भाषा

ENहिગુ
ग्रंथ पाठ

हरिवंश · भाग 6180

स्वयंभूर् इव संप्राप्तो भवायास्मज्जयाय च ॥
न त्वां पौराणमात्रेण शक्ता गूहयितुं वयम् ।
देवगुह्येष्व् अपि भवान् सर्वज्ञः सर्वभावनः ॥
शक्तश् चासि जरासंधं नृपं योधयितुं प्रभो ।
शक्यं चेमं जरासंधं नृपं द्रावयितुं हरे ।
त्वद्बुद्धिवशगाः सर्वे वयं योगव्रते स्थिताः ॥
जरासंधस् तु बलवान् नृपाणां मूर्धनि स्थितः ।
अप्रमेयबलश् चैव वयं च कृशसाधनाः ॥
न चेयम् एकाहम् अपि पुरी रोधं सहिष्यति ।
कृशभक्तेन्धनक्षामा दुर्गैर् अपरिनिष्ठिता ॥
असंस्कृताम्बुपरिखा द्वाराट्टैर् यन्त्रवर्जितैः ।
वप्रप्राकारमार्गेषु कर्तव्या बहुविस्तरा ॥
संस्कर्तव्यायुधागारा योक्तव्या चेष्टिकाचयैः ।
कंसस्य बलवत्त्वात् तु नातिगुप्ता पुरी जनैः ॥
सद्यो निपतिते कंसे राज्ये ऽस्माकं नवोदये ।
पुरी प्रत्यग्ररोधेयं न रोधं विसहिष्यति ॥
बलं संमर्दभग्नं च क्लिश्यमानं परेण ह ।
असंशयम् इदं राष्ट्रं जनैः सह विनङ्क्ष्यति ॥
वञ्चनीया भविष्यामो नराणां नृपकारणात् ।
जरासंधभयार्तानां द्रवतां राष्ट्रसंभ्रमे ॥
आर्तो वक्ष्यति नः सर्वो रुध्यमानः पुरे जनः ।
यादवैः स्म विरोधेन योजितो राज्यकामुकैः ॥
यादवनां विरोधेन ये जिता राज्यकामुकैः ॥
ते सर्वे द्वैधम् इच्छन्ति यत् क्षमं तद् विधीयताम् ।
एतन् मम मतं कृष्ण विश्रम्भात् समुदाहृतम् ।
त्वयि सर्वस्वम् इत्य् एव परस् त्वं चैव बुद्धिमान् ॥
त्वं तु विज्ञापितः सर्वं न पुनः संप्रबोधितः ।
यद् अत्र नः क्षमं कृष्ण तत् स्वैरम् अभिधीयताम् ।
त्वम् अस्य नेता सैन्यस्य वयं त्वच्छासने स्थिताः ॥
त्वन्मूलश् च विरोधो ऽयं रक्षास्मान् आत्मना सह ।
विकद्रोस् तु वचस् तथ्यं निशम्य यदुपुंगवः ।
पार्थिवेन यथाक्रमम् ।
परितुष्टेन मनसा वचनं चेदम् अब्रवीत् ॥
राजा षाड्गुण्यवक्ता वै राजा मन्त्रार्थतत्त्ववित् ।
सत् तत्त्वं च हितं चैव कृष्णोक्तं खिल धीमता ।
भाषिता राजधर्माश् च सत्याश् च जगतो हिताः ॥
एतच् छ्रुत्वा पितुर् वाक्यं विकद्रोश् च महात्मना ।
विकद्रुणा यदुश्रेष्ठ यद् धितं तद् विधीयताम् ।
वाक्यम् उत्तमम् एकाग्रो बभाषे चारुभाषणः ॥
ब्रुवतां वः श्रुतं वाक्यं हेतुतः क्रमतस् तथा ।

न्यायतः शास्त्रतश् चैव दैवं चैवानुपश्यताम् ॥
श्रूयताम् उत्तमं वाक्यं मम बुद्ध्या च गृह्यताम् ।
नयेन व्यवहर्तव्यं पार्थिवेन यथा मया ॥
संधिं च विग्रहं चैव यानम् आसनम् एव च ।
द्वैधीभावं संश्रयं च षाड्गुण्यं चिन्तयेत् सदा ॥
बलिनः संनिकर्षे तु न स्थेयं पण्डितेन च ।
अपक्रमेद् धि कालज्ञः समर्थो युद्धम् आवहेत् ॥
अहं तावत् सहार्येण मुहूर्ते ऽस्मिन् प्रकाशितः ।
जरासंधेन संग्रामं करिष्याम्य् अद्य यादवाः ।
संरोधं न सहिष्ये ऽहं तदास्य चंक्रमिष्यतः ॥
जीवनाशं गमिष्यामि शक्तिमान् अप्य् अशक्तवत् ॥
ततः सह्याचलयुतं सहार्येणाहम् अक्षयम् ।
आत्मद्वितीयः श्रीमन्तं प्रवेक्ष्ये दक्षिणापथम् ॥
करवीरपुरं चैव रम्यं क्रौञ्चपुरं तथा ।
विकद्रोस् तद् वचः श्रुत्वा बलदेवानुजस्य च ।
प्रशशंस तथा मेने तथ्यं तद्वचनं हितम् ।
कृष्णं प्राह रतो रङ्गं गम्यतां तत्र संगतौ ।
द्रक्ष्यावस् तत्र सहितौ गोमन्तं च नगोत्तमम् ॥
आवयोर् गमनं श्रुत्वा जितकाशी च पार्थिवः ।
अस्पृष्ट्वैव पुरीं दर्पाद् अनुसारं करिष्यति ॥
ततः सह्यवनेष्व् एव राजा यास्यति सानुगः ।
आवयोर् दर्शनाद् एव युद्धप्रीतिम् अवाप्स्यति ॥
एषा नः श्रेयसी यात्रा भविष्यति कुलस्य वै ।
पौराणाम् अथ पुर्याश् च देशस्य च सुखावहा ॥
न च शत्रौ परिभ्रष्टे राजानो विजिगीषवः ।
परराष्ट्रेषु मूर्छन्ति मृधे शत्रुक्षयं विना ॥
एवम् उक्त्वा तु तौ वीरौ कृष्णसंकर्षणाव् उभौ ।
मागधस्य पुरः स्थित्वा वाक्यम् एतद् अवोचताम् ॥
आवां पश्य महाराज यत् कार्यं तद् वदस्व नौ ।
यच् च कर्तुं प्रवृत्तो ऽसि तत् कुरुष्व यथेच्छसि ॥
तच् छ्रुत्वा रोषताम्राक्षो बभाषे मागधस् तदा ।
एष वां प्रतियोत्स्यामि हनिष्यामि च वां युधि ॥
इत्य् उक्त्वा धनुर् आदत्त जरापुत्रः प्रतापवान् ।
तच् छ्रुत्वा तौ तु देवेशौ गन्तुं व्यवसितौ किल ॥
प्रपेदतुर् असंभ्रान्तौ दक्षिणौ दक्षिणापथम् ॥
तौ तु राष्ट्राणि शतशश् चरन्तौ कामरूपिणौ ।
दक्षिणां दिशम् आस्थाय चेरतुर् मार्गगौ सुखम् ॥
सह्यपृष्ठेषु रम्येषु मोदमानाव् उभौ तदा ।
दक्षिणापथगौ वीराव् अध्वानं संप्रपेदतुः ॥
तौ च स्वल्पेन कालेन सह्याचलविभूषितम् ।

करवीरपुरं प्राप्तौ स्ववंशजनभूषितम् ॥
तौ तत्र गत्वा वेण्णाया नद्यास् तीरं समाश्रितौ ।
आसेदतुः प्ररोहाढ्यं न्यग्रोधं तरुपुंगवम् ॥
अधस्तात् तस्य वृक्षस्य मुनिं दीप्ततपोधनम् ।
अंसावसक्तपरशुं जटावल्कलधारिणम् ॥
गौरम् अग्निशिखाकारं तेजसा भास्करोपमम् ।
क्षत्रान्तकरम् अक्षोभ्यं वपुष्मन्तम् इवार्णवम् ॥
न्यस्तसंकुचिताधानं काले हुतहुताशनम् ।
क्लिन्नं त्रिषवणाम्भोभिर् आद्यं देवगुरुं यथा ॥
सवत्सां धेनुकां श्वेतां होमधुक्कामदोहनाम् ।
धेनुं सवत्सां सश्वेतां सुदुघां होमकर्मणि ।
क्षीरारणिं कर्षमाणं महेन्द्रगिरिगोचरम् ॥
भोजयन्तं द्विजान् मुख्यान् अर्चयन्तं महेश्वरम् ।
आदिदेवं जगन्नाथं चन्द्रार्धकृतशेखरम् ॥
महोत्सवसक्तधियं जामदग्न्यं महामतिम् ।
यस्य नामानि राजानः श्रोतुं शक्ताः सदा न हि ॥
ददर्शतुस् तौ सहिताव् अपरिश्रान्तम् अव्ययम् ।
भार्गवं रामम् आसीनं मन्दरस्थं यथा रविम् ॥
न्यायतस् तौ तु तं दृष्ट्वा पादमूले कृतासनौ ।
वसुदेवसुतौ वीरौ सधिष्ण्याव् इव पावकौ ॥
कृष्णस् तम् ऋषिशार्दूलम् उवाच वदतां वरः ।
श्लक्ष्णं मधुरया वाचा लोकदृष्टान्तकोविदः ॥
भगवञ् जामदग्न्यं त्वां अवगच्छामि भार्गवम् ।
रामं मुनीनाम् ऋषभं क्षत्रियाणां कुलान्तकम् ॥
त्वया सायकवेगेन क्षिप्तो भार्गव सागरः ।
इषुपातेन नगरं कृतं सूर्पारकं त्वया ॥
धनुःपञ्चशतायामम् इषुपञ्चशतोद्यतम् ।
सह्यस्य च निकुञ्जेषु स्फीतो जनपदो महान् ।
अतिक्रम्योदधेर् वेलाम् अपरान्ते निवेशितः ॥
त्वया च सागरो विप्र वेलाम् उत्सारितो महान् ।
त्वया तत् कार्तवीर्यस्य सहस्रं बाहुमण्डलम् ।
छिन्नं द्रुमवनप्रख्यं स्मरता निधनं पितुः ॥
इयम् अद्यापि रुधिरैः क्षत्रियाणां हतत्विषाम् ।
स्निग्धैस् त्वत्परशूत्सृष्टै रक्तपङ्का वसुंधरा ॥
रैणुकेयं विजाने त्वां क्षितौ क्षत्रियरोषणम् ।
परशूपग्रहे युक्तं यथैवेह रणे तथा ॥
तद् इच्छावस् त्वया विप्र कंचिद् अर्थम् उपश्रुतम् ।
उत्तरं च श्रुतार्थेन प्रत्युक्तम् अविशङ्कया ॥
आवयोर् मथुरा राम यमुनातीरशोभिनी ।
यादवौ स्वो मुनिश्रेष्ठ यदि ते श्रुतिम् आगतौ ॥

वसुदेवो यदुश्रेष्ठः पिता नौ हि धृतव्रतः ।
जन्मप्रभृति चैवावां व्रजेष्व् एव नियोजितौ ॥
तौ स्म कंसभयत्रस्तौ शङ्कितौ परिवर्धितौ ।
आवां च प्रथमं प्राप्तौ मथुरां च प्रवेशितौ ॥
ताव् आवां व्युत्थितं हत्वा समाजे कंसम् ओजसा ।
पितरं तत्र तस्यैव स्थापयित्वा जनेश्वरम् ।
स्वम् एव कर्म चारब्धौ गवां व्यापारकारकौ ॥
अथावयोः पुरं रोद्धुं जरासंधो व्यवस्थितः ॥
संग्रामान् सुबहून् कृत्वा लब्धलक्षाव् अपि स्वयम् ।
ततः स्वपुररक्षार्थं प्रजानां च महाव्रत ।
अकृतास्त्राव् अनुद्योगौ कर्तव्यबलसाधनौ ॥
अरथौ पत्तिनौ युद्धे निस्तनुत्रौ निरायुधौ ।
जरासंधार्पितपुरौ पुराद् द्वाव् एव निःसृतौ ॥
उभाव् आवाम् अनुप्राप्तौ मुनिश्रेष्ठ तवान्तिकम् ।
आवयोर् मन्त्रमात्रेण कर्तुम् अर्हसि सत्क्रियाम् ॥
श्रुत्वैतद् भाषितं रामस् तयोर् वाक्यम् अनिन्दितम् ।
रैणुकेयः प्रतिवचो धर्मसंहितम् अब्रवीत् ॥
अपरान्ताद् अहं कृष्ण संप्रतीहागतः प्रभो ।
एक एव विना शिष्यैर् युवयोर् मन्त्रकारणात् ॥
विदितो मे व्रजे वासस् तव पद्मनिभेक्षण ।
दानवानां वधश् चापि कंसस्य च दुरात्मनः ॥
विग्रहं च जरासंधे विदित्वा पुरुषोत्तम ।
तव सभ्रातृकस्येह संप्राप्तो ऽस्मि वरानन ॥
जाने त्वां कृष्ण गोप्तारं जगतः प्रभुम् अव्ययम् ।
देवकार्यार्थसिद्ध्यर्थम् अबालं बालतां गतम् ॥
न त्वयाविदितं किंचित् त्रिषु लोकेषु विद्यते ।
तथापि भक्तिमात्रेण शृणु वक्ष्यामि ते वचः ॥
पूर्वजैस् तव गोविन्द पूर्वं पुरम् इदं कृतम् ।
करवीरपुरं नाम राष्ट्रं चैव निवेशितम् ॥
पुरे ऽस्मिन् नृपतिः कृष्ण वासुदेवो महायशाः ।
सृगाल इति विख्यातो नित्यं परमकोपनः ॥
नृपेण तेन गोविन्द स्ववंशप्रभवा नृपाः ।
दायादा निहताः सर्वे वीर द्वेषानुयायिना ॥
अहंकारकृतो नित्यम् अजितात्मातिमत्सरी ।
राज्यैश्वर्यमदाविष्टः पुत्रस्त्रीष्व् अपि दारुणः ॥
तन् नेह भवतः स्थानं रोचते मे नरर्षभौ ।
करवीरपुरे घोरे नित्यं पार्थिवदूषिते ॥
श्रूयतं कथयिष्यामि यत्रोभौ शत्रुतापनौ ।
जरासंधं बलोदग्रं भवन्तौ योधयिष्यतः ॥
तीर्त्वा वेण्णाम् इमां पुण्यां नदीम् अद्यैव संगताः ।

विषयान्ते निवासाय गिरिं गच्छाम दुर्गमम् ॥
रम्यं यज्ञगिरिं नाम सह्यस्य प्ररुहं गिरिम् ।
निवासं मांसभक्षाणां चोराणां घोरकर्मणाम् ॥
नानाद्रुमलतायुक्तं चित्रपुष्पितपादपम् ।
उष्य तत्र निशाम् एकां खट्वाङ्गां नाम निम्नगाम् ।
संतरिष्याम भद्रं ते निकषोपलभूषणाम् ॥
गङ्गाप्रपातप्रतिमां भ्रष्टां महिषपर्वतात् ।
तस्याः प्रपातं द्रक्ष्यामस् तापसारण्यभूषितम् ॥
अमानकामान् मानार्हान् गत्वा तान् धरणीधरान् ।
द्रक्ष्यामस् तत्र तान् विप्राञ् श्राम्यतो वै तपोधनान् ॥
तां तीर्त्वा निम्नगां तत्र तांश् च दृष्ट्वा तपोधनान् ।
रम्यं क्रौञ्चपुरं नाम गमिष्यामः पुरोत्तमम् ॥
वंशजस् तत्र ते राजा कृष्ण धर्मरतः सदा ।
महाकपिर् इति ख्यातो वनस्यास्य जनाधिपः ॥
तम् अदृष्ट्वैव राजानं निवासाय गते ऽहनि ।
तीर्थम् आनडुहं नाम प्रयास्यामः सनातनम् ॥
ततश् च्युता गमिष्यामः सह्यस्य विवरे गिरिम् ।
गोमन्त इति विख्यातं नैकशृङ्गविभूषितम् ।
खंगतैकमहाशृङ्गं दुरारोहं खगैर् अपि ।
विश्रामभूतं देवानां ज्योतिर्भिर् अभिसंवृतम् ॥
सोपानभूतं स्वर्गस्य गगनाद्रिम् इवोच्छ्रितम् ।
विमानमार्गावरणं गिरिं मेरुम् इवोपमम् ॥
तस्योत्तमे महाशृङ्गे भास्वन्तौ देवरूपिणौ ।
उदयास्तमने सूर्यं सोमं च ज्योतिषां पतिम् ॥
समुद्रम् ऊर्मिमन्तं च अपारद्वीपभूषनम् ।
प्रेक्षमाणौ सुखं तत्र नगाग्रे विचरिष्यथ ।
शृङ्गस्थौ तत्र शैलस्य गोमन्तस्य वनेचरौ ।
दुर्गयुद्धेन बाधन्तौ जरासंधं विजेष्यथ ॥
तत्र शैलगतौ दृष्ट्वा भवन्तौ युद्धदुर्मदौ ।
अशक्तः शैलयुद्धस्य जरासंधो भविष्यति ॥
भवद्भ्याम् अपि युद्धे तु प्रवृत्ते तत्र दारुणे ।
आयुधैः सह संयोगं पश्यामि नचिराद् इव ॥
संग्रामश् च महान् कृष्ण निर्दिष्टस् तत्र दैवतैः ।
यदूनां पार्थिवाणां च मांसशोणितकर्दमः ॥
तत्र चक्रं हलं चैव गदां कौमोदकीं तथा ।
सौनन्दं मुसलं चैव वैष्णवान्य् आयुधानि च ॥
शङ्खं शार्ङ्गं तथैव च ।
अक्षयौ चैव तूणीरौ @
दर्शयिष्यन्ति संग्रामे पास्यन्ति च महीक्षिताम् ।
रुधिरं कालयुक्तानां वपुर्भिः कालसंनिभैः ॥

स चक्रमुसलो नाम संग्रामः कृष्ण विश्रुतः ।
दैवतैर् इह निर्दिष्टः कालस्यादेशसंज्ञितः ॥
तत्र ते कृष्ण संग्रामे सुव्यक्तं वैष्णवं वपुः ।
द्रक्ष्यन्ति रिपवः सर्वे सुराश् च सुरभावन ॥
तां भजस्व गदां कृष्ण चक्रं च चिरविस्मृतम् ।
भजस्व स्वेन रूपेण सुराणां विजयाय वै ॥
बलश् चायं हलं घोरं मुसलं चारिमर्दनम् ।
वधाय सुरशत्रूणां भजतां लोकभावनः ॥
एष ते प्रथमः कृष्ण संग्रामो भुवि पार्थिवैः ।
पृथिव्यर्थे समाख्यातो भारावतरणे सुरैः ॥
आयुधावाप्तिर् अत्रैव वपुषो वैष्णवस्य च ।
लक्ष्म्याश् च तेजसश् चैव व्यूहानां च विदारणम् ॥
अतःप्रभृति संग्रामो धरण्यां शत्रुमूर्छितः ।
भविष्यति महान् कृष्ण भारतं चैव वैशसम् ॥
तद् गच्छ कृष्ण शैलेन्द्रं गोमन्तं च नगोत्तमम् ।
जरासंधं निमित्तानि शंसन्ति समुपस्थितम् ॥
जरासंधो मृधे चापि विजये त्वाम् उपस्थितः ।
इदं चैवामृतप्रख्यं होमधेन्वाः पयोमृतम् ।
पीत्वा गच्छत भद्रं वो मयोद्दिष्टेन वर्त्मना ॥
ततस् तौ रामसहितौ प्रस्थितौ यदुपुंगवौ ।
तत् तु धेन्वाः पयः पीत्वा बलदर्पसमन्वितौ ।
गोमन्तं पर्वतं द्रष्टुं मत्तनागेन्द्रगामिनौ ।
जामदग्न्यप्रदिष्टेन मार्गेण वदतां वरौ ॥
जामदग्न्यतृतीयास् ते त्रयस् त्रय इवाग्नयः ।
शोभयन्ति स्म पन्थानं त्रिदिवं त्रिदशा इव ॥
अध्वानं विधिना सर्वे त्रिभिस् ते दिवसैः क्रमात् ।
गोमन्तम् अगमं प्राप्ता मन्दरं त्रिदशा इव ॥
लताचारुविचित्रं च नानाद्रुमविभूषितम् ।
गन्धागरुपिनद्धाङ्गं चित्रं चित्रैर् मनोरमैः ॥
द्विरेफकुसुमापीडं शिलासंकटशालिनम् ।
मत्तबर्हिणनिर्घोषैर् नादितं मेघनादिभिः ॥
गगनालग्नशिखरं जलदासक्तपादपम् ।
मत्तद्विपविषाणाग्रैः कंदरान्तरताडितम् ॥
वाशद्भिश् चाण्डजगणैः सततं प्रतिनादितम् ।
दरीप्रपाताम्बुरवैश् छन्नं शार्दूलमण्डलैः ॥
नीलाश्मचयसंघातैर् बहुवर्णं यथा नभः ।
धातुविस्रवदिग्धाङ्गं सानुप्रस्तरभूषणम् ॥
कीर्णं मृगगणैः कान्तैर् मैनाकम् इव कामगम् ।
सूच्छ्रितं सुविशालाग्रं मूलोदकपरिग्रहम् ॥
सकाननदरीप्रस्थं श्वेताभ्रगणभूषितम् ।

पनसाम्रातकाम्रौघैः वेत्रस्यन्दनचन्दनैः ॥
तमालैलावनयुतं मरिचक्षुपसंकुलम् ।
पिप्पलीवल्लिकलिलं चित्रम् इङ्गुदपादपैः ॥
द्रुमैः सर्जरसानां च सर्वतः प्रतिशोभितम् ।
जम्बुसर्जार्जुनयुतं कुटजद्रुमभूषितम् ।
प्रांशुसालवनैर् गुप्तं बहुचित्रवनैर् युतम् ।
सर्जनिम्बार्जुनवनं कदलीकुलसंकुलम् ।
हिन्तालैश् च तमालैश् च पुन्नागैश् चोपशोभितम् ॥
जलेषु जलजैश् चैव स्थलेषु स्थलजैर् अपि ।
पङ्कजैर् द्रुमखण्डैश् च सर्वतः प्रतिभूषितम् ।
जम्बूजम्बूलवृक्षाढ्यं कद्रुकन्दलभूषितम् ॥
धन्वनाशोकबहुलं बिल्वकिन्दुकशोभितम् ।
कुटजैर् नागपुष्पैश् च समन्ताद् उपशोभितम् ॥
नागयूथगणाकीर्णं मृगसंघनिषेवितम् ।
सिद्धचारणरक्षोभिः सेवितप्रस्तरान्तरम् ॥
गन्धर्वैश् च समायुक्तं सिद्धचारणपक्षिभिः ।
विद्याधरगणैर् नित्यम् अनुकीर्णशिलातलम् ।
सिंहशार्दूलसंनादैः सततं प्रतिनादितम् ॥
सेवितं वारिधाराभिश् चन्द्रपादैश् च सेवितम् ।
स्तुतं त्रिदशगन्धर्वैर् अप्सरोभिर् अलंकृतम् ॥
वनस्पतीनां दिव्यानां पुष्पैर् उच्चावचैश् चितम् ।
शक्रवज्रप्रहाराणाम् अनभिज्ञं कदाचन ॥
दावाग्निभयनिर्मुक्तं महावातभयोज्झितम् ।
प्रपातप्रभवाभिश् च सरिद्भिर् उपशोभितम् ॥
काननैर् आननाकारैर् उन्मिषन्तम् इव श्रिया ।
विशेषद्भिर् इव श्रियम् ।
जलशैवलशृङ्गाभिर् @
काञ्चनैः सानुभिर् युक्तं विसर्पद्भिर् इव श्रियम् ।
स्थलीभिर् मृगवीथिभिः कान्ताभिर् इव शोभितम् ॥
पार्श्वैर् उपलकल्माषैर् मेषैर् इव विभूषितम् ।
पादपोच्छ्रितसौम्याभिः सपुष्पाभिः समन्ततः ॥
मण्डितं वनराजीभिः प्रमदाभिः पतिं यथा ।
दरीभिः सुन्दरीभिश् च कन्दराभिस् तथैव च ॥
तेषु तेष्व् अवकाशेषु सदारम् इव शोभितम् ।
ओषधीदीप्तशिखरं वानप्रस्थनिषेवितम् ॥
जातरूपैर् वनोद्देशैः कृत्रिमैर् इव मण्डितम् ।
मूलेन सुविशालेन शिरसा चोच्छ्रितेन च ।
पृथिवीं चान्तरिक्षं च गाहयन्तम् इव स्थितम् ॥
मुनिभिर् नित्ययुक्तैश् च सेव्यमानं मुमुक्षुभिः ।
ते तम् आसाद्य गोमन्तं रम्यं भूमिधरोत्तमम् ।

रुचिरं रुरुचुः सर्वे वासायामरसंनिभाः ॥
रुरुहुस् ते गिरिवरं खम् ऊर्ध्वम् इव पक्षिणः ।
असज्जमाना वेगेन वैनतेयपराक्रमाः ॥
ते तु तस्योत्तमं शृङ्गम् आरूढास् त्रिदशा इव ।
अगारं रुचिरं चक्रुर् मनसा निर्मितोपमम् ॥
निविष्टौ यादवौ दृष्ट्वा जामदग्न्यो महामुनिः ।
रामो ऽभिमतम् अक्लिष्टम् आप्रष्टुम् उपचक्रमे ॥
कृष्ण यास्याम्य् अहं तात पुरं सूर्पारकं विभो ।
कृष्णं संकर्षणं चैव यास्ये शूर्पारकं प्रति ।
युवयोर् नास्ति वैमुख्यं संग्रामे दानवैर् अपि ॥
प्राप्तवान् अस्मि यां प्रीतिं मार्गानुगमनाद् अपि ।
सा मे कृष्णानुगृह्णाति शरीरम् इदम् अव्ययम् ॥
इदं तत् स्थानम् उद्दिष्टं यत्रायुधसमागमः ।
युवयोर् विहितो देवैः समयः सांपरायिकः ॥
देवानां मुख्य वैकुण्ठ विष्णो देवैर् अभिष्टुतः ।
देवदेव जगन्नाथ भूतभावन भावन ।
पुरुहूतानुजाशेष+ +लोकवन्द्य जगत्पते ॥
विष्णो कृष्ण हृषीकेश वासुदेव जनार्दन ।
जगदादे जगत्पूज्य सकलेश निरञ्जन ॥
जगदीश महेश्वर ।
विष्णो पूर्वज देवेश @
कृष्ण सर्वस्य लोकस्य शृणु मे नैष्ठिकं वचः ॥
यद् इदं प्रस्तुतं कर्म त्वया गोविन्द लौकिकम् ।
मानवानां हितार्थाय साधु मानुषदेहिना ॥
तस्यायं प्रथमः कल्पः कालेन भुवि योजितः ।
जरासंधेन वै सार्धं संग्रामे समुपस्थिते ॥
तत्रायुधबलं चैव रूपं च रणकर्कशम् ।
स्वयम् एवात्मना कृष्ण त्वम् आत्मानं विधत्स्व ह ॥
चक्रोद्यतकरं दृष्ट्वा त्वां गदापाणिनं रणे ।
चतुर्द्विगुणपीनांसं बिभ्येद् अपि शतक्रतुः ॥
अद्यप्रभृति ते यात्रा स्वर्गोक्ता समुपस्थिता ।
पृथिव्याम् अमरार्थे च कीर्त्यर्थं च सतां वर ॥
पृथिव्यां पार्थिवेन्द्राणां कृतास्त्रे त्वयि मानद ।
वैनतेयस्य चाह्वानं वाहनं ध्वजकर्मणि ।
कुरु शीघ्रं महाबाहो गोविन्द वदतां वर ॥
युद्धकामा नृपतयस् त्रिदिवाभिमुखोद्यताः ।
धार्तराष्ट्रस्य वशगास् तिष्ठन्ति रणवृत्तयः ॥
राज्ञां निधनदृष्टार्था वैधव्येनाधिवासिता ।
एकवेणीधरा चेयं वसुधा त्वां प्रतीक्षते ॥
सग्रहं कृष्ण नक्षत्रं त्वत्प्रतीक्षम् उपस्थितम् ।

क्षेमस्य संग्रहं कृष्ण ग्रहनक्षत्रमर्दनम् ।
त्वयि मानुष्यम् आपन्ने युद्धे च समुपस्थिते ॥
त्वरस्व कृष्ण युद्धाय दानवानां वधाय च ।
स्वर्गाय च नरेन्द्राणां देवतानां सुखाय च ॥
सत्कृतो ऽहं त्वया कृष्ण लोकैश् चैव सहामरैः ।
त्वया सत्कृतरूपेण येन सत्कृतवान् अहम् ॥
साधयामि महाबाहो भवतः कार्यसिद्धये ।
स्मर्तव्यश् चास्मि युद्धेषु कंसारे पृथिवीक्षिताम् ॥
स्मर्तव्यस् तत्र तत्राहं यत्र युद्धं भवेत् सदा ।
न च कृत्यं मया तुभ्यं त्वं च कर्ता जगद्गुरुः ।
मां स्मृत्वा यो रणं याति ध्रुवं तस्य जयो भवेत् ।
इत्य् उक्त्वा जामदग्न्यस् तु कृष्णम् अक्लिष्टकारिणम् ।
जयाशिषा वर्धयित्वा जगामाभीप्सितां दिशम् ।
जामदग्न्ये गते रामे तौ यादवकुलोद्वहौ ।
गोमन्तशिखरे रम्ये चेरतुः कामरूपिणौ ॥
वनमालाकुलोरस्कौ नीलपीताम्बराव् उभौ ।
नीलश्वेतवपुष्मन्तौ गगनस्थाव् इवाम्बुदौ ॥
तौ शैलधातुदिग्धाङ्गौ युवानौ शिखरे स्थितौ ।
चेरतुस् तत्र कान्तेषु वनेषु रतिलालसौ ॥
उदयन्तं निरीक्षन्तौ शशिनं ज्योतिषां वरम् ।
उदयास्तमने चैव ग्रहाणां भास्करस्य च ॥
अथ संकर्षणः श्रीमान् विना कृष्णेन वीर्यवान् ।
चचार तस्य शिखरे नगस्य नगसंनिभः ॥
स फुल्लस्य कदम्बस्य प्रच्छाये निषसाद ह ।
वायुना मदगन्धेन वीज्यमानः सुखेन वै ॥
तस्य तेनानिलौघेन सेव्यमानस्य तत्र वै ।
मध्यसंस्पर्शजो भावः संस्पृशन् घ्राणम् आगतः ॥
तृषा चैनं विवेशाशु वारुणीप्रभवा तदा ।
शुषोच च मुखं तस्य मत्तस्येवापरे ऽहनि ॥
स्मारितः स पुरावृत्तम् अमृतप्राशनं विभुः ।
तृषितो मदिरान्वेषी ततस् तं तरुम् आक्षिपत् ॥
गोमन्तस्य निदेशात् तु वारुणीप्रभवं तदा ।
तस्य प्रावृषि फुल्लस्य यद् अम्भो जलदोज्झितम् ।
तत् कोठरस्था मदिरा समजायत निर्मला ॥
तां तु तृष्णाभिभूतात्मा पिबन्न् आर्त इवासकृत् ।
मदाच् च चलिताकारः समजायत स प्रभुः ॥
तस्य मत्तस्य वदनं किंचिच् चलितलोचनम् ।
घूर्णिताकारम् अभवच् छरत्लालेन्दुसप्रभम् ॥
कदम्बकोटरे जाता नाम्ना कादम्बरीति सा ।
रूपिणी वारुणी तत्र देवानाम् अमृतारणिः ॥

कादम्बरीमदकलं विदित्वा कृष्णपूर्वजम् ।
तिस्रस् त्रिदशनार्यस् तम् उपतस्थुः प्रियंवदाः ॥
मदिरा रूपिणी भूत्वा कान्तिश् च शशिनः प्रिया ।
श्रीश् च देवी वरिष्ठा स्त्री स्वयम् एवाम्बुजध्वजा ॥
साञ्जलिप्रग्रहा देवी रौहिणेयम् उपस्थिता ।
वारुण्य् आत्महितं वाक्यम् उवाच मदविक्लवम् ॥
जयस्व बलदेवानां बलदेव दिवीश्वर ।
अहं ते दयिता कान्ता वारुणी समुपस्थिता ॥
त्वाम् एवान्तर्हितं श्रुत्वा शाश्वतं वडवामुखे ।
क्षीणपुण्येव वसुधां पर्येमि विमलानन ॥
पुष्पचक्रानुलिप्तेषु केसरेषूषितं मया ।
अतिमुक्तेषु चाक्षोभ्य पुष्पचन्द्रार्कवर्ष्मसु ॥
साहं कदम्बम् आलीना मेघकाले सुखप्रिया ।
तृषितं मन्यमाना त्वां स्वेन रूपेण छादिता ॥
सास्मि पूर्णेन योगेन यथैवामृतमन्थने ।
समीपं प्रेषिता पित्रा वरुणेन तवानघ ॥
सा यथैवार्णवगता यथैव वडवामुखे ।
त्वयोपयोक्तुम् इच्छामि संमतस् त्वं हि मे गुरुः ॥
न त्वानन्त परित्यक्ष्ये भर्त्सितापि त्वयाव्यव ।
नाहं त्वया विना लोकान् उत्सहे देव सेवितुम् ॥
आदिपद्मं च पद्माक्षं दिव्यश्रवणभूषणम् ।
कौशेयानि च नीलानि समुद्रार्हाणि बिभ्रती ।
मदिरानन्तरं कान्तिः संकर्षणम् उपस्थिता ।
मदेनागलितश्रोणी किंचिद् आघूर्णितेक्षणा ॥
प्रोवाच प्रणयात् कान्तिः संकर्षणम् उपस्थिता ।
जयपूर्वेण योगेन सस्मितं योगम् इच्छती ॥
अहं चन्द्राद् अपि गुरुं सहस्रशिरसं प्रभुम् ।
स्वैर् गुणैर् अनुरक्ता त्वां यथैव मदिरा तथा ॥
श्रीश् च पद्मालया देवी विधेया वैष्णवोरसि ।
रौहिणेयोरसि शुभा मालेवामलतां गता ॥
सा मालाम् अमलां गृह्य बलस्योरसि दंशिता ।
पद्मास्यं पद्महस्ता वै संकर्षणम् अथाब्रवीत् ॥
यद्य् अस्ति मयि कारुण्यं विज्ञाप्यं श्रूयताम् इदम् ।
राम रामाभिरामस् त्वं वारुण्या समलंकृतः ।
कान्त्या मया च देवेश संगतश् चन्द्रमा यथा ॥
इयं च सा मया मौलिर् उद्धृता वरुणालयात् ।
मूर्ध्नि शीर्षसहस्रस्य या ते भानुर् इवाबभौ ॥
जातरूपमयं चैकं कुण्डलं वज्रभूषितम् ।
आदिपद्मं च पद्माक्ष दिव्यं श्रवणभूषणम् ॥
कौशेयानि च नीलानि समुद्राभाणि भावतः ।

हारं च पीनतरलं समुद्राभ्यन्तरोषितम् ॥
प्रतीच्छ स्वम् अलंकारम् आशीर्भिर् अभिपूजितः ।
देवेमां प्रतिगृह्णीष्व पौराणीं भूषणक्रियाम् ।
समयस् ते महाबाहो भूतभव्यप्रभावन ॥
संगृह्य तम् अलंकारं ताश् च तिस्रः सुरस्त्रियः ।
शुशुभे बलदेवो हि शारदेन्दुसमप्रभः ॥
स समागम्य कृष्णेन सजलाम्भोदवर्चसा ।
मुदं परमिकां लेभे ग्रहमुक्तः शशी यथा ॥
ताभ्याम् उभाभ्यां संलापे वर्तमाने गृहे यथा ।
वैनतेयस् ततो ऽध्वानम् अतिचक्राम वेगितः ॥
संग्राममुक्तस् तेजस्वी दैत्यप्रहरणाङ्कितः ।
देवतानां जयश्लाघी दिव्यस्रगनुलेपनः ॥
सुप्तस्य शयने दिव्ये क्षीरोदे वरुणालये ।
विष्णोः किरीटं दैत्येन हृतं वैरोचनेन वै ॥
तदर्थं तेन संग्रामः कृतो गुर्वर्थम् ओजसा ।
किरीटार्थे समुद्रस्य मध्ये दैत्यगणैः सह ॥
मोक्षयित्वा किरीटं तु वैष्णवं पततां वरः ।
व्यत्यक्रामत वेगेन गगनं देवतालयम् ॥
स ददर्श गुरुं शैले विष्णुं कार्यान्तरागतम् ।
तेन क्रोडावलम्बेन किरीटेन विराजितः ॥
स दृष्ट्वा मानुषं विष्णुं शैलराजशिरोगतम् ।
प्रकाशवेषनिर्मुक्तं विमौलिम् इव मानुषम् ॥
अभिज्ञस् तस्य भावानाम् गरुत्मान् पततां वरः ।
चिक्षेप खगतो मौलिं विष्णोः शिरसि हृष्टवत् ॥
उपेन्द्रमूर्ध्नि सा मौलिर् अपिनद्धा इवापतत् ।
शिरसः स्थाननिर्मुक्ता कृष्णं चैवान्वशोभयत् ।
यथैव मेरुशिखरे भानुर् मध्यंदिने तथा ॥
संयुक्तः कृष्णशिरसा स मौलिम् अधिकं बभौ ।
शिरोविन्यस्तमुकुटः कृष्णश् चैवाधिकं बभौ ।
वैनतेयप्रयोगेन विदित्वा मौलिम् आगतम् ।
कृष्णः प्रहृष्टवदनो रामं वचनम् अब्रवीत् ॥
त्वरते तु कार्यार्थो देवतानां न संशयः ।
यथेयम् आवयोः शैले संग्रामरचना कृता ॥
मूर्ध्नि दृष्ट्वात्र दैत्येन हृता क्षिप्त्वा गरुत्मता ।
वैरोचनेन सुप्तस्य मम मौलिर् महौदधौ ।
शक्रस्य सदृशं रूपं दिव्यम् आस्थाय सागरात् ।
ममाहिशयनान् मौलिर् हृत्वा क्षिप्तो गरुत्मता ॥
ग्राहरूपेण यो नीत आनीतो ऽसौ गरुत्मता ।
सुव्यक्तं संनिकृष्टः स जरासंधो नराधिपः ।
लक्ष्यन्ते च ध्वजाग्राणि रथानां वातरंहसाम् ॥

एतानि शशिकल्पानि नृपाणां विजिगीषूनाम् ।
एतानि विजिगीषूणां शशिकल्पानि भूभृताम् ।
छत्राण्य् आर्य विराजन्ते दंशितानि सितानि च ॥
अहो नृपरथोदग्रा विमलाश् छत्रपङ्क्तयः ।
अभिवर्तन्ति नः शुभ्रा यथा खे हंसपङ्क्तयः ॥
अहो द्यौर् विमलाभानां शस्त्राणां विमलानना ।
प्रभा भास्करभामिश्रा चरन्तीव दिशो दश ॥
एतानि नूनं समरे पार्थिवैर् आयुधानि च ।
क्षिप्तानि विनशिष्यन्ति मयि सर्वाणि संयुगे ॥
काले खलु नृपः प्राप्तो जरासंधो महीपतिः ।
आवयोर् युद्धनिकषः प्रथमः समरातिथिः ॥
आर्य तिष्ठाव सहितौ न खल्व् अन्वागते नृपे ।
युद्धारम्भः प्रयोक्तव्यो बलं तावद् विमृश्यताम् ॥
एवम् उक्त्वा ततः कृष्णः संस्थः संग्रामलालसः ।
जरासंधवधप्रेप्सुश् चकार बलदर्शनम् ॥
वीक्षमाणश् च तान् सर्वान् नृपान् यदुवरो ऽव्ययः ।
आत्मानम् आत्मनोवाच यत् पूर्वं दिवि मन्त्रितम् ॥
इमे ते पृथिवीपालाः पार्थिवे वर्त्मनि स्थिताः ।
ये विनाशं गमिष्यन्ति शास्त्रदृष्टेन कर्मण ॥
प्रोक्षितान् खल्व् इमान् अन्ये मृत्युना नृपसत्तमान् ।
स्वर्गगामीनि सर्वेषां वपूंषि प्रचकाशिरे ॥
स्थाने भारपरिश्रान्ता वसुधेयं दिवं गता ।
एषां नृपतिसिंहानां बलौघैर् अभिपीडिता ॥
क्षितिर् निरन्तरा चेयं बलराष्ट्राभिसंतता ।
अल्पेन खलु कालेन विविक्तं पृथिवीतलम् ।
भविष्यति नरेन्द्रौघैर् आकीर्णं च नभस्तलम् ॥
जरासंधस् ततः प्राप्तो नृपं सर्वमहाक्षिताम् ।
निर्गतं स हरिं ज्ञात्वा मथुरातो महीपतिः ।
नारदान् नृपशार्दूल गोमन्ते संस्थितं हरिः ॥
आज्ञापयाम् आस नृपांश् चैद्यशाल्वमुखांस् तथा ।
निर्गच्छन्तु नृपाः सर्वे ससैन्याः पर्वतोत्तमम् ॥
ततस् ते चलिताः सर्वे गोमन्तं सबला नृपाः ।
मुक्त्वा तु मथुरां राजन् क्रोधसंदष्टदच्छदाः ॥
नराधिपैर् बलयुतैर् अनुयातो महाद्युतिः ॥
व्यायतोदग्रतुरगैर् विस्पष्टार्थसमाहितैः ।
रथैः सांग्रामिकैर् युक्तैर् असङ्गगतिभिः क्वचित् ॥
हेमकक्षैर् महाघण्टैर् वारणैर् वारिदोपमैः ।
महामात्रोत्तमारूढैः कल्पितै रणगर्वितैः ॥
स्वारूढैः सादिभिर् युक्तैः प्रेङ्खमाणैः प्रवल्गितैः ।
वाजिभिर् वायुसंकाशैः प्लवद्भिर् इव पत्रिभिः ॥

खड्गचर्मबलोदग्रैः पत्तिभिर् वल्गितामरैः ।
सहस्रसंख्यैर् निर्मुक्तैर् उत्पतद्भिर् इवोरगैः ॥
एवं चतुर्विधैः सैन्यैः कम्पमानैर् इवाम्बुदैः ।
नृपो ऽनुयातो बलवाञ् जरासंधो धृतव्रतः ॥
नृपो ऽभियातः स क्षिप्रं जरासंधः प्रतापवान् ।
नृपतिर् यानसंनद्धो महासत्त्वो महाद्युतिः ।
स रथैर् नेमिनिर्घोषैर् गजैश् च मदसिञ्जितैः ।
हेषद्भिश् चैव तुरगैः क्ष्वेडितोग्रैश् च पत्तिभिः ॥
संनादयन् दिशः सर्वाः सर्वांश् चापि गुहाशयान् ।
स राजा सागराकारः ससैन्यः प्रत्यदृश्यत ॥
बलाध्यक्षो महावीर्य एकलव्यो महीपतिः ।
चापपाणिः शरावापी खड्गी तूणीरवान् बली ॥
रथी खड्गी शरी चापी निषङ्गी हेमकुण्डली ।
सिंहनादान् समाकुर्वन् मागधस्य महीपतिः ॥
सो ऽग्रतः सर्वसैन्यानां दृष्टो ऽन्तक इवापरः ।
तयोर् गोपालसुतयोर् अहम् एव समुत्थितः ॥
किम् एतैर् नृपसिंहैश् च इत्य् अवोचन् महाबलः ।
तद् बलं पृथिवीशानां दृप्तयोधजनाकुलम् ।
क्ष्वेडितास्फोटितरवं मेघसैन्यम् इवाबभौ ॥
रथैः पवनसंपातैर् गजैश् च जलदोपमैः ।
तुरगैश् च सिताभ्राभैः पत्तिभिश् चापि दंशितः ।
व्यामिश्रं तद् बलं भाति मत्तद्विपरथाकुलम् ।
घर्मान्ते सागरगतं यथाभ्रपटलं तथा ॥
सबलास् ते महीपाला जरासंधपुरागमाः ।
परिवार्य गिरिं सर्वे निवासायोपचक्रमुः ॥
बभौ तस्य निविष्टस्य बभौ श्रीः शिबिरस्य वै ।
शुक्लपर्वणि पूर्णस्य यथा रूपं महोदधेः ॥
वीतरात्रे ततः काले नृपास् ते कृतकौतुकाः ।
आरोहणार्थं शैलस्य समेता युद्धलालसाः ॥
समवायीकृताः सर्वे गिरिप्रस्थेषु ते नृपाः ।
निविष्टा मन्त्रयाम् आसुर् युद्धकालकुतूहलाः ॥
तेषां सुतुमुलः शब्दः शुश्रुवे पृथिवीक्षिताम् ।
युगान्ते भिद्यमानानाम् सागराणां यथा स्वरः ॥
तेषां सकञ्चुकोष्णीषाः स्थविराः वेत्रपाणयः ।
चेरुर् मा शब्द इत्य् एवं ब्रुवन्तो राजशासनात् ॥
तस्य रूपं बलस्यासीन् निःशब्दस्तिमितस्य वै ।
लीनमीनग्रहस्येव निःशब्दस्य महोदधेः ॥
तस्मिन् स्तिमितनिःशब्दे योगाद् इव महार्णवे ।
जरासंधो बृहद् वाक्यं बृहस्पतिर् इवाददे ॥
शीघ्रं समभिवर्तन्तां बलानि पृथिवीक्षिताम् ।

सर्वतः पर्वतश् चैव बलौघैः परिवार्यताम् ॥
अश्मयन्त्राणि युज्यन्तां क्षेपणीयाश् च मुद्गराः ।
ऊर्ध्वं चापि प्रवाह्यन्तां प्रासा वै तोमराणि च ॥
ऊर्ध्वं प्रेक्षमाणार्थाय दृढानि च लघूनि च ।
शस्त्रपातविघातानि क्रियन्ताम् आशु शिल्पिभिः ॥
शुराणां युध्यमानानां प्रमत्तानां परस्परम् ।
यथा नरपतिः प्राह तथा शिघ्रं विधीयताम् ॥
दार्यताम् एष टङ्कौघैः खनितैश् च नगोत्तमः ।
नृपाश् च दुर्गयुद्धज्ञा विन्यस्यन्ताम् अदूरतः ॥
अद्यप्रभृति सैन्यैर् मे गिरिरोधः प्रवर्त्यताम् ।
यावद् एतौ पातयामो वसुदेवसुताव् उभौ ॥
अचलो ऽयं शिलायोनिः क्रियतां निश्चलाण्डजः ।
आकाशम् अपि बाणौघैर् निःसंपातं विधीयताम् ॥
मयानुशिष्टास् तिष्ठन्तु गिरिभूमिषु भूमिपाः ।
तेषु तेष्व् अवकाशेषु शीघ्रम् आरुह्यतां गिरिः ॥
भद्रः कलिङ्गाधिपतिश् चेकितानः सबाह्लिकः ।
काश्मीरराजो गोनर्दः करूषाधिपतिस् तथा ॥
द्रुमः किंपुरुषश् चैव पार्वतीयाश् च मानवाः ।
पर्वतस्यापरं पार्श्वं क्षिप्रम् आरोहयन्त्व् अमी ॥
पौरवो वेणुदारिश् च वैदर्भः सोमकस् तथा ।
रुक्मी च भोजाधिपतिः सूर्याक्षश् चैव यावनः ॥
पाञ्चलानाम् अधिपतिर् द्रुपदश् च नराधिपः ।
विन्दानुविन्दाव् आवन्त्यौ दन्तवक्त्रश् च वीर्यवान् ॥
छागलिः पुरुमित्रश् च विराटश् च महीपतिः ।
कौशाम्ब्यो मालवश् चैव शतधन्वा विदूरथः ॥
भूरिश्रवास् त्रिगर्तश् च बाणः पञ्चनदस् तथा ।
उत्तरं पर्वतारोहम् एते दुर्गसहा नृपाः ।
आरोहन्तु विमर्दन्तो वज्रप्रतिमगौरवाः ॥
उलूकः कैतवेयश् च वीरश् चांशुमतः सुतः ।
एकलव्यो दृढाक्षश् च रथवर्मा जयद्रथः ॥
उत्तमौजास् तथा साल्वः कैरलेयश् च कैशिकः ।
वैदिशो वामदेवश् च सुकेतुश् चापि वीर्यवान् ॥
पूर्वं पर्वतनिर्व्यूहम् एतेष्व् आयत्तम् अस्तु नः ।
दारयन्तो ऽभिधावन्तु वाता इव बलाहकान् ॥
अहं च दरदश् चैव चेदिराजश् च संगतः ।
दक्षिणं शैलनिचयं दारयिष्याम दंशिताः ॥
एवम् एष गिरिः क्षिप्रं समन्ताद् वेष्टितो बलैः ।
वज्रप्रपातप्रतिमं प्राप्नोतु तुमुलं भयम् ॥
गदिनो ये गदाभिस् ते परिघैः परिघायुधाः ।
अपरे विविधैः शस्त्रैर् दारयन्तु नगोत्तमम् ॥

एष भूमिधरो ऽद्यैव विषमोच्चशिलान्वितः ।
कार्यो भूमिसमः सर्वो भवद्भिर् वसुधाधिपैः ॥
जरासंधवचः श्रुत्वा पार्थिवेषु च शासनम् ।
गोमन्तं वेष्टयाम् आसुः सागराः पृथिवीम् इव ।
उवाच राजा चेदीनां देवानां मघवा इव ॥
किं नो युद्धेन दुर्गे ऽस्मिन् गोमन्ते च नगोत्तमे ।
दुरारोहोच्चशिखरे प्रांशुपादपसंकटे ॥
काष्ठैस् तृणैश् च बहुभिः परिवार्य समन्ततः ।
अद्यैव दीप्यतां क्षिप्रम् अलम् अन्येन कर्मणा ॥
क्षत्रियाः सुकुमारा हि रणे सायकयोधिनः ।
न युक्ताः पर्वते दुर्गे नियोक्तुं पादयोधिनः ॥
न नाम प्रतिबन्धेन नाप्य् अवस्कन्दकर्मणा ।
शक्य एष गिरिस् तात देवैर् अप्य् अभिमर्दितुम् ॥
दुर्गयुद्धक्रमः श्रेयान् रोधयुद्धेन पार्थिव ।
भक्तोदकेन्धनक्षीणाः पात्यन्ते गिरिसंश्रिताः ॥
वयं बहव इत्य् एवं नाप्य् एष निपुणो नयः ।
यादवौ नावमन्तव्यौ द्वाव् अप्य् एतौ रणे स्थितौ ॥
अविज्ञातबलाव् एतौ श्रूयेते देवसंनिभौ ।
कर्मभिस् त्व् अमरौ विद्मो बालाव् अतिबलान्वितौ ॥
कर्मभिस् त्व् अतुलैर् वीराव् उभाव् अपि बलोत्कटौ ।
दुष्कराणीह कर्माणि कृतवन्तौ यदूत्तमौ ॥
शुष्ककाष्ठैस् तृणैर् वेष्ट्य सर्वतः पर्वतोत्तमम् ।
अग्निना दीपयिष्यामो दह्येतां गतचेतनौ ॥
यदि चेन् निष्क्रमिष्येते दह्यमानाव् इतो ऽन्तिके ।
समेत्य पातयिष्यामस् त्यक्ष्यतो जीवितं ततः ॥
वाक्यम् एतत् तु रुरुचे सबलानां महीक्षिताम् ।
यद् उक्तं चेदिराजेन नृपाणां हितकाम्यया ॥
ततः काष्ठैस् तृणैर् वंशैः शुष्कशाखैश् च पादपैः ।
उपादीप्यत शैलेन्द्रः सूर्यपादैर् इवाम्बुदः ॥
ददुस् ते सर्वतस् तूर्णं पावकं तत्र पार्थिवाः ।
यथादेशं यथावातं शैलस्य लघुविक्रमाः ॥
स वायुदीपितो वह्निर् उत्पपात समन्ततः ।
सधूमज्वालमालाभिर् भाभिः खम् इव शोभयन् ॥
सो ऽनलः पवनायस्तः काष्ठसंचयमूलवान् ।
ददाह शैलं श्रीमन्तं गोमन्तं कान्तपादपम् ॥
स दह्यमानः शैलेन्द्रो मुमोच विपुलाः शिलाः ।
शतशः शतधा भूत्वा महोल्काकारदर्शनाः ॥
सचित्रभानुः शैलेन्द्रो भाभिर् भानुर् इवाम्बुदम् ।
आलिम्पतीव विधिवत् समन्ताद् अर्चिषां चयैः ॥
धातुभिः पच्यमानैश् च ज्वलद्भिश् चैव पादपैः ।

ररास श्वापदोद्भ्रान्तस् तुद्यमान इवाद्रिराट् ॥
प्रततं दह्यमानस् तु स शैलः कृष्णवर्त्मना ।
रीतीर् निर्वर्तयाम् आस काञ्चनाञ्जनराजतीः ॥
वह्निना चापि दीप्ताङ्गो गिरिर् नातिविराजते ।
धूमान्धकारिततनुर् मज्जमान इवाम्बुदः ॥
शिलानिष्पिष्टसंघातः कर्कशाङ्गारवर्षणः ।
गिरिर् भात्य् अनलोद्गारैर् उल्कावृष्टिर् इवाम्बुदः ॥
प्रपातप्रस्रवोत्क्षिप्तो धूपसंवर्तितोदरः ।
स गिरिर् भस्मतां यातो युगान्ताग्निहतोपमः ॥
विह्वलास् तस्य पार्श्वेभ्यः सर्पा दग्धार्धदेहिनः ।
श्वसन्तः पृथुमूर्धानो निश्चेरुर् अशिवेक्षणाः ॥
उत्पत्योत्पत्य गगनात् पुनः पेतुर् अवाङ्मुखाः ।
रेसुश् चोद्वेजिताः सिंहाः शार्दूलाश् चानलाविलाः ।
मुमुचुः पादपाश् चैव दाहनिर्यासजं जलम् ॥
वहत्य् ऊर्ध्वगतिर् वातो भस्माङ्गाराभिपिङ्गलः ।
धूमच्छाया च गगने दर्पिताम्भोददर्शना ॥
त्यज्यमानो महासानुर् विहगैः श्वापदैर् अपि ।
गिरिर् वैकल्यम् आयाति प्रागल्भ्यात् कृष्णवर्त्मनः ॥
स मुमोच शिलाः शैलश् चलोदग्रशिलोच्चयैः ।
वज्रेण पुरुहूतस्य यथा स्याद् दारितस् तथा ॥
बभूवुश् च महाशब्दाः शिलोच्चैः स्फाटितैर् नृप ।
कृष्णवर्त्मा पुमान् नत्वा तयोर् अग्रे समागतः ॥
नमश् चकार हरये उवाच वदतां वरः ।
देवदेव जगन्नाथ क्षन्तव्यं मम विप्रियम् ।
परवशेन तु मया दह्यते ऽयं नगोत्तमः ॥
त्वं त्व् एनं प्रतिगृह्णीष्व कवचं रामसंयुतम् ।
परिधाय जगन्नाथ विचरस्व यथासुखम् ॥
त्वाम् अयं न महाभाग पराभूताग्निम् उल्बणः ।
गृःणीष्वान्यतरं राम कवचं वह्निवारणम् ॥
इत्य् उक्त्वा प्रददौ वह्निः कवचद्वयम् उत्तमम् ॥
ततस् त्व् अन्तर्दधे राजन्न् एकैकं रामक्षृणयोः ।
एकैकं कवचं धृत्वा हरिसंकर्षणाव् उभौ ॥
गोमन्ते शिखरे रम्ये चेरतुर् वह्निपूजितौ ।
न तु चक्रे तयोः स्पर्शं वह्नितापो महीपते ॥
आदीप्य तं ते शैलेन्द्रं क्षत्रिया व्यूहदंशिताः ।
अर्धक्रोशम् अपक्रान्ताः पावकेनाभितापिताः ॥
दह्यमाने नगश्रेष्ठे सीदमानमहाद्रुमे ।
धूमभारैर् अनालक्ष्ये मूले शिथिलतां गते ॥
सरोषं हि तदा रामो वचनं केशिसूदनम् ।
बभाषे पद्मपत्राक्षं स साक्षान् मधुसूदनम् ॥

दह्यते ऽयं गिरिस् तात ससानुशिखरद्रुमः ।
आवयोः कृष्ण वैरेण वैरिभिर् वसुधाधिपैः ॥
पश्य कृष्णानलोष्णानि सधूमानि समन्ततः ।
वनानि विरसन्तीव नगस्यास्य नगोपम ॥
अयं यद्य् आवयोर् अर्थे गोमन्तस् तात दह्यते ।
अयशस्यम् इदं लोके कौलीनं च भविष्यति ॥
तद् अस्यानृण्यहेतोर् हि नगस्य नगसंनिभ ।
क्षत्रियान् निहनिष्यामि दोर्भ्याम् इव युधां वर ॥
एते ते क्षत्रियाः सर्वे गिरिम् आदीप्य दंशिताः ।
रथिनस् तात दृश्यन्ते यथादेशं युयुत्सवः ॥
जरासंधं हनिष्यामि सबलं सहवाहनम् ।
निर्भूमिपं भूमितलं करिष्यामि यदूत्तमम् ॥
एवम् उक्त्वा गिरेः शृङ्गान् मेरुशृङ्गाद् इवोडुराट् ।
निपपाते बलः श्रीमान् वनमालाधरो युवा ।
कादम्बरीमदक्षीबो नीलवासाः सिताननः ॥
स शारदेन्दुसंकाशो वनमालाञ्चितोदरः ।
कान्तैककुण्डलधरश् चारुमौलिर् अवाङ्मुखः ।
निपपात नरेन्द्राणां मध्ये केशवपूर्वजः ॥
अवप्लुते ततो रामे कृष्णः कृष्णाम्बुदोपमः ।
गोमन्तशिखराच् छ्रीमान् आप्लुतो ऽमितविक्रमः ॥
ततस् तं पीडयाम् आस पद्भ्यां गिरिवरं हरिः ॥
स पीडितो गिरिस् तेन निर्ममज्ज समन्ततः ।
जलाकुलोपलस् तत्र प्रस्रुतो द्विरदो यथा ॥
स तेन वारिणा वह्निस् तत्क्षणात् प्रशमं ययौ ।
कल्पान्ते वारिधाराभिर् मेघजालैर् इवांशुमान् ॥
सिंहारसितनिर्घोषः पीतवासा घनाकृतिः ।
किरीटमूर्धा सौम्यास्यः पुण्डरीकनिभेक्षणः ॥
श्रीवत्सवक्षाः सुमुखः सहस्राक्षसमद्युतिः ।
श्रीमान् हलधरानुजः ।
अतसीपुष्पसंकाशः @
रामाद् अनन्तरं कृष्णः प्लुतो रामाद् अनन्तरः ॥
ताभ्याम् अवप्लुताभ्यां च चरणैः पीडितो गिरिः ।
मुमोच सलिलोत्पीडान् भृशम् ऊर्ध्वं विनिःसृतान् ॥
सलिलोत्पीडनं दृष्ट्वा पार्थिवान् भयम् आविशत् ।
तौ नगाद् आप्लुतौ दृष्ट्वा वसुदेवसुताव् उभौ ।
ततो देवाः सगन्धर्वा यक्षाश् च परमर्षयः ।
तुष्टुवुर् देवम् ईशानं मन्त्रैर् भागवतैस् तदा ॥
क्षुब्धं नरवरानीकं सर्वं संमूढवाहनम् ॥
बाहुप्रहरणौ तौ तु चेरतुस् तत्र यादवौ ।
मकराव् इव संक्रुद्धौ समुद्रे ऽन्तर्हिताव् उभौ ॥

ताभ्याम् मृधे प्रविष्टाभ्यां यादवाभ्यां मतिस् त्व् अभूत् ।
आयुधानां पुराणानां आदानकृतलक्षणा ॥
ततो ऽम्बरतलाद् भूयः पतन्ति स्म महात्मनोः ।
मध्ये राजसहस्रस्य समरप्रतिकाङ्क्षिणोः ।
यानि वै माथुरे युद्धे प्राप्तान्य् आहवशोभिनोः ॥
रुधिरासवसक्तानां संयुगे ऽमरविद्विषाम् ।
ततो ऽम्बरात् पतन्ति स्म दिव्यान्य् आहवसंप्लवे ।
लेलिहानानि दिव्यानि दीप्ताग्निसदृशानि वै ॥
निक्षिप्य यानि तत्रैव तानि प्राप्तौ स्म यादवौ ।
क्राव्यादैर् अनुयातानि मूर्तिमन्ति बृहन्ति च ।
तृषितानि आहवे भोक्तुं नृपमांसानि सर्वशः ॥
दिव्यस्रग्दामधारीणि त्रासयानानि खेचरान् ।
प्रभया भासमानानि दंशितानि दिशो दश ॥
हलं संवर्तकं नाम सौनन्दं मुसलं तथा ।
चक्रं सुदर्शनं नाम गदा कौमोदकी तथा ॥
चत्वार्य् एतानि तेजांसि विष्णुप्रहरणानि वै ।
शङ्खं चक्रं च शत्रुघ्नं सहस्रांशुसमप्रभम् ।
खड्गं च खेटकं चैव तूणी चाक्षयसायकौ ॥
ताभ्यां समवतीर्णानि यादवाभ्यां महामृधे ॥
जग्राह प्रथमं रामो हलम् अप्रतिमं रणे ।
सर्पन्तम् इव सर्पेन्द्रं दिव्यमालाकुलं हलम् ॥
सव्येन सात्वतां श्रेष्ठो जग्राह मुसलोत्तमम् ।
सौनन्दं नाम मुसलं निरानन्दकरं नृणाम् ॥
दर्शनीयं च लोकेषु चक्रम् आदित्यवर्चसम् ।
नाम्ना सुदर्शनं नाम प्रीतो जग्राह केशवः ॥
दर्शनीयं च लोकेषु धनुर् जलदनिस्वनम् ।
नाम्ना शार्ङ्गम् इति ख्यातं प्रीतो जग्राह वीर्यवान् ॥
देवैर् निगदितार्थस्य गदा तस्योपरे करे ।
निषक्ता कुमुदाक्षस्य नाम्ना कौमोदकीति सा ॥
प्रादुर्भूताथ देवस्य विष्णोस् तस्योपरे करे ।
तौ सप्रहरणौ वीरौ साक्षाद् विष्णुतनूपमौ ।
समरे रामगोविन्दौ रिपूंस् तान् प्रत्ययुध्यताम् ॥
सायुधप्रग्रहौ वीरौ ताव् अन्योन्यमयाव् उभौ ।
पूर्वजानुजसंज्ञौ तौ रामगोविन्दलक्षणौ ॥
समरे प्रतिरूपौ तौ विष्णुर् एको द्विधाकृतः ।
द्विषत्सु प्रतिकुर्वाणौ पराक्रान्तौ यथेश्वरौ ॥
हलम् उद्यम्य रामस् तु सर्पेन्द्रम् इव कोपितम् ।
चचार समरे वीरो द्विषताम् अन्तकोपमः ॥
विकर्षन् रथवृन्दानि क्षत्रियाणां महात्मनाम् ।
चकार रोषं सफलं नागेषु च हयेषु च ॥

कुञ्जरांल् लाङ्गलोत्क्षिप्तान् मुसलाक्षेपताडितान् ।
रामो ऽभिरामः समरे निर्ममन्थ यथाचलान् ॥
ते वध्यमाना रामेण समरे क्षत्रियर्षभाः ।
जरासंधान्तिकं भीता विरथाः प्रतिजग्मिरे ॥
तान् उवाच जरासंधः क्षत्रधर्मे व्यवस्थितः ।
धिग् एतां क्षत्रवृत्तिं वः समरे कातरात्मनाम् ॥
परक्रान्तस्य समरे विरथस्य पलायतः ।
भ्रूणहत्याम् इवासह्यां प्रवदन्ति मनीषिणाः ॥
पत्तिनो भुवि चैकस्य गोपस्याल्पबलीयसः ।
भीताः किं विनिवर्तध्वं धिग् एतां क्षत्रवृत्तिताम् ॥
क्षिप्रं समभिवर्तध्वं मम वाक्येन चोदिताः ।
अथ वा तिष्ठत रथैः प्रेक्षकाः समवस्थिताः ।
यावद् एतौ रणे गोपौ प्रेषयामि यमक्षयम् ॥
ततस् ते क्षत्रियाः सर्वे जरासंधेन चोदिताः ।
क्षिपन्तः शरजालानि हृष्टा योद्धुम् अवस्थिताः ॥
ते हयैः काञ्चनापीडै रथैश् चैवेन्दुसप्रभैः ।
नागैश् चाम्भोदसंकाशैर् महामात्रप्रचोदितैः ॥
सतनुत्राः सनिस्त्रिंशाः सायुधाभरणाम्बराः ।
स्वारोपितधनुष्मन्तः सतूणीराः ससायकाः ॥
सच्छत्रोत्सेधिनः सर्वे चारुचामरवीजिताः ।
रणावनिगता रेजुः स्यन्दनस्था महीक्षितः ॥
तौ युद्धरङ्गाधिगतौ विधावन्तौ युधां वरौ ।
वसुदेवसुतौ वीरौ युयुत्सू प्रत्यदृश्यताम् ॥
तद् युद्धम् अभवत् तत्र तयोस् तेषां च संयुगे ।
सायकोत्सर्गबहुलं गदानिर्घातदारुणम् ॥
ततः शरसहस्राणि प्रतीच्छन्तौ रणैषिणौ ।
तस्थतुर् यदुमुख्यौ ताव् अभिवृष्टौ यथाचलौ ॥
तैर् युद्धरागरक्ताक्षैर् व्याहरद्भिर् युधां वरैः ।
गदाभिश् चैव गुर्वीभिः क्षेपणीयैश् च मुद्गरैः ।
अर्द्यमानौ महेष्वासौ यादवौ न चकम्पतुः ॥
ततः कृष्णो ऽम्बुदाकारः शङ्खचक्रगदाधरः ।
व्यवर्धत महातेजा युक्तवातो यथानलः ॥
स चक्रेणार्कतुल्येन दीप्यमानेन तेजसा ।
चिच्छेद समे वीरो नृगजाश्वमहारथान् ॥
गदानिपातनिहता लाङ्गलेन च कर्षिताः ।
न शेकुस् ते रणे स्थातुं पार्थिवाः नष्टचेतसः ॥
चक्रक्षुरनिकृत्तानि विचित्राणि महीक्षिताम् ।
रथयूथानि भग्नानि न शेकुश् चलितुं रणे ॥
मुसलाक्षेपभग्नाश् च कुञ्जराः षष्टिहायनाः ।
घना इव घनापाये भग्नदन्ता विचुक्रुशुः ॥

चक्रानलज्वालहताः सादिनः सपदातयः ।
पेतुर् गतासवस् तत्र यथा वज्रहतास् तथा ॥
चक्रलाङ्गलनिर्दग्धं तत् सैन्यं विदलीकृतम् ।
युगान्तोपहतप्रख्यं सर्वं पतितम् आबभौ ॥
आक्रीडभूमिं दिव्यानाम् आयुधानां वपुष्मताम् ।
वैष्णवानां नृपास् ते तु द्रष्टुम् अप्य् अबलीयसः ॥
केचिद् रथाः संमृदिताः केचिन् निहतपार्थिवाः ।
भग्नैकचक्रास् त्व् अपरे विकीर्णा धरणीतले ॥
तस्मिन् विशसने घोरे चक्रलाङ्गलसंप्लवे ।
दारुणानि प्रवृत्तानि रक्षांस्य् औत्पातिकानि च ॥
कबन्धान्य् उत्थितानि च ।
मुण्डानि च प्रवृत्तानि @
रक्षांसि च पिशाचाश् च दृश्यन्ते ऽत्र सहस्रशः ।
अर्तानां कूजमानानां पाटितानां च काष्ठवत् ।
अन्तो न शक्यते ऽन्वेष्टुं नृनागरथवाजिनाम् ॥
सा पातितनरेन्द्राणां रुधिरार्द्रा रणक्षितिः ।
योषेव चन्दनार्द्राङ्गी भैरवा प्रतिभाति वै ॥
नरकेशास्थिमज्जास्त्रैः शातितानां च दन्तिनाम् ।
रुधिरोदा नदी तत्र च्छादयाम् आस मेदिनीम् ॥
तस्मिन् महाभीषणके नरवाहनसंक्षये ।
शिवानाम् अशिवैः शब्दैर् नादिते घोरदर्शने ॥
आर्तस्तनितसंनादे रुधिराम्बुदसंकुले ।
अन्तकाक्रीडसदृशे नागदेहैः समाकुले ॥
अपास्तैर् बहुभिर् योधैश् तुरगैश् चावदारितैः ।
कङ्कैश् च बलगृध्रैश् च नादितप्रतिनादिते ॥
राक्षसेषु प्रवृत्तेषु पिशाचेषु चरत्सु च ।
जाम्बुके च तथा यूथे राक्षसेषु समन्ततः ॥
निपाते पृथिवीशानां मृत्युसाधारणे रणे ।
कृष्णः शत्रुवधं कर्तुं चचारान्तकदर्शनः ॥
सो ऽन्तकाग्निनिभं चक्रं कालीं चैवायसीं गदाम् ।
शार्ङ्गं चैव महाचापं बाणानि विविधानि च ।
गृह्य सैन्यावनिगतो बभाषे केशवो नृपान् ॥
किं नु युध्यत वै शूरा हस्त्यश्वरथसंयुताः ।
किम् इदं गम्यते शूराः कृतास्त्रा नृपपुंगवाः ।
अहं सपूर्वजः संख्ये पदातिः प्रमुखे स्थितः ॥
अदृष्टदोषेण रणे भवन्तो येन पालिताः ।
स इदानीं जरासंधः किमर्थं नाभिवर्तते ॥
तं दृष्ट्वा रोषताम्राक्षो हली मुसलम् आददे ।
बभाषे स तु ताम्राक्षं उक्षाणम् इव सेवनी ।
एह्य् एहि राम युध्यस्व मया सार्धम् अरिंदम ॥

मूल पाठ: Harivaṃśa, Appendix I · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc