भाषा

ENहिગુ
ग्रंथ पाठ

हरिवंश · अध्याय 103

103.1

ततः पर्वतजालानि सरितश् च सरांसि च
अपश्यं समतिक्रम्य सागरं मकरालयम् ॥

103.2

ततो ऽर्घ्यम् उदधिः साकाद् उपनिन्ये जनार्दने
प्राञ्जलिः समुपस्थाय किं करोमीति चाब्रवीत् ॥

103.3

प्रतिगृह्य तु तां पूजां तम् उवाच जनार्दनः
रथपन्थानम् इच्छामि दत्तं नदनदीपते ॥

103.4

अथाब्रवीत् समुद्रस् तं प्राञ्जलिर् गरुडध्वजम्
प्रसीद भगवन् मैवम् अन्यो ऽप्य् एवं गमिष्यति ॥

103.5

त्वयैव स्थापितः पूर्वम् अगाधो ऽस्मि जनार्दन
त्वया प्रवर्तिते गाधे यास्यामि गमनीयताम् ॥

103.6

अन्ये ऽप्य् एवं गमिष्यन्ति राजानो दर्पमोहिताः
एवं निश्चित्य गोविन्द यत् क्षमं तत् समाचर ॥

103.7

ब्राह्मणार्थे मदर्थे च कुरु सागर मद्वचः
माम् ऋते न पुमान् कश्चिद् अन्यस् त्वां धर्षयिष्यति ॥

103.8

अथाब्रवीत् समुद्रस् तु पुनर् एव जनार्दनम्
अभिशापभयाद् भीतो बाढम् एवं भविष्यति ॥

103.9

शोषयाम्य् एष मार्गं ते येन त्वं तात यास्यसि
रथेन सहसूतेन सध्वजेन च केशव ॥

103.10

मया दत्तवरः पूर्वं न शोषं त्वम् इहार्हसि
मानुषास् ते न जानीयुर् विविधान् रत्नसंचयान् ॥

103.11

जलं स्तम्भय साधो त्वं ततो यास्याम्य् अहं रथी
न हि कश्चित् प्रमाणं ते रत्नानां वेत्स्यते नरः ॥

103.12

सागरेण तथेत्य् उक्ते प्रस्थिताः स्म जलेन वै
स्तम्भितेन यथा भूमौ मणिवर्णेन भास्वता ॥

103.13

ततो ऽर्णवं समुत्तीर्य कुरून् अप्य् उत्तरान् वयम्
क्षणेन समतिक्रान्ता गन्धमादनम् एव च ॥

103.14

ततस् तु पर्वताः सप्त केशवं समुपस्थिताः
जयन्तो वैजयन्तश् च नीलो रजतपर्वतः ॥

103.15

महामेरुः सकैलास इन्द्रकूटश् च नामतः
वर्णरूपाणि बिभ्रन्तो विविधान्य् अद्भुतानि च ॥

103.16

उपस्थाय च गोविन्दं किं कुर्मेत्य ब्रवंस् तदा
तांश् चापि प्रतिजग्राह विधिवन् मधुसूदनः ॥

103.17

तान् उवाच हृषीकेशः प्रणामावनतान् स्थितान्
विवरं गच्छतो मे ऽद्य रथमार्गः प्रदीयताम् ॥

103.18

ते कृष्णस्य वचः श्रुत्वा प्रतिगृह्य च पर्वताः
प्रददुः कामतो मार्गं गच्छतो भरतर्षभ ॥

103.19

तत्रैवान्तर्हितास् ते च तद् आश्चर्यतरं मम
असक्तं च रथो याति मेघजालेष्व् इवांशुमान् ॥

103.20

ततः कदा चिद् दुःखेन रथम् ऊहुस् तुरंगमाः
पङ्कभूतं हि तिमिरं स्पर्शाद् विज्ञायते ऽनघ ॥

103.21

अथ पर्वतभूतं तत् तिमिरं समपद्यत
अश्वा नाशक्नुवन् गन्तुं ततोऽहं संभ्रमान्वितः ।
तद् आसाद्य हया राजन् निष्प्रयत्नास् ततः स्थिताः ॥

103.22

ततश् चक्रेण गोविन्दः पाटयित्वा तु तत् तमः
आकाशं दर्शयाम् आस रथपन्थानम् ऊत्तमम् ॥

103.23

निष्क्रम्य तमसस् तस्माद् आकाशे दर्शिते तदा
भविष्यामीति संज्ञा मे भयं च विगतं मम ॥

103.24

ततस् तेजः प्रज्वलितम् अपश्यं वदतां वर
सर्वलोकं समाविश्य स्थितं पुरुषविग्रहम् ॥

103.25

तं प्रविष्टो हृषीकेशो दीप्तं तेजोनिधिं तदा
रथ एव स्थितश् चाहं स च ब्राह्मणसत्तमः ॥

103.26

स मुहूर्तात् ततः कृष्णो निश्चक्राम तदा प्रभुः
चतुरो बालकान् गृह्य ब्राह्मणस्यात्मजांस् तदा ॥

103.27

प्रददौ ब्राह्मणायाथ पुत्रान् सर्वाञ् जनार्दनः
त्रयः पूर्वं हृता ये च सद्योजातश् च बालकः ॥

103.28

प्रहृष्टो ब्राह्मणस् तात पुत्रान् दृष्ट्वा पुनः प्रभो
अहं च परमप्रीतो विस्मितश् चाभवं नृप ॥

103.29

ततो वयं पुनः सर्वे ब्राह्मणस्य च ते सुताः
यथागता निवृत्ताः स्म तथैव भरतर्षभ ॥

103.30

ततः स्म द्वारकां प्राप्ताः क्षणेन नृपसत्तम
असंप्राप्ते ऽर्धदिवसे विस्मितो ऽहं ततः पुनः ॥

103.31

सपुत्रं भोजयित्वा तं द्विजं कृष्णो महायशाः
धनेन तर्पयित्वा च गृहं प्रास्थापयत् तदा ॥

मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc