हरिवंश · अध्याय 101
पुनर् एव महाबाहो कृष्णस्य जगतीपतेः
कृतार्थाः सर्वथा विप्र नारायणसमाश्रयात् ।
जाता हि वयम् अद्यैव तत्कथाश्रवणाद् द्विज ।
इत्य् उक्तः स स्मितं कृत्वा प्रणम्य मुनिपुंगवम् ।
माहात्म्यं श्रोतुम् इच्छामि परमं द्विजसत्तम ॥
न हि मे तृप्तिर् अस्तीह शृण्वतस् तस्य धीमतः
कर्मणाम् अनुसंधानं पुराणस्य महात्मनः ॥
नान्तः शक्यं प्रभावस्य वक्तुं वर्षशतैर् अपि
गोविन्दस्य महाराज श्रूयताम् इदम् उत्तमम् ॥
शरतल्पे शयानेन भीष्मेण परिचोदितः
गाण्डीवधन्वा बीभत्सुर् माहात्म्यं केशवस्य यत् ॥
राज्ञां मध्ये महाराज ज्येष्ठं भ्रातरम् अब्रवीत्
युधिष्ठिरं जितामित्रम् इति तच् छृणु कौरव ॥
पुराहं द्वारकां यातः संबन्धीन् अवलोककः
न्यवसं पूजितस् तत्र भोजवृष्ण्यन्धकोत्तमैः ॥
ततः कदाचिद् धर्मात्मा दीक्षितो मधुसूदनः
एकाहेन महाबाहुः शास्त्रदृष्टेन कर्मणा ॥
ततो दीक्षितम् आसीनम् अभिगम्य द्विजोत्तमः
कृष्णं विज्ञापयाम् आस परित्राहीति चाब्रवीत् ॥
रक्षाधिकारो भवतः परिरक्षस्व मां विभो
चतुर्थांशं हि धर्मस्य रक्षिता लभते फलम् ॥
न भेतव्यं द्विजश्रेष्ठ रक्षामि त्वां कुतो ऽनघ
ब्रूहि तत्त्वेन भद्रं ते यद्य् अपि स्यात् सुदुष्करम् ॥
जातो जातो महाबाहो पुत्रो मे ह्रियते विभो
त्रयो हृताश् चतुर्थं त्वं कृष्ण रक्षितुम् अर्हसि ॥
ब्राह्मण्याः सूतिकालो ऽद्य तत्र रक्षा विधीयताम्
यथा ध्रियेद् अपत्यं मे तथा कुरु जनार्दन ॥
ततो माम् आह गोविन्दो दीक्षितो ऽस्मि क्रताव् इति
रक्षा च ब्राह्मणे कार्या सर्वावस्थागतैर् अपि ॥
श्रुत्वाहम् एवं कृष्णस्य ततो ऽवोचं नरोत्तम
मां नियोजय गोविन्द रक्षिष्यामि द्विजं भयात् ॥
इत्य् उक्तः स स्मितं कृत्वा माम् उवाच जनार्दनः
रक्ष्यसीत्य् एवम् उक्तस् तु व्रीडितो ऽस्मि नराधिप ॥
ततो मां व्रीडितं ज्ञात्वा पुनर् आह जनार्दनः
गम्यतां कौरवश्रेष्ठ शक्यते यदि रक्षितुम् ॥
त्वत्पुरोगाश् च गच्छन्तु वृष्ण्यन्धकमहारथाः
ऋते रामं महाबाहुः प्रद्युम्नं च महाबलम् ॥
ततो ऽहं वृष्णिसैन्येन महता परिवारितः
तम् अग्रतो द्विजं कृत्वा प्रयातः सह सेनया ॥
मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0