भाषा

ENहिગુ
ग्रंथ पाठ

हरिवंश · भाग 81100

एवम् उक्ते तु नृपतिर् दरदो नाम वीर्यवान् ।
रामं हलाग्रोग्रभुजं प्रत्ययात् सैन्यमध्यगम् ॥
तद् युद्धम् अभवत् ताभ्यां रामस्य दरदस्य च ।
मृधे लोकवरिष्ठाभ्यां कुञ्जराभ्याम् इवौजसा ॥
योजयित्वा ततः स्कन्धे रामो दरदम् आहवे ।
हलेन बलिनां श्रेष्ठो मुसलेनावपोथयत् ॥
आपतज् जानुना भूमौ व्यवर्तत महीतले ।
स कायगतमूर्धा वै मुसलेनावपोथितः ।
पपात दरदो भूमौ दारितार्ध इवाचलः ॥
रामेण निहते तस्मिन् दरदे राजसत्तमे ।
जरासंधस्य राज्ञस् तु रामेणासीत् समागमः ॥
महेन्द्रस्येव वृत्रेण दारुणो लोमहर्षणः ।
गदे हृहीत्वा विक्रान्ताव् अन्योन्यम् अभिधावताम् ॥
कम्पयन्तौ भुवं वीरौ ताव् उद्यतमहागदौ ।
ददृशाते महात्मानौ गिरी सशिखराव् इव ॥
व्युपारमन्ते युद्धानि प्रेक्ष्य तौ पुरुषर्षभौ ।
संरब्धाव् इव धावन्तौ गदायुद्धेषु विश्रुतौ ॥
ताव् उभौ परमाचार्यौ लोके ख्यातौ महाबलौ ।
मत्ताव् इव महानागाव् अन्योन्यं समधावताम् ॥
ततो देवाः सगन्धर्वाः सिद्धाश् च परमर्षयः ।
यक्षाश् चाप्सरसश् चैव समाजग्मुः सहस्रशः ॥
तद् देवयक्षगन्धर्व+ +महर्षिभिर् अलंकृतम् ।
शुशुभे ऽभ्यधिकं राजन् नभो ज्योतिर्गणैर् इव ॥
अभिदुद्राव रामं तु जरासंधो नराधिपः ।
सव्यं मण्डलम् आश्रित्य बलदेवस् तु दक्षिणम् ॥
ताव् अन्योन्यं प्रजह्राते गदायुद्धविशारदौ ।
दन्ताभ्याम् इव मातङ्गौ नादयन्तौ दिशो दश ॥
गदानिपातो रामस्य शुश्रुवे ऽशनिनिस्वनः ।
जरासंधस्य चरणे पर्वतस्येव दीर्यतः ॥
न स्म कम्पयते रामं जरासंधकरच्युता ।
गदा गदाभृतां श्रेष्ठं विन्ध्यं गिरिम् इवानलः ॥
रामस्य तु गदावेगं राजा स मगधेश्वरः ।
सेहे धैर्येण महता शिक्षया च व्यपोहयत् ॥
ततो ऽन्तरिक्षे वाग् आसीत् सुस्वरा लोकसाक्षिणी ।
न त्वया राम वध्यो ऽयम् अलं खेदेन मानद ॥
विहितो ऽस्य मया मृत्युस् तस्मात् साधु व्युपारम ।
अचिरेणैव कालेन प्राणांस् त्यक्ष्यति मागधः ॥
जरासंधस् तु तच् छ्रुत्वा विमनाः समपद्यत ।
न प्राहरत् ततस् तस्मै पुनर् एव हलायुधः ॥
तौ व्युपारमतां युद्धाद् वृष्णयस् ते च पार्थिवाः ।

दीर्घकालं महाराज निजघ्नुर् इतरेतरम् ॥
पराजिते त्व् अपक्रान्ते जरासंधे महीपतौ ।
विविक्तम् अभवत् सैन्यं परावृत्तमहारथम् ॥
जरासंधं जघानाशु गदया विष्णुर् अव्ययः ।
पुनर् आहत्य राजानं मुष्टिना च समाहनत् ।
तलेनाहत्य तरसा गदया स पुनः पुनः ॥
विसंज्ञो ऽपि जरासंधो गदाम् उत्सृज्य वीर्यवान् ।
उपारमत् तदा युद्धाच् चापं सशरम् एव च ॥
पदातिश् चाभवद् राजा भीतस् त्वरितविक्रमः ।
अन्तर्धानं जगामाशु शत्रौ पश्यति युध्यतः ॥
ते नृपाश् चोदितैर् नागैः स्यन्दनैस् तुरगैस् तथा ।
दुद्रुवुर् भीतमनसो व्याघ्राघ्राता मृगा इव ॥
तन् नरेन्द्रैः परित्यक्तं भग्नदर्पैर् महारथैः ।
घोरं क्रव्यादबहुलं रौद्रम् आयोधनं बभौ ॥
पाञ्चजन्यं तदा विष्णुर् दध्मौ शत्रुभयंकरम् ॥
देवदेवेन वीरेण चक्रिणा शार्ङ्गधन्विना ।
आध्मातो ऽथ महाशङ्खः पूरयाम् आस रोदसी ॥
ततो देवाः सगन्धर्वाः विद्याधरमहोरगाः ।
तेन शब्देन संतुष्टाः सिंहनादं प्रचक्रिरे ॥
तेन सर्वे नृपतयो भीता राजन् दिशो गताः ।
पुनश् च भगवान् विष्णुः शङ्खराजं समाश्वसत् ॥
ततो युद्धं महाविष्णुर् जित्वा यदुकुलोद्वहः ।
गोमन्ते ऽथ महाशैले किंचित् कालं विशश्रमे ।
पूर्वजेन तदा कृष्ण श्रान्तेन युधि भारत ॥
द्रवत्सु रथमुख्येषु चेदिराजो महाद्युतिः ।
स्मृत्वा यादवसंबन्धं कृष्णम् एवान्ववर्तत ॥
जरासंधे गते राज्ञि कृष्णाद् भीते रणोत्सवात् ।
वृतः करूषसैन्येन चेदिसैन्येन चानघ ।
संबन्धकामो गोविन्दम् इदम् एवाह चेदिराट् ॥
अहं पितृष्वसुर् भर्ता तव यादवनन्दन ।
सबलस् त्वाम् उपावृत्तस् त्वं हि मे दयितः प्रभो ॥
दमघोषो ऽस्मि भद्रं ते सहायो ऽहम् अनुव्रतः ।
उक्तश् चैष मया राजा जरासंधो ऽल्पचेतनः ।
कृष्णाद् विरम दुर्बुद्धे विग्रहाद् रणकर्मणि ॥
तद् एष स परित्यक्तो मम वाक्यस्य दूषकः ।
भग्नो युद्धे जरासंधस् त्वया द्रवति सानुगः ॥
निर्वैरो नैष संयाति स्वपुरं पृथिवीपतिः ।
विभोर् वैरविनिर्बन्धे विग्रहे रणमूर्धनि ।
त्वय्य् एव भूयो ऽप्य् अपरं दर्शयिष्यति किल्बिषम् ॥
अतीव रुष्टो वार्ष्णेय गतः सबलवाहनः ।

तद् इमां संत्यजाशु त्वं महीं हतनराकुलाम् ।
क्रव्यादगणसंकीर्णां सेवितव्याम् अमानुषैः ।
पिशाचाश् चात्र दृश्यन्ते राक्षसाः पिशिताशनाः ।
डाकिन्यो ऽत्र प्रनृत्यन्ति पीत्वा शोनितसंप्लवम् ॥
करवीरपुरं कृष्ण गच्छामः सबलानुगाः ।
सृगालं वासुदेवं वै द्रक्ष्यमस् तत्र पार्थिवम् ॥
इमौ रथवरोदग्रौ युवयोः कारितौ मया ।
योजितौ शिघ्रतुरगैः खड्गचक्राक्षकूबरौ ॥
शीघ्रम् आरुह भद्रं ते बलदेवसहायवान् ।
त्वरामः करवीरस्थं द्रष्टुं तं वसुधाधिपम् ॥
यादवं स्वबलोदग्रं महकाया महाबलाः ।
तिष्ठन्तु नृपशार्दूलाः सुप्रमत्ता महाबलाः ॥
समग्रहययुक्तेन स्यन्दनेन विराजता ।
चक्रोद्यतकरः शौरिर् गदापाणिर् अदृश्यत ॥
आस्ताम् अतर्जिताः सर्वे जरासंधवशानुगाः ।
एकस्य सर्वराजानः कृतवैरा जनाधिपाः ॥
ते ऽस्माकं दुष्टमनसः शङ्कितानि मनांसि नः ।
मधुरां च स्थलीप्रायां प्रहरेयुर् नराधिपाः ॥
तद् गच्छ रामसहितः सहायैः सह संगतः ।
रक्षेमां मथुरां वीर यादवानां कुलारणीम् ॥
पितृष्वसुः पतेर् वाक्यं श्रुत्वा चेदिपतेस् तदा ।
वाक्यं हृष्टमनाः कृष्णो जगाद जगतो गुरुः ॥
अहो स्वयुद्धाभिरतौ देशकालजितौ त्वया ।
बान्धवप्रतिरूपेण संसिक्तौ वचनाम्बुना ॥
देशकालविशिष्टस्य हितस्य मधुरस्य वै ।
वाक्यस्य दुर्लभा लोके वक्तारश् चेदिसत्तम ॥
चेदिनाथ सनाथौ स्वः संवृत्तौ तव दर्शनात् ।
नावयोः किंचिद् अप्राप्यं ययोस् त्वं बन्धुर् ईदृशः ॥
जरासंधस्य निधनं ये चान्ये तत्समा नृपाः ।
पर्याप्तौ त्वत्सनाथौ स्वः कर्तुं चेदिकुलोद्वह ॥
युद्धम् अप्रतिमं विद्धि प्रवृत्तं नौ रणे नृपैः ।
मया तेन महाराज जरासंधेन वै तदा ।
संग्रामः सुमहान् वृत्तः प्रत्यक्षं तव चेदिप ॥
यदूनां प्रथमो बन्धुस् त्वं हि सर्वमहीक्षिताम् ।
अतःप्रभृति संग्रामान् द्रक्ष्यसे चेदिसत्तम ॥
चक्रमौसलम् इत्य् एवं संग्रामं रणवृत्तयः ।
कथयिष्यन्ति लोके ऽस्मिन् ये धरिष्यन्ति पार्थिवाः ॥
राज्ञां पराजयं युद्धे गोमन्ते ऽचलसत्तमे ।
श्रवणाद् धारणाच् चास्य स्वर्गलोकं व्रजन्ति वै ॥
तद् गच्छाम महावीर करवीरं पुरोत्तमम् ।

त्वयोद्दिष्टेन मार्गेण चेदिराज शिवाय वै ॥
ते स्यन्दनगताः सर्वे पवनोत्पातिभिर् हयैः ।
भेजिरे दीर्घम् अध्वानं मूर्तिमन्त इवाग्नयः ॥
ते त्रिरात्रोषिताः प्राप्ताः करवीरं पुरोत्तमम् ।
शिवाय च शिवे देशे निविष्टास् त्रिदशोपमाः ॥
तान् आगतान् विदित्वाथ सृगालो युद्धदुर्मदः ।
प्रातः प्रविश्य तद्द्वारि द्वाःस्थं वचनम् अब्रवीत् ।
केशवो ऽथ महाबाहुर् वेदयास्मान् नराधिपे ॥
वसुदेवसुतौ वीरौ चेदिराजेन संगतौ ।
द्वाःस्थो ऽप्य् अथ तथेत्य् उक्त्वा तस्मै सर्वं न्यवेदयत् ॥
पुरस्य धर्षणं मत्वा निर्जगामेन्द्रविक्रमः ॥
रथेनादित्यवर्णेन भास्वता रणगामिना ।
आयुधप्रतिपूर्णेन नेमिनिर्घोषहासिना ॥
मन्दराचलकल्पेन चित्राभरणभूषिणा ।
अक्षय्यसायकैस् तूणैः पूर्णेनार्णवघोषिणा ॥
हर्यश्वेनाशुगतिना+ +सक्तेन शिखरेष्व् अपि ।
हेमकूबरगर्भेण दृढाक्षेणाभिशोभिना ॥
वन्धुरेण सुदीप्तेन पतत्रिवरगामिना ।
खे गतेनेव शक्रस्य हर्यश्वेन रथाद्रिणा ॥
सावित्रे नियमे पूर्णे यं ददौ सविता स्वयम् ।
आदित्यरश्मिभिर् इव रश्मिभिर् यो निगृह्यते ॥
तेन स्यन्दनमुख्येन द्विषत्स्यन्दनघातिना ।
स सृगालो ऽभ्ययात् कृष्णं शलभः पावकं यथा ॥
चापपाणिः सुतीक्ष्णेषुः कवची हेममालिकः ।
रथी खड्गी शरी चापी निषङ्गी कुण्डली बली ।
गदी हारी तनुत्राणी करत्राणी किरीटवान् ॥
सितप्रावरणोष्णीषः पावकाकारलोचनः ॥
मुहुर् मुहुर् ज्याचपलं विक्षिपन् दुःसहं धनुः ।
निर्वमन् रोषजं वायुं सानलज्वालमण्डलम् ॥
भाभिर् भूषणपङ्क्तीनां दीप्तो मेरुर् इवाचलः ।
रथस्थ इव शैलेन्द्रः सृगालः प्रत्यदृश्यत ॥
तस्यारसितशब्देन रथनेमिस्वनेन च ।
गुरुत्वेन च नाम्यन्ती चचालोर्वी यथा पुरा ॥
तम् आपतन्तं श्रीमन्तं मूर्तिमन्तम् इवानलम् ।
सृगालं लोकपालाभं दृष्ट्वा कृष्णो न विव्यथे ॥
चेदिराजबलौ चापि किंचिद् विव्यथतुस् तदा ।
सृगालश् चापि संरब्धः तं रथं साधु चोदितम् ।
समीपे वासुदेवस्य युयुत्सुः प्रत्यदृश्यत ॥
वासुदेवं स्थितं दृष्ट्वा सृगालो युद्धलालसः ।
अभिदुद्राव वेगेन मेघराशिर् इवाचलम् ।

वासुदेवः स्मितं कृत्वा प्रतियुद्धाय तस्थिवान् ॥
स तस्य विस्मयं दृष्ट्वा प्रतियोद्धुम् उपस्थितः ।
तद् युद्धम् अभवत् ताभ्यां समरे घोरदर्शनम् ।
उभाभ्याम् इव मत्ताभ्यां कुञ्जराणां यथा वने ॥
ततः शरसहस्रेण वासुदेवो जघान ह ॥
वासुदेवं महात्मानं विव्याध पुनर् अष्टभिः ।
वासुदेवस् त्रिसप्तत्या सृगालं युद्धदुर्मदम् ॥
वृष्णिवीरो ऽथ राजेन्द्र वासुदेवं महाद्युतिम् ।
सृगालाभं सृगालं च जघान नवभिः शरैः ।
ततः पञ्चशता विष्णुं सृगालो ऽथ जघान ह ।
सृगालं पञ्चविंशत्या वासुदेवः समाहनत् ॥
सृगालो वासुदेवो ऽथ वासुदेवं समाहनत् ।
बाणैः पञ्चाशता राजन् बलदेवस्य पश्यतः ॥
वासुदेवौ महाराज विश्रुतौ च धनुर्धरौ ।
युयुधाते महावीरौ परस्परवधैषिणौ ॥
वायव्यं वारुणं चैव सृगालो ऽथ समाददे ।
आग्नेयम् अथ पार्जन्यं वासुदेवः समाददे ॥
तैर् अस्त्रैस् तौ तु राजेन्द्र वासुदेवौ रणोत्सुकौ ।
युयुधाते रुषा युक्तौ संदष्टोष्ठौ तदा रणे ॥
अस्त्राणि तानि राजेन्द्र समाहत्य परपरम् ।
भूमिम् आपेदिरे तानि निष्फलानि ततो ऽभवन् ॥
माहेश्वरं सृगालस् तु रौद्रं चैव जनार्दनः ।
गोमायुर् अथ याम्यं तु कालम् अस्त्रं जनर्दनः ॥
ते शस्त्रे निष्फले राजन् भूमिं जग्मतुर् आतुरे ।
क्षुरप्रेण सृगालस् तु छेत्तुम् ऐच्छत् तु शार्ङ्गिणः ।
ज्यां जातरोषो धनुषा तस्य देवस्य पश्यतः ॥
तज् ज्ञात्वा भगवान् विष्णुर् धनुश् चिच्छेद सायकैः ।
विसृज्य सशरं चापं पुनर् अन्यत् समाददे ॥
तच् चापि भगवान् विष्णुश् चिच्छेद च ननाद च ।
पुनर् अन्यत् समादत्ते चापं भारसहं नृप ॥
तेन चापेन गोविन्दं जघान निशितैः शतैः ।
नवत्या च पुनर् विष्णुर् नवभिश् च पुनर् नृपः ॥
अशीत्या च पुनर् देवं समाजघ्ने परः शरैः ।
शराणाम् अथ लक्षाणां समाजघ्ने हरिं रुषा ॥
ततः क्रुद्धो ऽथ भगवांश् चिच्छेद धनुर् उत्तमम् ।
सारथिं चास्य हत्वा तु जघान प्राष्ठिसारथिम् ॥
सिंहनादं ततश् चक्रे विष्णुर् ऊर्जितविक्रमः ॥
ततः सृगालो विक्रान्तश् चापं भारसहं महत् ।
आदाय निशितं बाणं सज्जं कृत्वा धनुस् तदा ॥
सृगालस् त्व् अब्रवीत् कृष्णं समरे समुपस्थितम् ।

युद्धरागेण तेजस्वी मोहाच् चलितगौरवः ॥
रुधिराक्षो महारौद्रः संदष्ठौष्टपुटस् तथा ।
गोमन्ते युद्धमार्गेण यत् त्वया कृष्ण चेष्टितम् ।
अनायकानां मूढानां नृपाणां दुर्बले बले ।
स मे सुविदितः कृष्ण क्षत्रियाणां पराजयः ।
कृपणाणाम् असत्त्वानाम् अबुधानां रणोत्सवे ॥
तिष्ठेदानीं यथाकामं स्थितो ऽहं पार्थिवे पदे ।
मृगव्यालो महाव्याॡअं न मर्षयति सागरे ।
क्व यास्यसि मया रुद्धो रणेष्व् अपरिनिष्ठितः ॥
न चाहम् एकं सबलो युक्तस् त्वां योद्धुम् आहवे ।
अहम् एकस् त्वम् अप्य् एको द्वौ युध्याव रणे स्थितौ ॥
किं जनेन निरस्तेन त्वं चाहं च रणे स्थितः ।
धर्मयुद्धेन निधनं व्रजत्व् एकतरो रणे ॥
लोके ऽस्मिन् वासुदेवो ऽहं भविष्यामि हते त्वयि ।
हते मयि त्वम् एको वा वासुदेवो भविष्यसि ॥
सृगालस्य वचः श्रुत्वा वासुदेवः क्षमापरः ।
इष्टतः प्रहरस्वेति तम् उक्त्वा चक्रम् आददे ॥
ततः सायकजालानि सृगालः क्रोधमूर्छितः ।
चिक्षेप कृष्णे घोराणि युद्धाय लघुविक्रमः ॥
चिक्षेपोरसि कृष्णस्य युद्धसंधानकोविदः ॥
शस्त्राणि यानि चान्यानि मुसलाद्यानि संयुगे ।
पातयाम् आस गोविन्दे स सृगालः प्रतापवान् ॥
सृगालप्रहितैर् अस्त्रैः पावकज्वालमालिभिः ।
निर्दयाभिहतः कृष्णः स्थितो गिरिर् इवाचलः ॥
सो ऽस्त्रप्रहाराभिहतः किंचिद् रोषसमीरितः ।
चक्रम् उद्यम्य गोविन्दः सृगालोरसि पातयत् ॥
सृगालं वाक्यम् अब्रवीत् ।
यदि शक्नोषि राजेन्द्र वहैतच् चक्रम् उद्यतम् ।
किम् अनेन प्रलापेन द्रक्ष्यसे मत्पराक्रमम् ॥
छेत्स्यामि ते शिरः कायाच् चक्रेणानेन राजक ।
इत्य् उक्त्वा रोषताम्राक्षः @
तं रथस्थं प्रमाणस्थं सृगालं युद्धदुर्मदम् ।
जघान समरे चक्रं जातदर्पं महाबलम् ।
निहत्य समरे शूरं सृगालं युद्धकामुकम् ।
ततः सुदर्शनं चक्रं पुनर् आयाद् गुरोः करम् ॥
चक्रेणोरसि निर्भिन्नः स गतासुर् गतोत्सवः ।
पपात क्षतजस्रावी सृगालो ऽद्रिर् इवाहतः ॥
निशम्य तं निपतितं वज्रपाताद् इवाचलम् ।
तस्य सैन्यान्य् अपययुर् विमनांसि हते नृपे ॥
केचित् प्रविश्य नगरं कश्मलाभिहता भृशम् ।

रुरुदुर् दुःखसंतप्ता भर्तृशोकाभिपीडिताः ॥
केचित् तत्रैव शोचन्तः स्मरन्तः सुकृतानि च ।
पतितं भूमिपं भूमौ न त्यजन्ति स्म दुःखिताः ॥
ततो मेघनिनादेन स्वरेणारिविमर्दनः ।
कृष्णः कमलपत्राक्षो जनानाम् अभयं ददौ ॥
चक्रोचितेन हस्तेन राजताङ्गुलिपर्वणा ।
न भेतव्यं न भेतव्यम् इति तान् अभ्यभाषत ॥
नास्य पापस्य दोषेण निराबाधकरं जनम् ।
घातयिष्यामि समरे नेदं शूरव्रतं मतम् ॥
अश्रुपूर्णमुखा दीनाः क्रन्दमाना भृशं तदा ।
पतितो वै सृगालाख्यो भ्रष्टः सन् दीनमानसः ॥
ते स्म पश्यन्ति पतितं धरण्यां धरणीपतिम् ।
चक्रनिर्दारितोरस्कं भिन्नशृङ्गम् इवाचलम् ॥
विलपन्ति स्म ते सर्वे सचिवाः सप्रजा भृशम् ।
साश्रुपातेक्षणा दीनाः शोकस्य वशम् आगताः ॥
तेषां रुदितशब्देन पौराणां विस्वरैः स्वरैः ।
महिष्यस् तस्य निष्पेतुः सपुत्रा रुदिताननाः ॥
तास् तं निपतितं दृष्ट्वा श्लाघ्यं भूमिपतिं पतिम् ।
स्तनान् आरुज्य करजैर् भृशार्ताः पर्यदेवयन् ॥
उरांस्य् उरसिजांश् चैव शिरोजान्य् आकुलान्य् अपि ।
निर्दयं ताडयन्त्यस् ता विस्वरं रुरुदुः स्त्रियः ॥
तस्योरसि सुदुःखार्ता मृदिताः क्लिन्नलोचनाः ।
पेतुर् ऊर्ध्वभुजाः सर्वाः कृत्तमूला लता इव ॥
तासां बष्पाम्बुपूर्णानि नेत्राणि नृपयोषिताम् ।
वारिविप्रहतानीव पङ्कजानि चकाशिरे ॥
ताः पतिं पतितं भूमौ रुदन्त्यो हृदि ताडिताः ।
लालप्यमानाः करुणं योषितः पर्यदेवयन् ॥
पुत्रं चास्य पुरस्कृत्य बालं प्रस्रुतलोचनम् ।
सृगालपुत्रं चारभ्य पुरस्कृत्य तु बालकम् ।
शक्रदेवं पितुः पार्श्वे द्विगुणं रुरुदुः स्त्रियः ॥
इमं ते पश्य विक्रान्तं बालं पुत्रम् अपण्डितम् ।
त्वद्विहीनः कथम् अयं पदे स्थास्यति पैतृके ।
कथम् एकपदे त्यक्त्वा गतो ऽस्य् अन्तःपुरं परम् ॥
अतृप्तास् तव सौख्यानां किं कुर्मो विधवा वयम् ॥
तस्य पद्मावती नाम महिषी प्रमदोत्तमा ।
गृहीत्वा तं सुतं तत्र वासुदेवम् उपस्थिता ॥
यस् त्वया पातितो वीर रणप्रोक्तेन कर्मणा ।
तस्य प्रेतगतस्यायं पुत्रस् त्वां शरणं गतः ॥
यदि त्वां प्रणमेतासौ कुर्याद् वा शासनं पुनः ।
यदि त्वं बान्धवः श्लाघ्यः पुत्रस्य प्रणतस्य मे ।

दीयतां जीवितं देव बान्धवस्य यथात्मनः ॥
नायम् एकप्रहारेण जनस् तप्येत दारुणम् ॥
यदि कुर्याद् अयं मूढस् त्वयि बान्धवकं विधिम् ।
नैवं परीतः कृपणः सेवेत वसुधातलम् ॥
अयम् अस्य विपन्नस्य बान्धवस्य त्वयानघ ।
संतती रक्ष्यतां वीर+ +पुत्रः पुत्र इवात्मनः ॥
तस्यास् तद् वचनं श्रुत्वा महिष्या यदुनन्दनः ।
मृदुपूर्वम् इदं वाक्यम् उवाच वदतां वरः ॥
राजपत्नि गतो रोषः सहानेन दुरात्मना ।
प्रकृतिस्था वयं जाता देवि सैषो ऽस्मि बान्धवः ॥
रोषो मे विगतः साध्वि तव वाक्यैर् अकिल्बिषैः ।
यो ऽयं पुत्रः सृगालस्य ममाप्य् एष न संशयः ॥
अभयं चाभिषेकं च ददाम्य् अस्मै सुखाय वै ।
आहूयन्तां प्रकृतयः पुरोधा मन्त्रिणस् तथा ।
पितृपैतामहे राज्ये तव पुत्रो ऽभिषिच्यताम् ॥
ततः प्रकृतयः सर्वाः पुरोधा मन्त्रिणस् तथा ।
अभिषेकार्थम् आजग्मुर् यत्र तौ रामकेशवौ ॥
ततः सिंहासनस्थं तं राजपुत्रं जनार्दनः ।
अभिषेकेण दिव्येन योजयाम् आस वीर्यवान् ॥
अभिषिच्य सृगालस्य करवीरपुरे सुतम् ।
कृष्णस् तदहतुर् एवाशु प्रस्थानम् अभिरोचयत् ॥
रथेन हरियुक्तेन तेन युद्धार्जितेन वै ।
केशवः प्रस्थितो ऽध्वानं यथेन्द्रस् त्रिदिवं यथा ॥
सहितौ ताव् अनुगतौ मथुरां प्रति जग्मतुः ।
दमघोषो ऽपि धर्मात्मा ससैन्यः ससुहृज्जनः ।
आपृच्छ्य केशवं राजा स्वां पुरीं प्रतिजग्मिवान् ॥
शक्रदेवो ऽपि धर्मात्मा सह मात्रा परंतप ।
सबालवृद्धयुवती+ +मुख्याः प्रकृतयस् तथा ॥
शिबिकायाम् अथारोप्य सृगालं युद्धदुर्मदम् ।
संहता दूरमार्गेण पश्चिमाभिमुखा ययुः ॥
नैधनेन विधानेन चक्रुस् ते तस्य सत्क्रियाम् ।
सत्कारं कारयाम् आसुः पितॄणां पारलौकिकम् ।
उद्दिश्योद्दिश्य राजानं श्राद्धं कृत्वा सहस्रशः ॥
ततस् ते सलिलं दत्त्वा नामगोत्रादिकीर्तनैः ।
पितर्य् उपरते घोरे शोकसंविग्नमानसः ।
कृत्वोदकं तदा राजा प्रविवेश पुरोत्तमम् ॥
श्रीवत्सच्छन्नवक्षोज्ज्वलितमणिवरोद्दीप्तदिव्याङ्गरागं @
भास्वच्चक्रं सशङ्खं स्फुरदुरुमकुटं हारकेयूरहारि ।
मेघाभं पीतवासोमणिमकरलसत्कुण्डलं चन्द्रवक्त्रं @
प्रोद्यत्तेजोम्बुजाक्षं हृदय भज सदा त्वं वपुः प्रांशु जिष्णोः ।

तौ तु स्वल्पेन कालेन पञ्चरात्रोषितौ पथि ।
दमघोषेण सण्गतौ ।
अथाध्वविधिना तौ तु @
दमघोषेण संगम्य एकरात्रोषिताव् इव ।
जग्मतुः सहितौ वीरौ मुदा परमया युतौ ॥
नगरीं मथुरां प्राप्तौ वसुदेवसुताव् उभौ ॥
ततः कृष्णो महाशङ्खं पाञ्चजन्यं च यादवः ।
प्रदध्मौ लोकविख्यातः सुस्वरं पुरुषोत्तमः ॥
ततः प्रत्युद्गताः सर्वे यादवा यदुनन्दनौ ।
सबला हृष्टमनस उग्रसेनपुरोगमाः ॥
श्रेण्यः प्रकृतयश् चैव मन्त्रिणः सपुरोहिताः ।
सबालवृद्धा सा चैव पुरी समभिवर्तत ॥
नन्दितूर्याण्य् अवाद्यन्त स्तूयेतां पुरुषोत्तमौ ।
रथ्याः पताकामालिन्यो भासन्ति स्म समन्ततः ॥
हृष्टा प्रमुदिता सर्वा पुरी परमशोभिता ।
अक्रूरः सात्यकिश् चैव मन्त्रिणश् च यथोचिताः ।
भ्रात्रोस् तयोर् आगमने यथैवेन्द्रमहे तथा ॥
मुदितास् तत्र गायन्ति राजमार्गेषु गायनाः ।
स्तवाशीःप्रभवा गाथा यादवानां प्रियंकराः ॥
गोविन्दरामौ संप्राप्तौ भ्रातरौ लोकविश्रुतौ ।
स्वे पुरे निभयाः सर्वे क्रीडध्वं यादवाः सुखम् ॥
न तत्र कश्चिद् दीनो वा मलिनो वा विचेतनः ।
मथुरायाम् अभूत् कष्चिद् रामकृष्णसमागमे ॥
वयांसि साधुवाक्यानि प्रहृष्टा गोहयद्विपाः ।
नरनारीगणाश् चैव भेजिरे मानसं सुखम् ॥
शिवाश् च प्रववुर् वाता विरजस्का दिशो दश ।
दैवतानि च सर्वाणि हृष्टान्य् आयतनेष्व् अपि ॥
यानि लिङ्गानि लोकस्य वृत्तानीह कृते युगे ।
तानि सर्वाण्य् अदृश्यन्त भ्रात्रोर् आगमनं प्रति ॥
ततः काले शिवे पुण्ये स्यन्दनेनारिमर्दनौ ।
हरियुक्तेन तौ वीरौ प्रविष्टौ मथुरां पुरीम् ॥
विशन्तं नगरीं रम्यां गोविन्दं रामम् एव च ।
अनुजग्मुर् यदुगणाः शक्रं देवगणा इव ॥
वसुदेवस्य भवनं पितुस् तौ यदुनन्दनौ ।
प्रविष्टौ हृष्टवदनौ चन्द्रादित्याव् इवाचलम् ॥
ताव् आयुधानि विन्यस्य गृहे स्वे स्वैरचारिणौ ।
मुमुदाते यदुवरौ वसुदेवसुताव् उभौ ॥
ततस् तौ वसुदेवस्य पादौ समभिपीड्य च ।
तत्रोग्रसेनं राजानम् अन्यांश् च यदुपुंगवान् ॥
यथान्यायं पूजयित्वा तौ सर्वैश् चाभ्नन्दितौ ।

जग्मतुर् हृष्टमनसौ मातुर् एव निवेशनम् ॥
एवं ताव् एकनिर्माणौ मथुरायां शुभाननौ ।
उग्रसेनानुगौ भूत्वा कंचित् कालं मुमोदतुः ॥
रामोग्रसेनौ विक्रान्तौ विष्णुना समलंकृतौ ॥
कृत्वा प्रयाणं गोमन्ताद् राजा स मगधेश्वरः ।
व्रीडयावनतो भूत्वा स्वपुरं प्रविवेश ह ॥
ससैन्यः सबलश् चापि पृष्ठतो ऽन्वचरत् किल ॥
इत्य् उक्त्वा पार्थिवान् सर्वान् कृष्णः कृष्णाम्बुदोपमः ।
पूर्वजेन सहायेन स्थितः समरमूर्धनि ॥
श्रुत्वैव तु जरासंधः क्रोधविस्फारितेक्षणः ।
प्रलप्तश् च तथा राजा विष्णुना प्रभ्विष्णुना ॥
ध्नवी बाणि रथी खड्गी कुण्डली कवची बली ।
शूराणाम् अग्रणीः साक्षाद् एक एवातुलो नृपः ।
केशवस्य पुरः स्थित्वा बभाषे केशिसूदनम् ॥
किम् एतैस् तुच्छवाक्यैर् हि तिष्ठेदानीं ममाग्रतः ।
यद् बलं यच् च ते वीर्यं दर्शयस्व यदीच्छसि ॥
एष त्वां प्रहरिष्यामि तिष्ठ तावद् रणे क्षणम् ॥
एते ये निहता गोप राजानो बलमोहिताः ।
एतैर् वराकैर् गोपाल कृतं राजविदूषकैः ॥
एष त्वां दर्शयिष्यामि यमराजानम् एव हि ।
इत्य् उक्त्वा स जरासंधः कृष्णम् अभ्यद्रवद् रणे ॥
तं दृष्ट्वा रोषताम्राक्षं कृष्णो वाक्यम् उवाच ह ।
इच्छातः प्रहरस्वेति यदि शक्नोषि राजक ॥
एष ते प्रमुखे राजन् स्थितो ऽहं किं विकत्थसे ।
नैतावता रणे राजञ् शूराः सन्ति नृपोत्तमाः ॥
शरैर् वा यदि वा शस्त्रैर् दर्शयस्व पराक्रमम् ।
इत्य् उक्त्वा स जगन्नाथः सर्वेषाम् अग्रणीर् हरिः ।
सुपर्णध्वजम् आस्थाय कृष्णस् तु रथम् उत्तमम् ।
तम् अभ्ययाज् जरासंधं शरैर् विव्याध चाष्टभिः ॥
सारथिं चास्य विव्याध पञ्चभिः निशितैः शरैः ।
जघान तुरगांश् चाजौ यतमानस्य वीर्यवान् ॥
बलदेवो धनुश् चास्य चिच्छेद नतपर्वणा ॥
तं कृच्छ्रगतम् आज्ञाय चित्रसेनो महाबलः ।
सेनानीः कौशिकश् चैव कृष्णं विव्याध पञ्चभिः ॥
त्रिभिर् विव्याध संक्रुद्धः कामपालं तु कौशिकः ।
बलदेवो धनुश् चास्य भल्लेनाजौ द्विधाकरोत् ॥
जवेनाभ्यर्दितश् चापि तान् अरीञ् शरवृष्टिभिः ।
जनार्दनो ऽपि भगवान् आजघान स मागधम् ॥
जरासंधो ऽपि वेगेन धनुर् अन्यन् महारथः ।
सज्यं कृत्वा महावीरः केशवं निशितैः शरैः ।

आजघान शरीरं वै नीलोत्पलदलप्रभम् ॥
भगवान् अपि गोविन्दः शरेण नतपर्वणा ।
ललाटे चास्य चिक्षेप जरासंधस्य चाभिभूः ॥
पुनर् विव्याध निशितैः बाणैः शैलोपमैस् तथा ।
क्षुरप्रेणाहनच् चास्य ध्वजं कनकभूषणम् ॥
तं चित्रसेनः संरब्धो विव्याध निशितैः शरैः ।
कौशिकः पञ्चविंशत्या जरासंधस् तु सप्तभिः ॥
त्रिभिस् त्रिभिश् च नाराचैस् तान् बिभेद जनार्दनः ।
पञ्चभिः पञ्चभिश् चैव बलदेवस् तु तान् अरीन् ॥
कृष्णो रथाश्वांश् चिच्छेद चित्रसेनस्य वीर्यवान् ।
बलदेवो धनुश् चास्य भल्लेनाजौ द्विधाकरोत् ॥
संछिन्नधन्वा विरथो गदाम् आदाय वीर्यवान् ।
अभ्यद्रवत् सुसंक्रुद्धो जिघांसुर् मुसलायुधम् ॥
सिसृक्षतस् तु नाराचांश् चित्रसेनवधैषिणः ।
धनुश् चिच्छेद रामस्य जरासंधो महाबलः ॥
गदया च जघानाशु चित्रसेनो हलायुधम् ।
जरासंधस् तु बलवान् केशवं पञ्चभिः शरैः ॥
पुनर् नवत्या विव्याध पुनश् चैव हि सप्तभिः ।
अशीत्या च जरासंधः कृष्णं नीलोत्पलच्छविम् ॥
धनुश् चिच्छेद भगवाञ् जरापुत्रस्य धीमतः ।
उत्सृज्य सशरं चापं गदाम् आदाय वीर्यवान् ॥
जघान च तदा विष्णुं बाहुदेशे बली तदा ।
गदया चैव गोविन्दो जघानास्य च वक्षसि ॥
जानुभ्यां निपपातोर्व्यां पुनर् उत्थाय मागधः ।
गदयाथ हरं वेगाज् जघानाहत्य वक्षसि ॥
हरिश् च गदया राजञ् जरासंधम् अमर्षणम् ॥
न ममर्ष जरासंधो गदायातं जनार्दनम् ।
जघान स्तनयोर् मध्ये बलदेवस्य पश्यतः ॥
ततः पीडितसर्वाङ्गो ययौ कृष्णो महीतलम् ।
सिंहनादं ततश् चक्रे मागधो राजसत्तमः ।
हतः कृष्णो हतः कृष्ण इति वाचं समाददे ॥
तं दृष्ट्वा पतितं कृष्णं क्रोधाद् द्विगुणविक्रमः ।
आदाय मुसलं रामो जरासंधम् अभिद्रवत् ॥
जघान स्तनयोर् मध्ये बाहुभ्यां यदुनन्दनः ।
पुनश् च गदया रामो ललाटे तं जघान ह ।
जानुभ्याम् अपतद् भूमौ गतसंज्ञो जरासुतः ॥
उत्थाय सहसा भूमेर् जरासंधः प्रतापवान् ।
बलभद्रं जघानाशु सस्वनं मागधस् तदा ॥
ततो हलधरो वीरो गदया सर्वपुष्टया ।
चिच्छेद तां गदां वीरः कृष्णस्य पुरतस् तदा ॥

जरासंधस् तु बलवान् उत्सृज्य महतीं गदाम् ।
पुनर् अन्यां महाच्चण्डां सर्वायुधसमन्विताम् ॥
आदाय निशितां घोरां तां जघान हलायुधम् ।
पुनश् च गदया तं तु ललाटे ऽभ्यहनद् बली ॥
मुष्टिना च समाहत्य गदया च तदा भृशम् ।
तलेन च जघानाशु वासुदेवस्य पश्यतः ॥
ततो मूर्च्छां समापेदे बलभद्रः प्रतापवान् ।
सिंहनादं ततश् चक्रे राजा स मगधेश्वरः ॥
एतस्मिन्न् अन्तरे विष्णुः संज्ञां प्राप्य जरासुतम् ।
गदया पोथयाम् आस दानवारक्तसिक्तया ।
जरापुत्रस् तदा तस्मै प्राहिणोच् छक्तिम् उत्तमाम् ॥
ताम् आपतन्तीं संप्रेक्ष्य गृहीत्वा विष्णुर् अव्ययः ।
तस्मिन्न् एव ददौ वीरः साक्षाद् विष्णुर् बलेर् इव ॥
स तया ताडितो राजा पपात च मुमोह च ।
प्राप्तसंज्ञस् तदा राजा परिघेण समाहनत् ॥
तयोस् तु युद्धम् अभवत् परस्परवधैषिणोः ।
देवासुरसमं युद्धम् आसीत् प्रथमसंगमे ।
नमुचेश् चैव शक्रस्य रामरावणयोर् इव ॥
उभौ तौ लोकविख्यातौ बले चास्त्रे च विश्रुतौ ।
उभाव् एव रणे वीरौ युद्धे च परिविश्रुतौ ॥
एतस्मिन्न् अन्तरे विष्णुः शार्ङ्गम् आदाय वीर्यवान् ।
शरेणाशनिकल्पेन विव्याध मग्धेश्वरम् ॥
अर्दितः स तु राजेन्द्रो गदयापोथयद् धरिम् ।
स हित्वा तु तदा शार्ङ्गं गदया तं जघान ह ॥
बलभद्रो ऽपि धर्मात्मा प्रहर्तुं तं विनिश्चितः ।
तदन्तरे प्राह वीरो दरदो नाम पार्थिवः ।
न युक्तं राम रामेति परासक्तं प्रति प्रभो ॥
तं दृष्ट्वा रोषताम्राक्षो हली मुसलम् आददे ।
रामं हलधरं राजा प्रतीयाद् युद्धदुर्मदम् ॥
तयोस् तद् युद्धम् अभवद् गजयूथपयोर् इव ॥
पराजितो जरासंधः कृष्णेन द्विजसत्तम ।
सबलः सानुगश् चैव किं मत्वा स्वगृहं गतः ॥
कष्टम् एतज् जरासंधः कृतवान् बलसंमितः ।
पलायनं द्विजश्रेष्ठ तयोर् यादवसिंहयोः ॥
पुरतः कृतवान् ब्रह्मन् न युक्तं प्रतिभाति मे ।
जरासंधो ऽपि राजेन्द्रः सर्वेषाम् अग्रणीः स्थितः ॥
लज्जाकरम् इदं मन्ये तस्य राज्ञो द्विजोत्तम ।
पृष्ठतश् च समागम्य पुरस्तात् पश्यतोर् ययौ ॥
किम् उत्तरं ततो राजा जरासंधः प्रतापवान् ।
अकरोद् यदुसिंहस्य माधवस्य द्विजोत्तम ।

एतद् आचक्ष्व मे ब्रह्मन् विस्तरेण तपोधन ॥
दग्ध्वा प्रयातो गोमन्ताद् राजा स मगधेश्वरः ।
व्रीॡअयावनतो भूत्वा स्वपुरीं प्रविवेश ह ॥
प्रविश्य स्वपुरं सो ऽथ पादस्पृष्ट इवोरगः ।
न शर्म लभते रात्रौ न दिवा शोककर्शितः ॥
ततः कदाचिद् राजा तु दुःखशोकसमन्वितः ।
नृपान् सर्वान् समाहूय वचनं चेदम् अब्रवीत् ॥
मन्त्रयामो नृपश्रेष्ठा महत् कार्यम् उपस्थितम् ।
पराजितो ऽस्मि राजेन्द्रा गोपाभ्यां राजसंसदि ॥
स सर्वैः पार्थिवैः सार्धं मन्त्रयाम् आस मन्त्रवित् ।
अहो धिक् पौरुषं मन्ये यद् अस्मान् प्रति पार्थिवाः ॥
ये नृपा बलकृष्णाभ्यां निर्जिताः सबलानुगाः ।
निरोत्स्यामः पुरीं रम्यां मधुरां यादवैर् वृताम् ॥
भगवन्तः पुरीं तत्र मधुरां चतुरङ्गिणः ।
बलेन महता युक्ता हन्तुं तौ गोपकिल्बिषौ ॥
अन्यथा ह्य् अयशो ऽस्माकं यावल्लोको वपुष्मताम् ।
प्रतिज्ञा च ममाप्य्प् एषा श्रूयतां पार्थिवोत्तमाः ॥
यौ तौ गोपकवीरौ हि तौ हत्वा तु स्वकं पुरम् ।
यास्यामि सत्यम् एतद् धि बलैर् बहुभिर् अन्वितः ॥
बलानि बहुरापाणि मम सन्ति नृपोत्तमाः ।
निःसाधनौ यादवकौ निष्कोशा दुर्बला हि ते ॥
अथ साध्या पुरी सर्वा नात्र कार्या विचारणा ।
ततो यूयं स्थिरा कृत्वा बुद्धिं युद्धाय पार्थिवाः ।
प्रयान्तु सर्वे राजानः कम्पयन्तो वसुंधराम् ॥
सर्वतः परिरोद्धव्या पुरी यादवपालिता ।
निर्मूला चैव सा कार्या भवद्भिः ख्यातकीर्तिभिः ॥
एतस्मिन्न् अन्तरे प्राप्ता लोकप्रावृत्तिका नराः ।
चक्रायुधगृहं सर्वे लोकपालगृ होपमम् ॥
तेष्व् आत्ययिकशंसीषु लोकप्रावृत्तिकेष्व् इह ।
कृतसंज्ञा यदुश्रेष्ठाः समीयुः कृष्णसंसदि ॥
समागतेषु सर्वेषु यदुमुख्येषु संसदि ।
प्रावृत्तिका नराः प्राहुः पार्थिवात्ययिकं वचः ॥
जनार्दन नरेन्द्राणां पार्थिवानां समागमः ।
भवीष्यति क्षितीशानां सुमहान् इत्य् अनेकशः ॥
त्वरितास् तत्र गच्छन्ति नानाजनपदेश्वराः ॥
कुण्डिने पुण्डरीकाक्ष भोजपुत्रस्य शासनात् ॥
प्रकाशं स्म कथास् तत्र श्रूयन्ते मनुजेरिताः ।
रुक्मिणी किल नान्मा स्त्री रुक्मिणः प्रथिता स्वसा ॥
भावी स्वयंवरस् तत्र तस्याः किल जनार्दन ॥
इत्य् अर्थम् एते नृवरा गच्छन्ति सबलानुगाः ॥

तस्यास् त्रिलोकसुन्दर्यास् तृतीये ऽहनि यादव ।
रुक्मभूषणभूषिण्या भविष्यति स्वयंवरः ॥
राज्ञां तत्र समेतानां हस्त्यश्वरथगामिनाम् ।
द्रक्ष्यामः शतशस् तत्र शिबिराणि महात्मनाम् ॥
सिंहशार्दूलदर्पाणां मत्तद्विरदगामिनाम् ।
सदा युद्धप्रियाणां हि परस्परम् अमर्षिणाम् ॥
जयाय शीघ्रं सहिता बलौघेन समन्विताः ।
निरुद्धाः पृथिवीपालाः किम् एकान्तचरा वयम् ।
निरुत्साहा भविष्यामो गच्छामो यदुसत्तम ॥
श्रुत्वैतत् केशवो वाक्यं हृदि शल्यम् इवार्पितम् ।
निर्जगाम यदुश्रेष्ठो यदूनां सहितो बलैः ॥
यादवास् ते बलोदग्राः सर्वे संग्रामलालसाः ।
निर्ययुः स्यन्दनैर् दिव्यैर् गर्वितास् त्रिदशा इव ॥
बलाग्रेण नियुक्तेन हरिर् ईशानसमितः ।
चक्रोद्यतकरः कृष्णो गदापाणिर् व्यरोचत ॥
कृष्णो ऽपि हि गदापाणिः शार्ङ्गशङ्खगदासिभृत् ।
यादवाश् चापरे तत्र वासुदेवानुयायिनः ।
रथैर् आदित्यसंकशैः किंकिणीप्रतिनादितैः ॥
अन्वयुः पुण्डरीकाक्षं स उवाच यदुप्रभुम् ।
नानाशाक्तिप्रहरणैः स्वानुगैः परिवारितः ॥
उग्रसेनं तु गोविन्दः प्राह निश्चितदर्शनः ।
तिष्ठ त्वं नृपशार्दूल भ्रात्रा मे सहितो ऽनघ ॥
क्षत्रिया निकृतिप्रज्ञाः शास्त्रज्ञाश् छिद्रदर्शिनः ।
पुरीं शून्याम् इमां वीर जघन्याः पीडयन्ति नः ॥
अस्माकं शङ्किताः सर्वे जरासंधवशानुगाः ।
मोदन्ते सुखिनस् तत्र देवलोके यथामराः ॥
तस्य तद्वचनं श्रुत्वा भोजरजो महायशाः ।
कृष्णस्नेहेन विकृतं बभाषे वचनामृतम् ॥
कृष्ण कृष्ण महाबाहो यदूनाम् नन्दिवर्धन ॥
श्रूयतां यद् अहं त्व् अद्य वक्ष्यामि रिपुसूदन ॥
त्वया विहिनाः सर्वे स्म न शक्ताः सुखम् आसितुम् ।
पुरे ऽस्मिन् विषयान्ते वा पतिहीना इव स्त्रियः ॥
त्वत्सनाथा वयं तात त्वद्बाहुबलम् आश्रिताः ।
बिभीमो न नरेन्द्राणां सेन्द्राणाम् अपि मानद ।
विजयाय यदुश्रेष्ठ यत्र यत्र गमिष्यसि ।
तत्र त्वं सहितो ऽस्माभिर् गच्छेथा यादवर्षभ ॥
तस्य राज्ञो वचः श्रुत्वा सस्मितं देवकीसुतः ।
यथेष्टं भवताम् अद्य तथा कर्तास्म्य् असंशयम् ॥
एवम् उक्त्वा तु कृष्णो हि जगामाशु रथेन वै ।
भीष्मकस्य गृहं प्राप्तो लोहितायति भास्करे ॥

प्राप्ते राजसमाजे तु शिबिराकीर्णभूतले ।
रङ्गं सुविपुलं दृष्ट्वा राजसीं तनुम् आविशत् ॥
वित्रासनार्थं भूपानां प्रकाशार्थं पुरातनम् ।
मनसा चिन्तयाम् आस वैनतेयं महाबलम् ॥
ततश् चिन्तितमात्रस् तु विदित्वा विनतात्मजः ।
सुखलक्ष्यं वपुः कृत्वा निलिल्ये केशवान्तिके ॥
तस्य पक्षनिपातेन पवनोद्भ्रान्तकारिणा ।
कम्पिता मनुजाः सर्वे न्युब्जाश् च पतिता भुवि ।
शिरोभिः पतिताः सर्वे प्रावेपन्त यथोरगाः ॥
तान् संनिपतितान् दृष्ट्वा कृष्णो गिरिर् इवाचलः ।
स तदा पक्षवातेन मेने पतगसत्तमम् ॥
ददर्श गरुडं प्राप्तं दिव्यस्रगनुलेपनम् ।
पक्षवातेन पृथिवीं चालयन्तं मुहुर् मुहुः ॥
पृष्टासक्तैः प्रहरणैर् लेलिहद्भिर् इवोरगैः ।
वैष्णवं हस्तसंश्लेषं नाम्यमानम् अधोमुखम् ॥
चरणाभ्यां प्रकर्षन्तं पाण्डुरं भोगिनां वरम् ।
हेमपत्रैर् उपचितं धातुमन्तम् इवाचलम् ॥
अमृतारम्भहर्तारं द्विजिह्वेन्द्रविनाशनम् ।
त्रासनं दैत्यसंघानां वाहनं ध्वजलक्षणम् ॥
तं दृष्ट्वा स ध्वजं प्राप्तं सचिवं सांपरायिकम् ।
धृतिमन्तं गरुत्मन्तं जगाद मधुसूदनः ॥
दृष्ट्वा परमसंहृष्टः स्थितं देहम् इवापरम् ॥
तुल्यसामर्थ्यया वाचा गरुत्मन्तम् उपस्थितम् ॥
जगाम त्रिदिवश्रेष्ठं भोजस्यान्तःपुरं महत् ।
स्वागतं खेचरश्रेष्ठ सुरसेनारिमर्दन ।
विनताहृदयानन्द स्वागतं केशवप्रिय ॥
व्रज पत्रिवरश्रेष्ठ कैशिकस्य निवेशनम् ।
वयं तत्रैव गत्वाद्य प्रतीक्षामः स्वयंवरम् ॥
राज्ञां तत्र समेतानां हस्त्यश्वरथगामिनाम् ।
द्रक्ष्यामः शतशस् तत्र समेतानां महात्मनाम् ॥
एवम् उक्त्वा महाबाहुर् वैनतेयं महाबलम् ।
जगामाथ पुरीं कृष्णः कैशिकस्य महात्मनः ।
वैनतेयसखः श्रीमान् यादवैश् च महारथैः ॥
विदर्भनगरीं प्राप्ते कृष्णे देवकिनन्दने ।
हृष्टाः प्रमुदिताः सर्वे निवेशायोपचक्रमुः ।
सर्वे शस्त्रायुधधरा राजानो बलशालिनः ॥
एतस्मिन्न् एव कले तु राजा नयविशारदः ।
कैशिकः प्रति चोत्थाय प्रहृष्टेनान्तरात्मना ॥
अर्घम् आचमनं दत्त्वा स राजा कैशिकः स्वयम् ।
सत्कृत्य विधिवत् कृष्णं स्वपुरं संप्रवेशयत् ॥

पूर्वम् एव तु कृष्णाय कारितं दिव्यमन्दिरम् ।
विवेश सबलः श्रीमान् कैलासं शंकरो यथा ।
खाद्यपानादिरत्नौघैर् अर्चितो वासवानुजः ॥
सुखेनैवोषितः कृष्णस् तस्य राज्ञो निवेशने ।
पूजितो बहुमानेन स्नेहपूर्णेन चेतसा ॥
ते कृष्णम् आगतं दृष्ट्वा वैनेतेयं महाद्युतिम् ।
बभूवुश् चिन्तयाविष्टाः सर्वे नृपतिसत्तमाः ॥
ते समेत्य गता राजन् राजानो भीमविक्रमाः ।
मन्त्राय मन्त्रकुशला नीतिशास्त्रार्थवित्तमाः ॥
भीष्मकस्य सभां गत्वा रम्यां हेमपरिष्कृताम् ।
सिंहासनेषु चित्रेषु विचित्रास्तरणेषु च ।
निषेदुस् ते नृपवरा देवा देवसभाम् इव ॥
भयसंविग्नमनसो बभूवुश् चिन्तयाविताः ।
अथाब्रवीज् जरासंधो वचनं वदतां वरः ।
तेषां मध्ये महाबाहुर् जरासंधो महाबलः ।
बभाषे सुमहातेजा देवान् देवेश्वरो यथा ॥
श्रूयतां भो नृपश्रेष्ठा भीष्मकश् च महामतिः ।
कथ्यमानं यथाबुद्ध्या वचनं वदतां वराः ॥
यो ऽसौ कृष्ण इति ख्यातो वसुदेवसुतो बली ।
वैनतेयसहायेन संप्राप्त इह कुण्डिनम् ॥
कन्याहेतोर् महातेजा यादवैर् अभिसंवृतः ।
अवश्यं कुरुते यत्नं कन्यावाप्तिर् यथा भवेत् ॥
यद् अत्र कारणं कार्यं सुनयोपेतवद् हितम् ।
कुरुध्वं नृपशार्दूला विनिश्चित्य बलाबलम् ॥
पादातौ तौ महावीर्यौ वसुदेवसुताव् उभौ ।
वैनतेयं विना तस्मिन् गोमन्ते पर्वतोत्तमे ।
यत् कृतं सुमहद् घोरं भवद्भिर् विदितं हि तत् ॥
कृष्णस्य यादवैश् चैव भोजान्धकमहारथैः ।
समेत्य युध्यमानस्य कीदृशो विग्रहो भवेत् ॥
कन्यार्थे यतमानेन गरुडस्थेन विष्णुना ।
कः स्थास्यति रणे तस्मिन्न् अपि शक्रः सुरैः सह ॥
यदा चास्मै नापि सुता कदाचित् संप्रदीयते ।
ततो ह्य् अयं बलाद् एनां नेतुं शक्तः सुरैः सह ॥
पुरा एकार्णवे घोरे श्रूयते मेदिनी त्व् इयम् ।
पातालस्य तले मग्ना विष्णुना प्रभविष्णुना ।
वाराहं रूपम् आस्थाय उद्धृता जगदादिना ।
हिरण्याक्षश् च दैत्येन्द्रो वराहेण निपातितः ॥
हिरण्यकशिपुश् चैव महाबलपराक्रमः ।
महावीर्यो महान् आसीत् सर्वदैत्यपितामहः ।
अवध्यो ऽमरदैत्यानाम् ऋषिगन्धर्वकिंनरैः ॥

यक्षराक्षसनागानां नाकाशे नावनिस्थले ।
न चाभ्यन्तररात्र्यह्नोर् न शूष्केणार्द्रकेन च ॥
अवध्यस्त्रिषु लोकेषु दैत्येन्द्रो ह्य् अपराजितः ।
नारसिंहेन रूपेण निहतो विष्णुना पुरा ॥
वामनेन तु रूपेण कश्यपस्यात्मजो बली ।
अदित्या गर्भसंभूतो बलिं बध्वासुरोत्तमम् ।
सत्यरज्जुमयैः पाशैः कृतः पातालसंश्रयः ॥
कार्तवीर्यो महावीर्यः सहस्रभुजविग्रहः ।
दत्तात्रेयप्रसादेन मत्तो राज्यमदेन च ॥
जामदग्न्यो महातेजा रेणुकागर्भसंभवः ।
त्रेताद्वापरयोः संधौ रामः शास्त्रभृतां वरः ॥
पर्शुना वज्रकल्पेन सप्तद्वीपेश्वरो नृपः ।
विष्णुना निहतो भूयश् छद्मरूपेण हैहयः ॥
इक्ष्वाकुकुलसंभूतो रामो दाशरथि पुरा ।
त्रिलोकजयिनं वीरं रावणं विन्यपातयत् ॥
पुरा कृतयुगे विष्णुः संग्रामे तारकामये ।
षोडशार्धभुजो भूत्वा गरुडस्थो हि वीर्यवान् ।
निजघानासुरान् युद्धे वरदानेन दर्पितान् ॥
कालनेमिश् च दैत्यो वै देवतानां भयप्रदः ।
सहस्रकिरणाभेन चक्रेण निहतो युधि ॥
महायोगबलेनाजौ विश्वरूपेण विष्णुना ।
अन्तरं प्राप्य कालस्य निहता बहवो ऽसुराः ॥
वने वनचरा दैत्या महाबलपराक्रमाः ॥
निहता बालभावेन प्रलम्बारिष्टधेनुकाः ।
शकुनीं केशिनं चैव यमलार्जुनकाव् अपि ॥
नागं कुवलयापीडं चाणूरं मुष्टिकं तथा ।
कंसं च बलिनां श्रेष्ठं सगणं देवकीसुतः ।
निहत्य गोपवेषेण क्रीडयाम् आस केशवः ॥
एवमादीनि दिव्यानि छद्मरूपानि विष्णुना ।
कृतानि तत्र तत्रैव विष्णुना प्रभविष्णुना ।
तेनाहं वः प्रवक्ष्यामि भवतां हितकाम्यया ॥
तं मन्ये केशवं विष्णुं सुराद्यम् असुरान्तकम् ।
नारायणं जगद्योनिं पुराणं पुरुषं ध्रुवम् ॥
स्रष्टारं सर्वभूतानां व्यक्ताव्यक्तं सनातनम् ।
अधृष्यं सर्वलोकानां सर्वभूतनमस्कृतम् ॥
अनादिमध्यनिधनं क्षरम् अक्षरशाश्वतम् ।
स्वयंभुवम् अजं स्थाणुम् अजेयं सचराचरैः ।
त्रिविक्रमं त्रिलोकेशं त्रिदशेन्द्रारिनाशनम् ॥
इति मे निश्चिता बुद्धिर् जातो ऽयं मथुराधिपः ।
कुले महति वै राज्ञां विपुले चक्रवर्तिनाम् ।

कथम् अन्यस्य मर्त्यस्य गरुडो वाहनं भवेत् ॥
विशेषेण तु कन्यार्थे विक्रमस्थे जनार्दने ।
कः स्थास्यति पुमान् अद्य गरुडस्याग्रतो बली ॥
स्वयंवरकृतेनासौ विष्णुः स्वयम् इहागतः ।
विष्णोर् आगमने चैव महान् दोषः प्रकीर्तितः ।
भवद्भिर् अनुचिन्त्येदं क्रियतां यद् अनन्तरम् ॥
एवं ब्रुवाणं तं भूपं मगधानां जनेश्वरम् ।
सुनीथो ऽथ महाप्राज्ञो वचनं चेदम् अब्रवीत् ॥
सम्यग् आह महाबाहुर् मगधाधिपतिर् नृपः ।
समक्षं नरदेवानां यथा वृत्तं महाहवे ।
गोमन्ते रामकृष्णाभ्यां कृतं कर्म सुदुष्करम् ॥
गजाश्वरथसंबाधा पत्तिध्वजसमाकुला ।
निर्दग्धा महती सेना चक्रलाङ्गलवह्निना ॥
तेनायं मागधः श्रीमान् अनागतम् अचिन्तयत् ।
ब्रूते च राजसेनायाम् अनुस्मृत्य सुदारुणम् ॥
पदात्योर् युध्यतोस् तत्र बलकेशवयोर् युधि ।
दुर्निवार्यतरो घोरो ह्य् अभवद् वाहिनीक्षयः ॥
विदितं वः सुपर्णस्य आगतस्य नृपोत्तमाः ॥
पक्षवेगानिलोद्धूता बभ्रमुर् गगनेचराः ॥
समुद्राः क्षुभिताः सर्वे चचालाद्रिर् मही मुहुः ।
वयं सर्वे सुसंत्रस्तः किम् उत्पातेति विक्लवाः ॥
यदा संनह्य युध्येत आरूढः केशवेन सः ।
कथम् अस्मद्विधः शक्तः प्रतिस्थातुं रणाजिरे ॥
राज्ञां स्वयंवरे नाम सुमहान् हर्षवर्धनः ।
कृतो नरवरैर् आद्यैर् यशोधर्मस्य वै निधिः ॥
इदं तु कुण्डिनगरम् आसाद्य मनुजेश्वराः ।
न पुरेवैष्यते नूनं महापुरुषविग्रहः ॥
यदि सा वरयेद् अन्यं राज्ञां मध्ये नृपात्मजा ।
कृष्णस्य भुजयोर् वीर्यं कः पुमान् प्रसहिष्यति ॥
विख्यापितस् तु दोषो ऽयं स्वयंवरमहोत्सवे ।
तदर्थम् आगतः कृष्णो वयं चैव नराधिपाः ॥
कृष्णास्यागमनं चैव नृपाणाम् अतिगर्हितम् ।
कन्याहेतोर् नरेन्द्रानां यथा वदति मागधः ॥
इत्य् एवम् उक्ते वचने सुनीथेन महात्मना ।
करूषाधिपतिर् वीरो दन्तवक्त्रो ऽभ्यभाषत ॥
यद् उक्तं मागधेन्द्रेण सुनीथेन नराधिपाः ।
युक्तपूर्वम् इदं मन्ये यद् अस्माकं वचो हितम् ॥
न च विद्वेषणेनाहं न चाहंकारवादिना ।
न चात्मविजिगीषुत्वाद् दूषयामि वचो ऽमृतम् ।
वाक्यार्णवं महागाधं नीतिशास्त्रार्थबृंहितम् ।

क एष निखिलं वक्तुं शक्तो वै राजसंसदि ॥
किं त्व् अनुस्मरणार्थे ऽहं यद् ब्रवीमि शृणुष्व मे ।
आगतो वासुदेवेति किम् आश्वर्यं नराधिपाः ॥
यथागता वयं सर्वे कृष्णो ऽपीह तथागतः ।
किम् अत्र दोषो गौणो वा कन्याहेतोः समागताः ॥
यद् अस्माभिः समेत्यैव कृतं गोमन्तरोधनम् ।
तत्र युद्धकृतं दोषं कथं वः कर्तुम् अर्हथ ॥
वनवासे स्थितौ वीरौ कंसव्यामोहहेतुना ।
देवर्षिवचनाद् राजन् वृन्दावनतटे स्थितौ ॥
ताव् आहूय वधार्थाय उभौ रामजनार्दनौ ।
नागेनोद्दीपितौ वीरौ हत्वा नागं विवेशतुः ॥
ततः स्ववीर्यम् आश्रित्य निहतो रङ्गसागरे ।
गतासुर् इव चासीनो मथुरेशं सहानुगः ॥
किम् अत्र विहितो दोषो येनास्माभिर् वयोधिकैः ।
उपरोधपरा राजन् वयं सर्वे समागताः ॥
सेनातिबलम् आलोक्य वित्रस्तौ रामकेशवौ ।
पुरं बलं समुत्सृज्य गोमन्तं पर्वतं गतौ ।
तत्रापि गतम् अस्माभिर् हन्तुं समरयोधिभिः ॥
अप्राप्तयौवनाभ्यां च पदातिभ्यां रणाजिरे ।
रथाश्वनरनागेन तत्र वै विग्रहः कृतः ।
कृत्वोपरोधं शैलः स क्षत्रधर्मेण दीपितः ॥
दावाग्निमुखम् आविश्य मृतौ यदि तपस्विनौ ।
विनीताव् इति मन्यामः सर्वे क्षत्रियपुंगवाः ॥
प्रतियुद्धे कृते त्व् एवं दूषयामो जनार्दनम् ॥
यत्र यत्र प्रयास्यामो वयं तत्र भवेत् कलिः ।
प्रीत्यर्थं प्रयतिष्यामः कृष्णेन सह भूमिपाः ॥
इदं कुण्डिपुरं कृष्णो नागतः कलिहेतुना ।
कन्यानिमित्तागमने कस्य युद्धं प्रयच्छति ॥
मर्त्ये ऽस्मिन् पुरुषेन्द्रो ऽसौ न कश्चित् प्राकृतो नरः ।
देवलोके च देवेशः प्रवरः पुरुषोत्तमः ॥
देवानाम् अपि कर्तासौ लोकानां च विशेषतः ।
न देवे बालिशा बुद्धिर् न चेर्ष्या न च मत्सरः ॥
न स्तब्धो न कृशो नार्तः प्रणतार्तिहरः सदा ।
एष विष्णुः प्रभुर् देवो देवानाम् अपि दैवतम् ॥
आगतो गरुडेनेह छद्मप्राकाश्यहेतुना ।
न सेनासहितो याति कृष्णः शत्रुविनाशने ॥
इयं यात्रा विजानीध्वं प्रीत्यर्थं ह्य् आगतो हरिः ।
सहीतो यादवेन्द्रैश् च भोजवृष्ण्यन्धकैर् इह ॥
अर्घम् आचमनीयं च दत्त्वातिथ्यं नराधिपाः ।
करिष्यामो वयं सर्वे केशवाय महात्मने ॥

एवं संधानतः कृत्वा कृष्णेन सहिता वयम् ।
वसाम विगतोद्वेगा निर्भया विगतज्वराः ॥
तस्य तद् वचनं श्रुत्वा दन्तवक्त्रस्य धीमतः ।
साल्वः प्रवदतां श्रेष्ठस् तान् उवाच नराधिपान् ॥
किं भयेनास्य नः सर्वे न्यस्तशस्त्रा भवामहे ।
संधानकरणे हेतोः कृष्णस्य भयकम्पिताः ॥
परस्तवेन किं कार्यं विनिन्द्य बलम् आत्मनः ।
नैष धर्मो नरेन्द्राणां क्षत्रधर्मे व्यवस्थितः ॥
महत्सु राजवंशेषु संभूताः कुलवर्धनाः ।
तेषां कापुरुषा बुद्धिः कथं भवितुम् अर्हति ॥
अहं जानामि वै कृष्णम् आदिदेवं सनातनम् ।
प्रभुं सर्वनरेन्द्राणां नारायणपरायणम् ॥
वैकुण्ठम् अजयं लोके चराचरगुरुं हरिम् ।
संभूतं देवकीगर्भे विष्णुं लोकनमस्कृतम् ॥
कंसराजवधायार्थाय भारावतरणाय च ।
अस्माकं च विनाशाय लोकसंरक्षणाय च ।
अंशावतरणे कृत्स्नं जाने विष्णोर् विचेष्टितम् ॥
संग्रामम् अतुलं कृत्वा विष्णुना सह भूमिपाः ।
चक्रानलविनिर्दग्धा यास्यामो यमसादनम् ।
तं च जानामि राजेन्द्राः कालेनायुःक्षयो भवेत् ॥
नाकाले म्रियते कश्चित् प्राप्ते काले न जीवति ।
एवं विनिश्चयं बुध्वा न कुर्यात् कस्यचिद् भयम् ॥
स एव भगवान् विष्णुर् आलोक्य तपसः क्षयम् ।
निहन्ता दितिजेन्द्राणां यथाकालेन योगवित् ॥
बलिं वैरोचनिं चैव बुध्वावध्यं महाबलम् ।
कृतवान् देवदेवेशः पातालतलवासिनम् ॥
एवमादीनि चान्यानि विष्णोश् चेष्टानि वै नृपाः ।
तस्माद् अयुक्तं भवतां विग्रहार्थे विचारणम् ॥
तस्माद् अस्मासु युक्तं तद् भवतां विग्रहे मतिः ।
न च संग्रामहेतोर् हि कृष्णस्यागमनं त्व् इह ।
यस्य वा तस्य वा कन्या वरयिष्यति तस्य सा ।
किम् अत्र विग्रहो राज्ञां प्रीतिर् भवति वै ध्रुवम् ॥
एवं कथयमानानां नृपाणां बुद्धिशालिनाम् ।
न किंचिद् अब्रवीद् राजा भीष्ंअकः पुत्रकारणात् ॥
महावीर्यं मदोत्सिक्तं भार्गवास्त्राभिरक्षितम् ।
रणे प्रचण्डातिरथं विचिन्त्य मनसा सुतम् ॥
कृष्णं न सहते नित्यं पुत्रो मे बलदर्पितः ।
नित्याभिमानी च रणे न बिभेति च कस्यचित् ॥
कृष्णस्य भुजवीर्येन ह्रियति नात्र संशयः ।
भविष्यति ततो युद्धं महापुरुषविग्रहम् ॥

मूल पाठ: Harivaṃśa, Appendix I · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc