भाषा

ENहिગુ
ग्रंथ पाठ

हरिवंश · अध्याय 104

104.1

ततः कृष्णो भोजयित्वा शतानि सुबहूनि च
विप्राणाम् ऋषिकल्पानां कृतकृत्यो ऽभवत् तदा ॥

104.2

ततः सह मया भुक्त्वा वृष्णिभोजैश् च सर्वशः
सात्यकिं पुरतः कृत्वा भोजयाम् आस वृष्णिपान् ॥
ततः सभां प्रविष्टाः स्म सह वृष्णिपुरःसरैः ।
विचित्राश् च कथा दिव्याः कथयाम् आस भारत ॥

104.3

ततः कथान्ते तत्राहम् अभिगम्य जनार्दनम्
अपृच्छं तद् यथावृत्तं कृष्णं यद् दृष्ट्वान् अहम् ॥

104.4

कथं समुद्रः स्तब्धोदः कृतस् ते कमलेक्षण
पर्वतानां च विवरं कृतं ते कथम् अच्युत ॥

104.5

तमस् तच् च कथं घोरं घनं चक्रेण पाटितम्
यच् च तत् परमं तेजः प्रविष्टो ऽसि कुतश् च तत् ॥

104.6

किम् अर्थं तेन ते बालास् तदा चापहृताः प्रभो
यच् च ते दीर्घम् अध्वानं संक्षिप्तं तत् कथं पुनः ॥

104.7

कथं चाल्पेन कालेन कृतं नस् तद् गतागतम्
एतत् सर्वं यथावृत्तम् आचक्ष्व मम केशव ॥

104.8

मद्दर्शनार्थं ते बाला हृतास् तेन महात्मना
विप्रार्थम् एष्यते कृष्णो नागच्छेद् अन्यथेति हि ॥

104.9

ब्रह्मतेजोमयं दिव्यम् आश्चर्यं दृष्टवान् असि
अहं स भरतश्रेष्ठ मत्तेजस् तत् सनातनम् ॥

104.10

प्रकृतिः सा मम परा व्यक्ताव्यक्ता च भारत
तां प्रविश्य भवन्तीह मुक्ता भरतसत्तम ॥

104.11

सा सांख्यानां गतिः पार्थ योगिनां च तपस्विनाम्
तत् पदं परमं ब्रह्म सर्वं विभजते जगत् ॥

104.12

माम् एव तद् धनं तेजो ज्ञातुम् अर्हसि भारत
समुद्रः स्तब्धतोयो ऽहम् अहं स्तम्भयिता जलम् ॥

104.13

अहं ते पर्वताः सप्त ये दृष्ट्वा विविधास् त्वया
पङ्कभूतं हि तिमिरं दृष्टवान् असि यद् धि तत् ।
अहं तमो घनीभूतम् अहम् एव च पाटकः ॥

104.14

अहं च कालो भूतानां धर्मश् चाहं प्रकीर्तितः
चन्द्रादित्यौ महाशैलाः सरितश् च सरांसि च ।
चातुर्वर्ण्यं मत्प्रसूतं चातुराश्रम्यम् एव च ॥

104.15

चतस्रश् च दिशः सर्वा ममैवात्मा चतुर्विधः
चातुर्वेद्यस्य कर्ताहम् इति बुध्यस्व भारत ॥

104.16

भगवन् सर्वभूतेश वेत्तुम् इच्छामि ते प्रभो
प्रियो मे ऽसि जगत्पते ।
पुनश् च परमं तत्त्वं ।
परं तत्त्वं सुरश्रेष्ठ त्वां प्रपन्नो ऽस्मि माधव ।
पृच्छामि त्वां प्रपन्नो ऽहं नमस् ते पुरुषोत्तम ॥

104.17

ब्रह्म च ब्राह्मणाश् चैव तपः सत्यं च भारत
उक्थ्यं बृहद्रथं चैव मत्तस् तद् विद्धि पाण्डव ॥

104.18

प्रियस् ते ऽहं महाबाहो प्रियो मे ऽसि धनंजय
तेन ते कथयिष्यामि नान्यथा वक्तुम् उत्सहे ।
वेत्स्यसे मां यथातत्त्वं तद् व्याख्यास्यामि ते ऽनघ ॥

104.19

अहं यजूंषि सामानि ऋचश् चाथर्वणानि च
ब्रह्मा रुद्रस् तथेन्द्रश् च वरुणश् च तथा यमः ।
कुबेरश् च तथा चान्ये दिक्पालाः सनकादयः ।
ऋषयो देवता यज्ञा मत्तेजो भरतर्षभ ॥

104.20

पृथिवी वायुर् आकाशम् आपो ज्योतिश् च पञ्चमम्
चन्द्रादित्याव् अहोरात्रे पक्षा मासास् तथा क्षपाः
मुहूर्ताश् च कलाश् चैव क्षणाः संवत्सरास् तथा ॥

104.21

मन्त्राश् च विविधाः पार्थ यानि शास्त्राणि कानिचित्
विद्याश् च वेदितव्यं च मत्तः प्रादुर्भवन्ति वै ॥

104.22

मन्मयं विद्धि कौन्तेय क्षयं सृष्टिं च भारत
सच् चासच् च ममैवात्मा सद् असच् चैव यत् परम् ॥

104.23

एवम् उक्तो ऽस्मि क्षृणेन प्रीयता भरतर्षभ
तथैव च मनो नित्यम् अभवन् मे जनार्दने ॥

104.24

एतच् छ्रुतं च दृष्टं च माहात्म्यं केशवस्य मे
यन् मां पृच्छसि राजेन्द्र भूयश् चातो जनार्दने ॥

104.25

एतच् छ्रुत्वा कुरुश्रेष्ठो धर्मराजो युधिष्ठिरः
पूजयाम् आस मनसा गोविन्दं पुरुषोत्तमम् ॥

104.26

विस्मितश् चाभवद् राजा सह सर्वैः सहोदरैः
राजभिश् च तथासन्नैर् ये तत्रासन् समागताः ॥

मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc