भाषा

ENहिગુ
ग्रंथ पाठ

हरिवंश · अध्याय 105

105.1

भूय एव द्विजश्रेष्ठ यदुसिंहस्य धीमतः
कर्माण्य् अपरिमेयानि श्रोतुम् इच्छामि तत्त्वतः ॥

105.2

श्रूयन्ते विविधानि स्म अद्भुतानि महाद्युते
असंख्येयानि दिव्यानि प्राकृतान्य् अपि सर्वशः ॥

105.3

. यान्य् अहं विविधान्य् अस्य श्रुत्वा प्रीये महामुने
प्रब्रूयाः सर्वशस् तात तानि मे वक्तुम् अर्हसि ॥

105.4

बहून्य् आश्चर्यभूतानि केशवस्य महात्मनः
कर्माण्य् उक्तानि वै राजन् भूयश् चैव श्रुतानि ते ॥

105.5

कथितानि मया साधो नान्तं शक्यं हि कर्मणाम्
गन्तुं भरतशार्दूल विस्तरस्य महात्मनः ॥

105.6

अवश्यं तु मया वाच्यं लेशमात्रेण भारत
विष्णोर् अतुलवीर्यस्य प्रथितोदारकर्मणः
आनुपूर्व्या प्रवक्ष्यामि शृणुष्वैकमना नृप ॥

105.7

द्वारवत्यां निवसता यदुसिंहेन धीमता
राष्ट्राणि नृपमुख्यानां क्षोभितानि महीक्षिताम् ॥

105.8

यदूनाम् अन्तरप्रेप्सुर् विचक्रो दानवो हतः ॥

105.9

पुरं प्राग्ज्योतिषं गत्वा पुनस् तेन महात्मना
समुद्रमध्ये दुष्टात्मा नरको दानवो हतः ॥

105.10

वासवं च रणे जित्वा पारिजातो हृतो बलात्
निर्जितश् चैव भगवान् वरुणो लोहितह्रदे ॥

105.11

दन्तवक्रश् च कारूषो निहतो दक्षिणापथे
शिशुपालश् च संपूर्णे किल्बिषैकशते हतः ॥

105.12

गत्वा च शोणितपुरं शंकरेणाभिरक्षितः
बलेः सुतो महावीर्यो बाणो बाहुसहस्रवान्
महामृधे महाराज जित्वा जीवन् विसर्जितः ॥

105.13

निर्जिताः पावकाश् चैव गिरिमध्ये महात्मना
साल्वश् च विजितः संख्ये सौभश् च विनिपातितः ॥

105.14

विक्षोभ्य सागरं सर्वं पाञ्चजन्यो वशीकृतः
हयग्रीवश् च निहतो नृपाश् चान्ये महाबलाः ॥

105.15

जरासंधस्य निधने मोक्षिताः सर्वपार्थिवाः
रथेन जित्वा नृपतीन् गान्धारतनया हृता ॥

105.16

भ्रष्टराज्याश् च शोकार्ताः पाण्डवाः परिरक्षिताः
दाहितं च वनं घोरं पुरुहूतस्य खाण्डवम् ॥

105.17

गाण्डीवं चाग्निना दत्तम् अर्जुनायोपपादितम्
दौत्यं च तत्कृतं घोरं विग्रहे जनमेजय ॥

105.18

अनेन यदुमुख्येन यदुवंशश् च वर्धितः
कुन्त्याश् च प्रमुखे प्रोक्ता प्रतिज्ञा पाण्डवान् प्रति
निवृत्ते भारते युद्धे प्रतिदास्यामि ते सुतान् ॥

105.19

मोक्षितश् च महातेजा नृगः शापात् सुदारुणात्
यवनश् च हतः संख्ये काल इत्य् अभिविश्रुतः ॥

105.20

वानरौ च महावीर्यौ मैन्दो द्विविद एव च
विजितौ युधि दुर्धर्षौ जाम्बवांश् च पराजितः ॥

105.21

सांदीपनेस् तथा पुत्रस् तव चैव पिता नृप
गतौ वैवस्वतवशं जीवितौ तस्य तेजसा ॥

105.22

संग्रामा बहवश् चैव घोरा नरवरक्षयाः
निहताश् च नृपाः सर्वे कृत्वा तद् रूपम् अद्भुतम्
जनमेजय युद्धेषु यथा ते कथितं पुरा ॥

105.6

यथा चास्य वरो दत्तः शंकरेण महात्मना
नित्यं सांनिध्यता चैव गाणपत्यं तथाक्षयम् ॥

मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc