हरिवंश · अध्याय 106
कर्माण्य् अपरिमेयानि श्रुतानि द्विजसत्तम
भूय एव महाबाहोर् यदुसिंहस्य धीमतः ।
त्वत्तः श्रुतवतां श्रेष्ठ वासुदेवस्य धीमतः ॥
यच् च तत् कथितं पूर्वं बाणं प्रति महासुरम्
तद् अहं श्रोतुम् इच्छामि विस्तरेण तपोधन ॥
वासुदेवेन स कथं बाणः संख्ये पराजितः
संरब्धो द्वंद्वयुद्धार्थी जीवन् मुक्तः कथं च सः ॥
शृणुष्वावहितो राजन् कृष्णस्यामिततेजसः
मनुष्यलोके बाणेन यथाभूद् विग्रहो महान् ॥
वासुदेवेन यत्रासौ रुद्रस्कन्दसहायवान्
बलिपुत्रो रणश्लाघी जित्वा जीवन् विसर्जितः ॥
स रुद्रम् अभिगम्याथ प्रणिपत्याभिवाद्य च
बलिसूनुर् इदं वाक्यं पप्रच्छ वृषभध्वजम् ॥
असकृन् निर्जिता देवाः ससाध्याः समरुद्गणाः
मया बलमदोत्सेकात् ससैन्येन तवाश्रयात् ॥
ते पराजयसंत्रस्ता निराशा मत्पराजये
नाकपृष्ठम् उपागम्य निवसन्ति यथासुखम् ॥
सो ऽहं निराशो युद्धस्य जीवितं नाद्य कामये
अयुध्यतो वृथा ह्य् एषां बाहूनां धारणं मम ॥
तद् ब्रूहि मम युद्धस्य कच्चिद् आगमनं भवेत्
न मे युद्धं विना देव रतिर् अस्ति प्रसीद मे ॥
ततः प्रहस्य भगवान् अब्रवीद् वृषभध्वजः
भविता बाण युद्धं ते तथा तच् छृणु दानव ॥
ध्वजस्यास्य यदा भङ्गस् तव तात भविष्यति
स्वस्थाने स्थापितस्याथ तदा युद्धं भविष्यति ॥
इत्य् एवम् उक्तः प्रहसन् बाणः सुबहुशो मुदा
प्रसन्नवदनो भूत्वा पादयोः पतितो ऽब्रवीत् ॥
दिष्ट्या बाहुसहस्रस्य न वृथा धारणं मम
दिष्टा सहस्राक्षम् अहं विजेता पुनर् आहवे ॥
आनन्दजाश्रुपूर्णाभ्यां नेत्राभ्याम् अरिमर्दनः
पञ्चाञ्जलिशतैर् देवं पूजयन् पतितो भुवि ॥
उत्तिष्ठोत्तिष्ठ बाहूनाम् आत्मनः स्वकुलस्य च
सदृशं प्रात्स्यसे वीरे युद्धम् अप्रतिमं रणे ॥
एवम् उक्तस् ततो बाणस् त्र्यम्बकेन महात्मना
हर्षेणाभ्युत्थितः शीघ्रं नत्वा स वृषभध्वजम् ॥
शितिकण्ठविसृष्टस् तु बाणः परपुरंजयः
ययौ स्वभवनं येन यत्र ध्वजगृहं महत् ॥
तत्रोपविष्टः प्रहसन् कुम्भाण्डम् इदम् अब्रवीत्
प्रियम् आवेदयिष्यामि भवतो मनसो ऽनुगम् ॥
इत्य् एवम् उक्तः प्रहसन् बाणम् अप्रतिमं रणे
प्रोवाच राजन् किं त्व् एतद् वक्तुकामो ऽसि मत्प्रियम्
विस्मयोत् फुल्लनयनः प्रहर्षाद् इव सत्तम ॥
शितिकण्ठप्रसादेन स्कन्दगोपायनेन च
कच्चिन् त्रैलोक्यराज्यं ते व्यादिष्टं शृलपाणिना ॥
कच्चिद् इन्द्रस् तव भयात् पातालम् उपयास्यति
कच्चिद् विष्णुपरित्रासं विमोक्ष्यन्ति दितेः सुताः ॥
यस्य चक्रभयत्रस्ता वसन्ति सलिलाशये
कच्चिच् छार्ङ्गगदापाणेः स्थितस्य परम् आहवे
न विष्णोर् भयसंत्रासात् प्रयास्यन्ति दिशो ऽसुराः ॥
पातालवासम् उत्सृज्य कच्चित् तव बलाश्रयात्
विबुधावासनिरता भविष्यन्ति महासुराः ॥
बलिर् विष्णुबलाक्रान्तो बद्धस् तव पिता नृप
सलिलौघाद् विनिःसृत्य कच्चिद् राज्यम् अवाप्स्यति ॥
दिव्यमाल्याम्बरधरं दिव्यस्रगनुलेपनम्
कच्चिद् वैरोचनिं तात द्रक्ष्यामः पितरं तव ॥
कच्चिन्त्रभिः क्रमैः पूर्वं हृतांल् लोकान् इमान् प्रभो
पुनः प्रत्यानयिष्यामो जित्वा सर्वान् दिवौकसः ॥
स्निग्धगम्भीरनिर्घोषं शञ्खस्वनपुरोजवम्
कच्चिन् नारायणं देवं जेष्यामः समितिंजयम् ॥
कच्चिद् वृषध्वजस् तात प्रसादसुमुखस् तव
यथा ते हृदयोत्कम्पः साश्रुबिन्दुः प्रवर्तते ॥
कच्चिद् ईश्वरतोषेण कार्त्तिकेयमतेन च
प्राप्तवान् असि सर्वेषाम् अस्माकं पार्थिवं पदम् ॥
इति कुम्भाण्डवचनैश् चोदितः पुरुषर्षभः
बाणो वाचम् असंसक्तां प्रोवाच वदतां वरः ॥
चिरात् प्रभृति कुम्भाण्ड न युद्धं प्राप्यते मया
तदा मया मुदा पृष्टः शितिकण्ठः प्रतापवान् ॥
युद्धाभिलाषः सुमहान् देव संजायते मम
अपि प्राप्स्याम्य् अहं युद्धं मनसस् तुष्टिकारकम् ॥
ततो ऽहं देवदेवेन हरेणामित्रघातिना
प्रहस्य सुचिरं कालम् उक्तो ऽद्य वचनं प्रियम् ॥
प्राप्स्यसे सुमहद् युद्धं त्वं बाणाप्रतिमं महत्
मयूरध्वजभङ्गस् ते भविष्यति यदासुर ॥
ततो ऽहं परमप्रीतो भगवन्तं वृषध्वजम्
प्रणम्य शिरसा देवं तवान्तिकम् उपागतः ॥
इत्य् एवम् उक्तः कुम्भाण्डः प्रोवाच नृपतिं तदा
अहो न शोभनं राजन् यद् एवं भाषसे वचः ॥
एवं कथयतोर् एव तयोर् अन्योन्यम् उच्छ्रितः
ध्वजः पपात वेगेन शक्राशनिसमाहतः ॥
तं तथा पतितं दृष्ट्वा सो ऽसुरो ध्वजम् उत्तमम्
प्रहर्षम् अतुलं लेभे मेने चाहवम् आगतम् ॥
ततश् चकम्पे वसुधा शक्राशनिसमाहता
ननादान्तर्हितो भूमौ वृषदंशो जगर्ज च ॥
देवानाम् अपि यो देवः सो ऽप्य् अवर्षत वासवः
शोणितं शोणितपुरे सर्वतः पुरम् अन्तिकात् ॥
सूर्यं भित्त्वा महोल्का च पपात धरणीतले
स्वपक्षे चोदितः सूर्यो भरणीं समपीडयत् ॥
चैत्यवृक्षेषु सहसा धाराः शतसहस्रशः
शोणितस्यास्रवन् घोरा निपेतुस् तारका भृशम् ॥
राहुर् अग्रसद् आदित्यम् अपर्वणि विशां पते
लोकक्षयकरे काले निर्घातश् चाभवन् महान् ॥
दक्षिणां दिशम् आस्थाय धूमकेतुः स्थितो ऽभवत्
अनिशं चाप्य् अविच्छिन्ना ववुर् वाताः सुदारुणाः ॥
श्वेतलोहितपर्यन्तः कृष्णग्रीवस् तडिद्द्युतिः
त्रिवर्णः परिघो भानोः संध्यारागम् अथावृणोत् ॥
वक्रम् अङ्गारकश् चक्रे कृत्तिकासु भयंकरः
बाणस्य जन्मनक्षत्रं भर्त्सयन्न् इव सर्वशः ॥
अनेकशाखश् चैत्यश् च निपपात महीतले
अर्चितः सर्वकन्याभिर् दानवानां महात्मनाम् ॥
एवं विविधरूपाणि निमित्तानि निशामयन्
बाणो बलमदोन्मत्तो निश्चयं नाधिगच्छति ॥
विचेतास् त्व् अभवत् प्राज्ञः कुम्भाण्डस् तत्त्वदर्शिवान्
बाणस्य सचिवस् तत्र कीर्तयन् बहु किल्बिषम् ॥
बाणः प्रीतमनास् त्व् एव पपौ पानम् अनुत्तमम्
दैत्यदानवनारीभिः सार्धम् उत्तमविक्रमः ॥
कुम्भाण्डश् चिन्तयाविष्टो राजवेश्माभ्ययात् तदा
अचिन्तयच् च तत्त्वार्थं तैस् तैर् उत्पातदर्शनैः ॥
राजा प्रमादी दुर्बुद्धिर् जितकाशी महासुरः
युद्धम् एवाभिलषते न दोषान् पश्यते मदात् ॥
महोत्पातभयं चैव न तन् मिथ्या भविष्यति
अपीदानीं भवेन् मिथ्या सर्वम् उत्पातदर्शनम् ॥
इह त्व् आस्ते त्रिनयनः कार्त्तिकेयश् च वीर्यवान्
तेनोत्पन्नो ऽपि दोषो नः कच्चिद् गच्छेत् पराभवम् ॥
उत्पन्नदोषप्रभवः क्षयो ऽयं भविता महान्
दोषाणां न भवेन् नाश इति मे धीयते मतिः ॥
नियतं दोष एवायं भविष्यति न संशयः
दौरात्म्यान् नृपतेर् अस्य दोषभूता हि दानवाः ॥
देवदानवसंघानां यः कर्ता भुवनप्रभुः
स भवः कार्त्तिकेयश् च कृतवासो हि नः पुरे ॥
प्राणैः प्रियतरो नित्यं भवस्य तु गुहः सदा
तद् विशिष्टश् च बाणो ऽपि भवस्य सततं प्रियः ॥
एतयोश् च हि को युद्धं कुमारभवयोर् इह
शक्तो दातुं समागम्य बाणसाहाय्यकाङ्क्षिणोः ॥
एवं स चिन्तयाविष्टः कुम्भाण्डस् तत्त्वदर्शिवान्
स्वस्तिप्रणिहितां बुद्धिं चकार स महासुरः ॥
ये हि देवैर् विरुध्यन्ते पुण्यकर्मभिर् आहवे
यथा बलिर् नियमितस् तथा ते यान्ति संक्षयम् ॥
मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0