भाषा

ENहिગુ
ग्रंथ पाठ

हरिवंश · अध्याय 109

109.1

ततो ऽनिरुद्धस्य गृहे रुरुदुः सर्वयोषितः
प्रियं नाथम् अपश्यन्त्यः किंनर्य इव संघशः ॥

109.2

अहो धिक् किम् इदं लोके नाथे कृष्णे व्यवस्थिते
अनाथा इव संत्रस्ता रुदिमो भयमोहिताः ॥

109.3

यस्येन्द्रप्रमुखा देवाः सादित्याः समरुद्गणाः
बाहुच्छायां समाश्रित्य वसन्ति दिवि देवताः ॥

109.5

अहो नास्ति भयं नूनं तस्य लोके सुदुर्मतेः
वासुदेवस्य यः क्रोधं प्रज्वालयति दुःसहम् ॥

109.6

व्यादितास्यस्य यो मृत्योर् दंष्ट्राग्रे परिवर्तते
अतिक्रुद्धस्य सिंहस्य घ्नतश् च गजसत्तमान् ।
शोणितं पातुकामस्य दंष्ट्रान् प्रोधृत्य दंशतः ।
स वासुदेवं समरे मोहात् प्रत्युदियाद् रिपुः ॥

109.7

इदम् एवंविधं कृत्वा विप्रियं यदुपुंगवे
कथं जीवन् विमुच्येत साक्षाद् अपि शतक्रतुः ॥

109.8

कृतागा न स शोच्यस् तु वयं त्व् अद्य विनाकृताः
विप्रयोगेन नाथस्य कृतान्तवशगाः कृताः ॥

109.9

इत्य् एवं ता रुदन्त्यश् च वदन्त्यश् च पुनः पुनः
नेत्रजं वारि मुमुचुर् अशिवं परमाङ्गनाः ॥

109.10

तासां बाष्पाभिपूर्णानि नयनानि चकाशिरे
सलिलेनाप्लुतानीव पङ्कजानि जलागमे ॥

109.11

तासाम् अरालपक्ष्माणि राजिमन्ति शुभानि च
रुधिरेणाप्लुतानीव नयनानि चकाशिरे ॥

109.12

तासां हर्म्यतलस्थानां तूर्णम् आसीन् महास्वनः
कुररीणाम् इवाकाशे रुदतीनां सहस्रशः ॥

109.13

तं श्रुत्वा निनदं घोरम् अपूर्वं भयम् आगतम्
उत्पेतुः सहसा खेभ्यो गृहेभ्यः पुरुषर्षभाः ॥

109.14

कस्माद् एषो ऽनिरुद्धस्य श्रूयते सुमहास्वनः
गृहे कृष्णाभिगुप्तानां कुतो नो भयम् आगतम् ॥

109.15

इत्य् एवम् ऊचुस् ते ऽन्योन्यं स्नेहविक्लवगद्गदाः
प्रधर्षिता यथा सिंहा गुहाभ्य इव निःसृताः ॥

109.16

संनाहभेरी कृष्णस्य सभायाम् आहता तदा
तस्याः शब्देन ते सर्वे सभाम् आगम्य विष्ठिताः ॥

109.17

किम् एतद् इति चान्योन्यं समपृच्छन्त यादवाः
अन्योन्यस्य हि ते सर्वे यथान्यायम् अवेदयन् ॥

109.18

ततस् ते बाष्पपूर्णाक्षाः क्रोधसंरक्तलोचनाः
निःश्वसन्तो व्यतिष्ठन्त यादवा युद्धदुर्मदाः ॥

109.19

तूष्णींभूतेषु सर्वेषु विपृथुर् वाक्यम् अब्रवीत्
नीतिज्ञो हितवक्ता च यादवानां प्रियंकरः ।
कृष्णं प्रहरतां श्रेष्ठं निःश्वसन्तं मुहुर् मुहुः ॥

109.20

किम् एवं चिन्तयाविष्टः पुरुषेन्द्र भवान् इह
तव बाहुबलप्राणम् आश्रिताः सर्वयादवाः
भवन्तम् आश्रिताः कृष्ण संविभक्ताश् च सर्वशः ॥

109.21

तथैव बलहा शक्रस् त्वय्य् आवेश्य जयाजयौ
सुखं स्वपिति निश्चिन्तः कथं त्वं चिन्तयान्वितः ॥

109.22

शोकसागरम् अक्षोभ्यं सर्वे ते ज्ञातयो गताः
तान् मज्जमानान् एकस् त्वं समुद्धर महाभुज ॥

109.23

किम् एवं चिन्तयाविष्टो न किंचिद् अपि भाषसे
चिन्तां कर्तुं वृथा देव न त्वम् अर्हसि माधव ॥

109.24

इत्य् एवम् उक्तः कृष्णस् तु निःश्वस्य सुचिरं पुनः
प्राह वाक्यं स वाक्यज्ञो बृहस्पतिर् इव स्वयम् ॥

109.25

विपृथो चिन्तयाविष्ट एतत् कार्यं विचिन्तयन्
विचिन्तयंस् त्व् अहं चास्य कार्यस्य न लभे गतिम् ।
तथाहं भवताप्य् उक्तो नोत्तरं विदधे क्वचित् ॥

109.26

दाशार्हगणमध्ये ऽद्य वदाम्य् अर्थवतीं गिरम्
शृणुध्वं यादवाः सर्वे यथा चिन्तान्वितो ह्य् अहम् ॥

109.27

अनिरुद्धे हृते वीरे पृथिव्यां सर्वपार्थिवाः
अशक्तान् इव मन्यन्ते सर्वान् अस्मान् सबान्धवान् ॥

109.28

आहुकश् चैव नो राजा हृतः साल्वेन वै पुरा
प्रत्यानीतस् ततो ऽस्माभिर् युद्धं कृत्वा सुदारुणम् ॥

109.30

इदं तु सुमहत्कष्टं प्राद्युम्निः क्व प्रवासितः
नैवंविधम् अहं दोषं स्मरामि मनुजर्षभाः ॥

109.31

भस्मना गुण्ठितः पादो येन मे मूर्ध्नि पातितः
मम नेत्रं दुरास्रावम् अन्धतां को ऽनयद् बलात् ।
को वा जडमतिः सत्यं रत्नं मे मकुटाद् धरेत् ॥
को वा बलं दुराधर्षम् अवमत्याग्रतः स्थितः ।
को नु वा शिनिपुत्रस्य चापं न स्मरति प्रभो ।
सानुबन्धस्य तस्याहं हरिष्ये जीवितं रणे ॥

109.32

इत्य् एवम् उक्ते कृष्णेन सात्यकिर् वाक्यम् अब्रवीत्
चराः कृष्ण प्रयुज्यन्ताम् अनिरुद्धस्य मार्गणे ॥

109.33

आहुकं प्राह कृष्णस् तु स्मितं कृत्वा वचस् तदा
आभ्यन्तराश् च बाह्याश् च व्यादिश्यन्तां चरा नृप ॥

109.34

ततश् चरास् तु व्यादिष्टाः पार्थिवेन यशस्विना
अभ्यन्तरं च मार्गध्वं बाह्यतश् च समन्ततः ॥

109.35

वेणुमन्तं लतावेष्टं तथा रैवतकं गिरिम्
ऋक्षवन्तं गिरिं चैव मार्गध्वं त्वरिता हयैः ॥

109.36

एकैकं तत्र चोद्यानं मार्गितव्यं समन्ततः
गन्तव्यं चापि निःसङ्गम् उद्यानेषु समन्ततः ॥

109.37

हयानां च सहस्राणि रथानां चाप्य् अनेकशः
आरुह्य त्वरिताः सर्वे मार्गध्वं यदुनन्दनम् ॥

109.38

सेनापतिर् अनाधृष्टिर् इदं वचनम् अब्रवीत्
कृष्णम् अक्लिष्टकर्माणम् अच्युतं भीतभीतवत् ॥

109.39

शृणु कृष्ण वचो मह्यं यदि ते रोचते विभो
चिरात् प्रभृति मे वक्तुं भवन्तं जायते मतिः ॥

109.40

असिलोमा पुलोमा च निसुन्दनरकौ हतौ
सौभः साल्वश् च निहतौ मैन्दो द्विविद एव च
हयग्रीवश् च सुमहान् सानुबन्धस् त्वया हतः ॥

109.41

तादृशे विग्रहे वृत्ते देवहेतोः सुदारुणे
सर्वाण्य् एतानि कर्माणि निःशेषाणि रणे रणे
कृतवान् असि गोविन्द पार्ष्णिग्राहश् च नास्ति ते ॥

109.42

इदं कर्म त्वया कृष्ण सानुबन्धं कृतं रणे
पारिजातस्य हरणे यत् कृतं कर्म दुष्करं ॥

109.43

तत्र शक्रस् त्वया कृष्ण ऐरावतशिरोगतः
निर्जितो बाहुवीर्येण स्वयं युद्धविशारदः ॥

109.44

तेन वैरं त्वया सार्धं कर्तव्यं नात्र संशयः
तत्रानुबन्धश् च महांस् तेन कार्यस् त्वया सह ॥

109.45

तत्रानिरुद्धहरणं कृतं मघवता स्वयम्
न ह्य् अन्यस्य भवेच् छक्तिर् वैरनिर्यातनं प्रति ॥

109.46

इत्य् एवम् उक्ते वचने कृष्णो नाग इव श्वसन्
उवाच वचनं धीमान् अनाधृष्टिं महाबलम् ॥

109.47

सेनानीस् तात मा मैवं न देवाः क्षुद्रकर्मिणः
नाकृतज्ञा न वा क्लीबा नावलिप्ता न बालिशाः ॥

109.48

देवतार्थं च मे यत्नो महान् दानवसंक्षये
तेषां प्रियार्थं च रणे हन्मि दृप्तान् महासुरान् ॥

109.49

तत्परस् तन्मनाश् चास्मि तद्भक्तस् तत्प्रिये रतः
कथं पापं करिष्यन्ति विज्ञायैवंविधं हि माम् ॥

109.50

अक्षुद्राः सत्यवन्तश् च नित्यं भक्तानुयायिनः
न तेषु पापं विज्ञेयं बालिश त्वं प्रभाषसे ॥

109.51

कृष्णस्य वचनं श्रुत्वा तदाक्रूरो ऽब्रवीद् वचः
मधुरं श्लक्ष्णया वाचा अर्थवाक्यविशारदः ॥

109.52

यच् छक्रस्य प्रभोः कार्यं तद् अस्माकं विनिश्चितम्
अस्माकं चापि यत् कार्यं तच् च कार्यं शचीपतेः ॥

109.53

संरक्ष्याश् च वयं देवैर् अस्माभिश् चापि देवताः
देवतार्थे वयं चापि मानुषत्वम् उपागताः ॥

109.54

एवम् अक्रूरवचनैश् चोदितः पुरुषोत्तमः
स्निग्धगम्भीरया वाचा पुनः कृष्णो ऽभ्यभाषत ॥

109.55

नायं देवैर् न गन्धर्वैर् नापि यक्षैर् न राक्षसैः
प्रद्युम्नपुत्रो ऽपहृतः पुंश्चल्या तु हृतः स्त्रिया ॥

109.56

मायाविदग्धाः पुंश्चल्यो दैत्यदानवयोषितः
ताभिर् हृतो न संदेहो नान्यतो विद्यते भयम् ॥

109.57

इत्य् एवम् उक्ते वचने सूतमागधबन्दिनाम्
कृष्णेन तु महात्मना ।
अथावगम्य तत्त्वेन यद् भूतं यदुमण्डले ॥
उदतिष्ठन् महानादस् तदा कृष्णं प्रशंसयन् ।
हर्षयन् स तु सर्वेषां ।
मधुरः श्रूयते शब्दो माधवस्य निवेशने ॥

109.58

ते चराः सर्वतः सर्वे सभाद्वारम् उपागताः
शनैर् गद्गदया वाचा इदं वचनम् अब्रुवन् ॥

109.59

उद्यानानि शिलाः शैला गुहा नद्यः सरांसि च
एकैकं शतशो राजन् मार्गितं न च दृश्येत ॥

109.60

यद् अन्यत् संविधातव्यं विधानं यदुनन्दन
तदाज्ञापय नः क्षिप्रम् अनिरुद्धस्य मार्गणे ॥

109.61

ततस् ते दीनमनसः सर्वे बाष्पाकुलेक्षणाः
अन्योन्यम् अभ्यभाषन्त किम् अतः कार्यम् उत्तरम् ॥

109.62

संदष्टौष्ठपुटाः केचित् केचिद् बाष्पाविलेक्षणाः
केचिच् चाचिन्तञ् शूरा आस्थाय भ्रुकुटिं नराः ॥

109.63

ततस् तूर्यनिनादैश् च शङ्खानां च महास्वनैः
प्रबोधनं महाबाहोः कृष्णस्याक्रियतालये ॥

109.64

ततः प्रभाते विमले प्रादुर्भूते दिवाकरे
प्रविवेश सभाम् एको नारदः प्रहसन्न् इव ॥

109.65

अथाभ्युत्थाय विमनाः कृष्णः समितिदुर्जयः
मधुपर्कं च गां चैव नारदाय ददौ प्रभुः ॥

109.66

स विष्टरे स्थितः शुभ्रे स्पर्ध्यास्तरणसंवृते
ऋज्वासीनो यथान्यायम् उवाचेदं वचो ऽर्थवत् ॥

109.67

किम् एवं चिन्तयाविष्टा निःसङ्गं तमसावृताः
उत्साहनाशात् सर्वे वै क्लीबा इव विचेतसः ॥

109.68

एवम् उक्ते तु वचने नारदेन महात्मना
वासुदेवो ऽब्रवीद् वाक्यं श्रूयतां भगवन्न् इदम् ॥

109.69

अनिरुद्धो हृतो ब्रह्मन् केनापि निशि सुव्रत
तस्यार्थे सर्व एवास्म चिन्तयाविष्टचेतसः ॥

109.70

इत्य् एवम् उक्ते वचने केशवेन महात्मना
प्रहस्य नारदः प्राह श्रूयतां मधुसूदन ॥

109.71

निर्वृत्तं सुमहद् युद्धं महापुरुषसेवितम्
अनिरुद्धस्य चैकस्य बाणस्य च महामृधे ॥

109.72

उषा नाम सुता तस्य बाणस्याप्रतिमौजसः
तस्यार्थे चित्रलेखा वै जहाराशु तम् अप्सराः ॥

109.73

उभयोर् अपि तत्रासीन् महद् युद्धं सुदारुणम्
प्राद्युम्निबाणयोः संख्ये बलिवासवयोर् इव ॥

109.74

अनिरुद्धो भयात् तेन संयुगेष्व् अनिवर्तिना
बणेन मायाम् आस्थाय बद्धो नागैर् महाबलः ॥

109.75

उत्तिष्ठतु भवाञ् शीघ्रं यशसे विजयाय च
नायं संरक्षितुं कालः प्राणांस् तात जयैषिणाम् ॥

109.76

इत्य् एवम् उक्ते वचने वासुदेवः प्रतापवान्
प्रायात्रिकान् वै संभारान् आज्ञापयत वीर्यवान् ॥

109.77

ततश् चन्दनचूर्णैश् च लाजैश् चापि समन्ततः
निर्ययौ स महाबाहुः कीर्यमाणो जनार्दनः ॥

109.78

स्मरणं वैनतेयस्य कृष्ण त्वं कर्तुम् अर्हसि
न ह्य् अन्येन तम् अध्वानं गन्तुं शक्यं महाभुज ॥

109.79

एकादश सहस्राणि योजनानां जनार्दन
तदितः शोणितपुरं प्राद्युम्निर् यत्र सांप्रतम् ॥

109.80

मनोजवो महावीर्यो वैनतेयः प्रतापवान्
समाह्वयस्व गोविन्द स हि त्वां तत्र नेष्यति ।
एकेन स मुहूर्तेन बाणं संदर्शयिष्यति ॥

109.81

तस्य तद् वचनं श्रुत्वा प्राध्यायद् गरुडं हरिः
स कृष्णपार्श्वम् आगम्य हर्षेणावस्थितो ऽभवत् ॥

109.82

कृष्णकेशः प्रवलयो जिष्णुः कृष्णश् च वर्णतः
चतुर्दंष्ट्रश् चतुर्बाहुश् चतुर्वेदषडङ्गवित् ॥

109.83

श्रीवत्साङ्को ऽरविन्दाक्ष ऊर्ध्वलोमा मृदुत्वचः
समाङ्गुलिः समनखो रक्ताङ्गुलिनखान्तरः ॥

109.84

स्निग्धगम्भीरनिर्घोषो वृत्तबाहुर् महाभुजः
आजानुबाहुः सिंहास्यः सिंहसंहननो युवा
सहस्रम् इव सूर्याणां दीप्यमानः प्रकाशते ॥

109.85

यः प्रभुर् भाति भूतात्मा भूतानां भावनः प्रभुः
यस्याष्टगुणम् ऐश्वर्यं ददौ प्रीतः प्रजापतिः ॥

109.86

प्रजापतीनां साध्यानां त्रिदशानां च शाश्वतः
स्तूयमानः स्तवैः सर्वैः सूतमागधबन्दिभिः
ऋषिभिश् च महाभागैर् वेदवेदाङ्गपारगैः ॥

109.87

संविधानम् अथाज्ञाप्य द्वारकायां महाभुजः
सात्यकौ संनिवेश्याथ रक्ष्यतां द्वारकेति च ।
गमनाय मतिं चक्रे वासुदेवः प्रतापवान् ॥

109.88

आस्थितो गरुडं देवस् तस्य चानु हलायुधः
पृष्ठतो ऽनु बलस्यापि प्रद्युम्नः शत्रुकर्शनः ॥

109.89

जय बाणं महाबाहो ये चास्यानुचरा रणे
न हि ते प्रमुखे स्थातुं कश्चिच् छक्तो महामृधे ॥

109.90

प्रसादे ते ध्रुवा लक्ष्मीर् विजयश् च पराक्रमे
विजेष्यसि रणे शत्रुं दैत्येन्द्रं सहसैनिकम् ॥

109.91

सिद्धचारणसंघानां महर्षीणां च सर्वशः
शृण्वन् वाचो ऽन्तरिक्षस्थः प्रययौ केशवो रणे ॥

मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc