भाषा

ENहिગુ
ग्रंथ पाठ

हरिवंश · भाग 4160

निर्वीर्याः सर्व एवामी भग्नास् तैर् वृषरूपिभिः ॥
व्रजे तस्मिन् महीपाल निहते च तथा हते ।
विसंज्ञः कुम्भको भूत्वा निश्चेष्टः समपद्यत ॥
ततो विमृश्य तैर् गोपैर् मतिम् एवं समादधे ।
तप्तानां वृषमल्लानां दमिता यो भवेद् भुवि ।
तस्मै कन्यां प्रदास्यामि नीलां नीरदलोचनाम् ॥
गोपाः सर्वे समायान्तु ये गोपा गोषु जीविनः ।
शूद्रा वा ये समर्था स्युस् ते च गच्छन्तु सर्वशः ।
एवम् आघोषयाम् आस कुम्भकः स व्रजे किल ॥
ततो गोपगणः सर्वो मिथिलाम् अन्ववर्तत ।
वृषान् सप्त समाहत्य नीलां गृह्णाम यत्नतः ।
इति गोपाः समाजग्मुः प्रत्येकं तां जिघृक्षवः ॥
मिथिला राजधानी सा न क्वचिद् बल्लवैर् विना ।
गोपालम् अयम् एवैतद् राष्ट्रं मिथिलवर्मणः ॥
ते गोपास् त्व् आयतभुजा विस्तीर्णबलसंयुताः ।
आस्फोटितभुजा मत्ताः प्रत्येकं वृषम् अन्वयुः ॥
कुम्भकस्य तदा दूतैर् आहूतो गोपनन्दनः ।
गोपालैर् अपरैः सार्धं नन्दगोपः समाययौ ॥
रामकृष्णौ च संयातौ कुम्भकस्य व्रजं किल ।
दारकैर् अपरैः सार्धं सवयोभिर् मुदान्वितैः ॥
मयूराङ्गदचैत्राङ्गौ नीलकुञ्चितमूर्धजौ ।
पीते वसानौ वसने हरिचन्दनचर्चितौ ॥
वनमालाकृतोरस्कौ दामयज्ञोपवीतिनौ ।
शिक्यालम्बद्धटकरौ पर्णवाद्यविनोदिनौ ॥
किंकिणीजालसंह्रादौ शिखिपिच्छैर् अलंकृतौ ।
वेणुवीणाकृतरवौ शृङ्गध्वनिसमाकुलौ ।
दिविस्थैर् देवगन्धर्वैर् अनुयातौ महामती ॥
गोपास् ते नौभिर् उत्तीर्य यमुनाम् ऊर्मिमालिनीम् ।
गङ्गां चैवाभिसंयाता मिथिलां कृष्णसंयुताः ॥
कुम्भकश् च महाबुद्धिर् मैथिलेयो मुदान्वितः ।
नन्दगोपं तदा दृष्ट्वा सपुत्रं च समागतम् ॥
उत्थायाग्रे समागम्य समालिङ्ग्य मुदान्वितः ।
बृसीं संचोदयाम् आस यशोदां चैव धर्मदा ॥
बलभद्रस्य कृष्णस्य श्रीदामा चासनं ददौ ।
कृसरं पायसं चैव तथा दध्योदनं बहु ।
निवेद्य नन्दगोपाय सपुत्राय मुदान्वितः ॥
अपूपाः सक्तवो धानाः शर्कराक्षीरमिश्रिताः ।
दत्ताः कृष्णाय रामाय नन्दायाथ सजातये ॥
एवं प्रीताः सुमनसो नन्दगोपपुरःसराः ।
ऊषुः सुखं तदा रात्रौ गोपालाः सर्व एव ते ॥

अथ तस्यां वृषा रात्रौ गोषु वैशसनं मुहुः ।
प्रत्येकं सप्त ते मल्ला दावना वृषरूपिणः ।
वत्साञ् जघ्नुर् अथो गाश् च कुटीर् भूयो बभञ्जिरे ॥
आगन्तुकांस् तदा गोपान् रात्रौ युद्धाय निःसृतान् ।
जघ्नुः शृङ्गैः खुरैश् चैव शिष्टा गोपाः दिशो ययुः ।
हुम्भारवं प्रकुर्वन्तो दिग्गजा इव तस्थिरे ।
रज्जूश् छित्त्वा घटान् भित्त्वा कीलकान् अथ शिक्यकान् ।
वत्सान् विद्रावयाम् आसुर् गाश् च राजन् दिशो दश ॥
ततः प्रभाते विमले व्युष्टा सा रजनी किल ।
वृषास् तस्थुर् महानादास् तस्मिन् कुम्भकवेश्मनि ॥
दिग्गजा इव संह्रादं हुम्भारवपुरःसरम् ।
चक्रिरे पर्वताकारा कालान्तकयमोपमाः ॥
अथ तस्याम् अवस्थायां निश्चेष्टः कुम्भकः किल ।
वृषांस् तथाविधान् दृष्ट्वा व्रजनिःशेषकारिणः ।
गोपान् सर्वान् समाहूय वचनं चेदम् अब्रवीत् ॥
श्रूयन्तां मम वाक्यानि गोपा नन्दपुरःसराः ।
वृषाः सप्त समुद्भूता व्रजे ऽस्मिन् मददुर्मदाः ॥
सिंहा इव ग्रहाक्रान्ता दिग्गजा इव दंशिताः ।
अप्रतर्क्या अनासाद्या गोगोपीव्यतिक्रमाः ॥
यत्नाश् च बहवो ऽस्माभिः कृता रोद्धुम् इमान् मुहुः ।
एषाम् एकं बलाद् योद्धुं न शक्ता स्मेति संगताः ।
भीतास् तेभ्यो मुहुर् गोपा विसंज्ञा पर्यटामहे ॥
किं च राज्ञा मुहुर् दण्ड्या वयं मिथिलवर्मणा ।
गतिम् एषां न जानीमो नागतिं न च चिन्तितम् ॥
न च ते केवलवृषा राक्षसा वा वृषात्मना ।
दैत्या वा दानवा वापि यक्षगन्धर्व एव वा ।
अस्मदुत्सादनार्थाय व्रजे ऽस्मिन् समुपस्थिताः ॥
युष्माकम् आगतानां तु यो वृषान् दमयिष्यति ।
तस्येयं सर्वकल्याणी नीला देया मनस्विनी ।
नीला सुमध्यमा तस्मै दत्ता कमललोचना ॥
इत्य् उक्त्वाहूय तां कन्यां गोपमध्ये करोत्थिताम् ।
यूनां मनांसि चाक्षीणि तस्याम् एव प्रपेदिरे ॥
स्तनयोः स्थितिम् आजग्मुः केषाम्चिन् नेत्रपङ्कजे ।
अन्येषाम् अधरे चैव परेषां च सुमध्यमे ।
एवं व्यालोलमनसो गोपाश् चित्रस्थिता इव ॥
तत्र नन्दसुतः कश्चिज् ज्येष्ठः कृष्णस्य संमतः ।
स तदाघोषयद् वाचा दमयिष्ये वृषान् अमून् ।
इति प्रतस्थे तान् हन्तुं दैतेयान् वृषरूपिणः ॥
भुजाव् आस्फोट्य रुद्धो ऽपि पित्रा यत्नवता तदा ।
इयेष योद्धुं मन्दात्मा यान् न शक्नोति माधवः ॥

रावणस्य रणे हन्ता यश् च हन्ता सुमालिनः ।
तेषां मध्ये समास्थाय हुम्भारवम् अथाकरोत् ॥
तेन शब्देन ते सप्त वृषा घोषवतः पुरः ।
खुराञ् शृङ्गान् समुद्धृत्य समुत्तस्थुः समुद्यताः ॥
तेषां स्थितानाम् एकस्य घोषवान् मस्तके ऽहनत् ।
ततो गोपाः समागम्य सिंहनादं व्यनीनदन् ॥
आहतो मस्तके सो ऽथ वृषो घोषवता तदा ।
अग्रे खुराभ्याम् आहृत्य घोषवन्तं ददंश ह ॥
पुनः शृङ्गेण तं हत्वा खुराभ्यां दूरतो ऽक्षिपत् ।
व्यनीनदच् च सहसा गोपान् विद्रावयंस् तदा ॥
युवानस् त्व् अथ ये गोपा नीलाग्रहणलालसाः ।
मुष्टिं संवर्त्य संवर्त्य भुजास्फोटनतत्पराः ।
गोपलीलां प्रकुर्वन्तस् तेषाम् अग्रे पदं दधुः ॥
स्थितेषु गोपवीरेषु ते वृषा गोपघातकाः ।
सर्वांस् ताञ् शृङ्गकोणैश् च निजघ्नुः सर्वतस् ततः ।
मस्तकैश् च खुरैश् चैव न्यहनन् मुदिता भृशम् ॥
ते गोपा वृषदैत्यैश् च निहता भुवि पातिताः ।
गतान् अभिमुखं हत्वा संस्थिताः सुमहावृषाः ॥
हुम्भारवनिनादेन भीषयन्तः सगोगणान् ।
गोपालान् गोपमुख्यांश् च बलाद् विद्राव्य दंशितान् ।
वल्मीकान् खादयन्तो वै तटघातं प्रचक्रिरे ॥
कुम्भको नन्दगोपश् च ये वृद्धा गोषु जीविनः ।
कृत्यमूढाः सुसंवृत्तास् तदा गोपपुरःसराः ।
राज्ञो भीता बभूवुश् च दण्ड्या वयम् इति स्थिताः ॥
अथ कृष्णस् तदा रामं बभाषे वैशसे सति ।
नैते वृषा महाबाहो दैत्याः सप्त समुत्थिताः ॥
कालनेमिसुता आर्य मां हन्तुम् इह संगताः ।
पुरा मया हता युद्धे तदा तारामये विभो ॥
एते ऽतिबलिनो नित्यं मयि विद्वेषकारिणः ॥
निहन्तव्या मया राम गोगोपान् रक्षता समम् ॥
एतैर् गोपा हता भूयो भूयो हन्तुं समुद्यताः ।
वयम् एतैर् यथायोगं क्रीडां कूर्मः सगोपकाः ॥
नन्दश् च कुम्भकश् चोभौ विषण्णौ समपद्यताम् ।
रक्षितव्यौ बलाद् एतौ गोपौ बन्धू मया विभो ॥
नीलाम् एनां ग्रहीष्यामि हत्वा सप्त वृषान् इमान् ।
श्रीदामानं सखित्वेन ग्रहीष्यामि न संशयः ॥
इति निश्चित्य रामेण कृष्णः कमललोचनः ।
पुरस् तेषां पदं चक्रे वृषाणां बलशालिनाम् ॥
ते वृषा दिदिजाः क्रुद्धा विष्णुं दृष्ट्वा पुरःस्थितम् ।
पूर्ववैरं समाश्रित्य पराहन्तुं प्रचक्रमुः ॥

ते समं सहसा पेतुः कृष्णस्योपरि दानवाः ।
ततो युद्धं समभवत् तेषां कृष्णस्य च प्रभो ॥
ततो गोपगणाः सर्वे कृष्णम् एवाश्रिताभवन् ।
शृङ्गैस् ते सहसा जघ्नुः कृष्णं हन्तुम् अभीप्सवः ॥
पादप्रहारैस् अपरिः पुच्छघातैश् च केशवम् ।
पृथक् पृथक् समाहन्युः प्रत्येकं वृषदानवाः ।
दन्तैर् ददंशुर् अपरे खुरैर् अन्ये जनार्दनम् ॥
ततः कृष्णो रुषा मुष्टिं संनिहत्य जघान ह ।
तेषाम् एकं क्षणाद् धत्वा पुनर् अन्यं जघान ह ॥
क्रमेण मुष्ट्या तान् सर्वान् हत्वा दैतेयगोपतीन् ।
नीलां हस्ते गृहीत्वाथ कृष्णस् तस्मिन् व्यरोचत ॥
कुम्भको नन्दगोपं तं प्रोवाच व्रजसंसदि ।
प्रसादात् तव पुत्रस्य जीवामो विगतज्वराः ।
सपुत्राः सह गोपालैः सवत्सा गोधनैः समम् ॥
वृषैश् च सप्तभिर् नन्द हता गावः सहस्रशः ।
गर्भाश् च निःसृतास् तावद् वत्सास् तावन्त एव हि ।
यतस् ते निहता नन्द सुखं तस्माद् अवाप्नुमः ॥
सोसहस्रं तव विभो महिषा महिषीशतम् ।
यावद् इच्छसि वा नन्द तावत् ते वै ददाम्य् अहम् ॥
नीलायै लक्षम् अयुतं दास्यामि बहुगोधनम् ॥
अलं मम विभो तात गोभिर् वत्सैर् धनैर् अपि ।
तिष्ठन्ताम् अद्य गावस् ते गावो मे बहवो मताः ॥
घृतवत्यः क्षीरवत्यो बभूवुः पुत्रजन्मतः ।
यदा च कृष्ण उद्भूतस् तदाप्रभृति मे व्रजे ॥
यावद् दुग्धं समुद्भूतं तावद् एव घृतं भवेत् ।
गुल्मे गुल्मे मधु भवेत् स्वादु स्वादु भवत्य् अलम् ॥
गावो वत्साश् च नीरोगा जाते कृष्णे व्रजे मम ।
अल्पकं न च मे स्यात् तद् गेहे स्वं कृष्णसंनिधौ ॥
यास्याम्य् अहम् अथो गोप गृहायाभ्यनुजानताम् ।
इत्य् उक्त्वा प्रययौ नन्दः सव्रजः सहगोगणः ॥
कृष्णश् च नीलया सार्धं श्रीदाम्ना सह संगतह् ।
साकं च बलभद्रेण ययौ वृन्दावनं वनम् ॥
प्राप्य वृडावनं गोपा रेमिरे सहकेशवाः ॥
अहो चित्रम् अहो चित्रं माधवस्य जगत्पतेः ।
क्रीडेयं वासुदेवस्य गोपलीलां प्रकुर्वतः ।
धन्यास् त एव देवेशं गोपवेषविभूषितम् ।
अपश्यन् देवम् ईशं ये मयूराङ्गदभूषणम् ॥
कीलदामास्थितकरं किंकिणीक्वणिताङ्गदम् ।
तालगेयरतं देवं पर्णवाद्यान्तरैषिणम् ॥
बाणपुष्पस्फुटन्मौलिं नीलमेघनिभं हरिम् ।

पश्यन्ति देवम् ईशेशं नमस् तेभ्यः पुनः पुनः ॥
हत्वा वृषान् हरिः सप्त पुनर् आगम्य माधवः ।
वृन्दावनं सरामस् तु गोपैः सह महामुने ।
अकरोत् किं जगन्नाथस् तन् मे ब्रूहि तपोधन ॥
तस्यां शरदि गोविन्दः सुखं वृन्दावने वने ।
चचार गोधनः साकं जगतां प्रीतिवर्धनः ॥
भाण्डीरे सुखम् आसीनं विहरन्तं जनार्दनम् ।
वामदेवभरद्वाजौ तत्र प्राप्तौ यदृच्छया ॥
कृष्णाजिनधरौ दान्तौ नियमव्रतकर्शितौ ।
गङ्गातीर्थाय संक्रान्तौ भास्करौ द्वाव् इवागतौ ॥
बृहत्पिण्गजटाभार+ प्रतिबद्धशिरोधरौ ।
प्रमाणं सर्वलोकानां वेदवेदाण्गपारगौ ।
वल्कलाजिनसंवीतौ मुनी यमपरौ सदा ।
नमस्कर्तुं तदा वीर भाण्डीरं यक्षसेवितम् ॥
प्रदक्षिणं समुद्युक्तौ वत्सपालान् महामुनी ।
ददर्शतुः समं वत्सान् काल्यानांश् च गोगणान् ॥
पप्रच्छतुस् तदा तत्र भाण्डीरद्रुमवासिनः ।
हे वत्साः क्व च नो मार्गो यमुनातीर्थदर्शने ।
क्व च तीर्थं सुसोपानं झषग्राहविवर्जितम् ॥
श्रुत्वैतद् दारका वाक्यं जहसुर् मुनिपुंगवौ ।
मार्गज्ञा न वयं बाला ज्ञानिभ्यः संप्रशस्यताम् ।
कुतो ऽत्र यमुना शुभ्रा कुतो मार्गः कुतो वयम् ॥
एतस्मिन्न् अन्तरे कृष्णस् तेषां वाक्यं तयोर् अपि ।
श्रुत्वा तौ समुपागम्य वक्तुम् एवं प्रचक्रमे ॥
एष वां पथ आदेष्टा गवाम् इव सुयन्त्रितः ।
अहं नन्दस्य तनयः कृष्ण इत्य् अभिविश्रुतः ॥
ममायम् अग्रजो रामश् चन्द्रमा इव भासते ।
आवयोर् गोगणः सर्वो वचनं च निशम्यताम् ॥
एतद् दध्योदनं सम्यग् गृह्यतां यदि रोचते ।
पायसं सुरसं दुग्धं धाताश् च गुडमिश्रिताः ॥
एवम् उक्ते ततस् तस्मिन् कृष्णे कमललोचने ।
तौ काव् इमाव् इति तदा समाधिं जग्मतुर् मुनी ।
तौ नेत्राणि समुन्मील्य प्रीतौ दृष्ट्वा जगत्पतिम् ।
इदम् ऊचतुर् अध्यात्मं मुनी कृष्णस्य संमतम् ॥
त्वम् आदिः सर्वभूतानां मध्यम् अन्तस् तथा भवान् ।
स्रष्टा सर्वस्य लोकस्य पाता भोक्ता जनार्दन ॥
स्रष्टा वेदस्य यज्ञस्य हविषाम् ऋत्विजां हरे ।
कर्मणां फलभोक्ता च फलदः कर्म कुर्वताम् ॥
निषेद्धा दुष्टसत्त्वस्य हन्ता त्वं तमसां परः ।
नेत्रे ते भानुशशिनौ नासिका च समीरणः ॥

वाचः सरस्वती देवी जिह्वा मेघः प्रकीर्तितः ।
दन्ताश् च पर्वता ज्ञेया कर्णः पातालगोचरः ॥
लक्ष्मीर् वक्षस् तु विज्टेया वामो बाहुस् तु शंकरः ।
स्कन्धश् च दक्षिणो बाहुर् अण्गुल्यः सागराः स्मृताः ॥
अम्बरं कुक्षिर् इत्य् उक्तं विवराणि दिशः स्मृताः ।
रोदसी तव पादौ च केशा देवाः स्मृता हरेः ।
लोमानि यक्षगन्धर्वाः पिशाचा राक्षसा विभो ॥
यान्य् एव वस्तुजातानि लोके दृष्टानि माधव ।
तानि गात्रेषु पश्यामः पुरुषोत्तम ते हरे ॥
अधो भवन्तं भगवन् द्रक्ष्यामः सकलात्मना ।
भवन्तम् ऊर्ध्वं पश्यामो भवन्तम् अथ पृष्ठतः ।
पार्श्वतः पुरतश् चैव भवन्तं वीक्ष्य निर्वृताः ॥
त्वम् आदौ क्रोडदंष्ट्राग्रे अदधा गां सपर्वताम् ।
अथास्थानं प्रतिष्ठाप्य हिरण्याक्षं प्रजघ्निवान् ॥
नारसिंहवपुर् भूत्वा देवमानुषकण्टकम् ।
दैत्येन्द्रं हतवान् विष्णो राज्यं दत्त्वा मरुत्वते ॥
जमदग्निसुतो भूत्वा हतवान् पितृघातकम् ।
कार्तवीर्यं महात्मानं सकलक्षत्रकण्टकम् ॥
रघोर् अन्वयम् आपन्नस् त्वम् एव जगतां पते ।
गत्वाब्धौ सेतुना विष्णो लण्कां रावणपालिताम् ॥
रावणं ससुतं हत्वा सानुजं सबलं प्रभो ।
निष्कण्टकम् इमं लोकम् अकरोः पुरुषोत्तम ॥
बलेर् वामनतां गत्वा महीम् आदाय मायया ।
दत्तवांस् त्रिदशेन्द्राय पाताले तं व्यदीदधाः ॥
तत्तद्रूपम् उपागम्य लोकान् रक्षसि माधव ।
इदानीम् अपि देवेश देवदेव यदोः कुले ॥
अवतीर्य हरे विष्णो देवपक्षविरोधिनः ।
गोपालवेषम् आस्थाय कृष्णो ऽसि शुभवेषवान् ॥
प्रलम्बं केशिनं हत्वा हन्ता कंसस्य माधव ।
अहो रम्यम् इदं विष्णो वपुर् नीलोत्पलच्छवि ।
नीलकुञ्चितकेशाढ्यम् उन्निद्रकमलेक्षणम् ।
वनमालाकृतोरस्कं रज्जुयज्टोपवीतिनम् ॥
शिक्यालम्बिघटीकक्षं करीषप्रोक्षितोदरम् ।
किंकिणीजालसंछन्न+ कटिशोभि प्रभामयम् ॥
दामकीलसमासक्त+ भुजद्वयविभूषितम् ।
वेणुवीणारवं कुर्वन् पर्णवाद्यमनोहरम् ।
अहो मनोरमं रूपं पश्यामस् तव माधव ॥
गोपालास् ते चिरं धन्या ये रूपम् इदम् ईदृशम् ।
पश्यन्ति नित्यशो विष्णो नमस् ते पुरुषोत्तम ॥
नमः कृष्णवपुर्धात्रे गोपवेषविलासिने ।

अचिन्त्यविभवे तुभ्यं सर्वगाय नमो नमः ॥
नमः सकलकल्याण+ कल्याणाय नमो नमः ।
नमः परमतत्त्वाय नमः परमयोगिने ॥
देवदेव जगद्वास सर्वकारणकारण ।
भूयः पुनर् नमस्यामस् तव योगपदं हरे ।
साधयामो नमस् ते ऽस्तु तीर्थाय जगतां पते ॥
इत्य् उक्त्वा हरिम् ईशेशं तीर्थाय मुनिपुंगवौ ।
जग्मतुस् तत्र भाण्डीरे स्थितौ तौ रामकेशवौ ।
चिक्रीडतुर् यथायोगं सगोपौ रामकेशवौ ॥
कथम् उक्तं नारदेन राजन् देवर्षिणा पुरा ।
आश्चर्यम् एतत् कथितं त्वत्तः श्रुतम् अरिंदम ॥
कथम् अन्येन जातस् त्वम् उग्रसेन पितुर् विना ।
तव मात्रा कथं राजन् कृतं कर्मेदम् ईदृशम् ॥
अन्यापि प्राकृता नारी न कुर्याच् च जुगुप्सितम् ।
विस्तरं श्रोतुम् इच्छामि ह्य् अत्र कौतूहलं हि मे ॥
यथा कथितवान् विप्रो महर्षिर् नारदः प्रभुः ।
तथाहं संप्रवक्ष्यामि यदि ते श्रवणे मतिः ॥
आगतः शक्रसदनात् स वै शक्रसखो मुनिः ।
चन्द्रांशुशुक्लवसनो जटामण्डलम् उद्वहन् ॥
कृष्णाजिनोत्तरीयेण रुक्मयज्ञोपवीतवान् ।
दण्डी कमण्डलुधरः प्रजापतिर् इवापरः ॥
गाता चतुर्णां वेदानां विद्वान् गन्धर्ववेदवित् ।
स नारदो ऽथ देवर्षिर् ब्रह्मलोकचरो ऽव्ययः ॥
तम् आगतम् ऋषिं दृष्ट्वा पूजयित्वा यथाविधि ।
पाद्यार्घ्यम् आसनं दत्त्वा संप्रवेश्योपवेश्य ह ॥
मुखüउपविष्टो ऽथ मुनिः दृष्ट्वा च कुशलं मम ।
उवाच च प्रीतमना देवर्षिर् भावितात्मवान् ॥
पूजितो ऽहं त्वया वीर विधिदृष्टेन कर्मणा ।
इदं एको मम वचः श्रूयतां प्रतिगृह्यताम् ॥
गतो ऽहं देवसदनं सौवर्णं मेरुपर्वतम् ।
सो ऽहं कदाचिद् देवानां समाजे मेरुमूर्धनि ॥
तत्र मन्त्रयताम् एव देवतानां मया श्रुतम् ।
भवतः सानुगस्येह वधोपायः सुदारुणः ॥
तत्रैषा देवकी या ते मथुरायां पितृष्वसा ।
तत्रैष देवकीगर्भो विष्णुर् लोकनमस्कृतः ।
यो ऽस्या गर्भो ऽष्टमः कंस स ते मृत्युर् भविष्यति ॥
देवानां स तु सर्वस्वं त्रिदिवस्य गतिश् च सः ।
परं रहस्यं देवानां स ते मृत्युर् भविष्यति ॥
यत्नश् च क्रियतां कंस गर्भानां पातनं प्रति ।
नावज्ञा रिपवे कार्या सुबलेष्व् अबलेषु वा ॥

न चायम् उग्रसेनस् तु पिता तव महाबल ।
द्रुमिलो नाम तेजस्वी सौभस्य पतिर् ऊर्जितः ॥
जातस् तेनासि कंस त्वं नोग्रसेनेन वीर्यवान् ।
श्रुत्वाहं तद् वचस् तस्य किंचिद् रोषसमन्वितः ।
भूयो ऽपृच्छं कथं ब्रह्मन् द्रुमिलो नाम दानवः ॥
मम मात्रा कथं तस्य ब्रूहि विप्र समागमः ।
एतद् इच्छाम्य् अहं श्रोतुं विस्तरेण तपोधन ॥
हन्त ते वर्तयिष्यामि शृणु राजन् यथार्थतः ।
द्रुमिलस्य च मात्रा ते संवादं च समागमम् ॥
भविष्यद्दैवयोगेन विधात्रा तत्र नीयते ॥
तं देशम् अगमद् वीरः सुयामुनदिदृक्षया ।
रथम् आरुह्य दिव्येन कामगेनाशुगामिना ।
कामगेन रथेनाशु तरुणादित्यवर्चसा ।
यदृच्छयागतस् तत्र सुयामुनदिदृक्षया ।
विहायसा कामगमो मनसो ऽप्य् आशुगामिना ॥
संप्राप्तः पर्वतवरम् ऋषिसिद्धनिषेवितम् ।
दृष्ट्वा प्रह्लादयच्चेतो नन्दनोपमकाननम् ॥
अवतीर्य रथाद् धृष्तश् चचार द्रुमिलो नृपः ।
वनान्तरं विचरता दिव्यसानुं मनोरमम् ।
स तं प्राप्य पर्वतेन्द्रम् अवतीर्य रथोत्तमात् ।
पर्वतोपवने न्यस्य रथं पररथारुजम् ।
उभौ तौ सूतसहितौ चेरतुर् नगमूर्धनि ॥
ततो बहून्य् अपश्येतां काननानि वनानि च ।
सर्वर्तुगुणसंपन्ने नन्दनस्येव कानने ॥
चेरतुर् नगशृङ्गेषु कन्दरेषु नदीषु च ।
नानाधातुपिनद्धैश् च शृङ्गैर् बहुभिर् उच्छ्रितैः ॥
नानावर्णविचित्रेषु काञ्चनाञ्चनराजतान् ।
नानाकुसुमगन्धाढ्यान् नानासत्त्वगणैर् युतान् ।
नानाद्विजगणोद्धुष्टान् नानापुष्पफलद्रुमान् ।
नानौषधिसमायुक्तान् ऋषिसिद्धानुसेवितान् ॥
विदाधरान् किंपुरुषान् ऋक्षवानरराक्षसान् ।
सिंहान् व्याघ्रान् वराहांश् च महिषाञ् श्रभाञ् शशान् ।
सृमरांश् चमरान् न्यङ्कून् मातङ्गान् यक्षराक्षसान् ॥
एवं बहुविधान् पश्यंश् चरमाणो नगोत्तमे ।
दूराद् ददर्श नृपतिर् देवीं सुरसुतोपमाम् ।
क्रीडमानां सखीभिश् च पुष्पाणि प्रविचिन्वतीम् ॥
ततश् चरन्तीं सुश्रोणीं सखीभिः सह संवृताम् ।
दृष्ट्वा भौमपतिर् दूराद् विस्मयन् सूतम् अब्रवीत् ॥
कस्येयं मृगशावाक्षी वनान्तरविचारिणी ।
रूपौदार्यगुणोपेता मन्मथस्य रतिर् यथा ॥

शचीव पुरुहूतस्य उताहो वा तिलोत्तमा ।
नारायणोरुं निर्भिद्य संभूता वरवर्णिनी ।
ऐलस्य दयिता देवी योषिद्रत्नं किम् उर्वशी ॥
क्षीरार्णवे मथ्यमाने सुरासुरगणैः सह ।
मन्थानं मन्दरं कृत्वा अमृतार्थेति नः श्रुतम् ॥
ततो अमृतात् समुत्तस्थौ देवी श्रीर् लोकभावनी ।
नारायणाङ्कललिता किं श्रीर् एषा वराङ्गना ॥
नीलमेघान्तरगता द्योतयन्त्य् अचिरप्रभा ।
तथा योषिद्गणान् मध्ये रूपं प्रद्योतयद् वनम् ।
अतीव सुकुमाराङ्गी प्रभेवेन्दुनिभानना ॥
दृष्ट्वा रूपम् अनिद्याङ्ग्या विभ्रान्तो व्याकुलेन्द्रियः ।
कामस्य वशम् आपन्नो मनो विह्वलतीव मे ॥
भृशं कृन्तन्ति मे ऽङ्गानि कुसुमायुधसायकाः ॥
भित्त्वा हृदि शराः पञ्च निर्दहन्तीव मे मनः ।
कामः शरैः पञ्चभिर् मे हृदयं निर्दहन्न् इव ।
हृदयाग्निर् वर्धयति आज्यसिक्त इवानलः ॥
कथम् अद्य भवेत् कार्यं शान्त्यर्थं मन्मथार्चिषः ।
केनोपायेन किं कुर्म भजेन् मां मत्तकाशिनी ॥
एवं बहु चिन्तयानो नोपलभ्य च दानवः ।
सूतम् आह मुहूर्तं तु तिष्ठस्व त्वम् इहानघ ॥
अहं यास्यामि तां द्रष्टुं कस्येयम् इति योषितम् ।
प्रतीक्षमाणस् तिष्ठस्व यावदागमनं मम ॥
श्रुत्वा तु वचनं सूतस् तथास्त्व् इति च सो ऽब्रवीत् ॥
एवम् उक्त्वा दानवेन्द्रो गमनाय मनो दधे ।
हृच्छयाविष्टहृदयो दृष्ट्वा ताम् असितेक्षणाम् ।
वार्य् उपस्पृश्य बलवान् ध्यानम् एवान्वपद्यत ॥
मुहूर्तं ध्यानमात्रेण दृष्टं ज्ञानबलात् ततः ।
उग्रसेनस्य पत्नीति ज्ञात्वा हर्षम् अवाप सः ॥
उग्रसेनस्य वै रूपं कृत्वा स्वं परिवर्त्य सः ।
उपासर्पन् महाबाहुः प्रहसन् दानवेशरः ।
स्मयमानश् च शनकैर् जग्राहामितवीर्यवान् ॥
आगत्य यमुनातीरं जरापुत्रः प्रतापवान् ।
विन्दानुविन्दाव् आवन्त्यौ दौत्येन समचोदयत् ॥
तौ गत्वा मथुरां वीरौ द्वाष्थेन प्रतिवेशितौ ॥
आसनस्थं तदा राजन्न् उग्रसेनं पतिं नृप ।
तत्पार्श्वे च स्थितं कृष्णं बलभद्रेण संगतम् ॥
वसुदेवं महावीर्यं सात्यकिं च महामतिम् ।
अन्यांश् च यादवान् दृष्ट्वा समीपस्थान् महीपतेः ॥
तौ तु सर्वान् समाभाष्य कंसस्य पितरं तदा ।
ऊचतुः सुखम् आसीनौ वासुदेवं च साग्रजम् ॥

आह युष्मान् महावीर्यो जरासंधः प्रतापवान् ।
श्रूयतां मम यद् वाक्यं दुःखितस्याबलस्य मे ॥
सुताद्वयं महाराज द्रष्टुम् इच्छामि दुःखितम् ।
विवशं शोकसंतप्तं दुःखसागरसंश्रितम् ॥
यत् तु कंसो हतः संख्ये कृष्णेन हि बलीयसा ।
अशक्तो ऽहं तथा राजन् कृतस्य प्रतिकर्मणः ॥
यत् तु युद्धं बलवता कृष्णेन कृतम् इत्य् अपि ।
नात्र मे विस्मयः कार्यो बलवान् स हि साग्रजः ॥
किं तु दुःखं महद् भूतं दुःसहं मम जायते ।
तद् दुःखं दुःसहं मन्ये वक्तुं च मम दुःसहम् ॥
मगधेन्द्रे महावीर्य सबले मयि मानद ।
चित्रम् एतन् महाराज यत् कृतं मयि जीवति ॥
कृष्णेन सुकृतं कर्म मां मत्वा पशुम् इत्य् अपि ।
कृष्णे त्व् असुकृतं कर्म मम त्वां पश्य इत्य् अपि ।
किं नूनं दुष्करं कर्म कृत्वा कृष्णस् तु जीवति ॥
जीवत्य् एवं जरापुत्रे मावमंस्था यदूत्तम ।
जीवितं तु समाप्तं मे कृष्णे जीवति संप्रति ॥
इत्य् उक्त्वा पुनर् आहेदं क्रोधविस्फारिताननः ।
यदि कृष्णं स्थितं संख्ये हनिष्ये यदि मन्मुखे ॥
नाहं कंसो न वा केशी नारिष्टो न च पूतना ।
जरासंधं महीपालं मावमंस्था महीपते ॥
इमाम् अप्य् अपरां राजन् प्रतिज्ञां शृणु केशव ।
यदि त्वं मत्पुरो भूयास् तदा हन्मि सबान्धवम् ॥
संनद्धो भव युद्धाय स्थितो ऽहं युद्धलालसः ।
यत्र यत्र भवान् याति तत्र तत्राहम् आस्थितः ॥
जीवति त्वयि गोविन्द जरासंधो न जीवति ।
आगच्छ सह युद्धाय बलभद्रेण धीमता ॥
किम् एभिर् बहुभिर् वृद्धैर् उग्रसेनपुरोगमैः ।
आगच्छन्तु भवाञ् शीघ्रं बलभद्रसहायवान् ॥
सात्यके युक्तम् एवैतत् कृतं कृष्णेन किं प्रभो ।
वसुदेव यदुश्रेष्ठ युक्तं पुत्रेण किं तव ।
अक्रूर वद सत्येन युक्तं वात्रान्यथापि वा ॥
मृधे कृष्ण यदुश्रेष्ठ स्थिरो भव न चञ्चलः ।
बहुनात्र किम् उक्तेन न स्थिरं तव जीवितम् ॥
श्वः पुरीं तव रोत्स्यामि नात्र कार्या विचारणा ।
को न्व् इदं साहसं कुर्यात् त्वां विना कृष्ण सांप्रतम् ॥
इत्य् उक्त्वा तौ महावीर्यौ विरामं जग्मतुस् तदा ॥
इत्य् उक्तो रोषताम्राक्षः कृष्ण ऊचे वचस् तदा ।
हतः कंसो महाराज किम् अतः साहसं कृतम् ।
किं चित्रं वद राजेन्द्र हतः कंस इतीह नः ॥

इदं च तस्मै वक्तव्यं भवद्भ्यां राजसत्तमौ ।
स्थितो ऽस्मि युद्धसंरक्तो जेष्यामि च रणे रिपून् ॥
त्वां हत्वा सबलं संख्ये राज्यम् आदाय सांप्रतम् ।
उग्रसेनाय दास्यामि सत्येन च शपाम्य् अहम् ॥
इत्य् उक्त्वा विररामैव केशवः केशिसूदनः ।
तौ तु गत्वा तदा सर्वं तस्मै च प्रोचतुः प्रभो ॥
गते दूतद्वये राजन् मागधेन्द्रं जनाधिपम् ।
तं श्रुत्वा राजराजेन्द्रम् आहवेप्सुम् अमर्षणम् ॥
हन्तुकामं जगन्नाथं बलधद्रं च मागधम् ।
प्रतापज्ञा हि यदवो मागधस्य महात्मनः ।
शङ्कमाना भयं तस्माज् जरासंधान् महीपतेः ॥
स्थिते हि लोकनाथे ऽस्मिन् सर्वेषां बलहारिणि ।
स प्रतापो हि बलवान् मगधेन्द्रस्य सर्वतः ॥
रुक्मिणं पञ्चविंशत्या वासुदेवः समर्पयत् ।
आजघ्ने केशवं ताभ्यां शराभ्यां भोजवर्धनः ॥
रुक्मी तु वासुदेवस्य ज्यां छेत्तुं परिचक्रमे ।
ज्ञात्वैव वासुदेवो ऽपि धनुश् चिच्छेद तस्य ह ॥
संछिन्नधन्वा भोजो ऽपि शक्तिं जग्राह संयतः ।
तया जघ्ने हरिं वीरः सो ऽच्छिनत् तां शरैर् अपि ॥
पुनर् अन्यां महाराज गदां प्रेषितवान् नृप ।
चिच्छेद तां जगन्नाथः सर्वक्षत्रस्य पश्यतः ॥
परिघेण समाजघ्ने वासुदेवं स राजकः ।
तद् द्विधा शस्त्रसंपातैर् अकरोद् यदुपुंगवः ॥
रथचक्रं समादाय विष्णुं विव्याध राजकः ।
तिलशश् च तथा देव तच् चक्रं कृतवाञ् शरैः ॥
यद्यद् अस्त्रं समादत्ते रुक्मी भीष्मकनन्दनः ।
तत्तत् तत्र द्विधा कृत्वा जहास यदुनन्दनः ॥
तन्त्रीरथं विचक्रं च कृतवान् यदुनन्दनः ।
विशस्त्रं विधनुष्कं च चकार मधुसूदनः ॥
सप्राणं कृतवान् कृष्णः सर्वक्षत्रस्य पश्यतः ।
अवेक्ष्य रुक्मिणीं कृष्णो रुक्मिणं न व्यशातयत् ।
आहुकः पञ्चविंशत्या भीष्मकं प्रजघान ह ॥
भीष्मको ऽथ च राजेन्द्र शराणां च परःशतैः ।
उग्रसेनं समाजघ्ने मर्मज्ञो मर्मभेदिभिः ॥
आहुकस् तु धनुश् छित्त्वा भीष्मकस्य महात्मनः ।
रथं चास्य प्रचिच्छेद ध्वजं च यदुपुंगवः ॥
सारथिं च हयांस् तस्य जघान यदुनन्दनः ।
अपायात् समरात् तस्माद् भीष्मकस् तु श्रमान्वितः ॥
वसुदेवस् तु राजेन्द्र क्राथं विव्याध पत्रिभिः ।
क्राथस् तु राजन् विव्याध शरैः सप्तभिर् आशुगैः ।

वासुदेवो ऽपि विव्याध चतुर्भिश् चतुरो हयान् ।
सारथिं च जघानाशु तथोभौ पार्ष्णिसारथी ॥
वसुदेवस् ततः क्रुद्धो धनुश् चिच्छेद पत्रिभिः ।
विरथं च जघानाशु जरासंधस्य पश्यतः ॥
विरथो विधनुष्कश् च प्रययौ मागधं प्रति ॥
बभ्रुः कौशिकराजं तं विव्याध विविधैः शरैः ।
अथ बभ्रुर् महात्मानं विव्याध निशितैः शरैः ॥
कौशिकश् च तथा बभ्रुं मर्मज्ञो मर्मभेदिभिः ।
भृशं विव्याध समरे तद् अद्भुतम् इवाभवत् ॥
तस्य बभ्रुः क्षुरप्रेण शिरो ज्वलितकुण्डलम् ।
निचकर्त महाबाहुर् जरासंधस्य पश्यतः ॥
अथ हत्वा महात्मानं बभ्रुश् च सुमहाबलः ।
सिंहनादं चकाराशु सैन्यमध्ये महाकृतिः ॥
गदश् च निशितैर् बाणैश् चेदिराजम् अपाहनत् ।
चेदिराजो ऽपि राजेन्द्र विव्याध गदम् आशुगैः ।
चेदिराजो महाराज सहसा यदुनन्दनम् ।
चेदिराजस् तु सहसा गदं यदुवरं रणे ।
चेदिराजस् तु सहसा नन्दनं यदुनन्दनम् ।
विरथं विधनुष्कं च कृतवांश् चेदिपः किल ।
वसुदेवसमीपं तु ययौ यादवसत्तमः ॥
दन्तवक्त्रं महाराज शंभुस् तु बहुशस् तदा ।
शरैः शस्त्रायसोदग्रैर् विव्याध यदुनन्दनः ॥
परःशतैः सहस्राणां बबाधे समरे भृशम् ।
सात्यकिश् च महाराज विव्याधावन्तिनन्दनौ ॥
तौ च राजन् महात्मानौ सात्यकिं सत्यविक्रमम् ।
पीडयां चक्रतू राजन् सर्वमर्मसु पत्रिभिः ॥
सात्यकिर् विमुखीकृत्य तौ च राजन् महाबलौ ।
विव्याध निशितैर् बाणैः सर्वराजन्यमध्यगौ ॥
तौ च तं सात्यकिं वीरं जघ्नतुश् च शितैः शरैः ।
विन्दानुविन्दाव् आवन्त्यौ राजानौ यदुनन्दनः ॥
सात्यकिः पञ्चविंशत्या तौ च राजन् महामतिम् ।
समाजघ्ने च राजेन्द्र सर्वक्षत्रस्य पश्यतः ॥
सात्यकेश् च धनुर् बाणं रथं सारथिम् एव च ।
उभौ विव्यधतू राजन् वासुदेवस्य पश्यतः ॥
क्रुद्धो ऽथ सात्यकिस् तौ तु गदयाभिजघान ह ।
स्तनयोश् च तदा राजन् बाह्वोर् उरसि चार्पयत् ।
रथं च चूर्णयाम् आस तथोभौ पार्ष्णिसारथी ।
आयुधानि च सर्वाणि पोथयाम् आस यादवः ॥
पुनश् च गदया चाशु जघान यदुनन्दनः ।
हन्तुकामो महाराज सात्यकिः सत्यविक्रमः ।

गदां च प्राहिणोत् ताभ्यां वासुदेवस्य पश्यतः ॥
ताम् आपन्तती (सिच्) संप्रेक्ष्य पलायनपरौ तदा ।
जरासंधस्य पुरतस् तत्समीपं च जग्मतुः ॥
एकलव्यो ऽस्य वार्ष्णेयं शरैर् विव्याध सप्तभिः ॥
प्रद्युम्नं पञ्चभिर् बाणैर् एकलव्यो ऽथ सप्तभिः ।
सप्तत्रिंशत् तु वार्ष्णेय एकलव्यस् तु विंशतिम् ।
तौ तु राजन् महावीरौ परस्परवधैषिणौ ।
लोकेषु प्रवरौ वीरौ धन्विनां प्रवरौ रणे ॥
परस्परं धनुश् छित्त्वा ध्वजं चैव परस्परम् ।
ताव् उभाव् उभयो राजन् रथौ जघ्नतुर् आशुगैः ॥
ध्वजौ च चिच्छिदुर् वीरौ सारथी च महाबलौ ॥
तौ तु भूमिगतौ भूत्वा गदाम् आदाय सत्वरौ ।
परस्परं समाहत्य गदया तौ महारणे ।
सिंहनादं महायुद्धे चक्रतुर् युद्धलालसौ ॥
प्रद्युम्नो ऽथ गदापणिर् एकलव्यं जघान ह ।
एकलव्यो महाबाहुर् गदयापोथयद् यदुम् ।
एकलव्यं समाजघ्ने प्रद्युम्नो गदया प्रभुः ।
गदां चिच्छेद भूयस् तु तस्य राज्ञः स यादवः ॥
उत्सृज्य तां महाराज मुष्टिना यादवेश्वरम् ।
जानुभ्यां तलपादैश् च जानुपादैश् च यत्नतः ।
स च तादृग्विधं चक्रे युद्धं युद्धविशारदः ॥
पुनश् च मुष्टिना राजन् राजा यदुकुलोद्वहम् ।
आहत्य दन्तपातैश् च ददंश नृपसंसदि ॥
ततश् च सैनिकाः सर्वे विस्मयं परमं गताः ।
बाहुयुद्धं समभवत् तयोर् वीर्यवतोस् तदा ।
समन्ताज् जग्मतुस् तौ तु युद्धाय च महारणे ॥
ततः क्रुद्धो महाबाहुः प्रद्युम्नो यादेवेश्वरः ।
आजघ्ने मुष्टिना तं तु जरासंधस्य पश्यतः ॥
प्रद्युम्नस् तु ततः क्रुद्धो मुष्टिना तं जघान ह ।
उद्वमञ् शोणितं वक्त्राद् गतायुर् इव निःश्वसन् ।
गन्तुम् ऐच्छत् तदा युद्धात् प्रद्युम्नेन प्रपीडितः ॥
पलायनकृतोत्साहं जरासंधो महामतिः ।
न गन्तव्यं रणे वीर क्षत्रियो ऽसीति चाब्रवीत् ॥
अन्येषां च महान् आसीद् योधानां दारुणो रणः ।
स कृष्णस् तत्र सहितो रौहिणेयेन संगतः ।
मथुरां यादवाधीनां पुरीं तां सुखम् आवसत् ॥
प्राप्तयौवनदेहस् तु युक्तो राजश्रिया विभुः ।
चचार मथुरां प्रीतः सवनाकरभूषणाम् ।
कस्यचित् त्व् अथ कालस्य राजा राजगृहेश्वरः ।
सस्मार निहतं कंसं जरासन्धः प्रतापवान् ।

युद्धायोद्योजितो भूयो दुहितृभ्यां महीपतिः ॥
प्राप्यापमानं संग्रामाद् राजा स मगधेश्वरः ।
व्रीडयावनतो भूत्वा स्वपुरं प्रविवेश ह ॥
प्रविवेश पुरीं सो ऽथ पादस्पृष्ट इवोरगः ।
न शर्म लभते रात्रौ न दिवा शोककर्षितः ॥
सर्वैः स पार्थिवैः सार्धं मन्त्रयन् गुप्तमन्त्रवित् ।
अहो धिक् पौरुषं मन्ये सर्वेषां सर्वपार्थिवाः ।
ये गोपवनकृष्टाभ्यां निर्जिताः सबलानुगाः ॥
ते गच्छामः पुनस् तत्र मथुरां चतुरङ्गिणः ।
बलेन महता युक्ता यत्र तौ गोपकिल्बिषौ ।
अन्यथा ह्य् अयशो ऽस्माकम् यावल् लोकाः प्रतिष्ठिताः ॥
तस्य तद् वचनं श्रुत्वा नानादेशमहीक्षितः ।
ऊचुश् च वचनं तस्य साधु साध्व् इति चाब्रुवन् ॥
गच्छामः सहिताः सर्वे मथुराम् उपमर्दितुम् ।
भूमेः समन्ततः कृत्वा यदून् सर्वान् निहत्य च ।
सहिताः पुनर् एष्यामो जयशब्देन घुष्यता ॥
ततस् ते सुस्थिरां कृत्वा मतिं युद्धाय पार्थिवाः ।
प्रयाताः सध्वजाः संख्ये कम्पयन्तो वसुंधराम् ॥
दश सप्त च संग्रामाञ् जरासंधस्य यादवाः ।
ददुर् न चैनं समरे हन्तुं शेकुर् महारथाः ॥
ततो मगधराट् श्रीमांस् चतुरङ्गबलान्वितः ।
भूयो ऽष्टादशमं कर्तुं संग्रामं स समाभरत् ॥
वैलक्ष्यात् पुनर् एवासौ राजा राजगृहेश्वरः ।
जरासंधो बली श्रीमान् पाकशासनविक्रमः ॥
स साधनेन महता प्रतापामितविक्रमः ।
कृष्णस्य वधम् अन्विच्छन् भूयो वै संन्यवर्तत ॥
तं श्रुत्वा सहिताः सर्वे निवृत्तं मगधेश्वरम् ।
यादवा मन्त्रयाम् आसुर् जरासंधभयार्दिताः ॥
ततः प्राह महातेजा विकद्रुर् नयकोविदः ।
कृष्णं कमलपत्राक्षम् उग्रसेनस्य शृण्वतः ॥
श्रूयतां तात गोविन्द कुलस्यास्य समुद्भवः ॥
श्रूयताम् अभिधास्यामि प्राप्तकालम् अहं नृप ।
यदुवंशं श्रोतुम् इच्छे प्राप्तकालं अहं तव ।
प्राधान्येन द्विजश्रेष्ठ ब्रूहि तं वै विशेषतः ॥
युक्तं चेन् मन्यसे साधो करिष्यसि वचो मम ॥
यादवस्यास्य वंशस्य समुद्भवम् अशेषतः ।
यथा मे कथितं पूर्वं व्यासेन विदितात्मना ॥
इमं प्रश्नं पुरस्कृत्य विकद्रुर् यदुपूर्वजः ।
कृष्णेन पृष्टः प्रत्याह स्ववंशस्य समुद्भवम् ॥
आसीद् राजा मनोर् वंशे श्रीमान् इक्ष्वाकुसंभवः ।

हर्यश्व इति विख्यातो हर्यश्वसमविक्रमः ॥
तस्यासीद् दयिता भार्या मधोर् दैत्यस्य सा सुता ।
देवी मधुमती नाम यथा देवी शुची तथा ॥
सा यौवनगुणोपेता मन्मथस्त्रीव रूपिणी ।
मनोरथकरी राज्ञः प्राणेभ्यो ऽपि गरीयसी ॥
वनान्तररतिः प्राज्ञा सुश्रोणी कामरूपिणी ।
एकपत्नीव्रतधरा खेचरा इव रोहिणी ।
सा तम् इक्ष्वाकुशार्दूलं कामयाम् आस कामिनी ॥
भर्तारं कृतकर्माणं वचनं चेदम् अब्रवीत् ।
स कदाचिन् नरश्रेष्ठो भ्रात्रा ज्येष्ठेन माधव ।
राज्यान् निरस्तो विश्वस्तः सो ऽयोध्याम् संपरित्यजत् ॥
स तदाल्पपरीवारः प्रियया सहितो वने ।
रेमे समेत्य कालज्ञः प्रियया कमलेक्षणः ॥
भ्रात्रा विनिकृतं राज्यात् प्रोवाच कमलेक्षणा ।
एह्य् आगच्छ नृपश्रेष्ठ त्यज राज्यकृतां स्पृहाम् ॥
गच्छाव सहितौ वीर मधोर् मम पितुर् गृहम् ।
रम्यं मधुवनं नाम कामपुष्पफलद्रुमम् ।
सहितौ तत्र रंस्यावो यथा दिविगतौ तथा ॥
पितुर् मे दयितस् त्वं हि मातुश् च मम पार्थिव ।
मत्प्रियत्वात् प्रियतरो भ्रातुश् च लवणस्य मे ॥
रंस्यावस् तत्र सहितौ राज्यस्थाव् इव कामगौ ।
तत्र गत्वा नरश्रेष्ठ ह्य् अमराव् इव नन्दने ।
विहरिष्याम भद्रं ते यथा देवसुतौ तथा ॥
अश्विनाव् इव देवानां विहरिष्याव नित्यशः ।
त्यज चैनं महाराज भ्रातरं ते ऽतिमानिनम् ।
आवयोर् द्वेषिणं नित्यं मत्तं राज्यमदेन वै ॥
धिग् इमं गर्हितं वासं भृत्यवच् च पराश्रयम् ।
गच्छाव सहितौ वीर पितुर् मे भवनान्तिकम् ॥
तस्य पूर्वविरुद्धस्य पूर्वजं भ्रातरं प्रति ।
कामार्तस्य नरेन्द्रस्य पत्न्यास् तद् रुरुचे वचः ॥
ततो मधुपुरं राजा हर्यश्वः स जगाम ह ।
भार्यया सह कामिन्या कामी पुरुषसत्तमः ॥
मधुना दानवेन्द्रेण स साम्ना समुदाहृतः ।
स्वागतं वत्स हर्यश्व प्रीतो ऽस्मि तव दर्शनात् ॥
यद् इमं मम राज्यं वै सर्वं मधुवनं विभो ।
ददामि तव राजेन्द्र क्षणे ऽस्मिन् प्रतिगृह्यताम् ॥
वने ऽस्मिंल् लवणश् चायं मैथुनं ते भविष्यति ।
लवणश् चाप्य् अयं राजन् वीर्यवान् बलवत्तरः ।
अमित्रनिग्रहे चैव कर्णधारत्वम् एष्यति ॥
पालयेदं शुभं राष्ट्रं समुद्रानूपभूषितम् ।

गोसमृद्धं श्रिया जुष्टम् आभीरप्रायमानुषम् ॥
अत्र ते वसतस् तात दुर्गं गिरिपुरं महत् ।
भविता पार्थिववासः सुराष्ट्रविषयो महान् ॥
अनूपविषयश् चैव समुद्रान्ते निरामयः ।
आनर्तं नाम तद् राष्ट्रं भविष्यत्य् आयतं महत् ॥
तद् भविष्यम् अहं मन्ये कालयोगेन पार्थिव ।
अध्यास्स्व च यथाकामं पार्थिवं वृत्तम् उत्तमम् ॥
यायातम् अपि वंशस् ते समेष्यति च यादवम् ।
अत्र वंशे च वंशस् ते सोमस्य भविता किल ॥
एष मे विषयस् तात तवैव विषयोपमः ।
दत्त्वा यास्यामि तपसे सागरं दानवालयम् ॥
लवणेन समायुक्तस् त्वम् इमं विषयोत्तमम् ।
पालयस्वाखिलं तात स्वस्य वंशस्य वृद्धये ॥
बाढम् इत्य् एव हर्यश्वः प्रतिजग्राह तत्पुरम् ।
स च दैत्यस् तपोवासं जगाम वरुणालयम् ॥
हर्यश्वश् च महातेजा दुर्गं गिरिपुरोत्तमम् ।
निवेशयाम् आस पुरं वासार्थम् अमरोपमः ॥
सत्यनाम च तद् राष्ट्रं सुराष्ट्रं गोधनायुतम् ।
अचिरेणैव कालेन समृद्ध्या प्रतिपूर्यते ॥
अनूपविषयं चैव वेलावनविभूषितम् ।
निविष्टं क्षेत्रसस्याढ्यं प्राकारग्रामसंकुलम् ॥
शशास स नृपः स्फीतं तद् राष्ट्रं राष्ट्रवर्धनः ।
राजधर्मेण यशसा प्रजानां नन्दिवर्धनः ॥
तस्य सम्यक्प्रचारेण हर्यश्वस्य महात्मनः ।
समवर्धत तद् राज्यं राष्ट्रं सर्वगुणान्वितम् ॥
स हि राज्यस्थितो राज्ये राजवृत्तेन शोभितः ।
प्राप्तः कुलोचितां लक्ष्मीं वृत्तेन च नयेन च ॥
तस्यैवं सुप्रवृत्तस्य पुत्रकामस्य भार्यया ।
मधुमत्यां सुतो जज्ञे यदुर् नाम महायशाः ॥
सो ऽवर्धत महातेजा यदुर् दुंदुभिनिस्वनः ।
राजलक्षणसंपन्नः सपत्नैर् दुरतिक्रमः ॥
यदुर् नामाभवत् पुत्रो राजलक्षणसंयुतः ।
यथास्य पूर्वको राजा पूरुः स सुमहायशाः ।
स एक एव तस्यासीत् पुत्रः परमशोभनः ।
ऊर्जितः पृथिवीभर्ता हर्यश्वस्य महात्मनः ॥
दशवर्षसहस्राणि स कृत्वा राज्यम् अव्ययम् ।
जगाम त्रिदिवं राजा धर्मेणास्तमितो भुवि ॥
ततो यदुर् अदीनात्मा प्रजाभिश् चाभ्यषिच्यत ।
पितर्य् उपरते श्रीमान् क्रमेणार्क इवोदितः ॥
शशास चेमां वसुधां शान्तसामन्ततस्कराम् ।

यदुर् इन्द्रप्रतीकाशो नृपो येन स्म यादवाः ॥
स कदाचिन् नृपश् चक्रे जलक्रीडां महोदधौ ।
दारैः सह महोदारैः सतार इव चन्द्रमाः ॥
स तत्र सहसा क्षिप्तिस् तितीर्षुः सागराम्भसि ।
धूमवर्णेन नृपतिः सर्पराजेन वीर्यवान् ॥
सो ऽपकृष्यत वेगेन जले सर्पपुरं महत् ।
मणिस्तम्भगृहद्वारं मुक्तादामविभूषितम् ॥
कीर्णं शङ्खकुलैः शुभ्रै रत्नराशिविभूषितम् ।
प्रवालाङ्कुरपत्राढ्यैः पादपैर् उपशोभितम् ॥
पूर्णं पन्नगनारीभिः समुद्रोदरचारिभिः ।
ध्वजेन मध्ये भास्वन्तं स्वस्तिकेनेन्दुवर्चसा ॥
स तद् ददर्श राजेन्द्रो मज्जितः सागराम्भसि ।
पन्नगेन्द्रपुरं तोये जगत्याम् इव निर्मितम् ॥
स्वस्थश् चैव पुरे तत्र प्रविवेश नृपो यदुः ।
अगारं तोयदाकारं पूर्णं सर्पवधूगणैः ॥
तस्य दत्तं मणिमयं जलजं परमासनम् ।
स्वास्तीर्णं पद्मपत्रैश् च पद्मसूत्रोत्तमच्छदम् ॥
समासीनं नृपं तत्र परमे पन्नगासने ।
द्विजिह्वपतिर् अव्यग्रो धूमवर्णो ऽभ्यभाषत ॥
पिता ते स्वर्गतिं प्राप्तः कृत्वा वंशम् इमं महत् ।
भवन्तं तेजसा युक्तम् उत्पाद्य वसुधाधिपम् ।
यादवो नाम वंशो ऽयं यथा ते पुत्रसंज्ञितः ।
पित्रा ते तात लोके ऽस्मिन् स्थापितः पार्थिवाकरः ॥
वंशे चास्मिंस् तव विभो देवानां तनयाव्ययाः ।
ऋषीणाम् उरगाणां च उत्पत्स्यन्ते नृयोनिजाः ॥
तन् ममेह सुताः पञ्च कुमार्यो वृत्तसंमताः ।
उत्पन्ना यौवनाश्वस्य भगिन्यो नृपसत्तम ॥
प्रतीच्छेमाः स्वधर्मेण प्राजापत्येन कर्मणा ।
वरं च ते प्रदास्यामि वरार्हस् त्वं मतो मम ॥
भौमाश् च कौकुराश् चैव भोजान्धकसयादवाः ।
दाशार्हा वृष्णयश् चेति ख्यातिं यास्यन्ति सप्त ते ॥
स तस्मै धूमवर्णो वै कन्याः कन्याव्रते स्थिताः ।
जलपूर्णेन योगेन ददाव् इन्द्रसमाय वै ॥
वरं चास्मै ददौ प्रीतः स वै पन्नगपुंगवः ।
श्रावयत् कन्यका सर्वा यथाक्रमम् अदीनवत् ॥
एतासु ते सुताः पञ्च सुतासु मम मानद ।
उत्पत्स्यन्ते पितुस् तेजो मातुश् चैव समाश्रिताः ॥
अस्मत्समयबद्धाश् च सलिलाभ्यन्तरेचराः ।
तव वंशे भविष्यन्ति पार्थिवाः कामरूपिणः ॥
स वरं कन्यकाश् चैव लब्ध्वा यदुवृषस् तदा ।

उन्ममज्जाथ वेगेन सलिलाच् चन्द्रमा यथा ॥
स पञ्चकन्यामध्यस्थो रुरुचे तत्र पार्थिवः ।
पञ्चतारेण संयुक्तो नक्षत्रेणेव चन्द्रमाः ॥
स तद् अन्तःपुरं सर्वं ददर्श नृपसत्तमः ।
वैवाहिकेन वेषेण दिव्यस्रगनुलेपनः ॥
समाश्वस्य च ताः सर्वाः पत्नीर् वै पावकोपमाः ।
जगाम स्वपुरं राजा गत्वा वै रमते भृशम् ॥
प्रीत्या परमया युतः ।
स्वपुरं तु ततो राजा @
स तासु नागकन्यासु कालेन महता नृपः ।
जनयाम् आस विक्रान्तान् पञ्च पुत्रान् कुलोद्वहान् ॥
मुचुकुन्दं महाबाहुं पद्मवर्णं तथैव च ।
माधवं सारसं चैव हरितं चैव पार्थिवम् ॥
एतान् पञ्च सुतान् सौम्यान् पञ्चभूतोपमान् भुवि ।
ईक्षमाणो नृपः प्रीतिं जगामातुलविक्रमः ॥
ते प्राप्तवयसः सर्वे स्थिताः पञ्च यथाद्रयः ।
ते जिता बलदर्पेण ऊचुः पितरम् अग्रतः ॥
तात युक्ताः स्म वयसा बले महति तस्थुषः ।
क्षिप्रम् आज्ञप्तुम् इच्छामः किं कुर्मस् तव शासनात् ॥
स तान् नृपतिशार्दूलः शार्दूलान् इव तेजितान् ।
प्राह प्रीत्या परमया सुतवीर्ये कुतूहलः ॥
विन्ध्यर्क्षवन्ताव् अभितो द्वे पुर्यौ पर्वताश्रये ।
निवेशयत्व् अयं तावन् मुचुकुन्दः सुतो मम ॥
सह्यस्य चोपरि पुरीं दक्षिणां दिशम् आश्रितः ।
पद्मवर्णो ऽपि मे पुत्रो निवेशयतु माचिरम् ॥
तस्यैव परतः कान्ते देशे चम्पकभूषिते ।
सारसो मे पुरं तत्र निवेशयतु पुत्रकः ॥
हरितो ऽयं महाबाहुः सागरे हरितोदके ।
द्वीपं पन्नगराजस्य सुतो मे पालयिष्यति ॥
माधवो ऽयं मम सुतो ज्येष्ठः श्रेष्ठश् च धर्मवित् ।
यौवराज्येन संयुक्तः स्वपुरं पालयिष्यति ॥
ते नृपप्रक्रियां प्राप्ता अभिषिक्ताः सचामराः ।
पित्रानुशिष्टाश् चत्वारो लोकपालोपमा नृपाः ॥
स्वं स्वं निवेशनं सर्वे भेजिरे नृपसत्तमाः ।
पुरस्थानानि पुण्यानि मृगयन्तो यथाक्रमम् ॥
मुचुकुन्दस् तु राजर्षिर् विन्ध्यमध्ये व्यरोचत ।
स्वस्थानं नर्मदातीरे दारुणोपलसंकटे ॥
स तु तं शोधयाम् आस विविक्ते विचचार ह ।
सेतुं चैव समं चक्रे परिखाश् चामितोदकाः ॥
स्थापयाम् आस भागेषु देवतायतनानि च ।

रथ्या वीथ्यो नृणां मार्गाश् चत्वराणि गृहाणि च ॥
स तां पुरीं धनवतीं पुरुहूतपुरीप्रभाम् ।
नातिदीर्घेण कालेन चकार नृपसत्तमः ॥
गोभिर् धनेन धान्येन संपूर्णां ध्वजमालिनीम् ।
नाम चास्याः शुभं चक्रे निर्मितं स्वेन तेजसा ।
तस्याः पुर्या नृपश्रेष्ठो देवश्रेष्ठपराक्रमः ॥
महाश्मसंघातवती ऋक्षवन्तम् उपाश्रिता ।
माहिष्मती नाम पुरी प्रकाशम् उपयास्यति ॥
उभाभ्याम् ऋक्षपादाभ्यां पर्वताभ्यां महापुरीम् ।
मध्ये निवेशयाम् आस श्रिया परमया वृताम् ॥
पुरिकां नाम धर्मात्मा पुरीं देवपुरीप्रभाम् ।
उद्यानाम्रवनोपेतां समृद्धापणचत्वराम् ॥
ऋक्षवन्तो ऽभितश् चैव तीरे तत्र निरामये ।
निर्मिता सा पुरी राज्ञा पुरीका नाम नामतः ॥
स ते द्वे विपुले पुर्यौ राजपुर्युपमे शुभे ।
पालयाम् आस धर्मात्मा राजा धर्मेण वीर्यवान् ॥
पद्मवर्णो ऽपि राजर्षिः सह्यपृष्ठे पुरोत्तमम् ।
चकार नद्या वेण्णायास् तीरे तरुलताकुले ॥
विषयस्याल्पतां ज्ञात्वा संपूर्णं राष्ट्रम् एव च ।
निवेशयाम् आस नृपः स वप्रप्रायम् उत्तमम् ॥
पद्मवन्तं जनपदं करवीरं च तत्पुरम् ।
निर्मितं पद्मवर्णेन प्राजापत्येन कर्मणा ॥
सारसेनापि विहितं रम्यं क्रौञ्चपुरं महत् ।
चम्पकाशोकबहुलं विपुलं ताम्रमृत्तिकम् ॥
वनवासीति विख्यातः स्फीतो जनपदो महान् ।
पुरं तु तस्य तच् छ्रीमद् द्रुमैः सर्वर्तुकैर् वृतम् ॥
हरितश् च महाबाहुः पितुर् आज्ञापुरस्कृतः ।
हरितो ऽपि समुद्रस्य द्वीपं समभिपालयन् ।
रत्नसंचयसंपूर्णं नारीजनमनोहरम् ॥
तस्य दाशा जले मग्ना मद्गुरा नाम विश्रुताः ।
ये हरन्ति सदा शङ्खान् समुद्रोदरचारिणः ॥
तस्यापरे दाशगणाः प्रवालाञ् जलसंभवान् ।
संचिन्वन्ति सदा युक्ता जातरूपं च मौक्तिकम् ॥
जलजानि च रत्नानि निषादास् तस्य मानवाः ।
प्रचिन्वन्तो ऽर्णवे युक्ता नौभिः संयानगामिनः ॥
मत्स्यमांसेन ते सर्वे वर्तयन्ति सदा नराः ।
गृह्णन्तः सर्वरत्नानि निरता द्वीपवासिनः ॥
तैः संयानगता रत्नैर् वणिजो दूरदेशजाः ।
हरितं तर्पयन्त्य् एकं यथैव धनदं तथा ॥
एवम् इक्ष्वाकुवंशात् तु यदुवंशो विनिःसृतः ।

चतुर्धा यदुपुत्रैस् तु चतुर्भिर् भिद्यते पुनः ॥
स यदुर् माधवे राज्यं विसृज्य यदुपुंगवे ।
त्रिविष्टपं गतो राजा त्यक्त्वा देहं महीतले ॥
बभूव माधवसुतः सत्वतो नाम वीर्यवान् ।
सत्त्ववृत्तगुणोपेतो राजा राजगुणे स्थितः ॥
सत्वतस्य सुतो राजा भीमो नाम महान् अभूत् ।
येन भैमाः स्म संवृत्ताः सत्वतात् सात्वताः स्मृताः ॥
राज्यस्थे तु नृपे तस्मिन् रामे राज्यं प्रशासति ।
शत्रुघ्नो लवणं हत्वा चिच्छेद स मधोर् वनम् ॥
तस्मिन् मधुवनस्थाने पुरीं च मथुराम् इमाम् ।
निवेशयाम् आस विभुः सुमित्रानन्दिवर्धनः ॥
पर्याये चैव रामस्य भरतस्य तथैव च ।
सुमित्रायाः सुताभ्यां च स्थानं प्राप्तं च वैष्णवम् ॥
सुमित्रासुतयोश् चैव प्राप्तयोर् वैष्णवं पदम् ।
भीमेनेयं पुरी तेन राज्यसंबन्धकारणात् ।
यादवेन पुरी व्याप्ता भीमेन तु महात्मना ।
स्ववंशे स्थापिता पूर्वं स्वयम् अध्यासिता तथा ॥
ततः कुशे स्थिते राज्ये लवे च युवराजनि ।
अन्धको नाम भीमस्य सुतो राज्यम् अकारयत् ॥
अन्धकस्य सुतो जज्ञे रैवतो नाम पार्थिवः ।
ऋक्षस् तु रैवताज् जज्ञे रम्ये पर्वतमूर्धनि ॥
ततस् तु रैवतसुतः पर्वतः सागरान्तिके ।
नाम्ना रैवतको नाम भूमौ भूमिधरः स्मृतः ॥
रैवतस्यात्मजो राजा विश्वगर्भो महायशाः ।
बभूव पृथिवीपालः पृथिव्यां प्रथितः प्रभुः ॥
तस्य भार्यासु तिसृषु दिव्यरूपासु केशव ।
चत्वारो जज्ञिरे पुत्रा रुच्या प्रोष्ठपदोपमाः ॥
वसुर् बभ्रुः सुषेणश् च शुभाक्षश् चैव वीर्यवान् ।
यदुप्रवीराः प्रख्याता लोकपाला इवापरे ॥
तैर् अयं यादवो वंशः पार्थिवैर् बहुलीकृतः ।
ये स्म ते कृष्ण लोके ऽस्मिन् प्रजावन्तः प्रजेश्वराः ॥
वसोस् तु कुन्तिविषये वसुदेवः सुतो ऽभवत् ।
सात्वतं सत्त्वसंपन्नं जनयाम् आस वीर्यवान् ।
जनयाम् आस चैवात्र सुप्रभे द्वे च दारिके ॥
कुन्तीं च पाण्डोर् महिषीं देवताम् इव भूचरीम् ।
भार्यां च चेदिराजस्य दमघोषस्य सुप्रभाम् ॥
भार्यां च दमघोषस्य चेदिराजस्य सुप्रभाम् ।
एष ते स्वस्य वंशस्य प्रभवः परिकीर्तितः ।
श्रुतो मया पुरा कृष्ण कृष्णद्वैपायनान्तिकात् ॥
त्वं त्व् इदानीं प्रनष्टे ऽस्मिन् वंशे वंशभृतां वर ।

मूल पाठ: Harivaṃśa, Appendix I · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc