हरिवंश · अध्याय 107
क्रीडाविहारोपगतः कदाचिद् अभवद् भवः
देव्या सह नदीतीरे रम्ये श्रीमति स प्रभुः ॥
शतानि तत्राप्सरसां चिक्रीडुश् च समन्ततः
सर्वर्तुकवने रम्ये गन्धर्वपतयस् तथा ॥
कुसुमैः पारिजातस्य पुष्पैः संतानकस्य च
गन्धोद्दामम् इवाकाशं नदीतीरं च सर्वशः ॥
वेणुवीणामृदङ्गैश् च पणवैश् च सहस्रशः
वाद्यमानैः स शुश्राव गीतम् अप्सरसां तदा ॥
सूतमागधकल्पैश् चाप्य् अस्तुवन्न् अप्सरोगणाः
देवदेवं सुवपुषं स्रग्विणं रक्तवाससम् ॥
ततस् तु देव्या रूपेण विक्रलेखा वराप्सराः
भवं प्रसादयाम् आस देवी च प्राहसत् तदा ॥
ततो देव्यास् तु रूपेण लीलया वदनेन च
देवी प्रहासं मुमुचे ताश् चैवाप्सरसस् तदा ॥
ततः किलिकिलाशब्दः प्रादुर्भूतः समन्ततः
प्रहर्षम् अतुलं चापि लेभे प्रीतमना भवः ॥
बाणस्य दुहिता कन्या तत्रोषा नाम भामिनी
देवं प्रक्रीडितं दृष्ट्वा देव्या सह नदीगतम् ॥
उषा मनोरथं चक्रे पार्वत्याः संनिधौ तदा
धन्या हि भर्तृसहिता रम्यन्त्य् एवं समागताः ॥
विज्ञाय तम् अभिप्रायम् उषायाः पर्वतात्मजा
प्राह देवी ततो वाक्यम् उषां हर्षयती शनैः ॥
उषे शीघ्रं त्वम् अप्य् एवं भर्त्रा सह रमिष्यसि
यथा देवो मया सार्धं शंकरः शत्रुसूदनः ॥
एवम् उक्ते तदा देव्या वाक्ये चिन्ताविलेक्षणा
उषा भावं हृदा चक्रे भर्त्रा रंस्ये कदा सह ॥
ततो हैमवती वाक्यं संप्रहस्येदम् अब्रवीत्
उषे शृणुष्व कल्याणि यदा संयोगम् एष्यसि ॥
वैशाखे मासि हर्म्यस्थां द्वादश्यां त्वां दिनक्षये
धर्षयिष्यति यः स्वप्ने स ते भर्ता भविष्यति ॥
एवम् उक्ता दैत्यसुता कन्यागणसमावृता
अपाक्रामत हर्षेण रममाणा यथासुखम् ॥
ततः क्रीडाविहारं तम् अनुभूय सहोमया
जगाम भगवान् देवः स्वपुरं त्रिपुरान्तकृत् ।
देवदेवो जगन्नाथ उपारंसीत् ततो हरः ।
गते ऽहनि पुनः सर्वास् ता नार्यो जग्मुर् अद्भुताः ॥
काश् चिद् अश्वैस् तथा यानैर् गजैर् अन्यास् तथा रथैः
पुरं प्रविविशुर् हृष्टाः काश्चिद् आकाशम् आस्थिताः ॥
ततो हर्म्ये शयानां तु वैशाखे मासि भामिनीम्
द्वादश्यां शुक्लपक्षस्य सखीगणवृतां तदा ॥
यथोक्तः पुरुषः स्वप्ने धर्षयाम् आस ताम् उषाम्
विवेष्टमानां रुदतीं देव्या वचनचोदितः ॥
सा स्वप्ने धर्षिता तेन स्त्रीभावं चापि लम्भिता
शोणिताक्ता प्ररुदती सहसैवोत्थिता निशि ॥
तां तथा रुदतीं दृष्ट्वा सखी भयसमन्विताम्
चित्रलेखा वचः स्निग्धम् उवाच परम् आद्भुतम् ॥
उषे मा भैः किम् एवं त्वं रुदती परितप्यसे
बलेः सुतसुता च त्वं प्रख्याता किं भयान्विता ॥
न भयं विद्यते लोके तव सुभ्रु विशेषतः
भयदस् तव वामोरु पिता देवान्तको रणे ॥
उत्तिष्ठोत्तिष्ठ भद्रं ते विषादं मा कृथाः शुभे
नैवंविधेषु वासेषु भयम् अस्ति वरानने ॥
असकृद् देवसहितः शचीभर्ता सुरेश्वरः
अप्राप्त एव नगरं पित्रा ते मृदितो रणे
अयं देवसमूहस्य भयदस् ते पिता रणे ॥
एवं संदूषिता साध्वी कथं जीवितुम् उत्सहे
पितरं किं नु वक्ष्यामि देवशत्रुम् अरिंदमम् ॥
एवं संदूषणकरी वंशस्यास्य महौजसः
श्रेयो हि मरणं मन्ये न मे श्रेयो ऽद्य जीवितम् ॥
कथम् एवं कृता नाम कन्या जीवितुम् उत्सहे
कुलोपक्रोशनकरी कुलाङ्गारा निराश्रेया
जीवितुं स्पृहयेन् नारी साध्वीनाम् अग्रतः स्थिता ॥
इत्य् एवं बाष्पपूर्णाक्षी सखीजनवृता तदा
विललाप चिरं कालम् उषा कमललोचना ॥
अनाथवत्तां रुदतीं सख्यः सर्वा विचेतसः
ऊचुर् अश्रुपरीताक्ष्य उषां सर्वाः समागताः ॥
दुष्टेन मनसा देवि शुभं यदि वासुभम्
क्रियते न च ते सुभ्रु कच्चिद् दुष्टं मनस् तव ॥
स्वप्नयोगेन कल्याणि व्रतलोपो न विद्यते
व्यभिचारेण ते देवि नास्ति कश्चिद् व्यतिक्रमः ॥
मनसा चैव वाचा च कर्मणा च विशेषतः
दुष्टा या त्रिभिर् एतैस् तु पापा सा प्रोच्यते भुवि ॥
न व ते दुष्यते भीरु मनः प्रजवितं सदा
कथं त्वं दोषदुष्टा वै नियता ब्रह्मचारिणी ॥
यदि सुप्ता सती साध्वी शुद्धभावा मनस्विनी
इमाम् अवस्थां नीता त्वं नैव धर्मो विलुप्यते ॥
यस्या दुष्टं मनः पूर्वं कर्मणा चोपपादितम्
ताम् आहुर् असतीं नाम सती त्वम् असि भामिनि ॥
कुलजा रूपसंपन्ना नियता ब्रह्मचारिणी
इमाम् अवस्थां नीतासि कालो हि दुरतिक्रमः ॥
इत्य् एवं उक्तां रुदतीं बाष्पेणावृतलोचनाम्
कुम्भाण्डदुहिता वाक्यं परमं त्व् इदम् अब्रवीत् ॥
उषे यद् उक्ता देव्यासि भर्तारं ध्यायती तदा
समीपे देवदेवस्य स्मर भामिनि तद् वचः ॥
द्वादश्यां शुक्लपक्षस्य वैशाखे मासि यो निशि
हर्म्ये शयानां रुदतीं स्त्रीभावम् उपनेष्यति ॥
भविता स हि ते भर्ता शूरः शत्रुनिबर्हणः
इत्य् उवाच ततो हृष्टा देवी तव मनोगतम् ॥
न हि तद् वचनं मिथ्या पार्वत्या यद् उदाहृतम्
तत्त्वं किम् इदम् अत्यर्थं रोदिषीन्दुनिभानने ॥
इत्य् एवम् उक्ता वचनं स्मृत्वा देवीवचस् ततः
अभवन् नष्टशोका सा बाणपुत्री शुभेक्षणा ॥
स्मरामि भामिनि वचो देव्याः क्रीडागते भवे
यथोक्तं सर्वम् अखिलं प्राप्तं हर्म्यतले मया ॥
भर्ता तु मम यद्य् एष लोकनाथस्य भार्यया
व्यादिष्टः स कथं ज्ञेयस् तत्र कार्यं विधीयताम् ॥
इत्य् एवम् उक्ते वचने कुम्भाण्डदुहिता पुनः
व्याजहार यथान्यायम् अर्थतत्त्वविशारदा ॥
न हि तस्य कुलं देवि न कीर्तिर् नापि पौरुषम्
कश्चिज् जानाति तत्त्वेन किम् इदं त्वं विहन्यसे ॥
अदृष्टश् चाश्रुतश् चैव दृष्टः स्वप्ने त्वयानघे
कथं ज्ञेयो भवेद् भीरु सो ऽस्माभी रतितस्करः ॥
येन त्वम् असितापाङ्गे मत्तकाशिनि विक्रमात्
रुदती प्रसभं भुक्ता प्रविश्यान्तःपुरं सखि ॥
न ह्य् अयं प्राकृतः कश्चिद् यः प्रविष्टः प्रसह्य नः
नगरं लोकविख्यातम् एकः शत्रुनिबर्हणः ॥
आदित्या वसवो रुद्रा अश्विनौ च महौजसौ
न शक्ताः शोणितपुरं प्रवेष्टुं भीमविक्रमाः ॥
सो ऽयम् एतैः शतगुणो विशिष्टः शत्रुसूदनः
प्रविष्टः शोणितपुरं बाणम् आक्रम्य मूर्धनि ॥
यस्या नैवंविधो भर्ता भवेद् युद्धविशारदः
कस् तस्या जीवितेनार्थो भोगैर् वा स्याच् छुभेक्षणे ॥
धन्यास्य् अनुगृहीतासि यस्यास् ते पतिर् ईदृशः
प्राप्तो देव्याः प्रसादेन पार्वत्या मत्तकाशिनि ॥
इदं तु ते कार्यतमं शृणु त्वं वै मयेरितम्
विज्ञेयो यस्य पुत्रस् तु यन् नामा यत् कुलश् च सः ॥
इत्य् एवम् उक्ते वचने तत्रोषा काममोहिता
तच्छरैश् च समाविद्धा भ्रान्तलोचनविक्लवा ।
दशाम् अन्त्यां समास्थाय निद्रासुखविमोहिता ।
उवाच कुम्भाण्डसुतां कथं ज्ञास्यामहे सखि ॥
ततः सा चिन्तयाविष्टा वचनं प्राह दुर्वचः
चित्रलेखाम् अप्सरसं प्रणयात् तां सखीं सखी ॥
परमं शृणु मे वाक्यं यत् त्वां वक्ष्यामि भामिनि
भर्तारं यदि मे ऽद्य त्वं नानयिष्यसि मत्प्रियम् ॥
कान्तं पद्मपलाशाक्षं मत्तमातङ्गविक्रमम्
त्यक्ष्याम्य् अहं प्रियान् प्राणांस् ततः कमललोचने ॥
विक्रलेखाब्रवीद् वाक्यम् उषां तां हसती शनैः
नैषो ऽर्थः शक्यते ऽस्माभिर् वेत्तुं भामिनि सुव्रते ॥
किं तु शक्यम् इदं कार्यं बुद्धिपूर्वं मया सखि
प्राप्तुं तच् छृणु मे वाक्यं यथा कामम् अवाप्स्यसि ॥
देवदानवयक्षाणां गन्धर्वोरगरक्षसाम्
ये विशिष्टाः प्रभावेन रूपेणाभिजनेन च ॥
यथाप्रधानांस् तान् सर्वान् आलिखिष्याम्य् अहं सखि
मनुष्यलोके ये चापि प्रवरा लोकविश्रुताः ॥
सप्तरात्रेण ते भीरु दर्शयिष्यामि तान् अहम्
ततो विज्ञाय पट्टस्थं भर्तारं प्रतिलप्स्यसे ॥
इत्य् उक्त्वा सप्तरात्रेण कृत्वालेख्यगतांस् तु तान्
चित्रपट्टगतान् मुख्यान् आनयाम् आस शोभना ॥
ततः प्रास्तीर्य पट्टं सा चित्रलेखा स्वयंकृतम्
अत्युज्ज्वलं महाचित्रं पिङ्गवर्णविभूसितम् ।
उषाया दर्शयाम् आस सखीनां च विशेषतः ॥
एते देवेषु ये मुख्यास् तथा दानववंशजाः
किं नरोरगयक्षाणां राक्षसानां च सर्वशः ॥
मनुष्याणां च सर्वेषां ये विशिष्टतमा नराः
तद् एतान् पश्य सर्वांस् त्वं यथाभिलिखितान् मया ॥
यस् ते भर्ता यथारूपो यथाभिलषितः सखि
तं त्वं प्रत्यभिजानीहि स्वप्ने यं दृष्टवत्य् असि ॥
ततः क्रमेण सर्वांस् तान् दृष्ट्वा सा मत्तकाशिनी
देवदानवगन्धर्व विद्याधरगणान् अथ ।
अतीत्य च यदून् सर्वान् ददर्श यदुनन्दनम् ॥
तत्रानिरुद्धं दृष्ट्वा सा विस्मयोत् फुल्ललोचना
अब्रवीच् चित्रलेखां ताम् अयं चोरः स वै सखि ॥
येनाहं दूषिता पूर्वं स्वप्ने हर्म्यगता सती
सो ऽयं विज्ञातरूपो मे कुतस्त्यस् तस्करः शुभे ॥
चित्रलेखे वदस्वैनं तत्त्वतो मम शोभने
गुणशीलाभिजनतो नाम किं चास्य भामिनि ॥
अयं त्रिलोक्यनाथस्य नप्ता कृष्णस्य धीमतः
देवदेवो जगन्नाथः साक्षाच् चक्रगदाधरः ।
दानवानां रणे हन्ता विष्णुर् जिष्णुर् जगत्पतिः ॥
यो विक्रमं जगन्नाथस् त्रैलोक्यं सचराचरम् ।
निजैकपदपद्मे यो निलीनम् अकरोद् विभुः ।
तस्यायं देवदेवस्य शङ्खचक्रगदाभृतः ।
पौत्रः कृष्णस्य विख्यातः सर्वलोकेषु भामिनि ।
भर्ता तव विशालाक्षि प्राद्युम्निर् भीमविक्रमः ॥
न ह्य् अस्य त्रिषु लोकेषु सदृशो ऽस्ति पराक्रमे
उत्पाट्य पर्वतान् एष पर्वतैर् एव शातयेत् ॥
धन्यास्य् अनुगृहीतासि यस्यास् ते यदुपुंगवः
त्र्यक्षपत्न्या समादिष्टः सदृशः सज्जनः पतिः ॥
यद्य् एनं मे विशालाक्षि भर्तारम् अमरोपमम्
त्वम् एवात्र विशालाक्षि योग्या भव वरानने ।
अशक्या हि गतिश् चान्या अगत्या मे गतिर् भव ॥
अन्तरिक्षचरा च त्वं योगिनी कामरूपिणी ।
उपायशिल्पकुशला क्षिप्रम् आनय मे प्रियम् ॥
उपायश् चिन्त्यतां भीरु अप्रतर्क्यं प्रिये सुखम् ।
सिद्धार्था संनिवर्तस्व येनोपायेन सुन्दरि ॥
भवेद् आपत्सु यन् मित्रं तन् मित्रं शस्यते बुधैः ।
कामार्ता चास्मि सुश्रोणि भव मे प्राणधारिणी ।
अद्य नानयसि क्षिप्रं प्राणांस् त्यक्ष्याम्य् अहं शुभे ॥
उषाया वचनं श्रुत्वा चित्रलेखाब्रवीद् वचः
श्रोतुम् अर्हसि कल्याणि वचनं मे शुचिस्मिते ॥
यथा बाणस्य नगरं रक्ष्यते देवि सर्वतः
द्वारकापि तथा भीरु दुराधर्षा विशेषतः ॥
न च शक्यम् अविज्ञातैः प्रवेष्टुं द्वारकां पुरीम्
नानुयोक्ष्यसि मां देवि साहसे ऽस्मिंस् तु कर्मणि ।
ततो विरम बुद्धिं त्वं दुःप्रापात् स्वप्नवस्तुनः ।
आत्मानं मां च रक्षस्व पितरं च विशेषतः ॥
अनिरुद्धस्य वदनं पूर्णचन्द्रनिभं सखि
तव योगप्रभावेण शक्यं तत्र प्रवेशनम् ।
किं मे बहुविलापेन श्रूयतां सखि कारणम् ।
यद्य् अहं तं न पश्यामि यास्यामि यमसादनम् ॥
यदि त्वं मे विजानासि सख्यं प्रेम्णा च भाषितम्
क्षिप्रम् आनय मे कान्तं प्राणांस् त्यक्ष्यामि वा प्रियान् ॥
एषा गच्छाम्य् अहं भीरु प्रविश्य द्वारकां पुरीम्
सर्वथा संस्तुता ते ऽहं वाक्यैर् अमृतकल्पकैः ।
कारिता च समुद्योगं प्रियैः कान्तैश् च भाषितैः ।
भर्तारम् आनयाम्य् अद्य तव वृष्णिकुलोद्वहम् ॥
सा वचस् तथ्यम् अशिवं दानवानां भयावहम्
यादवानां तथैवाहं कुलोद्भूतसमुद्भवम् ।
उक्त्वा चान्तर्हिता क्षिप्रं चित्रलेखा मनोजवा ॥
तृतीये तु मुहूर्ते सा नष्टा बाणपुरात् तदा
सखीप्रियं चिकीर्षन्ती पूजयन्ती तपोधनान् ।
क्षणेन समनुप्राप्ता द्वारकां कृष्णपालिताम् ॥
कैलासशिखराकारैः प्रासादैर् उपशोभिताम्
ददर्श द्वारकां चैव दिवि तारेव संस्थिताम् ॥
मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0