हरिवंश · भाग 101120
द्वेषी चैवाभिमानी च कुतो जीवति मे सुतः ।
जीवितं नात्र पश्यामि मम पुत्रस्य केशवात् ॥
कन्याहेतोः सुतं ज्येष्ठं पितॄणां नन्दिवर्धनम् ।
कारयिष्ये कथं युद्धं पुत्रेण सह केशवम् ॥
न च नारायणं देवं वरम् इच्छति रुक्मिणः ।
न च नारायणाद् देवो वरदृष्टस् तु रुक्मिणः ।
मूढभावमदोन्मत्तः संग्रामेष्व् अनिवर्तकः ।
नियतं भस्मसाद्याति तूलराशिर् यथानलात् ॥
करवीरेश्वरः शूरः सृगालश् चित्रयोधिना ।
क्षणेन भस्मसान्नीतः केशवेन बलीयसा ॥
वृन्दावने वसञ् श्रीमान् केशवो बलिनां वरः ।
उद्धृत्यैकेन हस्तेन सप्ताहं धृतवान् गिरिम् ।
दुष्करं कर्म संस्मृत्य मनः सीदति मे भृशम् ॥
नगेन्द्रं सहसागम्य दैवतैः सह वृत्रहा ।
अभिषिच्याब्रवीत् कृष्णम् उपेन्द्रेति शचीपतिः ॥
यथा वै दमितो नागः कालियो यमुनाह्रदे ।
विषाग्निज्वलितो घोरः कालान्तकसमप्रभः ॥
केशी चैव महावीर्यो दानवो हयविग्रहः ।
निहतो वासुदेवेन देवैर् अपि दुरासदः ॥
सांदीपनिसुतश् चैव चिरनष्टो हि सागरे ।
दैत्यं पञ्चजनं हत्वा आनीतो यममन्दिरात् ॥
गोमन्तो सुमहद् युद्धं बहुभिश् चैव ताव् उभौ ।
कृत्वा वित्रासजननं गजाश्वरथसंकुलम् ॥
गजेन गजवृन्दानि रथेन रथयोधिनः ।
सादिनश् चाश्वयोधानां चरणेन पदातिनः ।
जघ्रतुस् तौ महावीर्यौ वसुदेवसुताव् उभौ ॥
न देवासुरगन्धर्वा न यक्षोरगराक्षसाः ।
न नागा न च दैत्येन्द्रा न पिशाचा न गुह्यकाः ॥
कृतवन्तस् तथा घोरं गजाश्वरथसंक्षयम् ।
तम् अनुस्मृत्य संग्रामं भृशं सीदति मे मनः ॥
कृत्वा गोवर्धनं वेश्म रक्षिता गा नृभिः सह ।
वातवृष्टिसमाक्रान्तास् तेन सीदति मे मनः ॥
न मया श्रुतपूर्वो वा दृष्टपूर्वः कुतो ऽपि वा ।
तादृशो भुवि मर्त्ये ऽस्मिन् वासुदेवात् सुरोत्तमात् ॥
सम्यग् आह महाबाहुर् दन्तवक्त्रो महीपतिः ।
सान्त्वयित्वा महावीर्यं संविधास्याम यत्क्षमम् ॥
इति संचिन्त्य मनसा बलाबलविनिश्चयम् ।
गमनाय मतिं चक्रे प्रसादयितुम् अच्युतम् ॥
चिन्त्यमानो नरेन्द्रैस् तु बहुभिर् बलशालिभिः ।
सूतमागधबन्दीभिर् बोधितः स्तुतिमङ्गलैः ॥
प्रभातायां रजन्यां तु कृतपूर्वाह्निकक्रियाः ।
उपविष्टा नृपाः सर्वे स्वेषु विश्रामवेश्मसु ॥
ये विशिष्टाश् च राजानो विदर्भायां नराधिपैः ।
तैर् आगम्य स्वभूपेषु रहो गत्वा निवेदितम् ॥
श्रुत्वा कृष्णाभिषेकं तु केचिद् धृष्टा नराधिपाः ।
केचिद् दीनतरा भीता उदासीनास् तथापरे ॥
त्रिधा प्रभिन्ना सा सेना नरनागाश्ववाहिनी ।
महार्णव इव क्षुब्धा अभिषेकेण चालिता ॥
नृपाणां भेदम् आलोक्य भीष्मको राजसत्तमः ।
व्यतिक्रमम् अचिन्त्यं च कृतं नृपतिना स्वयम् ॥
विचिन्त्य मनसा राजन् दह्यमानेन चेतसा ।
जगाम नरदेवानां समाजे प्रतिबोधितुम् ॥
एतस्मिन्न् अन्तरे दूताः संप्राप्ताः कैशिकान्तिकात् ।
लेखम् उद्धृत्य शिरसा विविशुस् ते नृपार्णवम् ॥
हत्वा कंसं महावीर्यं देवैर् अपि दुरासदम् ।
नाभिषिक्तः स्वयं राज्ये नोपविष्टो नृपासने ॥
कन्यार्थेनागतः कृष्णस् तत्रापि न कृतो ऽतिथिः ।
अमानम् अतुलं प्राप्य क्षान्तवान् केन हेतुना ॥
विनतायाः सुतश् चैव महाबलपराक्रमः ।
स चापि क्षमया युक्तः कारणं किम् अपेक्षितम् ।
एतद् आख्याहि भगवन् परं कौतूहलं हि मे ॥
विदर्भनगरीं प्राप्ते वैनतेये सहाच्युते ।
मनसा चिन्तयाम् आस वासुदेवस्य कैशिकः ॥
दृष्ट्वाश्चर्यं हि नः सर्वान् ध्रुवं पापक्षयो भवेत् ।
राजन्यान् प्रवदाम्य् अहम् ।
वसुदेवसुते दृष्टे @
विशुद्धभावः कृष्णस्य आवयोर् दृष्ट तत्त्वतः ॥
अतः पात्रतरः को ऽन्यस् त्रिषु लोकेषु विद्यते ।
कृष्णात् कमलपत्राक्षाद् देवदेवाज् जनार्दनात् ॥
तस्यावां किं प्रदास्याव आतिथ्यकरणे नृप ।
पात्रम् आसाद्य वै राजन् यथा धर्मो न लुप्यते ॥
एवम् अन्योन्यं संचिन्त्य भ्रातरौ क्रथकैशिकौ ।
स्वं राज्यं दातुकामौ तौ जग्मतुः केशवान्तिकम् ॥
देवम् आसाद्य तौ वीरौ विदर्भनगराधिपौ ।
ऊचतुस् तौ महात्मानौ प्रणम्य शिरसा हरिम् ॥
अद्यावां सफलं जन्म अद्यावां सफलं यशः ।
अद्यावां पितरस् तृप्ता देवे त्वयि गृहागते ॥
चामरं व्यजनं छत्रं ध्वजं सिंहासनं बलम् ।
स्फीतकोशां पुरीं चैव गजाश्वरथसंयुताम् ॥
उपेन्द्रस् त्वं महाबाहो देवेन्द्रेणाभिषिक्तवान् ।
आवाम् इह हि राज्ये त्वाम् अभिषिञ्चाव वै प्रभो ॥
आवयोर् यत् कृतं कार्यं बहुभिः पार्थिवैर् अपि ।
शक्यते नान्यथा कर्तुं जरासंधेन वा स्वयम् ॥
शत्रुस् ते मागधो राजा जरासंधो महाद्युतिः ।
कथां ते ब्रुवते नित्यं नृपाणाम् अभयप्रदः ॥
सिंहासनम् अनध्यास्य पुरं चास्य न विद्यते ।
कथं राजसमाजे ऽस्मिन् नासते देवकीसुतः ॥
कृष्णो ऽपि सुमहावीर्यो ह्य् अभिमानी महाद्युतिः ।
न चागमिष्यते चास्मिन् कन्यार्थे च स्वयंवरे ॥
पार्थिवेषूपविष्टेषु स्वेषु सिंहासनेषु वै ।
कथम् आस्यति नीचेषु आसनेषु महाद्युतिः ॥
इति संचोद्यमानस् तु श्रुत्वासौ भीष्मको नृपः ।
सर्वं तद् वासुदेवाग्रे जरासंधचिकीर्षितम् ।
निवेदयाम् आस तदा तस्याभिलषितं त्व् इदम् ॥
आवयोः सह संमन्त्र्य विग्रहोपशमार्थिना ॥
तव विश्रामहेतोर् हि कारितं च गृहोत्तमम् ।
देवानाम् आदिदेवो ऽसि सर्वलोकनमस्कृतः ॥
मानुषे मर्त्यलोके ऽस्मिन् राजेन्द्रत्वं समाचर ।
समाजे मनुजेन्द्राणां मा भूद् आसनसंकटम् ॥
विदर्भनगरे चेदं राजेन्द्रत्वं समाचर ।
आस्यताम् आसने शुभ्रे श्वः प्रभाते महाद्युते ॥
अधिवास्यात्मनात्मानं विधिदृष्टेन कर्मणा ।
यथागमिष्यन्ति नृपाः करिष्ये देवशासनात् ॥
एवम् उक्त्वा सुरश्रेष्ठं प्रणिपत्य कृताञ्जली ।
प्रेषयाम् आस तौ वीरौ रङ्गमध्ये नृपैर् वृते ॥
देवदूतस्य वचनं यथोक्तं वज्रपाणिना ।
लिखित्वा सुमहातेजाः कैशिकः शापजाद् भयात् ॥
विदितं वो नृपाः सर्वे वैनतेयसहाच्युतः ।
आगतो ऽतिथिरूपेण विदर्भनगरीं हरिः ॥
प्राप्तम् आलोक्य पात्रोऽ; यम् इति संचिन्त्य भूपतिः ।
प्रददौ वासुदेवाय स्वं राज्यं धर्महेतुना ॥
इदम् आसनम् आस्स्वेति भ्रात्रा मे सहितो ऽनघाः ।
वाग् उवाचाशरीरेण केनापि व्योमचारिणा ॥
न युक्तम् आसनं दातुं त्वयासीनं नराधिप ।
इदम् अस्यासनं दिव्यं सर्वरत्नविभूषितम् ॥
जाम्बूनदमयं दिव्यं रचितं विश्वकर्मणा ।
प्रेषितं देवराजेन सिंहलक्षणलक्षितम् ॥
अत्रोपविष्टं देवेशं चराचरनमस्कृतम् ।
अभिषिञ्चत राजेन्द्रं बहुभिः पार्थिवैः सह ॥
आगताः कुण्डिनगरे कन्याहेतोर् नराभिपाः ।
नागमिष्यति यः कश्चित् सो ऽस्य वध्यो भविष्यति ॥
इमे चैवाष्टकलशा निधीनाम् अंशसंभवाः ।
अक्षया राजराजस्य धनेशस्य महात्मनः ॥
दिव्याः काञ्चनरत्नाढ्या दिव्याभरणयोनयः ।
राजेन्द्रस्याभिषेकार्थम् आगच्छन्ति नृपैर् वृताः ॥
एष शक्रस्य संदेशः कथितो वो नराधिपाः ।
लेखेनाहूय तान् सर्वान् अभिषिञ्चन्तु केशवम् ॥
इति संचोद्य स्वस्थो ऽसौ देवदूतो गतो दिवम् ।
दत्त्वासनं च कृष्णाय बालार्कसदृशप्रभम् ॥
तेनाहं चोदयिष्यामि भवन्तो ये समागताः ।
दुर्निवार्यतरं घोरं शक्रेण स्वयम् ईरितम् ॥
युष्माभिर् दर्शने युक्तम् अद्भुतं भुवि दुर्लभम् ।
कलशैर् अभिषिच्यन्तं स्वयम् एव नभस्तलात् ॥
दृष्ट्वाश्चर्यं हि नः सर्वान् ध्रुवं पापक्षयो भवेत् ।
स्नापनार्थं च कृष्णाय देवदेवाय विष्णवे ॥
आगच्छध्वां नृपश्रेष्टा न भयं कर्तुम् अर्हथ ।
आवयोः कृतसंधानो युष्मदर्थे जनार्दनः ॥
सर्वेषां मनुजेन्द्राणाम् अभयं कुरुते हरिः ।
विशुद्धभावः कृष्णस्य आवयोर् दृष्ट तत्त्वतः ॥
मागधस्य विशेषेण न वैरं हृदि दृश्यते ।
यद् अत्र कारणं कार्यं तद् भवद्भिर् विचिन्त्यताम् ॥
एवं संचिन्त्यमानास् तु नृपाः शापभयार्दिताः ।
भूयः शुश्रुवू राजेन्द्र राजानः सर्व एव ते ॥
मेघगम्भीरनादेन स्वरेणापूरयन् नभः ।
वाग् उवाचाशरीरेण देवराजस्य शासनात् ॥
त्रैलोक्याधिपतिः शक्रः प्रजापालनहेतुना ।
आज्ञापयति युष्माकं नृपाणां हितकाम्यया ।
न युक्तं वदतान्योन्यं कृष्णेन सह वैरिणा ।
वसध्वं प्रीतिम् उत्पाद्य स्वराष्ट्रेषु नराधिपाः ॥
प्रणतार्तिहरः कृष्णः प्रतिसेनान्तको ऽनलः ।
अनेन सह संप्रीत्या मोदध्वं विगतज्वराः ॥
मानुषाणां नृपा देवा नृपाणां देवताः सुराः ।
सुराणां दैवतं शक्रः शक्रस्यापि जनार्दनः ॥
तस्यापि देवः स शिवः शिवस्यापि जनार्दनः ।
एष विष्णुः प्रभुर् देवो देवानाम् अपि दैवतम् ।
जातो ऽयं मानुषे लोके नररूपेण केशवः ॥
अजेयः सर्वलोकेषु देवदानवमानवैः ।
कार्त्तिकेयसहायस्य अपि शूलभृतः स्वयम् ॥
तस्मै देवातिदेवाय केशवाय महात्मने ।
अभिषिच्य सुरैः सार्धं किम् इच्छध्वम् अतः परम् ॥
न चाधिकारो देवानां राजेन्द्रस्याभिषेचने ।
तेनाहं नाभिषिञ्चामि सर्वलोकनमस्कृतम् ॥
नृपाणाम् अधिकारो ऽयं राजेन्द्रस्याभिषेचने ॥
गत्वा यूयं विदर्भायां क्रथकैशिकयोः सह ।
संचिन्त्य विधिदृष्टेन कुरुध्वं नृपसत्तमाः ॥
प्रीतिसंधानकालो ऽयम् इति संचिन्त्य वासवः ।
बोधनार्थे विसृष्टो ऽहं युष्माकं मनुजेश्वराः ॥
विदर्भनगरे कृष्णः श्रावितो ऽस्याधिवासनम् ।
राजेन्द्रत्वाभिषेकार्थं राजानौ क्रथकैशिकौ ॥
ताभ्यां सह नृपश्रेष्ठाः कृत्वा सुमहद् उत्सवम् ।
अभिषेकेण सत्कृत्य प्रतिगृह्यास्य दक्षिणाम् ।
आगमिष्यथ संहृष्टाः पुनर् एव स्वयंवरम् ॥
जरासंधः सुनीथश् च रुक्मिणश् च महारथः ।
साल्वः सौभपतिश् चैव चत्वारो राजसत्तमाः ।
रङ्गस्याशून्यहेतोर् हि तिष्ठन्तु इति पार्थिवाः ।
एवम् आज्ञां सुरेशस्य श्रुत्वा चित्राङ्गदेरिताम् ।
गमनाय मतिं चक्रुः सर्व एव नृपोत्तमाः ॥
अनुज्ञाता नरेन्द्रेण जरासंधेन धीमता ।
भिष्मकं पुरतः कृत्वा प्रयाताः स्वबलैर् वृताः ॥
भिष्मकश् च महाबाहुः स्वबलेन समन्वितः ।
जगाम पार्थिवैः सार्धं दह्यमानेन चेतसा ।
यत्र कृष्णो महाबाहुः कैशिकस्य निवेशने ॥
दूराद् एव प्रकाशान्ती पताकाध्वजमालिनी ।
शुभ्रा देवसभा रम्या स्नानहेतोर् इहागता ॥
दिव्यरत्नप्रभाकीर्णा दिव्यध्वजसमाकुला ।
दिव्याम्बरपताकाढ्या दिव्याभरणभूषिता ॥
दिव्यस्रग्दामकलिला दिव्यगन्धाधिवासिता ।
विमानयानैः श्रीमद्भिः समन्तात् परिवारिता ॥
दिव्याप्सरोगणाश् चैव विद्याधरगणास् तथा ।
गन्धर्वा मुनयश् चैव किंनराश् च समन्ततः ।
उपगायन्ति देवेशम् अम्बरान्तरम् आश्रिताः ॥
स्तुवन्ति मुनयः सर्वे सिद्धाश् च परमर्षयः ।
देवदुंदुभयश् चैव स्वयम् एवानदन् दिवि ॥
कर्पूरागरुकस्तूरी+ +कङ्कोलं चन्दनानि च ।
पञ्चयोनिसमुत्थानि गन्धचूर्णान्य् अनेकशः ।
समन्तात् पात्यमानानि आकाशस्थैर् दिवौकसैः ॥
स्वयम् आगम्य राजेन्द्रो देवैः सह शचीपतिः ।
विमानवरम् आरुह्य सप्रकाशः स्थितो ऽम्बरे ॥
अष्टभिर् लोकपालैस् तु स्वदिग्भागेषु संस्थितैः ।
उपगायद्भिर् नृत्यद्भिः स्तुवद्भिश् च समन्ततः ॥
अष्टौ ये लोकपालास् ते स्वासु दिक्षु समास्थिताः ।
उपगायन्ति नृत्यन्ति स्तुवन्ति च समन्ततः ॥
श्रुत्वा सुतुमुलं नादं सर्व एव नराधिपाः ।
विस्मयोत्फुल्लनयना विविशुस् ते सभां शुभाम् ॥
कैशिकश् च महातेजा उपगम्य नराधिपान् ।
प्रवेशयाम् आस बली प्रतिपूज्य यथाविधि ॥
निवेदिते सुरश्रेष्ठः पार्थिवानां समागमे ।
निर्जगाम हरिः श्रीमान् सर्वमङ्गलपूजितः ॥
ततो ऽम्बरस्थास् ते दिव्याः कलशाश् चैलकण्ठिनः ।
सहकारसमायुक्ता ववर्षुर् जलदा इव ॥
दिव्यकाञ्चनरत्नौघैर् दिव्यपुष्पसमन्वितैः ।
गन्धचूर्णविमिश्रैश् च राजेन्द्रस्याभिषेचने ॥
यथोक्तविधिपूर्वेण अभिषिच्य जनार्दनम् ।
दीक्षयित्वा नरेन्द्राणां दिव्यैराभरणैः शुभैः ॥
दिव्याम्बरविचित्रैश् च दिव्यमाल्यानुलेपनैः ।
सत्कृत्य विधिवद् राज्ञाम् उपविष्टो जनार्दनः ॥
शुभे देवसभे रम्ये स्नानहेतोर् इहागते ।
उपास्यमानो यदुभिर् विबभौ च नराधिपैः ॥
वैनतेयश् च बलवान् कामरूपी नराकृतिः ।
दक्षिणं पार्श्वम् आश्रित्य आसनस्थो बभूव ह ॥
क्रथकैशिकौ च तौ वीरौ वामपार्श्वे स्व आसने ।
उपविष्टौ महात्मानौ देवस्यानुमते नृपौ ॥
तथैव वामपार्श्वे तु वृष्ण्यन्धकमहारथाः ।
सात्यकिप्रमुखा वीरा उपविष्टा महाबलाः ॥
भास्करप्रतिमे दिव्ये दिव्यास्तरणसंवृते ।
सुखोपविष्टं श्रीमन्तं देवा इव शचीपतिम् ॥
सचिवैः श्राविताः पूर्वं प्रविष्टास् ते नराधिपाः ।
यथार्हेण च संपूज्य राजानः सर्व एव ते ।
सुखोपविष्टास् ते स्वेषु आसनेषु नराधिपाः ॥
कैशिकस् तु महाप्राज्ञः सर्वशास्त्रार्थवित्तमः ।
पूजयित्वा यथान्यायम् उवाच वदतां वरः ॥
अविज्ञाता नृपाः सर्वे मानुषो ऽयाम् इति प्रभो ।
भवन्तम् उपरुन्धाना देव त्वं क्षन्तुम् अर्हसि ॥
न मे वैरं निवसति एकाहम् अपि कैशिक ।
विशेषेण नरेन्द्राणां क्षत्रधर्मे व्यवस्थिते ॥
योद्धव्यम् इति धर्मेण अधर्मे ऽतिपराङ्मुखे ।
तेषां को हेतुना कोपः कर्तव्यस् त्व् अवनीश्वराः ॥
यद् गतं तद् अतिक्रान्तं ये मृतास् ते दिवं गताः ।
एष धर्मो नृलोके ऽस्मिञ् जायन्ति च म्रियन्ति च ॥
तस्माद् अशोच्यं भवतां मृतानं वै नराधिपाः ।
क्षन्तव्यं भवतास्माकं वीतवैरा भवन्तु वै ॥
एवम् उक्त्वा नरेन्द्रांस् तान् आश्वास्य मधुसूदनः ।
कैशिकस्य मुखं वीक्ष्य विरराम महाद्युतिः ॥
एतस्मिन्न् एव कले तु भीष्मको नयकोविदः ।
पूजयित्वा यथान्यायम् उवाच वदतां वरः ॥
पुत्रो मे बालभावेन भगिनीं दातुम् इच्छति ।
स्वयंवरे नरेन्द्राणां न चाहं दातुमुत्सहे ॥
अतीव बालभावत्वाद् दातुम् इच्छेन् मतिर् मम ।
एका त्व् एकं समालोक्य वरयिष्यति मे मतिः ॥
अतः प्रसादयिष्ये त्वां पुत्रदुर्नयहेतुना ।
प्रसादं कुरु देवेश क्षन्तुम् अर्हसि मे प्रभो ॥
बालभावेन पुत्रेण चालितं नृपमण्डलम् ।
यदा भवति वै प्रौढः कीदृशो ऽविनयो भवेत् ॥
सूर्येन्दुसदृशंल् लोकांस् तपसोपार्जितश्रियः ।
लोके ऽस्मिन् नरदेवानां महाकुलसमुद्भवान् ॥
एकस्यापि नृपस्याग्रे मोहाद्यो वितथं वदेत् ।
न स तिष्ठति लोके ऽस्मिन् निर्दहेद् दण्डवाह्निना ॥
एष धर्मो नरेन्द्राणाम् इति ते विदितं प्रभो ।
लोकधर्मं पुरस्कृत्य पुरा गीतं स्वयंभुवा ॥
कथं तव सुतस् तेषाम् अग्रतो मनुजेश्वर ।
वक्तुम् अर्हति राजेन्द्र वितथं राजसंसदि ॥
तादृशं रङ्गम् अतुलं कारयंस् तनयस् तव ।
कथं त्वया ह्य् अविज्ञात इति मे संशयो महान् ॥
आगतानां नरेन्द्राणाम् अनलार्केन्दुवर्चसाम् ।
यथार्हेण तु संपूज्य आतिथ्यं कृतवान् असि ॥
रथाश्वनरनागानां विमर्दम् अतुलं त्व् इह ।
कथं न ज्ञातवान् राजंस् तव पुत्रस्य चेष्टितम् ॥
विषादो न भवेद् अत्र चतुरङ्गबलागमे ।
कथं न ज्ञायते राजन्न् इति मे बुद्धिसंशयः ॥
ममागमनम् एवेह प्रायेण न हितं तव ।
अतो न कृतम् आतिथ्यम् अपात्राय नराधिप ॥
पात्रेभ्यो दीयतां कन्या माम् अपास्य महाभुज ।
ममागमनदोषेण कथं कन्यां न दास्यसि ॥
कन्याविघ्नं प्रकुर्वाणो नरके परिपच्यते ।
इति मन्वादिभिर् गीतं धर्मविद्भिर् नरोत्तमैः ॥
अतो ऽर्थं न प्रविष्टो ऽहं रङ्गमध्ये विशां पते ।
विदित्वा नकृतातिथ्यं नरदेव तवालयम् ॥
ह्रियाभिभूतो राजेन्द्र प्रार्थितो ऽहं नराधिप ।
विदर्भनगरे राजन् बलविश्रामहेतुना ॥
आवाभ्यां कृतम् आतिथ्यं कैशिकः सुप्रियातिथिः ।
उषितौ च यथा स्वर्गे पुरा गरुडकेशवौ ॥
एवम् एवं ब्रुवाणं तं कृष्णं वाग्वज्रचोदितम् ।
उवाच वदतां श्रेष्टः केशवं कंससूदनम् ।
श्लक्ष्णवाचाम्बुना सिच्य शमिताग्निम् इवाध्वरे ॥
प्रसीद देवलोकेश मर्त्यलोकेश पाहि माम् ।
अज्ञानतमसाविष्टं ज्ञानचक्षुःप्रदो भव ॥
मानुष्ये मांसचक्षुष्ट्वाद् असम्यग्विदिता वयम् ।
न प्रसिध्यन्ति कार्याणि कुर्वताम् अविचारणात् ॥
भवन्तं शरणं प्राप्य देवानाम् अपि दैवतम् ।
सम्यग् भवतु मे दृस्टिः संपत्स्यन्तु च मे क्रियाः ॥
आनिष्पन्नाम् अपि क्रियां नयोपेतां विचक्षणाः ।
फलदां हि प्रकुर्वन्ति महासेनापतिर् यथा ॥
भवन्तं शरणं प्राप्य नातिबाधति मे भयम् ।
यन् मया चिन्तितं कार्यं तद् भवाञ् श्रोतुम् अर्हति ॥
न दातुम् इच्छे कन्यां वै पार्थिवेभ्यः स्वयंवरे ।
प्रसादं कुरु देवेश न कोपं कर्तुम् अर्हसि ॥
पूर्वम् एव हि गोविन्द कथितं नारदेन यत् ।
एषा तवानुजा बाला श्रीर् एषा ह्य् अवतारिणी ॥
कृष्णार्थे जन्मम् आसाद्य पुनर् जाता तु सा स्वयम् ॥
पुरा वै जानकीर् एषा रामेणार्थे ऽवतारिता ।
अधुना रुक्मिणी नाम पुनर्जाता महीतले ॥
पुत्रवात्सल्यदीनासौ कृपणो हतवान् इति ।
क्षन्तुम् अर्हसि देवेश रणे ऽहतपराक्रमः ॥
भवितव्यं भवत्य् एव वेदवक्यं जनार्दन ।
नारदेन यथोक्तं वै वितथं न वदेद् द्विजः ॥
वचनेन किम् उक्तेन त्वया राजन् महामते ।
खकन्यां दास्यसे नेति को ऽत्र नेता तवानघ ।
मा देहीति न चाख्येयं ददस्वेति न मे वचः ।
रुक्मिण्या दिव्यमूर्तित्वात् संबन्धे कारणं क्षमम् ॥
मेरुकूटे पुरा देवैः कृतम् अंशावतारणम् ।
तदा निसृष्टा सा पूर्वं गच्छ त्वं पतिना सह ॥
मानुष्ये कुण्डिनगरे भीष्मकस्याङ्गनोदरे ।
जायेस् त्वं विपुलश्रोणि प्रत्यवेक्षस्व केशवम् ॥
तेनाहं वः प्रवक्ष्यामि राजन् न कृतकं वचः ।
श्रुत्वा स्वयं विनिश्चित्य यद् युक्तं तत् करिष्यसि ॥
रुक्मिणी नाम ते कन्या न सा प्रकृतिमानुषी ।
श्रीर् एषा ब्रह्मवाक्येन जाता केनापि हेतुना ॥
न च सा मनुजेन्द्राणां स्वयंवरविधिक्षमा ।
एका त्व् एकाय दातव्या इति धर्मो व्यवस्थितः ॥
न च तां शक्यसे राजंल् लक्ष्मीं दातुं स्वयंवरे ।
सदृशं वरम् आलोक्य दातुम् अर्हसि धर्मतः ॥
अतो ऽर्थं वैनतेयो ऽयं विघ्नकारणहेतुना ।
आगतः कुण्डिनगरे देवराजेन चोदितः ॥
अहं चैवागतो राज्ञां द्रष्टुकामो महोत्सवम् ।
तां च कन्यां वरारोहां पद्मेन रहितां श्रियम् ॥
क्षन्तव्यम् इति यत् प्रोक्तं त्वया राजन् ममेप्सया ।
युक्तपूर्वम् अहं मन्ये कलुषाय न पार्थिव ॥
पूर्वम् एव मया क्षान्तं येनास्मि विषये तव ॥
आगतः सौम्यरूपेण तेनैव क्षान्तवान् प्रभो ॥
क्षान्तेषु गुणबाहुल्यं दोषापहरणं क्षमा ।
कथम् अस्मद्विधे राजन् कलुषो वसते हृदि ॥
कुलजे सत्त्वसंपन्ने धर्मज्ञो सत्यवादिनि ।
भवादृशे कथं राजन् कलुषो हृदि वर्तते ॥
पालयस्व पुरीं सम्यक् कलुषो यदि वर्तते ।
क्षान्तो ऽहम् इति मन्तव्यं येन सेनासहागतः ।
न चाहं सेनया सार्धं यास्यामि रिपुवाहिनीम् ॥
अक्षान्तश् चारिसेनायां यास्यामि द्विजवाहनः ।
स्थितः सन्न् अर्कसंकाशान्य् आयुधानि करे वहन् ॥
मान्यो ऽस्माकं भवान् राजन् वयसा च पितुः समः ।
पालयस्व पुरीं सम्यक् पुत्रेषु पितृवद् वस ॥
कलुषो नाम राजेन्द्र वसेत् कापुरुषेषु वै ।
शूरेषु शुद्धभावेषु कलुषो वसते कथम् ॥
जानीध्वम् एषा मे वृत्तिः पुत्रेषु पितृवद् धि सः ।
आवयोर् अपि राजानौ विदर्भनगराधिपौ ॥
आतिथ्यकरणे ऽस्माकं स्वं राज्यं ददतुः शुभौ ।
तेन दानफलेनाभ्यां दश पूर्वे दिवं गताः ॥
भविष्याश् चैव राजेन्द्र पुत्रपौत्रा दशावराः ।
ते ऽपि तत्रैव यास्यन्ति देवलोकं नराधिपाः ॥
अनयोः सुचिरं कालं भुक्त्वा राज्यम् अकण्टकम् ।
यदाभिलाषो भोक्षस्य सुखं यास्यन्ति निर्वृतिम् ॥
नरेन्द्राश् च महाभागा यो ऽभिषेचितुम् आगताः ॥
कालेन ते ऽपि यास्यन्तो देवलोकं त्रिविष्टपम् ॥
स्वस्ति वो ऽस्तु गामिष्यामि वैनतेयसहायवान् ।
नगरीं मथुरां रम्यां भोजराजेन पालिताम् ॥
एवम् उक्त्वा तु राजानं भीष्मकं यदुपुंगवः ।
राज्ञां चैव उपामन्त्र्य वैदर्भाभ्यां विशेषतः ।
सभां निष्क्रम्य देवेशो जगाम रथम् अन्तिकम् ॥
ततः स दृष्ट्वा राजर्षिर् भीष्मकः किल केशवम् ।
ते तु सर्वे महीपाला विषण्णवदनाभवन् ॥
आद्यं स्वायंभुवं रूपं सुरासुरनमस्कृतम् ।
सहस्रपात् सहस्राक्षं सहस्रभुजविग्रहम् ॥
सहस्रशिरसं देवं सहस्रमुकुटोज्ज्वलम् ।
दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् ॥
दिव्याभरणसंयुक्तं दिव्यानेकोद्यतायुधम् ।
कृष्णं रक्तारविन्दाक्षं चन्द्रसूर्याग्निलोचनम् ॥
कौस्तुभाभरणग्रीवं वनमालविभूषितम् ।
दृष्ट्वा स राजराजेन्द्रः प्रणिपत्य कृताञ्जलिः ।
वाङ्मनःकायसंयुक्तः स्तोतुम् आरब्धवांस् तदा ॥
देवदेव नमस् तुभ्यम् अनादिनिधनाय वै ।
शश्वतायादिदेवाय नारायण परायण ॥
स्वयंभुवाय विश्वाय स्थाणवे वेधसाय च ।
पद्मनाभाय जटिने दण्डिने पिङ्गलाय च ॥
हंसप्रभाय हंसाय चत्ररूपाय वै नमः ।
वैकुण्ठाय नमस् तस्मै अजाय परमात्मने ॥
सदसद्भावयुक्ताय पुराणपुरुषाय च ।
पुरुषोत्तमाय युक्ताय निर्गुणाय नमो ऽस्तु ते ॥
वरदो भव मे नित्यं त्वद्भक्ताय सुरोत्तम ।
लोकनाथो ऽसि नाथस् त्वं विष्णुस् त्वं विदितात्मनाम् ॥
एवं स्तुत्वा महादेवं नृपाणाम् अग्रतो नृपः ।
महार्हमणिमुक्ताभिर् वज्रवैदूर्यहासिनम् ॥
शातकुम्भस्य निचयं कृष्णाय प्रददौ नृपः ।
पुनश् चक्रे नमस्कारं वैनतेये महाबले ॥
नमस् तस्मै खगेन्द्राय मनोमारुतरंहसे ।
कामरूपाय दिव्याय काश्यपाय च वै नमः ॥
इति संक्षेपतः स्तुत्वा सत्कृत्य वरभूषणैः ।
ततो विसर्जयाम् आस कृष्णं कमललोचनम् ।
अनुजग्मुर् नृपाश् चैव प्रस्थितं वासवानुजम् ॥
प्रतिगृह्य च सत्कारं नृपान् आमन्त्र्य वीर्यवान् ।
जगाम मथुरां कृष्णो द्योतयानो दिशो दश ।
वैनतेयं पुरस्कृत्य सौम्यरूपं खगोत्तमम् ॥
महता रथवृन्देन परिवार्य समन्ततः ।
भेरीपटहनादेन शङ्खदुंदुभिनिस्वनैः ॥
बृंहितेन च नागानां हयानां हेषितेन च ।
सिंहनादेन शूराणां रथनेमिस्वनेन च ॥
तुमुलः सुमहान् आसीन् महामेघरवोपमः ।
गते कृष्णो महावीर्ये आदाय परम् आसनम् ॥
सभाम् आदाय देवाश् च प्रययुस् त्रिदशालयम् ॥
महता चतुरङ्गेण बलेन परिवारिताः ।
क्रोशमात्रम् अनुव्रज्य अनुज्ञाते जनार्दने ।
प्रययुस् ते नृपाः सर्वे पुनर् एव स्वयंवरम् ॥
ततः प्रयाते वसुदेवपुत्रे @
नराधिपा भूषणभूषिताङ्गाः ।
परस्परं जग्मु सुरेन्द्रकल्पाः @
प्रबोधनार्थ गमनोत्सुकास् ते ॥
सभागतान् सोमरविप्रकाशान् @
सुखोपविष्टान् रुचिरासनेषु ।
समीक्ष्य राजा सुनयार्थवादी @
जगाद वाक्यं नरराजसिंहः ॥
स्वयंवरकृतो दोषो विदितो वो नराधिपाः ।
क्षन्तव्यो मम वृद्धस्य दुर्णयस्य फलोदयः ॥
एवम् आभाष्य तान् सर्वान् सत्कृत्य च यथाविधि ।
ततो विसर्जयाम् आस नृपांस् तान् मध्यदेशजान् ।
पूर्वपश्चिमजांश् चैव उत्तरापथिकान् अपि ॥
ते ऽपि सर्वे महेष्वासाः प्रहृष्टमनसो नृपाः ।
यथार्हेण च संपूज्य जग्मुस् ते नरपुंगवाः ॥
जरासंधः सुनीथश् च दन्तवक्त्रश् च वीर्यवान् ।
साल्वः सौभपतिश् चैव महाकूर्मश् च पार्थिवः ॥
क्रथकैशिकमुख्याश् च नृपाः प्रवरवंशजाः ।
वेणुदारिश् च राजर्षिः कश्मीराधिपतिस् तथा ॥
एते चान्ये च बहवो दक्षिणापथिका नृपाः ।
श्रोतुकामा रहो वाक्यं स्थिता वै भीष्मकान्तिके ॥
तान् वै समीक्ष्य राजेन्द्रः स राजा भीष्मको बलो ।
स्नेहपूर्णेन मनसा स्थितांस् तान् अवनीश्वरान् ॥
त्रिवर्गसहितं श्लक्ष्णं षड्गुणालंकृतं शुभम् ।
उवाच नयसंपन्नं स्निग्धगम्भीरया गिरा ॥
भवताम् अवनीशानां समालोक्य नयान्वितम् ।
वचनं व्याहृतं श्रुत्वा कृतं मे कार्यम् ईदृशम् ।
सद्भिर् भवद्भिः क्षन्तव्यं वयं नित्यापराधिनः ॥
एवम् उक्त्वा तु राजा स भीष्मको नयकोविदः ।
उवाच सुतम् उद्दिश्य वचनं राजसंसदि ।
पुत्रस्य चेष्टाम् आलोक्य त्रासाकुलितलोचनः ॥
मन्ये बालान् इमांल् लोकान् स एष पुरुषः प्रभुः ।
कीर्तिः कीर्तिमतां श्रेष्टो यशश् च यशभाग् बली ।
स्थापितं भुवि मर्त्ये ऽस्मिन् स्वबाहुबलमूर्जितम् ॥
धन्या खलु महाभागा देवकी योषितां वरा ।
पुत्रं त्रिभुवनश्रेष्ठं धृत्वा गर्भेण केशवम् ॥
कृष्णं पद्मपलाशाक्षं श्रीपुञ्जम् अमरार्चितम् ।
नेत्राभ्यां स्नेहपूर्णाभ्याम् ईक्षते मुखपङ्कजम् ॥
एवं लालप्यमानं तं राजानं राजसंसदि ।
उवाच श्लक्ष्णया वाचा साल्वराजो महाद्युतिः ॥
अलं खेदेन राजेन्द्र सुताय रिपुमर्दिने ।
क्षत्रियस्य रणे राजन् ध्रुवं जयपराजयौ ॥
नियता गतिर् मर्त्यानाम् एष धर्मः सनातनः ।
बलकेशवयोर् अन्यस् तृतीयः कः पुमान् इह ॥
रणे योधयितुं शक्तस् तव पुत्रं महाबलम् ।
रथातिरथवृन्दानाम् एक एव रणाजिरे ।
रिपुं वारयितुं शक्तो धनुर् गृह्य महाभुजः ॥
भार्गवास्त्रं महारौद्रं देवैर् अपि दुरासदम् ।
सृजतो बाहुवीर्येण कः पुमान् प्रेसहिष्यति ॥
अयं तु पुरुषः कृष्णो ह्य् अनादिनिधनो ऽव्ययः ।
तं विजेता न लोके ऽस्मिन्न् अपि शूलधरः स्वयम् ॥
तव पुत्रो महाप्राज्ञः सर्वशास्त्रार्थतत्त्ववित् ।
विदित्वा देवम् ईशानं न योधयति केशवम् ॥
अस्ति तस्य रणे जेता यवनाधिपतिर् नृपः ।
स कालयवनो नमा अवध्यः केशवस्य ह ॥
तप्त्वा सुदारुणं घोरं तपः परमदुश्चरम् ।
रुद्रम् आराधयाम् आस द्वादशाब्दान्य् अयोशनः ॥
द्वादशाब्दानि मुनिना पुर्वं तेन प्रसादितः ।
पुत्रकामेन मुनिना तोष्य रुद्रात् सुतो वृतः ।
माथुराणाम् अवध्यो ऽयं भवेद् इति च शंकरात् ।
एवम् अस्त्व् इति रुद्रो ऽपि प्रददौ मुनये सुतम् ॥
एवं गर्गस्य तनयः श्रीमान् रुद्रवरोद् भवः ।
माथुराणाम् अवध्यो ऽसौ मथुरायां विशेषतः ॥
कृष्णो ऽपि बलवान् एष माथुरे जातवान् अयम् ।
स जेष्यति रणे कृष्णं मथुरायां समागतः ॥
मन्यध्वं यदि वो युक्तां नृपा वाचं मयेरिताम् ।
तत्र दूतं विसृजध्वं यवनेन्द्रपुरं प्रति ॥
श्रुत्वा सौभपतेर् वाक्यं सर्वे ते नृपसत्तमाः ।
कुर्म इत्य् अब्रुवन् हृष्टाः साल्वराजं महाबलम् ॥
स तेषां वचनं श्रुत्वा जरासंधो महीपतिः ।
बभूव विमना राजन् ब्रह्मणो वचनं स्मरन् ॥
मां समाश्रित्य पूर्वे ऽस्मिन् नृपा नृपभयार्दिताः ।
प्राप्नुवन्ति हृतं राज्यं सभृत्यबलवाहनम् ॥
इह मां नोच्यते भूपैः परसंश्रयहेतुना ।
कन्य् एव पतिविद्वेषाद् अन्यं रतिपरायणा ॥
अहो सुबलवद् दैवम् अशक्यं विनिवर्तितुम् ।
यद् अहं कृष्णहेतोर् हि संश्रयामि बलाधिकम् ॥
नूनं योगविहीनो ऽहं कारयिष्ये पराश्रयम् ।
श्रेयो हि मरणं मह्यं न चान्यं संश्रये नृपाः ॥
कृष्णो वा बलदेवो वा यो वा सो वा नरो ऽपरः ।
हन्ताहं प्रहियोत्स्यामि यथा ब्रह्मप्रचोदितः ॥
एषा मे निश्चिता बुद्धिर् एतत् सुपुरुषव्रतम् ।
अतो ऽन्यथा न शक्तो ऽहं कर्तुं परसमाश्रयम् ॥
भवतां साधुवृत्तानाम् आबाधं न करोति सः ।
तेन दूतं प्रदास्यामि नृपाणां रक्षणाय वै ॥
व्योममार्गेण यातव्यं यथा कृष्णो न बाधते ।
गच्छन्तम् अनुचिन्त्यैवं प्रेषयध्वं नृपोत्तमाः ।
अयं सौभपतिः श्रीमान् अनलार्केन्दुविक्रमः ।
रथेनादित्यवर्णेन प्रयातु तत्पुरं बली ॥
यवनेन्द्रो यथाभ्येति नरेन्द्राणां समागमम् ।
वचनं च यथास्माभिर् दौत्येन कृष्णविग्रहे ॥
पुनर् एवाब्रवीद् राजा सौभस्य पतिमूर्जितम् ।
गच्छ सर्वनरेन्द्राणां साहाय्यं कुरु मानद ॥
यवनेन्द्रो यथाभ्येति यथा कृष्णं विजेष्यति ।
यथा वयं च तुष्यामस् तथा नीतिर् विधीयताम् ॥
एवं संदिश्य सर्वांस् तान् भीष्मकं पुज्य धर्मतः ।
प्रययौ स्वपुरं राजा स्वेन सैन्येन संवृतः ॥
साल्वो ऽपि नृपतिश्रेष्ठस् तांश् च संपूज्य वीर्यवान् ।
जगामाकाशमार्गेण रथेनानिलगामिना ॥
ते ऽपि सर्वे महीपाला दक्षिणापथवासिनः ।
अनुव्रज्य जरासंधं गताः स्वनगरेषु वै ॥
भीष्मकः सह पुत्रेण ताव् उभौ चिन्त्य दुर्णयम् ।
गृहे विविशतुर् दीनौ कृष्णम् एवानुचिन्तयन् ॥
रुक्मिणी विदिता साध्वी स्वयंवरनिवर्तनम् ।
कृष्णस्यागमने हेतोर् नृपाणां दोषदर्शनम् ॥
गत्वा तु सा सखीमध्ये उवाच व्रीडितानना ।
न चान्येषां नरेन्द्राणां पत्नी भवितुम् उत्सहे ।
कृष्णात् कमलपत्राक्षात् सत्यम् एतद् वचो मम ॥
यवनानां बलोदग्रः स कालयवनो नृपः ।
बभूव राजधर्मेण रक्षिता पुरवासिनाम् ॥
त्रिवर्गविदितप्रज्ञः षड्गुणनुपजीवकः ।
सप्तव्यसनसंमूढो गुनेष्व् अभिरतः सदा ॥
श्रुतिमान् धर्मशीलश् च सत्यवादी जितेन्द्रियः ।
सांग्रामिकविधिज्ञश् च दुर्गलाभानुसारणः ।
शूरो ऽप्रतिबलश् चैव मन्त्रिप्रवरसेवकः ॥
सुखासीनः सभां रम्यां सचिवैः परिवारितः ॥
उपास्यमानो यवनैर् आत्मविद्भिर् विपश्चितैः ।
विविधाश् च कथा दिव्याः कथ्यमानैः परस्परम् ॥
एतस्मिन्न् एव कालो तु दिव्यगन्धवहो ऽनिलः ।
प्रववौ मदनाबोधस् तस्य वै सुखशीतलः ॥
कस्माद् इत्य् एवमनसः सभायां ये समाहताः ।
उत्फुल्लनयनाः सर्वे राजा चैवावलोक्य सः ॥
अपश्यत रथं दिव्यम् आयान्तं भास्करोपमम् ।
शातकुम्भमयैर् दिव्यैर् अथाङ्गैर् उपशोभितम् ॥
दिव्यरत्नप्रभाकीर्णं दिव्यध्वजपताकीनम् ।
उह्यन्तं दिव्यतुरगैर् मनोमारुतरंहसैः ।
चन्द्रभास्करबिम्बानि कृत्वा जाम्बूनदं शुभम् ।
रचितं वै विश्वकृता वैयाघ्रवरभूषितम् ॥
रिपूणां त्रासजननं मित्राणां हर्षवर्धनम् ।
दक्षिणादिक्पथायान्तं रथं पररथारुजम् ॥
तत्रोपविष्टं श्रीमन्तं सौभस्य पतिम् ऊर् जितम् ।
दृष्ट्वा परमसंहृष्टश् चार्घ्यपाद्येति चासकृत् ॥
उवाच यवनेन्द्रो वै मित्रं प्रवदतां वरः ।
तत्रोत्थाय महाबाहुः स्वयम् एव नृपासनात् ।
प्रत्युद्नम्यार्घम् आदाय रथावतरणे स्थितः ॥
साल्वो ऽपि सुमहातेजा दृष्ट्वा राजानम् आगतम् ।
मुदा परमया युक्तः शक्रप्रतिमतेजसम् ॥
अवतीर्य सुविस्रब्ध एक एव रथोत्तमात् ।
विवेश परमप्रीतो मित्रदर्शनलालसः ॥
दृष्ट्वार्घम् उद्यातं राज्ञा स साल्वो राजसत्तमः ।
उवाच श्लक्ष्णया वाचा नार्घार्हो ऽस्मि महाद्युते ॥
दूतो ऽहं मनुजेन्द्राणां सकाशाद्भवतोऽ; न्तिकम् ।
प्रेषितो बहुभिः सार्धं जरासंघेन धीमता ।
तेन मन्ये महाराज नार्घार्होऽ; स्मीति राजसु ॥
जानाम्य् अहं महाबाहो दौत्येन त्वाम् इहागतम् ।
संमिते नरदेवानां प्रेषितं मागधेन वै ॥
तेन त्वाम् अर्चये राजन् विशेषेण महामते ।
अर्घपाद्यादिसत्कारैर् आसनेन यथाविधि ॥
भवत्य् अभ्यर्चिते राज्ञां सर्वेषाम् अर्चितं भवेत् ।
मानिते तव राजेन्द्र सर्वेषां मानितं भवेत् ।
आस्यताम् आसने दिव्ये मया सार्धं जनेश्वर ॥
हस्तालिङ्गनकं कृत्वा पृष्ट्वा च कुशलमयम् ।
सुखोपविष्ठौ सहितौ शुभे सिंहासने नृपौ ॥
यद् बाहुबलम् अश्रित्य वयं सर्वे नराधिपाः ।
वसामो विगतोद्वेगा देवा इव शचीपतिम् ।
किम् असाध्यं भवेद् अस्य येनासि प्रेषितो मयि ।
वद सत्यं वचस् तस्य किम् आज्ञापयति प्रभुः ।
करिष्ये वचनं तस्य अपि कर्म सुदुष्करम् ॥
यथा वदति राजेन्द्र मगधाधिपतिस् तव ।
तथाहं संप्रवक्ष्यामि श्रूयतां यवनाधिप ॥
जातो ऽहं जगतां बाधी कृष्णः परमदुर्जयः ।
विदित्वा तस्य दुर्वृत्तम् अहं हन्तुं समुद्यतः ॥
पार्थवैर् बहुभिः सार्धं समग्रबलवाहनैः ।
उपरुद्धा महासेना गोमन्तम् अचलोत्तमम् ॥
चेदिराजस्य वचनं महार्थं श्रुतवान् अहम् ।
पदाताभ्यां विनाशाय हुताशनम् अयोजयम् ॥
ज्वालाशतसहस्राढ्यं युगान्ताग्निसमप्रभम् ।
दृष्ट्वा रामो गिरेः कूटाद् आप्लुतो हेमतालधृक् ॥
विनिष्पत्य महासेनां मध्ये सागरसंनिभाम् ।
आजघान दुराधर्षो नराश्वरथदन्तिनाम् ॥
सर्पन्तम् इव सर्पेन्द्रं विकृष्याकृष्य लाङ्गलम् ।
नरनागाश्ववृन्दानि मुसलेन व्यपोथयत् ॥
गजेन गजम् आस्फाल्य रथेन रथयोधिनम् ।
हयेन च हयारोहं पदातेन पदातिनम् ॥
समरे सुमहातेजा नृपार्कशतसंकुले ।
विचरन् विविधान् मार्गान् निदाघे भास्करो यथा ॥
रामाद् अनन्तरं कृष्णः प्रगृह्यार्कसमप्रभम् ।
चक्रं चक्रभृतां श्रेष्ठः सिंहः क्षुद्रमृगं यथा ॥
चक्रं स च महातेजाः कालीं चैवायसीं गदाम् ।
चक्रं सुदर्शनं चक्री गवां चैव गदाग्रजः ।
प्रविचाल्य महावीर्यः पादवेगेन तं गिरिम् ।
शत्रुसैन्ये पपातोच्चैर् यदुवीरः प्रतापवान् ।
प्रनृत्यन्न् इव शैलो ऽसौ तोयधाराभिषेचितः ।
घुर्णमामो विवेशोर्वीं विनिर्वाप्य हुताशनम् ॥
आदीप्यमानाच् छिखराद् अवप्लुत्य जनार्दनः ।
जघान वाहिनीं राजंश् चक्रव्यग्रेण पाणिना ॥
विक्षिप्य विपुलं चक्रं गदापाताद् अनन्तरम् ।
नरनागाश्ववृन्दानि मुसलेन व्यचूर्णयत् ॥
क्रोधानलसमुद्भूत+ +चक्रलाङ्गलवह्निना ।
निर्दग्धा महती सेना नरेन्द्रार्काभितापिता ॥
नरनागाश्वकलिलं पत्तिध्वजसमाकुलम् ।
रथानीकं पदाताभ्यां क्षणेन विरलीकृतम् ॥
सेनां प्रभग्नाम् आलोक्य चक्रानलभयार्दिताम् ।
महता रथवृन्देन परिवार्य समन्ततः ।
तत्राहं युध्यमानस् तु भ्रातास्य बलवान् बली ।
स्थितो ममाग्रतः शुरो गदापाणिर् हलायुधः ॥
द्वादशाक्षौहिणीर् हत्वा प्रभिन्न इव केसरी ।
हलं सौनन्दम् उद्धृत्य गदया माम् अताडयत् ॥
वज्रपातनिभं वेगं पातयित्वा ममोपरि ।
भूयः प्रहर्तुकामो मां वैशाखेनास्थितो महीम् ॥
वैशाखं स्थानम् आस्थाय गुहः क्रौञ्चं यथा पुरा ।
तथा मां दीर्घनेत्राभ्याम् ईक्षते निर्दहन्न् इव ॥
तादृग्रूपं समालोक्य बलदेवं रणाजिरे ।
जीवितार्थी नृलोके ऽस्मिन् कः पुमान् स्थातुम् अर्हति ॥
दृष्ट्वा महागदां भीमां कालदण्डम् इवोद्धृताम् ।
कालाङ्कुशेन निर्धूतां स्थित एवाग्रतो मम ॥
ततो जलदगम्भीरस् वरेणापुरयन् नभः ।
वाग् उवाचाशरीरेण स्वयं लोकपितामहः ।
प्रहर्तव्यो न राजायम् अवध्यो ऽयं तवानघ ।
कल्पितो ऽस्य वधश् चान्याद् विरमस्व हलायुध ॥
श्रूत्वाहं तेन वाक्येन चिन्ताविष्टो निवर्तितः ।
सर्वप्राणहरं घोरं ब्रह्मणा स्वयम् ईरितम् ॥
तेनाहं वः प्रवक्ष्यामि नृपाणां हितकाम्यया ।
श्रूत्वा त्वम् एव राजेन्द्र कर्तुम् अर्हसि मद्वचः ॥
तपसोग्रेण महता पुत्रार्थी तोष्य शंकरम् ।
प्राप्तवान् देवदेवात् त्वाम् अवध्यं माथुरैर् जनैः ॥
महामुनिश् चायसचूर्णम् अश्नन्न् @
उपस्थितो द्वादशवार्षिकं व्रतम् ।
सुरासुरैः संस्तुतपादपङ्कजं @
स लब्ध्वान् ईप्सितकामसंपदम् ॥
तपोबलाद् गार्ग्यमुनेर् महात्मनो @
वरप्रभावाच्छकलेन्दुमौलिनः ।
रणे समासाद्य जनार्दनो हिमं @
विलीयते भास्कररश्मिना यथा ॥
यतस्व राज्ञां वचनप्रचोदितो @
व्रजस्व यात्रां विजयाय केशवम् ।
प्रविश्य राष्ट्रं मथुरां वशे नय @
निहत्य कृष्णं प्रथयस्व वै यशः ॥
माथुरो वासुदेवो ऽयं बलदेवश् च बान्धवः ।
तौ विजेष्यसि संग्रामे गत्वा तां मथुरां पुरीम् ॥
इत्य् एवं नरपतिभास्करप्रगीतं @
वाक्यं ते कथितम् इदं हितं नृपाणाम् ।
तत् सर्वं सह सचिवैर् विमृश्य बुद्धया @
यद् युक्तं कुरु मनुजेन्द्र आत्मनेष्टम् ॥
एवं कथयमानं तं साल्वराजं नृपाज्ञया ।
उवाच प्ररमप्रीतो यवनाधिपतिर् नृपः ॥
धन्यो ऽस्म्य् अनुगृहीतो ऽस्मि सफलं जीवितं च मे ।
कृष्णनिग्रहहेतोर् यन् नियुक्तो बहुभिर् नृपैः ॥
दुर्जयं त्रिषु लोकेषु सुरासुरगणैर् अपि ।
तस्य निग्रहहेतोर् माम् अवधार्य जयाशिषम् ॥
प्रहृष्टै राजसिंहैस् तैर् अवधार्य जयो मम ।
तेषां वागम्बुवर्षेन विजयो मे भविष्यति ॥
करीष्ये वचनं तेषां नृपसत्तम चोदितम् ।
पराजयो ऽपि राजेन्द्र जयेन सदृशो मम ॥
अद्यैव तिथिनक्षत्रं मुहूर्तकरणं शुभम् ।
यास्यामि मथुरां राजन् विजेतुं केशवं रणे ॥
एवम् आभाष्य राजानं सौभस्य पतिम् ऊर् जितम् ।
सत्कृत्य च यथान्यायं महार्हवरभूषणैः ॥
ब्राह्मणेभ्यो ददौ चित्तं सिद्धादेशाय वै नृपः ।
पुरोहिताय राजेन्द्र प्रददौ बहुशो धनम् ॥
हुत्वाग्निं विधिवद् राजा कृतकौतुकमङ्गलः ।
प्रस्थानं कृतवान् सम्यग् जेतुकामो जनार्दनम् ॥
साल्वो ऽपि भरतश्रेष्ठ कृतार्थो हृष्टमानसः ।
यवनेन्द्रं परिष्वज्य जगाम स्वपुरं नृपः ॥
विदर्भनगरीं याते शक्रतुल्यपराक्रमे ।
किम् अर्थं गरुडो नीतः किं च कर्म चकार सः ॥
न चारुरोह भगवान् वैनतेयं महाबलम् ।
एतं मे संशयं ब्रह्मन् ब्रूहि तत्त्वं महामुने ॥
श्र्णु राजन् सुपर्णेन कृतं कर्म ह्य् अमानुषम् ।
विदर्भनगरीं यातो वैनतेये महाद्युतौ ॥
असंप्राप्ते च नगरीं मथुरां मधुसूदने ।
मनसा चिन्तयाम् आस वैनतेयो महामतिः ॥
यद् उक्तं देवदेवेन नृपाणाम् अग्रतः प्रभो ।
यास्यामि मथुरां रम्यां भोजराजेन पालिताम् ॥
इति तद्वचनस्यान्ते गमिष्येति विचिन्तयन् ।
कृताञ्जलिपुटः श्रीमान् प्रणिपत्याब्रविद् इदम् ॥
देव यास्यामि नगरीं रैवतस्य कुशस्थलीम् ।
रैवतं च गिरिं रम्यं नन्दनप्रतिमं वनम् ।
राक्षसोद्वासितां रम्यां शैलोदधितटाश्रिताम् ।
वृक्षगुल्मलताकीर्णां पुष्परेणुविभूषिताम् ॥
गजेन्द्रभुजगाकीर्णम् ऋक्षवानरसेविताम् ।
वराहमहिषाक्रान्तां मृगयूथैर् अनेकशः ॥
तां समन्तात् समालोक्य वासार्थं ते क्षमाक्षमम् ।
यदि स्याद् भवते रम्या प्रशस्ता नगरीति च ।
कण्टकोद्धरणं कृत्वा आगमिष्ये तवान्तिकम् ॥
एवं विज्ञाप्य देवेशं प्रणिपत्य जनार्दनम् ।
जगाम पतगेन्द्रो वै पश्चिमाभिमुखो बली ।
कृष्णो ऽपि यदुभिः सार्धं विवेश मथुरां पुरीम् ॥
स्वैरेण चोग्रसेनश् च नागराश् चैव सर्वशः ।
प्रत्युद्गम्यागतं कृष्णम् आनर्चुर् जनसंकुलम् ॥
श्रुत्वाभिषिक्तं राजेन्द्रं बहुभिर् वसुधाधिपैः ।
किं चकार महाबाहुर् उग्रसेनो महीपतिः ॥
चारेणैवोग्रसेनश् च नागराश् चैव सर्वशः ।
श्रुत्वाभिषिक्तं राजेन्द्रं बहुभिर् वसुधाधिपैः ।
इन्द्रेण कृतसंधानं दूतं चित्राङ्गदं कृतम् ॥
एकैकं नृपतेर् भागं शतसाहस्रसंमितम् ।
एकैकं शतसाहस्रं संमितं राजमण्डलम् ।
राजेन्द्रेष्वर्बुदं दत्तं मानवेषु च वै दश ॥
नजेन्द्रं चार्घयुक्तं च कृत्वा वै मानुषेषु च ।
ये तत्र समनुप्राप्ता नरेन्द्रास् ते गृहं गताः ।
शङ्को यादवरुपेण प्रददौ हरिचिन्तितम् ॥
एवं निधिपतिः श्रीमान् दैवतैर् अनुमोदितः ।
इति श्रुत्वान्तिकजनाल् लोकप्रावृत्तिकान् नरात् ॥
चकार महतीं पूजां देवतायतनेषु वै ।
वसुदेवस्य भवने तोरणोभयपार् श्वतः ॥
नटानां नृत्यगेयानि वाद्यानि च समन्ततः ।
पताकाध्वजमालाढ्यं कारयाम् आस सर्वतः ॥
कंसराजस्य तु सभां विचित्राम्बरसुप्रभाम् ॥
पताका विविधाकारा दापयाम् आस भोजराट् ॥
तोरणं गोपुरं चैव सुधापङ्कविलेपनम् ।
कारयाम् आस राजेन्द्र राजेन्द्रस्यासनालयम् ॥
नटानां नृत्यगेयानि वाद्यानि च समन्ततः ।
पताकावनमालाढ्याः पुर्णकुम्भास् ततस् ततः ॥
राजमार्गेषु राजेन्द्र चन्दनोदकसेचिते ।
वस्त्रास्तरणकं राजा दापयाम् आस भूतले ॥
धूपपात्रोपगाः पार्श्वे चन्दनागरुगुग्गुलैः ।
गुडसर्जरसाश् चैव दह्यमानाः समन्ततः ॥
वृद्धस्त्रीजनसंघैश् च गायद्भिः स्तुतिमङ्गलम् ।
अलंकृत्वा प्रतीक्षन्ते स्वेषु स्थानेषु योषितः ॥
एवं कृत्वा पुरानन्दम् उग्रसेनो नराधिपः ।
वसुदेवगृहं गत्वा प्रियाख्यानं निवेद्य च ।
रामेण सह संमन्त्र्य निर्गतो रथम् अन्तिकम् ॥
तस्मिन्न् एवान्तरे राजञ् शङ्खध्वनिर् अभून् महान् ॥
पाञ्चजन्यस्य निनदं श्रुत्वा मथुरवासिनः ।
स्त्रियो वृद्धास् च बालाश् च सूतमागधबन्दिनः ॥
ते निर्ययुर् महासेना रामं कृत्वाग्रतो नृप ।
अर्घपाद्यं पुरस्कृत्य उग्रसेनो महीपतिः ॥
दृष्टिपन्थानम् आसाद्य उग्रसेनो महीपतिः ।
अवतीर्य रथाच् छुभ्रात् पादमार्गेण चाग्रतः ।
दृष्ट्वासीनं रथे दिव्ये दिव्यरत्नविभूषिते ॥
अङ्गेष्व् आभरणं चैव दिव्यरत्नप्रभायुतम् ।
वनमालोरसं दिव्यं तपन्तम् इव भास्करम् ॥
चामरव्यजनं छत्रं खगेन्द्रध्वजम् उच्छ्रितम् ।
राजलक्षणसंपन्नाम् आसन्नार्कम् इवोज्ज्वलम् ॥
श्रियाभिभूतं देवेशं दुर्निरीक्ष्यतरं हरिम् ।
दृष्ट्वा स राजा राजेन्द्रं हर्षगद्गदया गिरा ।
बभाषे पुण्डरीकाक्षं रामं बलनिषूदनम् ॥
रथेन न मया गन्तुं युक्तपूर्वं विचिन्त्य वै ।
अवतीर्णो महाभाग गच्छ त्वं स्यन्दनेन च ॥
विष्णुना छद्मरूपेण गत्वेमां मथुरां पुरीम् ।
अत्र प्रकाशितात्मानं देवेन्द्रत्वं नृपार्णवे ।
तम् अहं स्तोतुम् इच्छामि सर्वभावेन केशवम् ॥
प्रत्युवाच महातेजा राजानं कृणपूर्वजः ।
न युक्तं नृपते स्तोतुं व्रजन्तं देवसत्तमम् ।
अस्तोत्रेणैव संतुष्टस् तव राजञ् जनार्दनः ॥
तुष्टस्य स्तुतिभिः किं ते दर्शनेन तव स्तुतिः ॥
राजेन्द्रत्वम् अनुप्राप्य आगतस् तव वेश्मनि ।
तत् त्वं किं स्तुतवान् राजान् दिव्यैः स्तोत्रैर् अमानुषैः ।
एवम् आब्रुवमाणौ तौ संप्राप्तौ केशेवान्तिकम् ॥
अर्घोद्यतभुजं दृष्ट्वा स्थापयित्वा रथोत्तमम् ।
उवाच वदतां श्रेष्ठ उग्रसेनं नराधिपम् ॥
यन् मया चाभिषिक्तस् त्वं मथुरेशो भवत्व् इति ।
न युक्तम् अन्यथा कर्तुं मथुराधिपते स्वयम् ॥
अर्घम् आचमनीयं च पाद्यं चास्मन्निवेदनम् ।
न दातुम् अर्हसे राजन्न् एतन् मे मनसः प्रियम् ॥
तवाभिप्रायं विज्ञाय ब्रवीमि नृपते वचः ।
त्वम् एव माथुरो राजा नान्यथा कर्तुम् अर्हसि ॥
स्थानं भागं च नृपते दास्यामि तव दक्षिणम् ।
यथा नृपाणां सर्वेषां तथा ते स्थापितो ऽग्रतः ॥
शतसाहस्रिको भागो वस्त्राभरणवर्जितः ॥
आरुहस्व रथं शुभ्रं चामीकरविभूषितम् ।
चामरव्यजनं छत्रं ध्वजं च मनुजेश्वर ।
दिव्याभरणसंयुक्तं मुकुटं भास्करप्रभम् ॥
धारयस्व महाभाग पालयस्व पुरीम् इमाम् ।
पुत्रपौत्रैः परिकृतो मथुरां प्रतिपालय ॥
जित्वारिगणसंघानि भोजवंशं विवर्धय ॥
देवदेवाद्यनन्ताय सीरिणे वज्रपाणिना ।
प्रेषितं देवराजेन दिव्याभरणम् अम्बरम् ॥
माथुराणां च सर्वेषां भागा दीनारिका दश ।
सूतमागधबन्दीनाम् एकैकस्य सहस्रिकम् ।
वृद्धस्त्रीजनसंघानां गणिकानां शतं शतम् ॥
नृपेन सह तिष्ठन्ति विकद्रुप्रमुखाश् च ये ।
दशसाहस्रिको भागस् तेषां धात्रा प्रकल्पितः ॥
दशसाहस्त्रिकं भागं तेषां धाता प्रकल्पयत् ॥
एवं संपूज्य राजेन्द्रं माथुरणां चमूमुखे ।
कृत्वा सुमहद् आनन्दं मथुरां मधुसूदनः ॥
दिव्याभरणमाल्यैश् च दिव्याम् वरविलेपनैः ।
दीप्यमानः समन्ताच् च देवा इव त्रिविष्टपम् ॥
भेरीपटहनादेन शङ्खदुंदुभिनिस्वनैः ।
बृंहितेन च नागानां हयानां हेषितेन च ॥
सिंहनादेन शूराणां रथनेमिस्वनेन च ।
तुमुलः सुमहान् आसीन् नादो मेघरवोपमः ॥
बन्दिभिः स्तूयमानं च नमश् चक्रुर् अपि प्रजाः ।
दत्त्वा दानम् अनन्तो ऽपि न ययौ विस्मयं हरिः ॥
स्वभावोन्नतभावत्वाद् दृष्टपूर्वात् ततो ऽधिकम् ।
अनहंकारभावाच् च विस्मयं न जगाम ह ॥
दीप्यमानं स्ववपुषा आयन्तं भास्करप्रभम् ।
दृष्ट्वा मथुरवासिन्यो नमश् चक्रुः पदे पदे ॥
एष नारायणः श्रीमान् क्षीरार्णवनिकेतनः ।
नागपर्यङ्कम् उत् सृज्य गतो ऽयं मथुरां पुरीम् ॥
बध्वा बलिं महावीर्यं दुर्जयं त्रिदशैर् अपि ।
शक्राय प्रददौ राज्यं त्रैलोक्यं वज्रपाणये ॥
हत्वा दैत्यगणान् सर्वान् कंसं च बलिनां वरम् ।
भोजराजाय मथुरां दत्त्वा केशिनिषूदनः ॥
नाभिषिक्तः स्वयं राज्ये नोपविष्टो नृपासनम् ।
राजेन्द्रत्वम् अभीप्सन् वै मथुराम् आविशत् ततः ॥
एवम् अन्योन्यसंजल्पं श्रुत्वा पुरनिवासिनाम् ।
सूतमागधबन्दिभ्य इदम् उचुर् गणा गिरः ॥
किं वा शक्ष्यामहे वक्तुं गुणानां ते गुणोदधे ।
मानुषेणैकजिह्वेन प्रभावोत्साहसंभवान् ॥
सहस्रभोगी नागेन्द्रः कदाचिद् दैवबुद्धिमान् ।
द्विसहस्रेण जिह्वानां वासुकिः प्रथयिष्यति ॥
किं त्व् अद्भुतम् इदं लोके मानवेन्द्रेषु भूतले ।
न भूतं न भविष्यं च शक्राद् आसनम् आगतम् ॥
सभावतरणं चैव कलशैर् आगतं स्वयम् ।
न श्रुतं न च दृष्टं वा तेन मन्यामहे ऽद्भुतम् ॥
धन्या देवी महाभागा देवकी योषितां वरा ।
भवन्तं त्रिदशश्रेष्ठं भृत्वा गर्भेण केशवम् ॥
कृष्णं पद्मपलाशाक्षं श्रीपुञ्जम् अमरार्चितम् ।
नेत्राभ्यां स्नेहपूर्णाभ्यां वीक्षते मुखपङ्कजम् ॥
मूल पाठ: Harivaṃśa, Appendix I · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0