगरक्षसाम् ।
भयंकरं मुमोचाथ कृष्णम् उद्दिश्य शंकरः ॥
तच् च शूलं हरिर् दृष्ट्वा निजशक्त्या न्यवारयत् ॥
ततस् त्रिलोचनः क्रुद्धः कालान्तकयमोपमः ।
अस्त्रं पाशुपतं यत् तु लोके ख्यातं स्ववीर्यवत् ।
जग्राहात्मसमं साक्षाद् धन्तुं केशवम् ओजसा ॥
विज्ञायाथ तदा विष्णुस् तद् एवास्त्रं समाददे ॥
द्वे ह्य् अस्त्रे प्रशमं याते द्वाभ्यां संधारिते तदा ।
त्रिपुरान्तकरं बाणं जग्राह च चतुर्मुखः ॥
संदधत्कार्मुके चैव क्षेप्तुकामस् त्रिलोचनः
विज्ञातो वासुदेवेन चित्तज्ञेन महात्मना ॥
जृम्भणं नाम् सो ऽप्य् अस्त्रं जग्राह पुरुषोत्तमः
तेनास्त्रेण तदा कृष्णो मन्त्रपूतेन केशवः ।
हरं संजृम्भयाम् आस क्षिप्रकारी महाबलः ॥
पाञ्चजन्यस्य घोषेण शार्ङ्गविस्फूर्जितेन च
देवं विजृम्भितं दृष्ट्वा सर्वभूतानि तत्रसुः ॥
कुम्भाण्डसंगृहीताश्वे रथे तिष्ठन् गुहस् तदा
अभिदुद्राव कृष्णं च बलं प्रद्युम्नम् एव च ॥
शरौघाचितगात्रास् ते त्रयस्त्रय इवाग्नयः
शोणितौघप्लुतैर् गात्रैः प्रत्ययुध्यन् गुहं तदा ॥
ततस् ते युद्धमार्गज्ञास् त्रयस् त्रिभिर् अनुत्तमैः
वायव्याग्नेयपार्जन्यैर् बिभिदुर् दीप्ततेजसः ॥
तस्य दीप्तशरौघस्य दीप्तचापधरस्य च
शरौघान् अस्त्रमायाभिर् ग्रसन्ति स्म महात्मनः ॥
अस्त्रं ब्रह्मशिरो नाम कालकल्पं दुरासदम्
संदष्टौष्ठपुटः संख्ये जग्राह स गुहस् तदा ॥
प्रयुक्ते ब्रह्मशिरसि सहस्रांशुसमप्रभे
उग्रे परमदुर्धर्षे लोकक्षयकरे तदा ॥
महाभूतेषु सर्वेषु प्रधावत्सु ततस्ततः
अस्त्रतेजःप्रमूढे तु विषण्णे जगति प्रभुः ।
केशवः केशिमथनश् चक्रं जग्राह वीर्यवान् ॥
सर्वेषाम् अस्त्रवीर्याणां वारणे घातने तथा
चक्रम् अप्रतिचक्रस्य लोके ख्यातं महात्मनः ॥
अस्त्रं ब्रह्मशिरस् तेन निष्प्रभं कृतम् ओजसा
मेघैर् इवातपापाये सवितुर् मण्डलं महत् ॥
ततो निष्प्रभतां याते नष्टवीर्ये महौजसि
तस्मिन् ब्रह्मशिरस्य् अस्त्रे शक्तिं जग्राह काञ्चनीम् ॥
महोल्काम् इव तां दीप्तां युगान्ताग्निसमप्रभाम्
घण्टामालाकुलां शक्तिं चिक्षेप रुषितो गुहः ॥
जृम्भमाणेव गगने संप्रदीप्तमुखी ततः
आघावन्ती महाशक्तिः कृष्णस्य वधकाङ्क्षिणी ॥
भृशं विषण्णाः सेन्द्राश् च सर्वामरपुरोगमाः
शक्तिं प्रज्वलितां दृष्ट्वा दग्धः कृष्ण इति ब्रुवन् ॥
अभ्याशमागतां तां तु महाशक्तिं महामृधे
हुंकारेणैव निर्भर्त्स्य पातयाम् आस भूतले ॥
पातितायां महाशक्त्यां साधु साध्व् इति सर्वशः
सिंहनादं ततश् चक्रुः सर्वे देवाः सवासवाः ॥
ततो देवेषु नर्दत्सु वासुदेवः प्रतापवान्
पुनश् चक्रं स जग्राह भूतान्तकरणं तदा ॥
व्याविध्यमाने चक्रे तु कृष्णेनामिततेजसा
कुमाररक्षणार्थाय विभज्य स्वतनुं तदा ।
तं दृष्ट्वा प्रमुखे तस्य व्यतिष्ठित च कौटवी
दिग्वासा देववचनात् प्रातिष्ठत् तत्र कौटवी ।
लम्बा नाम महाभागा भागो देव्यास् तथाष्टमः ।
चित्रा कनकशक्तिस् तु सा च नग्ना स्थितान्तरे ॥
अथान्तरा कुमारस्य देवीं दृष्ट्वा महाभुजः ।
पराङ्मुखस् ततो वाक्यम् उवाच मधुसूदनः ।
दिग्वासा विकटा धूम्रा कराळा निर्णतोदरी ।
बाहू प्रसार्य सहसा ग्रसन्तीवाम्बरं महत् ।
अपगच्छापगच्छ त्वं धिग्धिग् इत्य् एव सो ऽब्रवीत् ॥
ततस् तूर्यप्रणादैश् च भेरीणां च महास्वनैः
सिंहनादैश् च दैत्यानां बाणः कृष्णम् अभिद्रवत् ॥
आयान्तम् अथ तं दृष्ट्वा यदूनाम् ऋषभं रणे
गत्वाथ किं चिद् दृष्ट्वैव स्वबलं केशवं तदा ।
वैनतेयसमारूढं कृष्णम् अप्रतिमौजसम् ॥
तिष्ठ तिष्ठ न मे ऽद्य त्वं जीवन् प्रतिगमिष्यसि
द्वारकां द्वारकास्थान् वा सुहृदो द्रक्ष्यसे न च ॥
सुवर्णवर्णान् वृक्षाग्रान् अद्य द्रक्ष्यसि माधव
त्वम् अद्याष्टभुजः संख्ये कथं बाहुसहस्रिणा ।
मयाभिभूतः समरे मुहूर्षुः कालचोदितः ॥
अद्य बाहुसहस्रेण कथम् अष्टभुजो रणे
मया सह समागम्य योत्स्यसे गरुडध्वज ॥
अद्य हि त्वं मया युद्धे निर्जितः सह बान्धवैः
द्वारकां शोणितपुरे निहतः संस्मरिष्यसि ॥
नानाप्रहरणोपेतं नानाङ्गदविभूषितम्
अद्य बाहुसहस्रं मे कोटिभूतं निशामय ॥
गर्जतस् तस्य वाक्यौघाः समुद्राद् इव सिन्धवः
पराक्रमरसोपेता मत्तेभाद् इव शीकराः ।
निश्चरन्ति महाघोरा वातोद्धूता इवोर्मयः ॥
रोषपर्याकुले चैव नेत्रे तस्य बभूवतुः
जगद् दिधक्षन्न् इव खे महासूर्य इवोदितौ ॥
बाण किं गर्जसे शूरा न गर्जन्ति रणे स्थिताः
एह्य् एहि युध्यस्व रणे किं मिथ्यागर्जितेन ते ॥
यदि युद्धानि वचनैः सिध्यन्ति दितिनन्दन
भवान् एव जयेन् नित्यं बह्वबद्धं प्रभाषसे ॥
एह्य् एहि जय मां बाण जितो वा वसुधातले
चिरायावाङ्मुखो दीनः पतितः शेष्यसे ऽसुर ॥
इत्य् एवम् उक्त्वा वचनं मर्मभेदिभिर् आशुगैः
निर्बिभेद रणे कृष्णस् त्व् अमोघैर् दीप्ततेजसैः ॥
स्मयन् बाणस् ततः कृष्णं शरवर्षैर् अवाकिरत्
ज्वलद्भिर् इव संसक्तैस् तस्मिन् युद्धे सुदारुणे ॥
तौ ततः शरनिस्त्रिंशैर् गदापरिघतोमरैः
ततः परिघनिस्त्रिंशैर् गदातोमरशक्तिभिः ।
विनिन्दमानौ संयत्तौ युद्धे चेरतुर् ओजसा ॥
मुसलैः पट्टिसैश् चापि छादयाम् आस केशवम् ॥
अष्टबाहुः सहस्रेण बाहूनां समयुध्यत
योधयाम् आस समरे द्विबाहुम् अथ लीलया ।
ततस् तु समरे हन्तुं हिरण्यकशिपोर् यथा ।
सहस्रबाहुना सार्धम् अष्टबाहुर् अयुध्यत ।
बाणेन सह संगम्य शङ्खचक्रगदाधरः ॥
यद् अस्त्रं परमं दिव्यं तपसा निर्मितं महत्
तद् अप्रतिहितं युद्धे सर्वशत्रुनिबर्हणम्
ब्रह्मणा विहितं पूर्वं तन् मुमोच बलेः सुतः ॥
तस्मिन् मुक्ते दिशः सर्वास् तमोपहतमण्डलाः
प्रादुर् आसंस् ततो रौद्रा न प्राज्ञायत किं चन ॥
साधु साध्व् इति बाणं तु पूजयन्ति स्म दानवाः
अहो धिग् इति देवानां चरते वाग् उदीरिता ॥
ततो ऽस्त्रबलवेगेन सार्चिष्मत्यः सुदारुणाः
घोररूपा महावेगा निष्पेतुर् बाणवृष्टयः ॥
नाकम्पत तदा वायुर् न मेघाः संचरन्ति च
अस्त्रे विमुक्ते बाणेन दह्यमाने च केशवे ॥
ततो ऽस्त्रं सुमहावेगं जग्राह मधुसूदनः
पार्जन्यं नाम भगवान् यमान्तकनिभं रणे ॥
दानवास्त्रं प्रशान्तं तु पर्जन्यास्त्रे ऽभिमन्त्रिते
ततो देवगणाः सर्वे प्रणेदुर् जहृषुस् तदा ॥
हते शस्त्रे महाराज दैतेयः क्रोधमूर्छितः
भूयः संछादयाम् आस केशवं गरुडे स्थितम्
मुसलैः पट्टिसैश् चैव शूलम् उद्गरकस्मरैः ॥
तस्य तां तरसा सर्वां बाणवृष्टिं समुद्यताम्
पुनः संवारयाम् आस केशवः शत्रुसूदनः ॥
युद्धं चाभूद् वाहनयोर् उभयोर् देवदैत्ययोः
गरुडस्य च संग्रामे मयूरस्य च युध्यतः ॥
पक्षतुण्डप्रहारैस् तौ चरणाग्रनखैस् तथा
अन्योन्यं जघ्नतुः क्रोधान् मयूर्गरुडाव् उभौ ॥
वैनतेयस् ततः क्रुद्धो मयूरं दीप्ततेजसम्
जग्राह शिरसि क्रुद्धस् तुण्डेनाभ्यहनत् तदा ॥
दक्षिणेन च पक्षेण निजघान महाबलः
पद्भ्यां पार्श्वाभिघातांश् च दत्त्वा घोरान् अनेकशः ॥
आकृष्य चैनं तरसा विकृष्य च महाबलः
निःसंज्ञं पातयाम् आस गगनाद् इव पर्वतम् ॥
मयूरे पातिते तस्मिन् गरुडेनाथ पक्षिणा
पपात तस्मात् सहसा वेगेन महता बली ।
बाणः परमसंविग्नश् चिन्तयन् कार्यम् आत्मनः ॥
तं दीनमनसं ज्ञात्वा रणे बाणं सुविक्लवम्
चिन्तयद् भगवान् रुद्रो बाणरक्षणम् आतुरः ॥
ततो नन्दिं महादेवः प्राह गम्भीरया गिरा
नन्दिकेश्वर संयाहि यतो बाणस् ततो रथम् ॥
प्रमाथगणपार्श्वे हि न हि मे स्थास्यते मनः
याहि प्रभवसे तात बाणं संरक्ष गम्यताम् ॥
तथेत्य् उक्त्वा पुनर् नन्दी रथेन रथिनां वरः
यतो बाणस् ततो गत्वा बाणम् आह शनैर् इदम् ॥
दैत्येमं रथम् आतिष्ठ शीघ्रम् एहि महाबल
मया सारथिना वीर एहि युध्यस्व माचिरम् ।
स नन्दिना तथोक्तः सन् बाणः परबलार्दनः ।
ततो युध्यस्व कृष्णं वै दानवान्तकरं रणे ।
आरूढः स तथेत्य् उक्त्वा महादेवस्य तं रथम् ॥
तं स्यन्दनम् अधिष्ठाय भवस्यामिततेजसः
प्रादुश् चक्रे तदा रौद्रम् अस्त्रम् अस्त्रविदां वरः
दीप्तं ब्रह्मशिरो नाम बाणः क्रुद्धो ऽतिवीर्यवान् ॥
प्रदीप्ते ब्रह्मशिरसि लोकः क्षोभम् उपागमत्
लोकसंरक्षणार्थं हि तत् सृष्टं पद्मयोनिना ॥
तच् चक्रेण निहत्यास्त्रं प्राह कृष्णः प्रतापवान्
लोके प्रख्यातयशसं बाणम् अप्रतिमं रणे ॥
कत्थितानि क्व ते बाण तानि किं न विकत्थसे
अयम् अस्मि स्थितो युद्धे युध्यस्व पुरुषो भव ॥
कार्तवीर्यार्जुनो नाम पूर्वम् आसीन् महाबलः
सहस्रबाहू रामेण द्विबाहुः समरे कृतः ॥
तथा तवापि दर्पो ऽयं बाहूनां वीर्यसंभवः
चक्रं ते दर्पशमनं करोति रणमूर्धनि ॥
दर्पसंजननान् यावन् नाशयिष्यामि ते भुजान्
यावत् ते दर्पशमनं करोम्य् अद्य स्वबाहुना ।
तिष्ठेदानीं न मे ऽद्य त्वं मोक्ष्यसे रणमूर्धनि ॥
ततश् चक्रं सहस्रारं नदन् मेघ इवोष्णगे
जग्राह पुरुषव्याघ्रो बाणबाहुप्रशान्तये ॥
ज्योतिष्मतः पतंगस्य शशिनश् चैव यत् तथा
तेजो यज् ज्योतिषां चैव तेजो वज्राशनेस् तथा ।
प्राजापत्यं च यत् तेजस् तच् चक्रे पर्यवस्थितम् ॥
तेजसा तेन संयुक्तं भास्वता प्रज्वलभृशम्
वपुषा तेज आदत्ते बाणस्य प्रमुखे स्थितम् ॥
चक्रोद्यतकरं दृष्ट्वा भगवन्तं रणाजिरे
प्रमुखे वासुदेवस्य दिग्वासाः कोटवी स्थिता ॥
अन्तर्घानम् उपागम्य त्यक्त्वा सा वाससी पुनः
परित्राणाय बाणस्य विजयाधिष्ठिता ततः
भूयः सामर्षताम्राक्षी विवस्त्रावस्थिता रणे ॥
बाणसंरक्षणपरा वाक्यम् एतद् उवाच ह
हन्मि बाणं न संशयः ।
एवम् उक्ता तु बाणेन ।
बाणसंरक्षणार्थिनी ।
गिरा मधुरया देवी ।
जाने त्वां सर्वभूतानां स्रष्टारं पुरुषोत्तमम् ।
महाभागं महादेवम् अनन्तं नीलम् अव्ययम् ।
पद्मनाभं हृषीकेश लोकानाम् आदिसंभवम् ।
देवदेव जगन्नाथ विष्णो जिष्णो जगत्पते ।
नार्हसे देव हन्तुं वै बाणम् अप्रतिमं रणे ॥
ततः क्रुद्धो महाबाहुः कृष्णः प्रहरतां वरः
प्रोवाच बाणं समरे भ्रामयंश् चक्रम् उत्तमम् ॥
युध्यतां युध्यतां संख्ये भवतां कोटवी स्थिता
अशक्तानाम् इव रणे धिग्बाण तव पौरुषम् ॥
एवम् उक्त्वा ततः कृष्णस् तच् चक्रं परमास्त्रवित्
निमीलिताक्षो व्यसृजद् बाणं प्रति महाबलः ॥
अलातचक्रवत् तूर्णं भ्रममाणं रणाजिरे
क्षिप्तं तु वासुदेवेन बाणस्य रणमूर्धनि ।
बाणस्य रथमार्गे च द्वितीय इव भास्करः ।
विष्णोर् अस्त्रं सुनाभं वै शैघ्र्ययोगान् न दृश्यते ॥
तस्य बाहुसहस्रस्य पर्यायेण पुनः पुनः
बाणस्य छेदनं चक्रे तच् चक्रं रणमूर्धनि ॥
शरीरेण प्रस्रवता रुधिरौघपरिप्लुतः
अभवत् पर्वताकारश् छिन्नबाहुर् महासुरः ॥
चक्रं भूयः क्षेप्तुकामं बाणनाशार्थम् अच्युतम्
चक्रं भूयः क्षेप्तुकामो नाणनाशार्थम् अच्युतः ।
तम् उपेत्य महादेवः कुमारसहितो ऽब्रवीत् ॥
कृष्ण कृष्ण महादेव जाने त्वां पुरुषोत्तमम्
न ह्य् एनं वधकामस् त्वं यद् इच्छेत् पार्वतीहितम् ॥
हिरण्यकशिपोः पुत्राश् चत्वारो लोकविश्रुताः ।
ह्रादः प्रह्रादः संह्रादः अनुह्रादश् चतुर्थकः ॥
प्रह्रादाय वरो दत्तश् चैषां मध्ये वराथिने ।
अव्यध्यस् तव वंशो ऽस्तु दैत्यौघाः सततं मया ॥
इति प्रतिश्रुतं पूर्वम् अपराघपराय च ।
मधुकैटभहन्तारं देवदेवं सनातनम् ॥
लोकानां त्वं गतिर् देव त्वत्प्रसूतम् इदं जगत्
अजेयस् त्वं त्रिभिर् लोकैः सदेवासुरमानुषैः ॥
तस्मात् संहर दिव्यं त्वम् इदं चक्रं समुद्यतम्
अनिवार्यम् असंहार्यं रणे शत्रुभयंकरम् ॥
बाणस्यास्याभयं दत्तं मया केशिनिषूदन
तन् मे न स्यान् मृषा वाक्यम् अतस् त्वां क्षमयाम्य् अहम् ॥
जीवतां देव बाणो ऽयम् एतच् चक्रं निवर्तितम्
मान्यस् त्वं देव देवानाम् असुराणां च सर्वशः ॥
नमस् ते ऽस्तु गमिष्यामि यत् कार्यं तन् महेश्वर
न तावत् क्रियते तस्मान् माम् अनुज्ञातुम् अर्हसि ॥
एवम् उक्त्वा महादेवं कृष्णस् तूर्णं गरुत्मता
जगाम तत्र यत्रास्ते प्राद्युम्निः सायकैश् चितः ॥
गते कृष्णे ततो नन्दी बाणम् आह शुभं वचः
गच्छ बाण क्षतेनैव देवदेवस्य चाग्रतः ॥
तच् छ्रुत्वा नन्दिवाक्यं तु बाणो ऽगच्छत शीघ्रगः ।
छिन्नबाहुं ततो बाणं दृष्ट्वा नन्दी प्रतापवान् ।
अपवाह्य रथेनैव यतो देवस् ततो ययौ ॥
ततो नन्दी पुनर् बाणं प्राग् उवाचोत्तरं वचः ।
बाण बाण प्रनृत्यस्व श्रेयस् तव भविष्यति ॥
शोणितौघप्लुतैर् गात्रैर् नन्दिवाक्यप्रचोदितः
जीवितार्थी ततो बाणः प्रमुखे शंकरस्य वै ॥
प्रानृत्यत भये जाते दानवः स विचेतनः
जय देव जगन्नाथ जयाजेय हराव्यय ।
जय भक्तिप्रिय सदा जय भूतगणार्चितः ॥
जय भस्मप्रदिग्धाङ्ग जय नग्नविदां मुख ।
उमापते विश्वपते जयाजेयाव्यय प्रभो ॥
एवमादि तदा बाणो विलपन् भवतुष्टये ।
अवस्थां कृपणां प्राप्तो भयविक्लवलोचनः ॥
वरं वृणीष्व बाण त्वं यत् ते मनसि वर्तते
प्रसादसुमुखो ऽहं ते वरकालो ऽयम् आगतः ॥
अजरश् चामरश् चैव भवेयं सततं विभो
एष मे प्रथमो देव वरो ऽस्तु यदि मन्यसे ॥
तुल्यो ऽसि दैवतैर् बाण न मृत्युस् तव विद्यते
अन्यं वरं वृणीष्वाद्य अनुग्राह्यो ऽसि मे सदा ॥
यथाहं शोणितादिग्धो भृशार्तो व्रणपीडितः
भक्तानां नृत्यताम् एवं पुत्रजन्म भेवेद् भव ॥
निराहाराः क्षमायुक्ताः सत्यार्जवपरायणाः
मद्भक्ता ये हि नृत्यन्ति तेषाम् एवं भविष्यति ॥
चक्रपाटनजा घोरा रुजा तीव्रा हि या मम
वरेण सा तृतीयेन शान्तिं गच्छतु मे भव ॥
एवं भवतु भद्रं ते न रुजा प्रभविष्यति
अक्षतं तव गात्रं च स्वस्थावस्थं भविष्यति ॥
चतुर्थं ते वरं दद्मि वृणीष्वासुर काङ्क्षितं
न ते ऽहं विमुखस् तात प्रसादसुमुखो ह्य् अहम् ॥
प्रमाथगणवंशस्य प्रथमः स्याम् अहं विभो
महाकाल इति ख्यातः ख्यातिं गच्छेयम् ईश्वर ॥
भूयो ऽपि ते वरं दद्मि प्रख्यातबलपौरुष
एवं भविष्यत्य् अवश्यं यं वरं त्वम् इहेच्छसि ।
तं तं वृणीष्व भद्रं ते यद् इच्छसि महासुर ॥
वैरूप्यम् अङ्गजं किं चिन् मा भून् मे देवसत्तम
द्विबाहुत्वे ऽपि मे देहो न विरूपो भवेद् भव ॥
ततो ऽब्रवीन् महादेवो बाणं स्थितम् अथान्तिके
एवं भविष्यते बाण यत् त्वया समुदाहृतम् ॥
एतावद् उक्त्वा भगवांस् त्रिनेत्रो गणसंवृतः
पश्यतां सर्वभूतानां तत्रैवान्तर् अधीयत ॥
मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0