भाषा

ENहिગુ
ग्रंथ पाठ

हरिवंश · अध्याय 108

108.1

ततो द्वारवतीमध्ये प्राकारैर् उपशोभितम्
ततो द्वारवतीमध्ये कामस्य भवनं शुभम् ।
तत्समीपे ऽनिरुद्धस्य भवनं सा स्म पश्यति ॥
सौवर्णवेदिकास्तम्भं रुक्मवैदूर्यतोरणम् ।
माल्यदामावसक्तं च पूर्णकुम्भोपशोभितम् ॥
बर्हिकण्ठानतग्रीवं प्रासादैर् एकसंचयैः ।
मणिप्रवालसंस्तीर्णं दिव्यगन्धर्वनादितम् ।
ददर्श भवनं यत्र प्राद्युम्निर् अवसत् सुखम् ॥

108.2

ततः प्रविश्य सहसा भवनं तस्य तन् महत्
तत्रानिरुद्धं सापश्यच् चित्रलेखा वराप्सराः ।
ददर्श मध्ये नारीणां तारापतिम् इवोदितम् ॥

108.3

क्रीडाविहारे नारीभिः सेव्यमानम् इतस् ततः
पिबन्तं मधु माध्वीकं श्रिया परमया युतम्
वरासनगतं तत्र यथैवैलविलं तथा ॥

108.4

चिन्तयाविष्टदेहा सा चित्रलेखा मनस्विनी
कथं कार्यम् इदं कार्यं कथं स्वस्ति भवेन् मम ॥

108.5

सान्तर्हिता चिन्तयित्वा चित्रलेखा यशस्विनी
तामस्या छादयाम् आस विद्यया शुभलोचना ॥

108.6

हर्म्ये स्त्रीगणमध्यस्थं कृत्वा चान्तर्हितं तदा
उत्पपात गृहीत्वा सा प्राद्युम्निं युद्धदुर्मदम् ॥

108.7

सा तम् अध्वानम् आगम्य सिद्धचारणसेवितम्
सहसा शोणितपुरं प्रविवेश मनोजवा ॥

108.8

तत्रोषा विस्मिता दृष्ट्वा हर्म्यस्था सखिसंनिधौ
प्रवेशयाम् आस तदा संप्राप्तं स्वगृहं ततः ॥

108.9

प्रहर्षोत्फुल्लनयना प्रियं दृष्ट्वार्थकोविदा
सा हर्म्यस्था तम् अर्घ्येण यादवं समपूजयत् ।
चित्रलेखां परिष्वज्य प्रियाख्यानैर् अयोजयत् ।
त्वरिता कामिनी प्राह चित्रलेखां भयातुरा ॥

108.10

सखीदं वै कथं गुह्यं कार्यं कार्यविशारदे
गुह्ये कृते भवेत् स्वस्ति प्रकाशे जीवितक्षयः ॥

108.11

इत्य् उक्त्वा त्वरमाणा सा गुह्यदेशे स्वलंकृता
कान्तेन सह संयुक्ता स्थिता वै भीतभीतवत्
ततश् चोद्वाहधर्मेण गान्धर्वेण समीयतुः ।
अन्योन्यं रेमतुस् तौ तु चक्रवाकौ यथा दिवा ॥
पतिना सानिरुद्धेन मुमुदे तु वराङ्गना ।
कान्तेन सह संयुक्ता दिव्यस्रगनुलेपना ।
एकदेशे गृहस्यास्य प्रच्छन्नो चैव भामिनी ।
करेणुर् द्विरदेनेव वरयाम् आस संगता ॥
पपौ तस्य मुखं साध्वी समालिङ्ग्य यथाक्रमम् ।
नेत्रे चुचुम्ब सा देवी बाणस्य दुहिता यदुम् ॥
भूयो भूयः समाश्लिष्य यथेष्टं मदमोहिता ।
न तृप्तिम् आययौ सा तु समालिङ्ग्य यदूत्तमम् ॥
तामस्या विद्यया युक्तः प्राद्युम्निर् अथ तत्क्षणात् ।
चिन्तयाम् आस तं दृष्ट्वा गृहे स्त्रीजनम् अद्भुतम् ॥
को ऽयं विधिर् मम महान् न जाने त्व् अस्य कारणम् ।
स्वप्नो ऽयं किं मया दृष्ट उताहो विभ्रमो मम ॥
जागर्म्य् अहं न मे स्वप्नो न च म विभ्रमो महान् ।
केयम् अग्रे स्थिता सुभ्रूर् लतेव च सुपुष्पिता ॥
उद्भ्रान्तहरिणापङ्गी भ्रूलताभङ्गभाषिणी ।
पीनस्तनोरुजघना ताम्रपादकराधरा ॥
नीलकुञ्चितकेशाढ्या मधुरस्मितभाषिणी ।
मम नेत्रपथाक्रान्ता चन्द्रलेखेव शारदी ।
किम् इदं नात्र जानामि केनेदं प्रतिपादितम् ॥
दृष्ट्वास्य ववृधे कामस् ताम् उषां मदमोहिताम् ।
सा च तत्पुरतः साक्षात् पानं कर्तुं समुद्यता ॥
अथ ताम् इङ्गितैर् ज्ञात्वा श्रुत्वा चैव यथार्थतः ।
रमयाम् आस रमणीं कामतस् तां मनोरमाम् ॥
सा चापि तं समासाद्य हर्षभीताकुलेक्षणा ।
कामतो रमयाम् आस रोमाञ्चोद्गतकर्कशा ॥
लीलासंलापललितैर् ललना तं समाचरत् ।
करेणुर् इव मातङ्गं वाशिता गिरिगह्वरे ।
अनिरुद्धं महाबाहुं निद्रापरवशं गतं ।
ततो निरुद्धः स्वप्ने तु स्वपुराच् चित्रलेखया ।
नीतो बाणपुरं सद्यः संगतश् चोषया सह ॥
दृष्ट्वैवं स्वप्नसंसर्गं उषया स्वस्य चाद्भुतम् ।
वचनेन विमोहिताम् ॥
स ततश् चित्रलेखां ताम् अवेक्ष्योवाच यादवः ।
द्वारकानगराच् छीग्रम् आनीतश् चित्रलेखया ॥
बाणस्य नगरं प्राप्य संगतो ऽस्म्य् उषया रहः ।
एवं स्वप्नो मया दृष्टो विचित्रो ऽदृष्टपूर्वकः ॥
को ऽयं विधिर् ममायातः का त्वं कैषा च भामिनी ।
केयं पुरी गृहं कस्य तत् त्वम् आख्यातुम् अर्हसि ॥
इति ब्रुवन्तं तं दृष्ट्वा चित्रलेखा वचो ऽब्रवीत् ।
अपि ते कुशलं वीर सर्वत्र यदुनन्दन ।
रममाणानिरुद्धेन अविज्ञाता तु सा तदा ॥

108.12

तस्मिन्न् एव क्षणे प्राप्ते यदूनाम् ऋषभो हि सः
दिव्रमाल्याम्बरधरो दिव्यस्रगनुलेपनः
उषया सह संयुक्तो विज्ञातो बाणरक्षिभिः ॥

108.13

ततस् तैश् चारपुरुषैर् बाणस्यावेदितं तदा
यथादृष्टम् अशेषेण कन्यायास् तद्व्यतिक्रमम् ॥

108.14

ततः किंकरसैन्यं तु व्यादिष्टं भीमकर्मणा
बलेः पुत्रेण बाणेन वीरेणामित्रघातिना ॥

108.15

गच्छध्वं सहिताः सर्वे हन्यताम् एष दुर्मतिः
येन नः कुलचारित्रं दूषितं दूषितात्मना ॥

108.16

उषायां धर्षितायां हि कुलं नो धर्षितं महत्
असंप्रदानाद्यो ऽस्माभिः स्वयंग्राहम् अधर्षयत् ॥

108.17

अहो वीर्यमहो धैर्यम् अहो धार्ष्ट्यं च दुर्मतेः
यः पुरं भवनं चेदं प्रविष्टो नः सुबालिशः ॥

108.18

नानाशस्त्रोद्यतकरा नानारूपधरास् तु ते
दानवाः समभिक्रुद्धाः प्राद्युम्निवधकाङ्क्षिणः ॥

108.19

ततस् तेषां स्वनं श्रुत्वा सर्वेषाम् एव गर्जताम्
सहसैवोत्थितः शूरस् तोत्रार्दित इव द्विपः ॥

108.20

तम् आपतन्तं दृष्ट्वैव संदष्टौष्ठं महाभुजम्
प्रासादाच् चावरोहन्तं भयार्ता विप्रदुद्रुवुः ॥

108.21

अन्तःपुरद्वारगतं परिघं गृह्य चातुलम्
वधाय तेषां चिक्षेप नानायुधविशारदः ॥

108.22

ते सर्वे बाणवर्षैश् च गदाभिस् तोमरैस् तथा
असिभिः शक्तिभिः शूलैर् निजघ्नू रणगोचरम् ॥

108.23

स हन्यमानो नाराचैः परिघैश् च समन्ततः
दानवैः समभिक्रुद्धैः प्राद्युम्निः शस्त्रकोविदैः ।
नाक्षुभ्यत् सर्वभूतात्मा नदन् मेघ इवोष्णगे ॥

108.24

आविध्य परिघं घोरं तेषां मध्ये व्यवस्थितः
सूर्यो दिविचरन्मध्ये मेघानाम् इव सर्वतः ॥

108.25

ते हन्यमाना रौद्रेण परिघेणामितौजसा
प्राद्रवन्त भयात् सर्वे मेघो वातेरिता यथा ॥

108.26

अनिरुद्धो नदन् हृष्टः सिंहनादं व्यरोचत
घर्मान्ते तोयदो व्योम्नि नदन्न् इव महास्वनः ॥

108.27

तिष्ठध्वम् इति चुक्रोश दानवान् युद्धदुर्मदान्
प्राद्युम्निर् व्यहनच् चापि सर्वशत्रुनिबर्हणः ॥

108.28

तेन ते समरे सर्वे हन्यमाना महात्मना
यतो बाणस् ततो भीता ययुर् युद्धपराङ्मुखाः ॥

108.29

ततो बाणसमीपस्थाः श्वसन्तो रुधिरोक्षिताः
न शर्म लेभिरे दैत्या भयविक्लवलोचनाः ॥

108.30

मा भैष्ट मा भैष्ट इति राज्ञा ते तेन चोदिताः
त्रासं विसृज्य चैकस्था युध्यध्वं दानवर्षभाः ॥

108.31

किम् इदं लोकविख्यातं यश उत्सृज्य दूरतः
भवन्तो यान्ति वैक्लव्यं क्लीबा इव विचेतसः ॥

108.32

को ऽयं यस्य भयत्रस्ता भवन्तो यान्त्य् अनेकशः
कुलापदेशिनः सर्वे नानायुद्धविशारदाः ॥

108.33

भवद्भिर् न हि मे युद्धे कार्यं साहाय्यम् अद्य वै
अब्रवीद् ध्वंसतेत्य् एवं मत्समीपाच् च नश्यत ॥

108.34

अथ तान् वाग्भिर् उग्राभिस् त्रासयन् बहुधा बली
व्यादिदेश रणे शूरान् सर्वान् अयुतशः पुनः ॥

108.35

प्रमाथगणभूयिष्ठं व्यादिष्टं तस्य निग्रहे
अनीकं सुमहद्रात्रौ नानाप्रहरणोद्यतम् ॥

108.36

तत्रान्तरिक्षं बहुधा विद्युद्वद्भिर् इवाम्बुदैः
बाणानीकैः समभवद् व्याप्तं संदीप्तलोचनैः ॥

108.37

केचित् क्षितिस्थाः प्राक्रोशन् गजा इव समन्ततः
अथान्तरिक्षे व्यनदन् घर्मान्तेष्व् इव तोयदाः ॥

108.38

ततस् तत् सुमहद् युद्धं समेतम् अभवत् पुनः
तिष्ठ तिष्ठेति च तदा वाचो ऽश्रूयन्त सर्वशः ॥

108.39

तद् आश्चर्यं समभवद् यद् एकस् तैः समागतः
अयुध्यत महावीर्यैर् दानवैः सह संयुगे ॥

108.40

तेषाम् एव च जग्राह परिघांस् तोमरान् अपि
तैर् एव च महायुद्धे निजघान महाबलः ॥

108.41

पुनः स परिघं घोरं प्रगृह्य रणमूर्धनि
स दैत्यसंघान् समरे निजघान महाबलान् ॥

108.42

निस्त्रिंशं चर्म चोत्सृष्टं जग्राह रणमूर्धनि
स तेन व्यचरन् मार्गान् एकः शत्रुनिबर्हणः ॥

108.43

भ्रान्तम् उद्भ्रान्तम् आविद्धम् आप्लुतं विप्लुतं प्लुतम्
इति प्रकारान् द्वात्रिंशद् विचरन्न् अभ्यदृश्यत ॥

108.44

एकं सहस्रशस् तत्र ददृशू रणमूर्धनि
क्रीडन्तं बहुधा युद्धे व्यादितास्यम् इवान्तकम् ॥

108.45

ततस् तेनाभिसंतप्ता रुधिरौघपरिप्लुताः
पुनर् भग्नाः प्राद्रवन्त यत्र बाणः स्थितो रणे ॥

108.46

गजवाजिरथौघैस् ते उह्यमानाः समन्ततः
कृत्वा चार्तस्वरं घोरं दिशो जग्मुर् हतौजसः ॥

108.47

एकैकस्योपरि तदा ते ऽन्योन्यं भयपीडिताः
वमन्तः शोणितं जग्मुर् विषादाद् विमुखा रणे ॥

108.48

न बभूव भयं तादृग् गानवानां पुरा रणे
यादृशं युध्यमानानाम् अनिरुद्धेन संयुगे ॥

108.49

केचिद् वमन्तो रुधिरम् अपतन् वसुधातले
दानवा गिरिशृङ्गाभा गदाशूलासिपाणयः ॥

108.50

ते बाणम् उत्सृज्य रणे जग्मुर् भयसमाकुलाः
विशालम् आकाशतलं दानवा निर्जितास् तदा ॥

108.51

निःसङ्गभग्नां महतीं दृष्ट्वा तां वाहिनीं तदा
बाणः क्रोधात् प्रजज्वाल समिद्धो ऽग्निर् इवाध्वरे ॥

108.52

कुम्भाण्डसंगृहीतं तु रथम् आस्थाय वीर्यवान्
ययौ यत्रानिरुद्धो वै सो ऽसिम् उद्यम्य दारुणम् ॥

108.53

पट्टिसासिगदाशूलान् उद्यम्य च परश्वधान्
बभौ बाहुसहस्रेण शक्रध्वजशतैर् इव ॥

108.54

बद्धगोधाङ्गुलित्रैश् च बाहुभिः स महाभुजः
नानाप्रहरणोपेतः शुशुभे दानवोत्तमः ॥

108.55

सिंहनादं नदन् क्रुद्धो विस्फारितमहाधनुः
विसृजञ् शतशो बाणान् दानवो ऽथ महाबलः ।
अभ्यद्रवच् च वेगेन प्राद्युम्निर् यत्र संस्थितः ।
अब्रवीत् तिष्ठ तिष्ठेति क्रोधसंरक्तलोचनः ॥

108.56

वचनं तस्य संश्रुत्य प्राद्युम्निर् अपराजितः
बाणस्य वदतः संख्ये उदैक्षत ततो ऽहसत् ॥

108.57

किंकिणीशतनिर्घोषं रक्तध्वजपताकिनम्
ऋक्षचर्मावनद्धाङ्गं दशनल्वं महारथम् ॥

108.58

तस्य वाजिसहस्रं तु रथे युक्तं महात्मना
पुरा देवासुरे युद्धे हिरण्यकशिपोर् इव ॥
तम् आपतन्तं ददृशे दानवं यदुपुंगवः ।
संप्रहृष्टस् ततो युद्धे तेजसा चाप्य् अपूर्यत ॥
असिचर्मधरो वीरः स्वस्थः संग्रामलालसः ।
नरसिंहो यथा पूर्वम् आदिदैत्यवधोद्यतः ।
आपतन्तं ददर्शाथ खड्गचर्मधरं तदा ॥

108.59

खड्गचर्मधरं तं तु दृष्ट्वा बाणः पदातिनम्
प्रहर्षम् अतुलं लेभे प्राद्युम्निवधकाङ्क्षया ॥

108.60

तनुत्रेण विहीनश् च खड्गपाणिश् च यादवः
अजेयश् चेति मत्वा तं युद्धायाभिमुखे स्थितम् ॥

108.61

ववर्ष शरजालानि क्षुद्रकाणां समन्ततः
बाणोऽनिरुद्धशिरसि काङ्क्षंस् तस्य रणे वधम् ॥

108.62

तानि बाणसहस्राणि चर्मणा व्यवधूय सः
बभौ प्रमुखतस् तस्य स्थितः सूर्य इवोदये ॥

108.63

सो ऽभिभूय रणे बाणम् आस्थितो यदुनन्दनः
सिंहः प्रमुखतो दृष्ट्वा गजम् एकं यथा वने ॥

108.64

ततो बाणसहस्रौघैर् मर्मभेदिभिर् आशुगैः
विव्याध निशितैस् तीक्ष्णैः प्राद्युम्निम् अपराजितम् ॥

108.65

सो ऽतिविद्धो महाबाहुर् बाणैः संनतपर्वभिः
क्रोधेनाभिप्रजज्वाल चिकीर्षुः कर्म दुष्करम् ॥

108.66

रुधिरौघप्लुतैर् गात्रैर् बाणवर्षैः समाहतः
अभिभूतः सुसंक्रुद्धो ययौ बाणरथं प्रति ॥

108.67

असिभिर् मुसलैः शूलैः पट्टिसैस् तोमरैस् तथा
सो ऽतिविद्धः शरौघैस् तु प्राद्युम्निर् नाभ्यकम्पत ॥

108.68

आप्लुत्य सहसा क्रुद्धो रथेषां तस्य सो ऽच्छिनत्
जघानाश्वांश् च खड्गेन बाणस्य रथमूर्धनि ॥

108.69

तं पुनः शरवर्षेण तोमरैः पट्टिसैस् तथा
चकारान्तर्हितं बाणो युद्धमार्गविशारदः ॥

108.70

हतो ऽयम् इति विज्ञाय प्राणदन् नैरृता गणाः
ततो ऽवप्लुत्य सहसा रथपार्श्वे व्यवस्थितः ॥

108.71

शक्तिं बाणस् ततः क्रुद्धो घोररूपां भयावहाम्
जग्राह ज्वलितां दीप्तां घण्टामालाकुलां रणे ॥

108.72

ज्वलनादित्यसंकाशां यमदण्डोपमां शुभाम्
वारयन्तीं दुराधर्षां चामीकरविभूषिताम् ।
गुर्वीं भारसहस्रेण विश्वकर्मकृतां तदा ।
प्राहिणोत् ताम् असङ्गेन महोल्कां ज्वलिताम् इव ॥

108.73

ताम् आपतन्तीं संप्रेक्ष्य जीवितान्तकरीं तदा
ताम् एव प्राहिणोच् छक्तिं सर्वशत्रुभयंकरीम् ।
सो ऽभिप्लुत्य तदा शक्तिं जग्राह पुरुषोत्तमः ॥

108.74

निर्बिभेद ततो बाणं स्वशक्त्यैव महाबलः
सा भित्त्वा तस्य देहं तु जगाम वसुधातलम् ॥

108.75

ततो मूर्छाभिभूतं तं कुम्भाण्डो वाक्यम् अब्रवीत्
उपेक्षसे दानवेन्द्र किम् एवं शत्रुम् उद्यतम् ॥

108.76

लब्धलक्ष्यो ह्य् अयं वीरो निर्विकारो ऽद्य दृश्यते
मायाम् आश्रित्य युध्यस्व नायं वध्यो ऽन्यथा भवेत् ॥

108.77

आत्मानं मां च रक्षस्व प्रमादात् किम् उपेक्षसे
वध्यताम् अयम् अद्यैव न नः सर्वान् विनाशयेत् ॥

108.78

कुम्भाण्डवचनैर् एवं दानवेन्द्रः प्रचोदितः
वाचं रूक्षाम् अभिक्रुद्धः प्रोवाच वदतां वरः ॥

108.79

एषो ऽहम् अस्य विदधे मृत्युं प्राणहरं रणे
आदास्याम्य् अहम् एनं वै गरुत्मान् इव पन्नगम् ॥

108.80

इत्य् एवम् उक्त्वा सरथः साश्वः सध्वजसारथिः
गन्धर्वनगराकारस् तत्रैवान्तरधीयत ॥

108.81

विज्ञायान्तर्हितं बाणं प्राद्युम्निर् अपराजितः
पौरुषेण समायुक्तः स प्रैक्षत दिशो दश ॥

108.82

आस्थाय तामसीं विद्यां तदा क्रुद्धो बलेः सुतः
मुमोच विशिखांस् तीक्ष्णांश् छन्नो मायाधरो बली ॥

108.83

प्राद्युम्निर् विशिखैर् बद्धः सर्पभूतैः समन्ततः
वेष्टितो बहुधा तस्य देहः पन्नगराशिभिः ॥

108.84

स तु वेष्टितसर्वाङ्गो बद्धः प्राद्युम्निर् आहवे
निष्प्रयत्नः स्थितः स्वस्थो मैनाक इव पर्वतः ॥

108.85

ज्वालावलीढवदनैः सर्पभोगैर् विवेष्टितः
अभीतः पर्वताकारः प्राद्युम्निर् अभवद् रणे ॥

108.86

निष्प्रयत्नः स्थितश् चापि सर्पभोगमयैः शरैः
न विव्यथे स भूतात्मा सर्वतः परिवेष्टितः ॥

108.87

ततस् तं वाग्भिर् उग्राभिः संरब्धः समतर्जयत्
बाणो ध्वजं समाश्रित्य प्रोवाचामर्षितो वचः ॥

108.88

कुम्भाण्ड वध्यतां शीघ्रम् अयं वै कुलपांसनः
चारित्रं येन मे लोके दूषितं दूषितात्मना ॥

108.89

इत्य् एवम् उक्ते वचने कुम्भाण्डो वाक्यम् अब्रवीत्
राजन् वक्ष्याम्य् अहं किंचित् तन् मे शृणु यदीच्छसि ॥

108.90

अयं विज्ञायतां कस्य कुतो वायम् इहागतः
केन वायम् इहानीतः शक्रतुल्यपराक्रमः ॥

108.91

मयायं बहुशो युद्धे दृष्टो राजन् महारणे
क्रीडन्न् इव च युद्धेषु दृश्यते देवसूनुवत् ॥

108.92

बलवान् सत्त्वसंपन्नः सर्वशास्त्रविशारदः
नायं वधकृतं दोषम् अर्हते दैत्यसत्तम
विज्ञाय च वधं वास्य पूजां वापि करिष्यसि ॥

108.93

वधे ह्य् अस्य महान् दोषो रक्षणे सुमहान् गुणः
अयं हि पुरुषोत्कर्षः सर्वथा मानम् अर्हति ॥

108.94

सर्वतो वेष्टिततनुर् न व्यथत्य् एष भोगिभिः
कुलशौण्डीर्यवीर्यैश् च सत्त्वेन च समन्वितः ।
पश्य राजन् यशोवीर्यैर् अन्वितं पुरुषोत्तमम्
न नो गणयते सर्वान् वधं प्राप्तो ऽप्य् अयं बली ॥

108.95

शोणितौघप्लुतैर् गात्रैर् नागभोगैश् च वेष्टितः
त्रिशिखां भ्रुकुटीं कृत्वा न चिन्तयति नः स्थितान् ॥

108.96

इमाम् अवस्थां नीतो ऽपि स्वबाहुबलम् आश्रितः
न चिन्तयति राजंस् त्वां वीर्यवान् को ऽप्य् असौ युवा ॥

108.97

सहस्रबाहोः समरे द्विबाहुः समवस्थितः
रुचितं यदि ते राजञ् ज्ञेयो वीर्यबलान्वितः ॥

108.98

कुम्भाण्डस्य वचः श्रुत्वा शुद्धान्ते पन्नगैर् भृशम्
एवम् उक्ते तु वचने कुम्भाण्डेन महात्मना ।
तथेत्य् आह च कुम्भाण्डं बाणः शत्रुनिषूदनः ॥
संरक्षिणस् ततो दत्त्वा अनिरुद्धस्य धीमतः ।
अनिरुद्धं योधयित्वा बाणः स्वगृहम् आविशत् ॥

108.4

तस्योत्पन्नम् इदं लोके भयदस्य महद्भयम्
यस्यानिरुद्धः पौत्रः स वीरः केनापि नो हृतः ॥

मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc