हरिवंश · अध्याय 102
सुमुहूर्तेन तु वयं तं ग्रामं प्राप्य भारत
विश्रान्तवाहनाः सर्वे वासायोपगतास् तदा ॥
ततो ग्रामस्य मध्ये ऽहं निविष्टः कुरुनन्दनः
समन्ताद् वृष्णिसैन्येन परिक्षित्य जनव्रजम् ॥
ततः शकुनयो दीप्ता मृगाश् च क्रूरभाषिणः
दीप्तायां दिशि वाशन्तो भयम् आवेदयन्ति मे ॥
संध्यारागो जपावर्णो भानुमांश् चैव निष्प्रभः
पपात महती चोल्का पृथिवी चाप्य् अकम्पत ॥
तान् समीक्ष्य महोत्पातान् दारुणांल् लोमहर्षणान्
योगम् आज्ञापयं तत्र जनस्योत्सुकचेतसः ॥
युयुधानपुरोगाश् च वृष्ण्यन्धकमहारथाः
सर्वे युक्तरथाः सज्जाः स्वयं चाहं तथाभवम् ॥
गते ऽर्धरात्रसमये ब्राह्मणो भयविक्लवः
उपागम्य भयाद् अस्मान् इदं वचनम् अब्रवीत् ॥
कालो ऽयं समनुप्राप्तो ब्राह्मण्याः प्रसवस्य मे
यत्ता भवन्तस् तिष्ठन्तु न भवेद् वञ्चना यथा ॥
मुहूर्ताद् इव चाश्रौषं कृपणं रुदितस्वनम्
तस्य विप्रस्य भवने ह्रियते ह्रियते इति ॥
अथाकाशे पुनर् वाचम् अश्रौषं बालकस्य वै
हाहेति ह्रियमाणस्य न च पश्यामि राक्षसम् ॥
ततो ऽस्माभिस् तदा तात शरवर्षैः समन्ततः
विष्टम्भिता दिशः सर्वा हृत एव स बालकः ॥
ब्रह्मणो ऽऽर्तस्वरं कृत्वा हृते तस्मिन् कुमारके
वाचः स परुषास् तीव्राः श्रावयाम् आस मां तदा ॥
वृष्णयो हतसंकल्पास् तथाहं नष्टचेतनः
माम् एव हि विशेषेण ब्राह्मणः पर्यभाषत ॥
रक्षिष्यामीति चोक्तं ते न च रक्षसि मे सुतम्
शृणु वाक्यम् इदं शेषं यत् त्वम् अर्हसि दुर्मते ॥
वृथा त्वं स्पर्धसे नित्यं कृष्णेनामितबुद्धिना
यदि स्याद् इह गोविन्दो नैतद् अत्याहितं भवेत् ॥
यथा चतुर्थं धर्मस्य रक्षिता लभते फलम्
पापस्यापि तथा मूढ भागं प्राप्नोत्य् अरक्षिता ॥
रक्षिष्यामीति चोक्तं ते न च शक्नोषि रक्षितुम्
मोघं गाण्डीवम् एतत् ते मोघं वीर्यं यशश् च ते ॥
अकिंचिद् उक्त्वा तं विप्रं ततो ऽहं प्रस्थितस् तदा
सह वृष्ण्यन्धकसुतैर् यत्र कृष्णो महाद्युतिः ॥
ततो द्वारवतीं गत्वा दृष्ट्वा मधुनिघातिनम्
व्रीडितः शोकसंतप्तो गोविन्देनोपलक्षितः ॥
स तु मां व्रीडितं दृष्ट्वा समाश्वस्य च माधवः
विनिन्दन् कृष्णसंनिधौ ।
मौढ्यं पश्यत मे यो ऽहं श्रद्दधे क्लीबकत्थनम् ॥
न प्रद्युम्नो नानिरुद्धो न रामो न च केशवः ।
यस्य शक्ताः परित्रातुं को ऽन्यस् तदवितेश्वरः ॥
धिग् अर्जुनं वृथावादं धिग् आत्मश्लाघिनो धनुः ॥
दैवोपसृष्टो यो मौर्ख्याद् आगच्छति च दुर्मतिः ॥
एवं शपति विप्रर्षौ विद्याम् आस्थाय वैष्णवीम् ।
ययौ संयमिनीं वीरो यत्रास्ते भगवान् यमः ॥
विप्रापत्यम् अचक्षाणस् तत ऐन्द्रीम् अगात् पुरीम् ।
आग्नेयीं नैर् ऋतीं सौम्यां वायव्यां वारुणीं तथा ॥
रसातलं नाकपृष्ठं धिष्ण्यान्य् अन्यान्य् उदायुधः ॥
ततो ऽलब्ध्वा द्विजसुतम् अनिस्तीर्णप्रतिश्रवः ।
अग्निं विविक्षुः कृष्णेन प्रद्युम्नेन निषेधितः ॥
दर्शये द्विजसूनुं ते मावज्ञात्मानम् आत्मना ।
कीर्तिं त एते विपुलां स्थापयिष्यन्ति मानवाः ॥
इति संभाष्य मां स्नेहात् ।
सान्त्वयित्वा च तं विप्रम् इदं वचनम् अब्रवीत् ॥
सुग्रीवं चैव शैब्यं च मेघपुष्पबलाहकौ
योजयाश्वान् इति तदा दारुकं प्रत्यभाषत ॥
आरोप्य ब्राह्मणं कृष्णस् त्व् अवरोप्य च दारुकम्
माम् उवाच ततः शौरिः सारथ्यं क्रियताम् इति ॥
ततः समास्थाय रथं कृष्णो ऽहं ब्राह्मणः स च
प्रयाताः स्म दिशं सौम्याम् उदीचीं कौरवर्षभ ॥
मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0