भाषा

ENहिગુ
ग्रंथ पाठ

हरिवंश · अध्याय 111

111.1

मृत इत्य् अभिविज्ञाय ज्वरं शत्रुनिषूदनः
कृष्णो भुजबलाभ्यां तं चिक्षेपाथ महीतले ॥

111.2

मुक्तमात्रस् तु बाहुभ्यां कृष्णदेहं विवेश सः
अमुक्त्वा विग्रहं तस्य कृष्णस्याप्रतिमौजसः ॥

111.3

स ह्य् आविष्टस् तदा तेन ज्वरेणाप्रतिमौजसा
कृष्णः स्खलन्न् इव मुहुः क्षितौ समभिवर्तत ॥

111.4

जृम्भते च तदा कृष्णः पुनश् च स्खलते भृशम्
रोमाञ् चोत्थितगात्रस् तु निद्रया चाभिभूयते ॥

111.5

ज्वराभिमृष्टम् आत्मानं विज्ञाय पुरुषोत्तमः
सो ऽसृजज् ज्वरम् अन्यं तु पूर्वज्वरविनाशनम् ॥

111.6

व्याविध्यमाने तु तदा ज्वरे तेनामितौजसा
अशरीरा ततो वाणी तम् उवाचान्तरिक्षगा ॥

111.7

कृष्ण कृष्ण महाबाहो यदूनां नन्दिवर्धन
मा वधीर् ज्वरम् एतं वै रक्षणीयस् त्वयानघ
इत्य् एवम् उक्ते वचने तं मुमोच हरिः स्वयम् ॥

111.8

तम् उवाच ज्वरो भूयस् त्व् अहम् एको ज्वरो भुवि
अहम् एको ज्वरस् तात नान्यो लोके ज्वरो भवेत् ।
तव प्रसादान् नान्यः स्याज् ज्वरः समितिशोभन ॥

111.9

एक एव ज्वरो लोके भवान् अस्तु यथासुखम्
ततस् तुष्टो हृषीकेशः स्तोत्रेणानेन केशवः ।
प्रीतिमांश् चाभवत् कृष्णो रौद्रज्वरम् उवाच ह ।
अन्तकाले मनुष्याणां भूयाद् भोगाय मामकः ।
यो ऽयं मया ज्वरो सृष्टो मय्य् एवैष प्रलीयताम् ॥

111.10

धन्यो ऽस्म्य् अनुगृहीतो ऽस्मि यत् त्वया मत्प्रियं क्र्टं
आज्ञापय प्रिअं किं ते चक्रायुध करोम्य् अहम् ॥

111.11

महामृधे तव मम च द्वयोर् इमं पराक्रमं भुजबलकेवलास्त्रयोः
प्रणम्य माम् एकमनाः पठेत् तु यः स वै भवेज् ज्वर विगतज्वरो नरः ॥

111.12

एवम् उक्तस् तु कृष्णेन ज्वरः साक्षान् महात्मना
प्रोवाच यदुशार्दूलम् एवम् एतद् भविष्यति ॥
वरं लब्ध्वा ज्वरो हृष्टः कृष्णाच् च समयं पुनः ।
एवम् अस्त्व् इति गोविन्दं बभाषे केशवं तदा ।
प्रणम्य शिरसा कृष्णम् अपक्रान्तस् ततो रणात् ॥

मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc