भाषा

ENहिગુ
ग्रंथ पाठ

हरिवंश · अध्याय 110

110.1

ततस् तूर्यनिनादैश् च शङ्खानां च महास्वनैः
बन्दिमागधसूतानां सर्वैश् चापि सहस्रशः ॥

110.2

स तून्मुखैर् जयाशीर्भिः स्तूयमानो हि मानवैः
बभार रूपं सोमार्क+ +शक्राणां सदृशं हरिः ॥

110.3

अतीव शुशुभे रूपं तस्य चाभ्युत्पतिष्यतः
वैनतेयस्य भद्रं ते बृंहितं हरितेजसा ॥

110.4

अथाष्टबाहुः कृष्णस् तु पर्वताकारसंनिभः
विबभौ पुण्डरीकाक्षो विकाङ्क्षन् बाणसंक्षयम् ॥

110.5

असिचक्रगदाबाणा दक्षिणं पार्श्वम् आस्थिताः
चर्म शार्ङ्गं तथा चापं शङ्खं चैवास्य वामतः ॥

110.6

शीर्षाणां वै सहस्रं तु विहितं शार्ङ्गधन्वना
सहस्रं चैव कायानां वहन् संकर्षणस् तदा ॥

110.7

श्वेतप्रहरणो ऽधृष्यः कैलास इव शृङ्गवान्
आस्थितो गरुडं राम उद्यन्न् इव निशाकरः ॥

110.8

सनत्कुमारस्य वपुः प्रादुर् आसीन् महात्मनः
प्रद्युम्नस्य महाबाहोः संग्रामे विक्रमिष्यतः ॥

110.9

स पक्षबलविक्षेपैर् विधुन्वन् पर्वतान् बहून्
जगाम मार्गं बलवान् वातस्य प्रतिषेधयन् ॥

110.10

अति वायोर् अथ गतिम् आस्थाय गरुडस् तदा
सिद्धचारणसंघानां शुभं मार्गम् अवातरत् ॥

110.11

अथ रामो ऽब्रवीद् वाक्यं कृष्णम् अप्रतिमम् रणे
स्वाभिः प्रभाभिर् हीनाः स्मः कृष्ण कस्माद् अपूर्ववत् ॥

110.12

सर्वे कनकवर्णाभाः संवृत्ताः स्म न संशयः
किम् इदं ब्रूहि नस् तत्त्वं किं मेरोः पार्श्वगा वयम् ॥

110.13

अग्नेर् आहवनीयस्य प्रभया स्म समाहताः
तेन नो वर्णवैरूप्यम् इदं जातं हलायुध ॥

110.14

यदि स्म संनिकर्षस्था यदि निष्प्रभतां गताः
तद् विधत्स्व स्वयं बुद्ध्या यद् अत्रानन्तरं हितम् ॥

110.15

कुरुष्व वैनतेय त्वं यन् नः कार्यम् अनन्तरम्
त्वया विधाने विहिते करिष्याम्य् अहम् उत्तरम् ॥

110.16

एतच् छ्रुत्वा तदा वाक्यं केशवस्य महात्मनः
एतच् छ्रुत्वा तु गरुडो वासुदेवस्य भाषितम् ।
चक्रे मुखसहस्रं हि कामरूपी महाबलः ।
गङ्गाम् उपागमत् तूर्णं वैनतेयस् ततो बली ॥

110.17

गृहीत्वा सलिलं तत्र तम् अग्निम् अभिषेचयत्
अग्निर् आहवनीयस् तु ततः शान्तिम् उपागमत् ॥

110.18

त्रयस् त्रयाणां लोकानां पर्याप्ता इति मे मतिः
कृष्णः संकर्षणश् चैव प्रद्युम्नश् च महाबलः ॥

110.19

ततः प्रशान्ते दहने संप्रतस्थे स पक्षिराट्
स्वपक्षबलविक्षेपैः कुर्वन् घोरं महास्वनम् ॥

110.20

तान् दृष्ट्वाचिन्तयंस् तत्र रुद्रस्यानुचराग्नयः
नियुक्ताः शूलिना पूर्वं रक्षणे नगरस्य हि ।
ऊचुः परमसंक्रुद्धा ज्वालयन्तो दिसो दश ।
आस्थिता गरुडं ह्य् एते नानारूपा भयावाहाः
किम् अर्थम् इह संप्राप्ताः के वापीमे जनास् त्रयः ॥

110.21

निश्चयं नाध्यगच्छन्त ते गिरिव्रजवह्नयः
प्रावर्तयंश् च संग्रामं तैस् त्रिभिः सह यादवैः ॥

110.22

अथाज्ञप्तस् तु बाणेन पुरुषो वै मनोजवः
दृष्ट्वा तत् सर्वम् आगच्छे+ +त्युक्तः प्रह्वस् ततस् त्वरन् ॥

110.23

तथेत्य् उक्त्वा स तद् युद्धं वर्तमानम् अवैक्षत
अग्नीनां वासुदेवेन संसक्तानां महामृधे ॥

110.24

ते जातवेदसः सर्वे कल्माषः खसृमस् तथा
दहनः शोषणश् चैव तपनश् च महाबलः
स्वधाकारस्य विषये प्रख्याताः पञ्च वह्नयः ॥

110.25

अथापरे महाभागाः स्वैर् अनीकैर् व्यवस्थिताः
अग्नयः समदृश्यन्त ज्वलमाना महाहवे ।
पटरः पतगः स्वर्णो अगाधो भ्राज एव च
स्वाहाकाराश्रया पञ्च अयुध्यंस् ते ऽपि चाग्नयः ॥

110.26

ज्योतिष्टोमहविर्भागौ वषट्काराश्रयौ पुनः
द्वाव् अग्नी संप्रयुध्येतां महात्मानौ महाद्युती
तयोर् मध्ये ऽङ्गिराश् चैव महर्षिर् विबभौ प्रभुः ॥

110.27

स्थितम् अङ्गिरसं दृष्ट्वा स्यन्दने पुरुषोत्तमः
कृष्णः प्रोवाच वचनं स्मयन्न् इव पुनः पुनः ॥

110.28

तिष्ठध्वम् अग्नयो यूयम् एष वो विदधे भयम्
ममास्त्रतेजसा दद्घा दिशो यास्यथ विक्षताः ॥

110.29

अथाङ्गिरास् त्रिशूलेन दीप्तेन समधावत
आददान इव क्रोधात् कृष्णप्राणान् मधामृधे ॥

110.30

त्रिशूलं तस्य तद् दीप्तं चिच्छेद परमेषुभिः
अर्धचन्द्रैस् तथा तीक्ष्णैर् यमान्तकनिभैर् युधि ॥

110.31

स्थूणाकर्णेन चास्त्रेण दीप्तेन सुमहायशाः
विव्याधान्तकतुल्येन वक्षस्य् एनम् अथो ऽनदत् ॥

110.32

रुधिरौघप्लुतैर् गात्रैस् तदाग्निर् चिह्वलन्न् इव
विष्टब्धगात्रः सहसा पपात धरणीतले ॥

110.33

शेषास् ततो ऽग्नयः सर्वे चत्वारो ब्रह्मणः सुताः
आवाहयंस् तदा शीघ्रं बाणस्य पुरम् अन्तिकात् ॥

110.34

ततः शङ्खं समानीय वदने पुष्करेक्षणः
प्रदध्मौ समरे कृष्णो नादेनापूरयन् दिशः ।
वायुवेगेन तं दध्मौ मेघश् चन्द्रम् इवोद्गिरन् ॥

110.35

ततः प्रध्माप्य तं शङ्खं भयम् उत्पाद्य वीर्यवान्
अग्निं जित्वा तदा विष्णुर् बाणस्य पुररक्षिणः ।
प्रविवेश पुरं कृष्णो बाणस्याद्भुतकर्मणः ॥

110.36

ततः शङ्खप्रणादेन भेरीणां च महास्वनैः
बाणानीकानि सहसा समनह्यन्त सर्वशः ॥

110.37

ततः किंकरसैन्यं तद् अभ्यागात् समरे महत्
कोटिशश् चापि बहुधा दीप्तप्रहरणं तदा ॥

110.38

तद् असंख्येयम् एकस्थं महाभ्रघनसंनिभम्
नीलाञ्जनचयप्रख्यम् अप्रमेयं तथाक्षयम् ॥

110.39

ते प्रदीप्तप्रहरणा दैत्यदानवराक्षसाः
प्रमाथगणमुख्याश् च ते ऽयुध्यन् कृष्णसंगताः ॥

110.40

सर्वतस् तैः प्रदीप्तास्यैः सार्चिष्मद्भिर् इवानलैः
अभ्युपेत्य तदात्युग्रैर् यक्षराक्षसकिंनरैः ।
आपीयत तदा रक्तं चतुर्णाम् अपि संयुगे ॥

110.41

ततो रामो महाबाहुः केशवं वाक्यम् अब्रवीत्
तद्बलं तु समासाद्य बलभद्रो महाबलः ।
प्रोवाच वचनं तत्र परस्य बलनाशनम् ।
कृष्ण कृष्ण महाबाहो विधत्स्वैषां महद् भयम् ॥

110.42

इति संचोदितः कृष्णो बलभद्रेण धीमता
तेषां वधार्थम् आग्नेयं जग्राह पुरुषोत्तमः
अस्त्रम् अस्त्रविदां श्रेष्ठो यमान्तकसमप्रभम् ॥

110.43

स विधूयासुरगणान् क्रव्यादान् अस्त्रतेजसा
प्रययौ त्वरया युक्तो यतो ऽदृश्यत तद्बलम् ॥

110.44

शूलपट्टिसशक्त्यृष्टि+ +पिनाकपरिघायुधम्
प्रमाथगणभूयिष्ठं बलं तद् अभवत् क्षितौ ॥

110.45

शैलमेघप्रतीकाशैर् नानारूपैर् भयानकैः
वेताळैश् च पिशाचैश् च भक्षयद्भिश् च मांसकम् ।
वाहनैः संघशः सर्वे योधास् तत्रावतस्थिरे
वातोद्धूतैर् इव घनैर् विप्रकीर्णैर् इवाचलैः ॥

110.46

वैनतेयगतो रामस् तान् दृष्ट्वा कृष्णम् अब्रवीत्
कृष्ण कृष्ण महाबाहो यद् एतद् दृश्यते बलम्
एतैः सह रणे योद्धुम् इच्छामि पुरुषोत्तम ॥

110.47

ममाप्य् एषैव संजाता बुद्धिर् इत्य् अब्रवीच् च तम्
एषो ऽभिलषितः कामः प्राग् एव हि ममाभवत् ।
एभिः सह समागन्तुम् इच्छेयं युद्धदुर्मदैः ॥

110.48

युध्यतः प्राङ्मुखस्यास्तु सुपर्णो वै ममाग्रतः
सव्ये पार्श्वे च प्रद्युम्नस् तथा मे दक्षिणे भवान् ॥

110.49

रक्षितव्यम् अथान्योन्यम् अस्मिन् घोरे महामृधे
एवं ब्रुवन्तस् ते ऽन्योन्यम् अधिरूढाः खगोत्तमम् ॥

110.50

गिरिशृङ्गनिभैर् युद्धे गदामुसललाङ्गलैः
युध्यतो रौहिणेयस्य रौद्रं रूपम् अभूत् तदा
युगान्ते सर्वभूतानि कालस्येव दिधक्षतः ॥

110.51

आकृष्य लाङ्गलाग्रेण मुसलेन व्यपोथयत्
चरत्य् अतिबलो युद्धे युद्धमार्गविशारदः ॥

110.52

प्रद्युम्नः शरजालैस् तान् समन्तात् प्रत्यवारयत्
दानवान् पुरुषव्याघ्रो युद्यमानान् सहस्रशः ॥

110.53

स्निग्धाञ्जनचयप्रख्यः शङ्खचक्रगदाधरः
प्रध्माप्य बहुशः शङ्खम् अयुध्यत जनार्दनः ॥

110.54

पक्षप्रहाराभिहतांस् तुण्डाग्रनखविक्षतान्
अकरोत् समरे शत्रून् वैनतेयः प्रतापवान् ॥

110.55

तैर् हन्यमानं दैत्यानाम् अनीकं भीमविक्रमैः
अभज्यत तदा संख्ये बाणवर्षसमाहतम् ॥

110.56

भज्यमानेष्व् अनीकेषु त्रातुकामः समभ्ययात्
एतस्मिन्न् अन्तरे राजन् नारदः प्रययौ रणात् ।
कैलासं मेरुसंकाशं दृष्टो रुद्रेण पूजितः ।
पृष्टः किम् इह देवर्षे संप्राप्तस् तद् वदस्व मे ॥
ततः प्रहस्य देवर्षिः प्राह रुद्रं महीपते ।
बाणः संहन्यते देव कृष्णेन हलिना किल ।
तस्य सर्वम् अनीकं तु भग्नं तन् नावतिष्ठति ॥
किं वर्तसे ऽद्य निश्चिन्तो भर्तस् ते पीड्यते किल ।
कुरुष्व तस्य साहाय्यं भक्ताधीनो भवान् इति ॥
नारदस्य वचः श्रुत्वा हरः प्रस्फुरिताधरः ।
निश्वासं मुमुचे राजन्न् अस्तः कश् चिद् विनिर्गतः ॥
तं किं करोमीति हरं पृच्छन्तं प्राह भूतपः ।
गच्छ बाणपुरं शीघ्रं जहि कृष्णहलायुधौ ॥
तथेत्य् अन्तर्दधे सो ऽपि ययौ यत्र हरिर् हली ।
प्रमथान् आह रुद्रस् तु सज्जा भवत सत्तमाः ॥
सज्जैर् गच्छत मात्स्यार्द्धो (?) मयूरोन्दरवाहनौ ।
गच्छ नारद तत्र त्वं बाणम् आश्वासय प्रभो ॥
एष माम् आगतं पश्य त्वत्कृते दैत्यसत्तम ।
घातयामि यदुश्रेष्ठौ प्राप्तौ याव् इह मन्दधीः ॥
तथेति नारदः प्राप्तो बाणायावेदयत् तदा ।
पुनर् ययौ कृष्णपार्श्वं खेचरो वा गरुत्मनि ॥
कारयाम् आस रुद्रस् तु प्रयानोद्योगम् उत्तमम् ॥
ज्वरस् तु रणम् आगत्य ददर्श हलिनं रणे ।
घ्नन्तं दानवदैतेयांस् तं हन्तुं स समागतः ।
ज्वरस् त्रिपादस् त्रिशिरास् तदा समरदुर्जयः ॥

110.57

भस्मप्रहरणो घोरः कालान्तकयमोपमः
नदन् मेघसहस्रस्य तुल्यनिर्घातनिस्वनः ॥

110.58

हलायुधम् अभिक्रुद्धः साक्षेपम् इदम् अब्रवीत्
किं मां युध्यसि दुर्बुद्धे बलवन्तं महास्वनम् ।
किम् एवं बलमत्तो ऽसि न मां पश्यसि संयुगे
तिष्ठ तिष्ठ न मे जीवन् मोक्ष्यसे रणमूर्धनि ॥

110.59

इत्य् एवम् उक्त्वा प्रहसन् हलायुधम् अभिद्रवत्
युगान्ताग्निनिभैर् घोरैर् मुष्टिभिर् जनयन् भयम् ॥

110.60

चरतस् तस्य संग्रामे मण्डलानि सहस्रशः
रौहिणेयस्य शैघ्र्येण नावस्थानम् अदृश्यत ॥

110.61

तस्य भस्म तदा क्षिप्तं ज्वरेणाप्रतिमौजसा
शैघ्र्याल् लक्ष्ये निपतितं शरीरे पर्वतोपमे ॥

110.62

तद् भस्म वक्षसस् तस्य मेरोः शिखरम् आगतम्
प्रदीप्तं पतितं तत् तु गिरिशृङ्गं व्यदारयत् ॥

110.63

रोषेणाभिप्रजज्वाल भस्मना कृष्णपूर्वजः
निःश्वसञ् जृम्भमाणश् च निद्रान्विततनुर् मुहुः ॥

110.64

नेत्रयोर् आकुलत्वं च मुहुः कुर्वन् भ्रमंस् तदा
संहृष्टलोमा ग्लानाक्षः क्षिप्तचित्त इव श्वसन् ॥

110.65

ततो हलधरो मत्तः कृष्णम् आह विचेतनः
कृष्ण कृष्ण महाबाहो प्रदीप्तो ऽस्म्य् अभयंकर
दह्यामि सर्वतस् तात कथं शान्तिर् भवेन् मम ॥

110.66

इत्य् एवम् उक्ते वचने परिष्वक्तो हलायुधः
बलेनामिततेजसा ।
प्रहस्य वचनं प्राह कृष्णः प्रहरतां वरः ।
न भेतव्यम् इतीत्युक्त्वा ।
कृष्णेन परमस्नेहात् ततो दाहात् प्रमुच्यत ॥

110.67

प्रोवाच परमक्रुद्धो वासुदेवो ज्वरं तदा
बलभद्रो हृषीकेशाच् छान्तिं प्राप्तस् तदा रणे ॥
तयोर् अन्तरम् आसाद्य तस्थौ युद्धाय केशवः ।
व्याविध्य सहसा बाहुं ज्वरम् एतद् उवाच ह ।
एह्य् एहि ज्वर युध्यस्व या ते शक्तिर् महामृधे
तां दर्शयस्व समरे मयि युद्धविशारद ॥

110.68

सव्येतराभ्यां बाहुभ्याम् एवम् उक्तो ज्वरस् तदा
चिक्षेप चैनं तद् भस्म ज्वालागर्भं महागदः ॥

110.69

ततः प्रदीप्तस् तु विभुर् मुहूर्तम् अभवत् तदा
कृष्णः प्रहरतां श्रेष्ठः शमं चाग्निर् गतः पुनः ॥

110.70

ततस् तैर् भुजगाकारैर् बाहुभिस् तु त्रिभिस् तदा
जघान कृष्णं ग्रीवायां मुष्टिनैकेन चोरसि ॥

110.71

स संप्रहारस् तुमुलस् तयोः पुरुषसिंहयोः
ज्वरस्य च महान् आसीत् कृष्णस्य च महात्मनः
पर्वतेषु पतन्तीनाम् अशनीनाम् इव स्वनः ॥

110.72

कृष्णज्वरभुजप्राणैर् युद्धम् आसीत् सुदारुणम्
नैवम् एवं प्रहर्तव्यम् इति तत्राभवत् स्वनः
मुहूर्तम् अभवद् युद्धम् अन्योन्यं सुमहात्मनोः ॥

110.73

ततो ज्वरं कनकविचित्रभूषणं न्यपीडयद् भुजवलयेन संयुगे
यम् अक्षयं समुपनयञ् जगत्पतिः शरीरधृग् गगनचरं महामृधे ॥

मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc