भाषा

ENहिગુ
ग्रंथ पाठ

हरिवंश · भाग 561580

क्षोभं समायान्ति जगद्गुरौ हरौ ॥
गर्भस्रावं समायान्ति दैत्यदानवयोषितः ।
अकस्मात् क्षोभम् आयान्ति दैत्यानां बलशालिनाम् ।
मनांसि भूतभव्येशे वर्धमाने जगद्गुरौ ।
पूर्णे वर्षसहस्रे तु प्रसूता गर्भम् उत्तमम् ।
सुराणां शरणं देवम् असुराणां विनाशनम् ॥
गर्भस्थेन तु देवेन परित्राताः सुरास् तदा ।
आददानेन तेजांसि त्रैलोक्यस्य महात्मना ॥
तस्मिञ् जाते तु देवेशे त्रैलोक्यस्य सुखावहे ।
भयदे दैत्यसंघानां सुराणां नन्दिवर्धने ॥
विशोका हृष्टमनसः सर्वे देवाः सवासवाः ।
प्रजानां पतयः सप्त सप्त चैव महर्षयः ।
तस्य देवस्य जातस्य नमस्कारं प्रचक्रिरे ॥
भरद्वाजः कश्यपो गौतमश् च @
विश्वामित्रो जमदग्निर् वसिष्ठः ।
यश् चोदितो भास्करो विप्रनष्टे @
सो ऽप्य् अत्रात्रिर् भगवान् आजगाम ॥
मरीचिर् अङ्गिराश् चैव पुलस्त्यः पुलहः क्रतुः ।
दक्षः प्रजापतिश् चैव नमस्कारं प्रचक्रिरे ॥
और्वो वसिष्ठपुत्रश् च स्तम्बः कश्यप एव च ।
कपीवान् अकपीवांश् च दत्तो निश्च्यवनस् तथा ॥
वसिष्ठपुत्राः सप्तासन् वासिष्ठा इति विश्रुताः ।
हिरण्यगर्भस्य सुताः और्वाज् जाताः सुतेजसः ॥
गार्ग्यः पृथुस् तथैवाग्र्यो याम्यो वामन एव च ।
देवबाहुर् यदुध्रश् च पर्जन्यश् चैव सोमजः ॥
हिरण्यरोमा वेदशिराः सत्यनेत्रस् तथैव च ।
विश्वो ऽतिविश्वश् च्यवनः सुधामा विरजास् तथा ।
अतिनामा सहिष्णुश् च नमस्कारम् अकुर्वत ॥
विद्योतमाना वपुषा सर्वाभरणभूशिताः ।
उपनृत्यन्ति देवेशं विष्णुम् अप्सरसां वराः ॥
ततो गन्धर्वतूर्येषु प्रणदत्सु विहायसि ।
बहुभिः सह गन्धर्वैः प्रागायत च तुम्बुरुः ॥
महाश्रुतिश् चित्रशिरा ऊर्णायुर् अनघस् तथा ।
गोमायुः सूर्यवर्चाश् च सोमवर्चाश् च सप्तमः ॥
युगपस् तृणपः कार्ष्णिर् नन्दिश् चित्ररथस् तथा ।
त्रयोदशः शालिशिराः पर्जन्यश् च चतुर्दश ॥
कलिः पञ्चदशश् चात्र नारदश् चैव षोडशः ।
षट्पञ्चाशद् इमे प्रोक्तास् तत्रैव तु महीपते ॥
हाहा हूहूश् च गन्धर्वौ हंसश् चैव महाद्युतिः ।
पर्वतश् च महावाग्मी तन्त्रीलयविशारदः ।

सर्वे ते देवगन्धर्वा उपगायन्ति केशवम् ॥
तथैवाप्सरसो हृष्टाः सर्वालंकारभूषिताः ।
वपुष्मन्त्यः सुजघनाः सर्वाङ्गशुभदर्शनाः ॥
ननृतुश् च महाभागा जगुश् चायतलोचनाः ।
सुमध्याश् चारुमध्याश् च प्रियमुख्यो वराननाः ॥
अनूका च तथा जामी मिश्रकेशी अलंबुसा ।
मरीचिः शुचिका चैव विद्युत्पर्णा तिलोत्तमा ।
अद्रिका लक्ष्मणा चैव रम्भा तद्वन्मनोरमा ॥
असिता च सुबाहुश् च सुप्रिया सुभगा तथा ।
उर्वशी चित्रलेखा च सुग्रीवा च सुलोचना ॥
रक्ताङ्गा सुगरा चैव सुरथा प्रमादिनी ।
नन्दा सरस्वती चैव तथान्यास् तत्र संपदाः ।
पुण्डरीका सुगन्धा च सुरथा च प्रमाथिनी ।
नन्दा सारस्वती चैव तथान्यास् तत्र संघशः ॥
मेनका सहजन्या च पर्णिका पुञ्जिकस्थला ।
एताश् चाप्सरसो ऽन्याश् च प्रनृत्यन्ति सहस्रशः ॥
धातार्यमा च मित्रश् च वरुणो ऽंशो भगस् तथा ।
इन्द्रो विवस्वान् पूषा च त्वष्टा च सविता तथा ।
कथितो विष्णुर् इत्य् एवं काश्यपेयो गणस् तथा ॥
इत्य् एते द्वादशादित्या ज्वलन्तः सूर्यवर्चसः ।
चक्रुस् तस्य सुरेशस्य नमस्कारं महात्मनः ॥
मृगव्याधश् च सर्पश् च निरृतिश् च महायशाः ।
अजैकपाद् अहिर्बुध्न्यः पिनाकी चापराजितः ॥
दहनो ऽअथेश्वरश् चैव कपाली च विशां पते ।
स्थाणुर् भगश् च भगवान् रुद्रस् तत्रावतस्थिरे ॥
स्ताणुश् च भगवान् रुद्रस् तथा एकादशापरे ।
अश्विनौ वसवश् चाष्टौ मरुतश् च महाबलाः ।
विश्वेदेवाश् च साध्याश् च तस्य प्राञ्जलयः स्थिताः ।
शेषानुजा महाभागा वासुकिप्रमुखास् तथा ।
कच्छपश् चापहन्ता च तक्षकश् च महाबलः ॥
विषोल्बणा महावीर्या बलवन्तो यशस्विनः ।
अधृष्यास् तेजसा युक्ता महाक्रोधा महाबलाः ।
एते नागा महात्मानस् तस्मै प्राञ्जलयः स्थिताः ॥
एते चान्ये च बहवो नागास् तस्य महात्मनः ।
तस्थुः प्राञ्जलयः सर्वे नमस्कारं प्रचक्रिरे ।
तार्क्ष्यश् चारिष्टनेमिश् च गरुडश् च महाबलः ।
अरुणश् चारुणिश् चैव वैनतेया ह्य् उपस्थिताः ॥
सर्वे प्राञ्जलयस् तस्थुर् नमस्कारं प्रचक्रिरे ।
स्वर्गस्था देवताश् चैव शचीपतिपुरोगमाः ॥
ऋषयः पितरश् चैव सोमपाश् चाम्बुपाश् च ये ॥

त्रैलोक्यम् अदहत् कृत्स्नं साध्या ये च तपोधनाः ।
चक्रुस् तस्य नमस्कारं सुरेशस्य महात्मनः ।
पितामहश् च भगवान् स्वयम् आगम्य लोककृत् ।
चकार विधिवत् प्रीत्या जातकर्मादिकाः क्रियाः ।
प्राह देवगुरुः श्रीमान् सह सर्वैर् महात्मभिः ॥
यस्मात् प्रसूयते लोकः प्रभविष्णुः सनातनः ।
तस्माल् लोकेश्वरः श्रीमान् विष्णुर् एव भवत्व् अयम् ॥
एवम् उक्त्वा तु भगवान् सार्धं देवर्षिभिः प्रभुः ।
नमस् कृत्वा सुरेशाय जगाम त्रिदिवं पुनः ॥
स तु जातः सुरेशानः कश्यपस्यात्मजः प्रभुः ।
नवदुर्दिनमेघाभो रक्ताक्षो वामनाकृतिः ॥
श्रीवत्सेनोरसि श्रीमांल् लोमजातेन राजता ।
उत्फुल्ललोचनाः सर्वाः पश्यन्त्य् अप्सरसस् तदा ॥
दिवि सूर्यसहस्रस्य भवेद् युगपत्थिता ।
यदि भाः सदृशी सा स्याद् भासस् तस्य महात्मनः ॥
सुरर्षिप्रतिमः श्रीमान् भूर् भुवो भूतभावनः ।
शुचिलोमा महास्कन्धः सर्वतेजोमयः प्रभुः ॥
यो गतिः पुण्यकीर्तीनाम् अगतिः पापकर्मिणाम् ।
योगसिद्धं महात्मानं यं विदुर् योगम् उत्तमम् ॥
यस्याष्टगुणम् ऐश्वर्यं यम् आहुर् देवसत्तमम् ।
यं प्राप्य शाश्वतं विप्रा नियता मोक्षकाङ्क्षिणः ।
प्रविशन्ति महात्मानं योगसिद्धं सनातनम् ॥
यं प्राहुः शाश्वतं दिव्यं गीयतां मोक्षकाञ्क्षिणः ।
जन्मतो मरणाच् चैव मुच्यन्ते भवभीरवः ॥
यद् एतत् तप इत्य् आहुः सर्वाश्रयनिवासिनः ।
सेवन्ते यं यताहारा दुश्चरं व्रतम् आस्थिताः ॥
यो ऽनन्त इति नागेषु सेव्यते सर्वभोगिभिः ।
सहस्रमूर्धा रक्ताक्षः शेषादिभिर् अनुत्तमैः ॥
यो यज्ञ इति विप्रेन्द्रैर् इज्यते स्वर्गलिप्सुभिः ।
नानास्थानगतः श्रीमान् एकः कविर् अनुत्तमः ॥
यं वेदा गान्ति वेत्तारं यज्ञभागप्रदायिनम् ।
वृषार्चिश् चन्द्रसूर्याक्षं देवम् आकाशविग्रहम् ॥
स प्राह त्रिदशान् सर्वान् वाचा वै परया विभुः ।
जानन्न् अपि महातेजा गतो योगेन बालताम् ॥
किं करोमि सुरश्रेष्ठाः कं वरं च ददामि वः ।
यत् काङ्क्षितं वः सर्वेषां तद् वै ब्रूत मुदा युताः ॥
तस्य तद् वचनं श्रुत्वा वामनस्य महात्मनः ।
सर्वे ते हृष्टमनसो देवाः कश्यपनन्दनाः ।
ऊचुः प्राञ्जलयो विष्णुं सुराः शक्रपुरोगमाः ॥
ब्रह्मणो वरदानेन हृतं नो निखिलं जगत् ।

तपसा महता चैव विक्रमेण दमेन च ॥
बलिना दैत्यमुख्येन सर्वज्ञेन महात्मना ।
अवध्यः किल सर्वेशां सो ऽस्माकं देवसत्तम ॥
भवान् प्रभवते तस्य नान्यः कश्चन सुव्रत ।
तत् प्रपद्यामहे सर्वं भवन्तं शरणार्थिनः ।
शरण्यं वरदं देवं सर्वदेवभयापहम् ॥
ऋषीणां च हितार्थाय लोकानां च सुरेश्वर ॥
प्रियार्थं च तथादित्याः कश्यपस्य तथैव च ॥
कव्यं पितॄणाम् उचितं सुराणां हव्यम् उत्तमम् ।
अस्माकं च हितार्थाय त्रैलोक्यस्य च सत्तम ।
प्रवर्ततां महाबाहो यथापूर्वं सुरोत्तम ॥
प्रियहेतोर् अदित्याश् च काश्यपस्य तथैव च ।
आनृण्यार्थं सुरेशस्य वासवस्य महात्मनः ।
प्रत्यानय महेन्द्रस्य त्रैलोक्यम् इदम् अव्ययम् ॥
क्रतुना वाजिमेघेन यजते स हि दानवः ।
सर्वर्तुगुणयुक्तेन विधिदृष्ठेन कर्मणा ॥
अस्मिन् स्थाने तु ते नाथ त्रैलोक्यस्य गतैः सह ।
यत् प्रत्यानयने युक्तं लोकानां तद् विचिन्तय ॥
एवम् उक्तस् तदा देवैर् विष्णुर् वामनरूपधृक् ।
प्रहर्षयन्न् उवाचाथ सर्वान् देवान् इदं वचः ॥
तस्य यज्ञसकाशं मां महर्षिर् वेदपारगः ।
बृहस्पतिर् बृहत्तेजा नयताम् अङ्गिरःसुतः ॥
तस्याहं समनुप्राप्तो यज्ञवाटं सुरोत्तमाः ।
विचरिष्ये यथायुक्तं त्रैलोक्यहरणाय वै ॥
ततो बृहस्पतिः श्रीमान् अनयद् वामनं प्रभुम् ।
यज्ञवाटं महातेजा दानवेन्द्रस्य धीमतः ॥
मौञ्जी यज्ञोपवीती च छत्री दण्डी ध्वजी तथा ।
वामनो धूम्ररक्ताक्षो भगवान् बालरूपधृक् ॥
तं गत्वा यज्ञवाटं तु ब्रह्मर्षिगणसेवितम् ।
प्रविशन्न् एव स श्रीमान् यज्ञवाटं सुरेश्वरः ।
आत्मानम् एव भगवान् वर्णयाम् आस तं क्रतुम् ॥
लोकेश्वरेश्वरः श्रीमान् सुरैर् ब्रह्मपुरोगमैः ।
अन्वास्यमानो भगवान् अवृद्धो ऽप्य् अथ वृद्धवत् ॥
दानवाधिपतेस् तस्य बलेर् वैरोचनस्य ह ।
यज्ञवाटम् अचिन्त्यात्मा जगाम सुरसत्तमः ॥
पालितो ऽपि हि दैतेयैः सांग्रामिकपरिच्छदैः ।
द्वारे दानवसंबाधे सहसैव विवेश ह ॥
ऋत्विग्भिश् चैव मन्त्राद्यैः सर्वतः परिवारितम् ।
दैत्यदानवराजेन्द्रम् उपतस्थे बलिं बली ॥
वर्णयित्वा यथान्यायं यज्ञं यज्ञः सनातनः ।

विस्तरेणामरश्रेष्ठ प्रयोगैर् विविधैस् तथा ॥
शुक्रादीन् ऋत्विजश् चापि यज्ञकर्मविचक्षणान् ।
सर्वान् एवाभिजग्राह चकार च निरुत्तरान् ॥
आराद् अथ बलेस् तस्य ऋत्विजाम् अभितस् तथा ।
यज्ञम् आत्मानम् एवासौ हेतुभिः कारणैर् विभुः ॥
वैदिकैर् अप्रकाशैश् च पुनर् अप्य् अथ भारत ।
प्रत्यक्षम् ऋषिसंघानां वर्णयाम् आस चित्रगुः ॥
ततो निरुत्तरान् दृष्ट्वा सोपाध्यायान् ऋषींश् च तान् ।
अवृद्धेनापि वृद्धांस् तान् वामनेन महौजसा ॥
अद्भुतं चापि मेने स विरोचनसुतो बली ।
मूर्ध्ना कृताञ्जलिश् चेदम् अब्रवीद् धृष्टवद् वचः ॥
कुतस् त्वं को ऽसि कस्यासि किं चेहास्ति प्रयोजनम् ।
नैवंविधः परिज्ञातो दृष्टपूर्वो मया द्विजः ॥
बालो मतिमतां श्रेष्ठो ज्ञानविज्ञानकोविदः ।
शिष्टवाग् रूपसंपन्नो मनोज्ञः प्रियदर्शनः ॥
नेदृशाः सन्ति देवानाम् ऋषीणाम् अपि सूनवः ।
न नागानां न यक्षाणां नासुराणां न रक्षसाम् ॥
न पितॄनां न सिद्धानां गन्धर्वाणां तथैव च ।
यो ऽसि सो ऽसि नमस्ते ऽस्तु ब्रूहि किं करवाणि ते ॥
उक्त एवं ह्य् अचिन्त्यात्मा बलिना वामनस् तदा ।
प्रोवाचोपायतत्त्वज्ञः स्मितपूर्वम् इदं वचः ।
अहो यज्ञो ऽसुरेशस्य बहुभक्षः सुसंस्कृतः ।
पितामहस्येव पुरा यजतः परमेष्ठिनः ॥
सुरेश्वरस्य शक्रस्य यमस्य वरुणस्य च ।
विशेषितास् त्वया यज्ञा दानवेन्द्र महाबल ॥
यजता वाजिमेघेन क्रतूनां प्रवरेण ह ।
सर्वपापविनाशाय स्वर्गमार्गप्रदर्शिना ॥
सर्वकाममयो ह्य् एष संमतो ब्रह्मवादिनाम् ।
क्रतूनां प्रवरः श्रीमान् अश्वमेध इति स्मृतः ॥
सुवर्णशृङ्गो हि महानुभावो @
लोकेश्वरो वायुमयो महात्मा ।
स्वर्गेक्षणः काञ्चनगर्भगौरः @
स विश्वयोनिः परमो हि मेध्यः ॥
आस्थाय वै वाजिनम् आश्वमेधिकम् @
इष्ट्वा नरा दुष्कृतम् उत्तरन्ति ।
यम् आहुर् वै वेदविदो द्विजेन्द्रा @
वैश्वानरं वाजिनम् आश्वमेधिकम् ॥
यथाश्रमाणां प्रवरो गृहाश्रमो @
यथा नृणां प्रवरा ब्राह्मणाश् च ।
यथासुराणां प्रवरो भवान् इह @

तथा क्रतूनां प्रवरो ऽश्वमेधः ॥
एतच् छ्रुत्वा तु दैत्येन्द्रो वामनेन समीरितम् ।
मुदा परमया युक्तः प्राह दैत्यपतिर् बलिः ॥
कस्यासि ब्राह्मणश्रेष्ठ किम् इच्छसि ददामि ते ।
वरं वरय भद्रं ते यथेष्टं कामम् आप्नुहि ॥
न राज्यं न च यानानि न रत्नानि न च स्त्रियः ।
कामये यदि तुष्टो ऽसि धर्मे च यदि ते मतिः ॥
गुर्वर्थं मे ग्रयच्छस्व पदानि त्रीणि दानव ।
त्वम् अग्निशरणार्थाय एष मे परमो वरः ॥
वामनस्य वचः श्रुत्वा प्राह दैत्यपतिर् बलिः ।
एवम् उक्तो ऽसुरश्रेष्ठः सुरश्रेष्ठेन भारत ।
वीतभीः सुरसंघातम् उवाचेदं ततो बलिः ।
त्रिभिः किं तव विप्रेन्द्र पदैः प्रवदतां वर ।
शतं शतसहस्राणां पदानां मार्गतां भवान् ॥
मा ददस्व महाबाहो न तं वेत्सि महासुर ।
एष मायाप्रतिच्छन्नो भगवान् प्रवरो हरिः ॥
वामनं रूपम् आस्थाय शक्रप्रियहितेप्सया ।
त्वां वञ्चयितुम् आयातो बटुरूपधरो विभुः ॥
एवम् उक्तः स शुक्रेण चिरं संचिन्त्य वै बलिः ।
बलिर् दानवराजस् तु अवज्ञाय तु तद् वचः ।
प्रहर्षेण समायुक्तः किं अतः पात्रम् इष्यते ॥
गृह्य हस्ते त्व् असंभ्रान्तो भृङ्गारं कनकामयम् ।
विप्रेन्द्र प्राङ्मुखस् तिष्ठ स्थितो ऽसि कमलेक्षण ॥
प्रतीच्छ देहि किं भूमिं किंमात्रा भोः पदत्रयम् ।
दत्तं वः पातय जलं नैव मिथ्या भवेद् गुरुः ॥
भो न देयं कुतो दैत्य विज्ञातो ऽयं यथा ध्रुवम् ।
को ऽयं विष्णुर् अहो प्रीतिर् वञ्चितस् त्वं न वञ्चितः ॥
कथं स नाथो ऽयं विष्णुर् यज्ञे स्वयम् उपस्थितः ।
दास्यामि देवदेवाय यद् यद् इच्छत्य् अयं प्रभुः ॥
को वान्यः पात्रभूतो ऽस्माद् विष्णोः परतरं भवेत् ।
एवम् उक्त्वा बलिः शीघ्रं पातयाम् आस वै जलम् ॥
पदानि त्रीणि दैत्येन्द्र पर्याप्तानि ममानघ ।
यन् मया पूर्वम् उक्तं हि तत् तथा न तद् अन्यथा ॥
इत्य् एतद् वचनं श्रुत्वा वामनस्य महौजसः ।
कृष्णाजिनोत्तरीयं स कृत्वा वैरोचनिस् तदा ॥
एवम् अस्त्व् इति दैत्येशो वाक्यम् उक्त्वारिसूदनः ।
ततो वारिसमापूर्णं भृङ्गारं स परामृशत् ॥
वामनो ह्य् असुरेन्द्रस्य चिकीर्षुः कदनं महत् ।
क्षिप्रं प्रसारयाम् आस दैत्यक्षयकरं करम् ।
प्राङ्मुखश् चापि दैत्येशस् तस्मै सुमनसा जलम् ।

दातुकामः करे यावत् तावत् तं प्रत्यबोधयत् ॥
तस्य तद् रूपम् आलोक्य अचिन्त्यस्यामितौजसः ।
अभूतपूर्वं देवार्थं जिहीर्षोः श्रियम् आसुरीम् ।
इङ्गितज्ञो ऽग्रतः स्थित्वा प्रह्रादस् त्व् अब्रवीद् वचः ॥
मा ददस्व जलं हस्ते बटोर् वामनरूपिणः ।
स त्व् असौ येन ते पूर्वं निहतः प्रपितामहः ।
विष्णुर् एव महाप्राज्ञस् त्वां वञ्चयितुम् आगतः ॥
हन्त तस्मै प्रदास्यामि देवायेमं प्रतिग्रहम् ।
अनुग्रहकरं देवम् ईदृशं जगतः प्रभुम् ॥
ब्रह्मणो ऽपि गरीयांसं पात्रं लप्स्यामहे वयम् ।
अवश्यं चासुरश्रेष्ठ दातव्यं दीक्षितेन वै ॥
इत्य् उक्त्वासुरसंघानां मध्ये वैरोचनिस् तदा ।
देवाय प्रददौ तस्मै पदानि त्रीणि विष्णवे ॥
दानवेश्वर मा दास् त्वं विप्रायास्मै प्रतिग्रहम् ।
नैनं विप्रशिशुं मन्ये नेदृशो भवति द्विजः ॥
रूपेणानेन दैत्येन्द्र सत्यम् एतद् ब्रवीमि ते ।
नारसिंहम् अहं मन्ये तम् एव पुनर् आगतम् ॥
एवम् उक्तस् तदा तेन प्रह्रादेनामितौजसा ।
प्रह्रादम् अब्रवीद् वाक्यम् इदं निर्भर्त्सयन्न् इव ॥
देहीति याचते यो हि प्रत्याख्याति च यो ऽसुर ।
उभयोर् अप्य् अलक्ष्या वै भागस् तं विशते नरम् ॥
प्रतिज्ञाय तु यो विप्रे न ददाति प्रतिग्रहम् ।
स याति नरकं पापी मित्रगोत्रसमन्वितः ॥
अलक्ष्मीभयभीतो ऽहं ददाम्य् अस्मै वसुंधराम् ।
प्रतिग्रहीता चाप्य् अन्यः कश्चिद् अस्माद् द्विजो ऽथ वै ॥
नाधिको विद्यते यस्मात् तद् ददामि वसुंधराम् ।
हृदयस्य च मे तुष्टिः परा भवति दानव ॥
दृष्ट्वा वामनरूपेण याचन्तं द्विजपुङ्गवम् ।
एष तस्मात् प्रदास्यामि न स्थास्यामि निवारितः ॥
भूयश् च प्राब्रवीद् एनं वामनं बटुरूपिणम् ।
स्वल्पैः स्वल्पमते किं ते पदैस् त्रिभिर् अनुत्तमम् ।
कृत्स्नां ददामि ते विप्र पृथिवीं सागरैर् वृताम् ॥
न पृथ्वीं कामये कृत्स्नां संतुष्टो ऽस्मि पदैस् त्रिभिः ।
एष एव रुचिष्यो मे वरो दानवसत्तम ।
कृत्वार्धं तनु सिंहस्य नरस्यैव परं तथा ।
देवकार्यप्रतिच्छन्नः सर्वभूतसुखावहः ॥
देवानां कार्यसिद्ध्यर्थं नानांशे नि*तः पुनः ।
करोति कदनं नेत्र(?) दुष्टानां पापकर्मिणाम् ॥
एक एव असौ देवः कार्यार्थे बहुतां गतः ।
आपो भूः खं सर्षिगणा देवा ज्योतिर् गणादयः ॥

वायु अनिलेन्दुर्द्धा भूधरा वीरुधादयः ।
यद् अंशभूताः सर्वे ते स एव पुनर् आगतः ॥
आत्मानं बटुम् आस्थाय ययाच त्वां सुरेश्वर ।
न देयं हि न देयं हि इति मे निश्चिता मतिः ।
स कथं याचते मां तु बटुर् भूत्वा हरिः स्वयम् ।
पदानि त्रीणि दैत्येन्द्र यज्ञवाटे ततः पुनः ॥
न विद्यते सुकृतं तात येन स दृष्टिम् आगतः ।
यं ध्यायन्ति च मनसा योगिनो नियमे स्थिताः ।
ब्रह्मदेवो भवश् चैव यं न पश्यति चक्षुषा ॥
नियमेन विना तात भक्त्या वा भजता मयि ।
ईदृशो यदि सो भूतः अतः पर करोमि किम् ।
ततः शुक्रो महातेजा निववार महाबलिम् ।
कर्तव्यं नैतद् इत्य् एवं मायेयं प्रायिकी नृप ॥
बलिर् दानवराजस् तु अवज्ञाय च तद् वचः ।
तथास्त्व् इति बलिः प्रोच्य स्पर्शयाम् आस दानवः ।
कम्पयाम्य् अशयाम् आस तुजेन हृदयेन च (?) ।
पदानि त्रीणि देवाय विष्णवे ऽमिततेजसे ॥
ददौ च सोदकं दैत्यो वामनाय जगत्पतिः ।
असकृत् प्रतिषिद्धो ऽपि शुक्रेण प्रभुमन्त्रिणा ।
तोये तु पतिते हस्ते वामनो ऽभूद् अवामनः ।
सर्वदेवमयं रूपं दर्शयाम् आस वै प्रभुः ॥
भूः पादौ द्यौः शिरश् चास्य चन्द्रादित्यौ च चक्षुषी ।
पादाङ्गुल्यः पिशाचाश् च हस्ताङ्गुल्यश् च गुह्यकाः ॥
विश्वेदेवाश् च जानुस्था जङ्घे साध्याः सुरोत्तमाः ।
यक्षा नखेषु संभूता लेखाश् चाप्सरसस् तथा ॥
दृष्टिर् धिष्ण्यानि विपुलाः केशाः सूर्यांशवस् तथा ।
तारका लोमकूपानि लोमानि च महर्षयः ॥
बाहवो विदिशश् चास्य दिशः श्रोत्रं तथैव च ।
अश्विनौ श्रवणौ चास्य नासा वायुर् महाबलः ॥
प्रसादश् चन्द्रमाश् चैव मनो धर्मस् तथैव च ।
सत्यम् अस्याभवद् वाणी जिह्वा देवी सरस्वती ॥
ग्रीवादितिर् महादेवी तालुः सूर्यश् च दीप्तमान् ।
द्वारं स्वर्गस्य नाभिर् वै मित्रस् त्वष्टा च वै भ्रुवौ ॥
मुखं वैश्वानरश् चास्य वृषणौ तु प्रजापतिः ।
हृदयं भगवान् ब्रह्मा पुंस्त्वं वै कश्यपो मुनिः ॥
पृष्ठे ऽस्य वसवो देवा मरुतः सर्वसंधिषु ।
सर्वच्छन्दांसि दशना ज्योतींषि विमलाः प्रभाः ॥
उरो रुद्रो महादेवो धैर्यं चास्य महार्णवः ।
उदरं चास्य गन्धर्वा भुजगाश् च महाबलाः ॥
लक्ष्मीर् मेधा धृतिः कान्तिः सर्वविद्याश् च वै कटिः ।

ललाटम् अस्य परमं स्वस्थानं परमात्मनः ॥
सर्वज्योतींषि यानीह तपः शक्रस् तु देवराट् ।
तस्य देवाधिदेवस्य तेजश् चासीन् महात्मनः ॥
स्तनौ कक्षौ च वेदाश् च ओष्ठौ चास्य मखाः स्थिताः ।
इष्टयः पशुबन्धाश् च द्विजानां चेष्टितानि च ॥
तस्य देवमयं रूपं दृष्ट्वा विष्णोर् महासुराः ।
अभिसर्पन्ति संक्रुद्धाः पतंगा इव पावकम् ॥
शृणु नामानि सर्वेषां रूपाण्य् अभिजनानि च ।
एतस्मिन्न् अन्तरे देवं जृम्भमाणं जनार्दनम् ।
ऋषयो जनलोकस्था दृष्ट्वा देवं तथाविधम् ।
अस्तुवन् भक्तिनम्रास् ते सनकाद्या मुनीश्वराः ॥
जय देव जगन्नाथ भूतभावन भावन ।
जय विश्व प्रभो विष्णो जय वामन माधव ॥
नमः सहस्रशिरसे देवदेव जगत्पते ।
जयाच्युत हरे विष्णो जयाजेय जगत्पते ॥
नताः स्म भूताधिपम् आदिदेवं @
जगज्जनित्रं सकलस्य जन्तोः ।
परावरेशं परमं वरेण्यं @
नमो नमः सत्यजगत्पते ते ॥
विश्वस्य धातारम् अणीयसाम् अणुं @
वेदान्तवेद्यं परम् आमनन्ति ।
तम् आदिदेवं वरदं वरेण्यं @
नताः स्म तं जगतां पतिम् आदिभूतम् ॥
नमो नमो जगन्नाथ विष्णो देव जगत्पते ।
त्वाम् एव विविधा वेदा वदन्ति ब्रह्म शाश्वतम् ॥
जय देव हरे कृष्ण जय वामन पावन ।
त्वय्य् एव सकलं लोकं पश्यामो जगतीपते ॥
सर्वात्मन् सर्वभूतेश नमस् ते ऽस्तु जनार्दन ।
इति स्तुतो जगन्नाथो व्यजृम्भत जगत्पतिः ।
समक्षं सर्वभूतानां यावद् ब्रह्माण्डसंस्थितः ॥
दक्षिणो ऽप्य् अस्य देवस्य पादपद्मदलं प्रभुम् ।
ब्रह्मलोकं समायाति ब्रह्मणा तत्र पूजितः ॥
इतरश् च महापादः पद्मकिंजल्कसंनिभः ।
रसातलगतस्याथ शेषस्योपरि संस्थितः ।
तत्र नागाः परिवृताः समानर्चुः पदं महत् ॥
एवं विजृम्भतस् तस्य बाहवो विविधाभवन् ।
सहस्रबाहवो विष्णोः पूर्वां दिशम् उपाययुः ॥
याभ्यां सहस्रम् अन्ये तु वारुणीं च तथापरे ।
कौबेरीम् अपरे विष्णोः सहस्रं बाहवो ऽभवन् ॥
अन्तरा च सहस्राणि बाहूनां यान्ति चक्रिणः ॥

केचिच् छङ्खं समादघ्मुः केचिच् छार्ङ्गं विचिक्षिपुः ।
अन्ये खड्गान् समाजह्रुर् अपरे शक्तितोमरान् ॥
अन्ये परिघसक्ताः स्युर् इतरे पाशिनो भवन् ।
बहूनि सुबहून्य् आसन् भीमरूपाणि संततम् ।
एवं विचित्ररूपो ऽसौ व्यजृम्भत जगत्पतिः ॥
एतस्मिन्न् अन्तरे क्रुद्धा दानवाः शस्त्रयोधिनः ।
अभिपेतुर् जगन्नाथं जृम्भमाणम् इतस् ततः ।
नताः स्म हे भूपतिम् आदिदेवम् ।
इति स्तुतो जगन्नाथो व्यजृम्भत जगत्पतिः ।
जय भावन वामन ।
त्यय्य् एव सकलं लोकं पश्यामो जगतीपते ॥
सर्वात्म सर्वभूतेश नमस् ते ऽस्तु जनार्दन ।
इति स्तुतो जगन्नाथो व्यजृम्भत जगत्पतिः ।
समक्षं सर्वभूतानां @
आयुधानि च मुख्यानि दानवानां महात्मनाम् ॥
विप्रचित्तिः शिबिः शङ्कुर् अयःशङ्कुस् तथैव च ।
अयःशिरा अश्वशिरा हयग्रीवश् च वीर्यवान् ॥
वेगवान् केतुमान् उग्रः सोग्रव्यग्रो महासुरः ।
पुष्करः पुष्कलश् चैव साश्वो ऽश्वपतिर् एव च ॥
प्रह्रादो ऽश्वशिराः कुम्भः संह्रादो गगनप्रियः ।
अनुह्रादो हरिहरौ वराहः संहरो ऽरुजः ॥
वृषपर्वा विरूपाक्षो अतिचन्द्रः सुलोचनः ।
निष्प्रभः सुप्रभः श्रीमांस् तथैव च निरूदरः ॥
एकचक्रो महाचक्रो द्विचक्रः कालसंनिभः ।
एकवक्त्रो महावक्त्रो विद्युज्जिह्वोग्रकर्मकृत् ।
शरभः शलभश् चैव कुणपः कुलपः क्रथः ॥
बृहत्कीर्तिर् महागर्भः शङ्कुकर्णो महाध्वनिः ।
दीर्घजिह्वो ऽर्कवदनो मृदुबाहुर् मृदुप्रियः ॥
वायुर् गविष्ठो नमुचिः शम्बरो विक्षरो महान् ।
चन्द्रहन्ता क्रोधहन्ता क्रोधवर्धन एव च ॥
कालकः कालकाक्षश् च वृत्रः क्रोधो विमोक्षणः ।
गविष्ठश् च हविष्ठश् च प्रलम्बो नरकः पृथुः ॥
चन्द्रतापनवातापी केतुमान् बलदर्पितः ।
असिलोमा पुलोमा च बाष्कलः प्रमदो मदः ॥
शृगालवदनश् चैव करालः केशिर् एव च ।
एकाक्षश् च वराहश् च तुहुण्डः सृमलः सृपः ॥
एते चान्ये च बहवः क्रममाणं त्रिविक्रमम् ।
उपतस्थुर् महात्मानं विष्णुं दैत्यगणास् तदा ॥
पाशोद्यतकराः के ऽपि व्यादितास्याः खरस्वनाः ।
शतघ्नीचक्रहस्ताश् च वज्रहस्तास् तथापरे ॥

खड्गपट्टिशहस्ताश् च परश्वधधराः परे ।
प्रासमुद्गरहस्ताश् च तथा परिघपाणयः ॥
महाशनिव्यग्रकरा शूलहस्ता महाबलाः ।
महामुद्गरहस्ताश् च गदाहस्तास् तथा परे ।
महावृक्षोद्यतकरास् तथैव च धनुर्धराः ॥
महापट्टिशहस्ताश् च तथा मुसलपाणयः ।
गदाभुशुण्डिहस्ताश् च वज्रहस्तास् तथापरे ।
असिकम्पनहस्ताश् च दानवा युद्धदुर्मदाः ।
नानाप्रहरणा घोरा नानावेषा महाबलाः ॥
कूर्मकुक्कुटवक्त्राश् च हस्तिवक्त्रास् तथापरे ।
खरोष्ट्रवदनाश् चैव वराहवदनास् तथा ॥
भीमा मकरवक्त्राश् च शिशुमारमुखास् तथा ।
मार्जारशुकवक्त्राश् च दीर्घवक्त्राश् च दानवः ॥
गुरुडाननाः खड्गमुखा मयूरवदनास् तथा ।
अश्ववक्त्रा बभ्रुवक्त्रा घोरा मृगमुखास् तथा ॥
शाखामृगाननाः शूरा छागाविमहिषाननाः ।
सारमेयुमुखा रौद्राः क्रौञ्चवक्त्राश् च दानवाः ।
उष्ट्रशल्यकवक्त्राश् च क्रौञ्चवक्त्राश् दानवाः ।
नकुलश्येनवक्त्राश् च पारावतमुखास्तथा ।
चक्रवाकमुखाश् चैव गोधावक्त्रास् तथापरे ।
नक्रघोराननाः क्रूरा ऋक्षशार्दूलवक्त्रकाः ।
खड्गिसिंहमुखाश् चैव मयूरदनास् तथा ।
तथा मृगाननाः शूरा गोजाविमहिषाननाः ॥
सारमेयमुखा रौद्राश् चाष्टवक्त्राश् च दानवाः ।
कृकलासमुखाश् चैव व्याघ्रवक्त्रास् तथापरे ।
ऋक्षशार्दूलवक्त्राश् च सिंहवक्त्रास् तथापरे ॥
नक्रमेषाननाः क्रूरा अन्ये च गरुडाननाः ।
खड्गश्येनमुखाश् चैव मयूरवदनास् तथा ।
गजेन्द्रचर्मवसनास् तथा कृष्णाजिनाम्बराः ।
चीरसंवृतगात्राश् च तथा फलकवाससः ॥
उष्णीषिणो मुकुटिनस् तथा कुण्डलिनो ऽसुराः ।
किरीटिनो लम्बशिखाः कम्बुग्रीवाः सुवर्चसः ॥
नानावेषधरा दैत्या नानामाल्यानुलेपनाः ।
स्वान्य् आयुधानि दीप्तानि प्रगृह्यासुरसत्तमाः ।
क्रममाणं हृषीकेशम् उपतिष्ठन्ति दानवाः ॥
केचिच् छूलैः समाजघ्नुर् अन्ये परिघसायुकैः ।
कुन्तैः कुठारैः परिघैर् असिभिस् तोमरैः शरैः ॥
बाहुभिर् मुष्टिभिश् चैव तलैर् दन्तैर् नखैस् तथा ।
यथाशक्ति यथायोगं कुर्युर् युद्धं हि दानवाः ।
प्रमथ्य सर्वान् दैतेयान् पादहस्ततलैः प्रभुः ।

जहार त्रिदिवं देवस् त्रिभिर् विक्रमणैर् हरिः ।
दैत्येन्द्रान् स समागत्य बाहुभिश् च तथा परान् ।
निःशेषं दानवबलं चकार हरिर् ईश्वरः ।
रूपं कृत्वा महाकायं जहाराशु स मेदिनीम् ॥
त्रैलोक्यं क्रममाणस्य द्युतिर् आदित्यसंभवा ।
तस्य विक्रमतो भूमिं चन्द्रादित्यौ स्तनान्तरे ।
नभः प्रक्रममाणस्य सक्थिदेशे व्यवस्थितौ ॥
परं विक्रममाणस्य जानुदेशे व्यवस्थितौ ।
विष्णोर् अमितवीर्यस्य वदन्त्य् एवं द्विजातयः ॥
जित्वा लोकत्रयं कृत्स्नं हत्वा चासुरपुंगवान् ।
ददौ शक्राय वसुधां हरिर् लोकनमस्कृतः ॥
पुरंदराय प्रददौ त्रैलोक्यं पुरुषोत्तमः ।
प्रीतस् तस्मै सुरेशाय ददौ विष्णुर् उरुक्रमः ।
सुतलं नाम पातालम् अघस्ताद् वसुधातले ।
बलेर् दत्तं भगवता विष्णुना प्रभविष्णुना ॥
तद् अवाप्यासुरश्रेष्ठश् चकार मतिम् उत्तमाम् ।
रसातलतले वासम् अकरोद् असुराधिपः ॥
तत्रस्थश् च महातेजा ध्यानं परमम् आस्थितः ।
उवाच वचनं धीमान् विष्णुं लोकनमस्कृतम् ।
किं मया देव कर्तव्यं ब्रूहि सर्वम् अशेषतः ॥
पाताले वसता प्रभो ।
शासनं तव विश्वेश @
ततो दैत्याधिपं प्राह देवो विष्णुः सुरोत्तमः ।
ददामि ते महाभाग परितुष्टो ऽस्मि ते ऽसुर ।
वरं वरय भद्रं ते यथेष्टं कामम् आप्नुहि ॥
एवम् उक्त्वा ततो विष्णुर् अथ भूयो ऽसुराधिपम् ।
मा च शक्रस्य वचनं प्रतिहासीः कथंचन ।
अहम् आज्ञापयामि त्वां श्रेयश् चैवम् अवाप्स्यसि ॥
एवम् उक्त्वा तदा विष्णु+ नरेकशः सुराधिपम् ।
अथ दैत्याधिपं प्राह विष्णुर् देवाधिपानुजः ।
वाचा परमया देवो वरेण्यः प्रभुर् ईश्वरः ॥
यत् त्वया सलिलं दत्तं गृहीतं पाणिना मया ।
तस्मात् ते दैत्य देवेभ्यो नास्ति जातु भयं क्वचित् ॥
ते तस्मिन् परितुष्टिश् च वरं चैतच् छृणुष्व मे ।
देवदानवसंघानां न ते जीवितसंक्षयः ।
अमरत्वं हि भवतो नास्ति मृत्युः पितुस् तव ।
ध्याहि मां सततं दैत्य मत्कथापरमो भव ।
सुतलं नाम पातालं तत्र त्वं सानुगो वस ।
सर्वदैत्य्गणैः सार्धं मत्प्रसादान् महासुर ॥
न च ते देवदेवस्य शक्रस्यामिततेजसः ।

शासनं प्रतिहन्तव्यं स्मरता शासनं मम ।
देवताश् चापि ते सर्वाः पूज्या एव महासुर ॥
पातालवासिनो नित्यं मान्यास् तव महर्षयः ।
प्राप्स्यसे च महाभाग दिव्यान् कामान् यथेप्सितान् ।
इह चामुत्र चाक्षय्यान् विविधांश् च परिच्छदान् ॥
दैत्याधिपत्यं च सदा मत्प्रसादाद् अवाप्स्यसि ।
भोगांश् च विविधान् सम्यग् यज्ञांश् च सहदक्षिणान् ॥
यदा चैतां मया प्रोक्तां मर्यादां चालयिष्यसि ।
बन्धिष्यन्ति तदा हि त्वां नागपाशा महाबलाः ॥
नमस्कार्याश् च ते नित्यं महेन्द्राद्या दिवौकसः ।
मम ज्येष्ठः सुरश्रेष्ठः शासनं प्रतिगृह्यताम् ॥
देवदेव महाभाग शङ्खचक्रगदाधर ।
सुरासुरगुरुश्रेष्ठ सर्वलोकमहेश्वर ॥
नमस् करोमि देवेशं त्वां सदा जगतीपते ।
त्वम् एव मम गोविन्द शरणं नान्य एव हि ॥
चिन्तयामि जगन्नाथ त्वाम् एव सततं हरे ।
इदं मम हरे विष्णो वदस्वाद्य हितं विभो ।
तत्रासतो मे पाताले भागं ब्रूहि सुरोत्तम ॥
कथं तत्र मया स्थेयं विबुधानां महेश्वर ।
ममान्नम् अशनं देव प्राशनार्थम् अरिंदम ।
तद् वदस्व सुरश्रेष्ठ तृप्तिर् येन ममाक्षया ॥
अश्रोत्रियं श्राद्दम् अधीतम् अव्रतम् @
अदक्षिणं यज्ञम् अनृत्विजा हुतम् ।
अश्रद्धया दत्तम् असंस्कृतं हविर् @
एते प्रदत्तास् तव दैत्य भागाः ॥
पुण्यं मद्द्वेषिणां यच् च मद्भक्तद्वेषिणां तथा ।
कथासु मम दैत्येन्द्र कथ्यमानासु यत्र ह ।
अशृण्वन् यो नरो गच्छेत् तस्य संवत्सरार्जितम् ।
यत्नेन महता वापि तव सर्वं भविष्यति ॥
अशुश्रूषुर् हरेद् विद्यां सा तवास्तु बले परा ॥
शुद्रान्नम् अश्नताम् येषां पुण्यं यच् चार्जितं महत् ।
क्षुद्रविद्यार्जितं पुण्यं श्रुतिस्मृतिविवर्जितम् ।
वेदोक्तं यत् परित्यज्य धर्मम् अन्यं प्रकुर्वतः ।
क्रयविक्रयसक्तानां पुण्यं यच् चाग्निहोत्रिणाम् ॥
अश्रद्धया च यद् दानं ददताम् यजतां यथा ।
तत् सर्वं तव दैत्येन्द्र मत्प्रसादाद् भविष्यति ॥
शरदृतौ दिनैकं च राज्यं तव भविष्यति ।
पानभोजनसंयुक्तं लक्ष्यायुःकीर्तिकारि च ॥
ब्रह्मक्षत्रियविट्शूद्र+ बन्दिनां सुरपूजितम् ।
सर्वकामसुसंपूर्णं मद्प्रसादाद् भविष्यति ।

एतच् छ्रुत्वा तु वचनं बलिर् विष्णोर् महात्मनः ।
प्रणम्य पातालतलं ययौ वासाय भारत ।
एवम् अस्त्व् इति तं प्रोक्त्वा पातालम् असुरो गतः ।
गतेष्व् अथ महाबाहुर् विष्नुः सत्यपराक्रमः ।
चिन्तयाम् आस भगवान् प्रविभागं जिते(?)स् तदा ॥
अथ चिन्तयतस् तस्य देवा ब्रह्मादयो नृप ।
ते गता जत्वरे(?) चैनं भगवन्तं महाद्युतिम् ।
दिव्यां वै सुरराज्यज्ञ सत्त्वोपायानि निस्वनैः ।
पातालं पातितो दिव्या निगृहाणं च ते क्षयाः ।
निषेकम् इदं सर्वं कृतं ते ऽसुरसूदनः ।
कृष्णाषिष महाबाहो विभागं चिन्तयत् तदा ।
अब्रवीच् च महाबाहो रूपेन्द्रो दानवान्तकृत् ।
इन्द्रो मधुरया वाचा पाल्यतां त्रिदिवं पुनः ।
प्रविवेश महाभागो देवाज्ञां प्रतिपालयन् ॥
एतस्मिन्न् अन्तरे चापि विष्णुस् त्रिदशपूजितः ।
जाम्बवन्तं समाहूय वचनं चेदम् अब्रवीत् ।
मच्छासनं समादाय भेरी संताड्यताम् इति ॥
जाम्बवान् अथ तच् छ्रुत्वा भेरीं संनादयन् बहु ।
यथेष्टं संप्रवर्तन्तां क्रियाः सर्वा मुनीश्वर ॥
देवाः स्वस्थानम् आयन्तु दैत्याः सर्वे हताश्रयाः ।
न भयं विद्यते किंचिज् जितं भगवता जगत् ॥
बलिः प्रविष्टो ऽथ रसातलं महद् @
दैत्या गताः सागरम् एव शेषाः ।
स्वस्थं जगत् सर्वम् इदं मुनीश्वराः @
क्रियाः क्रियतां महतीस् तपोधनाः ॥
विमुच्यन्तां गुहाः सर्वाः पर्वतस्याथ देवताः ।
सदा वेदा ह्य् अधीयन्तां शीघ्रं नाकं प्रपद्यताम् ।
ब्राह्मणाः स्वस्ति वो नित्यं न भयं विद्यते क्वचित् ।
विष्णुर् विक्रमतो राज्यं जहार बलिकण्टकात् ॥
इत्य् उक्त्वा जाम्बवान् ऋक्षः स्थितो मेरोश् च मस्तके ।
समाघ्नन् बहुशस् तूर्यम् आज्ञया केशवस्य हि ॥
तस्य भेरीरवं सर्वं जगद् विक्षोभ्य संस्थितम् ।
पृथिवीम् अन्तरिक्षं च पातालं च समस्पृशत् ॥
श्रुत्वा तु भेरीरवम् आदिमूर्तेर् @
आज्ञाकृतं सागरघोषकल्पम् ।
लोकाश् च सर्वे सचराचराश् च @
स्वस्थानम् आयान्ति भयं विमुच्य ॥
भगवान् अपि राज्यानां प्रविभागं चकार ह ।
ददौ पूर्वां दिशं चैन्द्रीं शक्रायामिततेजसे ॥
याम्यां यमाय देवाय पितृराज्ञे महात्मने ॥

पश्चिमाम् तु दिशं प्रादाद् वरुणाय महात्मने ।
उत्तरां च कुबेराय यक्षाधिपतये दिशम् ।
अघस्तान् नागराजाय सोमायोर्ध्वां दिशं ददौ ॥
एवं विभज्य त्रैलोक्यं विष्णुर् बलवतां वरः ।
वासवे च प्रतिष्ठाप्य त्रैलोक्याधिपतिर् महान् ।
शोकापनयनं चक्रे देवानाम् अजितः प्रभुः ।
अक्षयं चामृतत्वं च ददौ जाम्बवते हरिः ।
शोकापनयनं दत्त्वा देवानां सुरपूजितः ।
जगाम त्रिदिवं देवः पूज्यमानो महर्षिभिः ।
नारदेन जगन्नाथः स्तूतो देवैश् च पूजितः ।
वामनः सर्वभूतेषु प्रतिष्टाप्यैव वासवम् ॥
अधिकं सर्वभूतेषु प्रतिष्ठाप्य च केशवः ॥
इति ते कथितं सर्वं वामनत्वं यथागतम् ।
हरिः सर्वेश्वरो विष्णुः प्राप्तं देवैर् यथा दिवम् ।
तस्मिन् प्रयाते दुर्धर्षे वामने ऽमिततेजसि ।
सर्वे मुमुदिरे देवाः पुरस्कृत्य शतक्रतुम् ॥
गते तु त्रिदिवं कृष्णे बध्वा वैरोचनिं बलिम् ।
नागैः सप्तशिरोभिश् च कम्बलाश्वतरादिभिः ॥
नागबन्धनदुःखार्तं बलिं वैरोचनिं ततः ।
पप्रच्छयासौ देवर्षिर् नारदः प्रत्यपद्यत ॥
स तं कृच्छ्रगतं दृष्ट्वा कृपयाभिपरिप्लुतः ।
उवाच दानवश्रेष्ठं मोक्षोपायं ददामि ते ॥
स्तवं देवाधिदेवस्य वासुदेवस्य धीमतः ।
अनादिनिधनस्यास्य अक्षयस्याव्ययस्य च ॥
तम् अधीष्वाथ दैत्येन्द्र विशुद्धेनान्तरात्मना ।
तद्गतस् तन्मना भूत्वा द्रुतं मोक्षम् अवाप्स्यसि ॥
ततो विरोचनसुतः प्राञ्जलिः प्रयतः शुचिः ।
मोक्षविंशकम् अव्यग्रो नारदात् समधीतवान् ॥
तम् अधीत्य स्तवं दिव्यं नारदेन समीरितम् ।
पृथिवी चोद्धृता येन तं जजाप महासुरः ॥
औं नमो ऽस्त्व् अनन्तपतये अक्षयाय महात्मने ।
जलेशयाय देवाय पद्मनाभाय विष्णवे ॥
सप्तसूर्यवपुः कृत्वा त्रींल् लोकान् क्रान्तवान् असि ।
भगवन् कालकालस् त्वं तेन सत्येन मोक्षय ॥
नष्टचन्द्रार्कगगने क्षीणयज्ञतपःक्रिये ।
पुनश् चिन्तयसे लोकांस् तेन सत्येन मोक्षय ॥
ब्रह्मरुद्रेन्द्रवाय्वग्नि+ सरिद्भुजगपर्वताः ।
त्वत्स्था दृष्टा द्विजेन्द्रेण तेन सत्येन मोक्षय ॥
मार्कण्डेन पुराकल्पे प्रविश्य जठरं तव ।
चराचरगतं दृष्टं तेन सत्येन मोक्षय ॥

एको विद्यासहायस् त्वं योगी योगम् उपागतः ।
पुनस् त्रैलोक्यम् उत्सृज्य तेन सत्येन मोक्षय ॥
जग्मशय्याम् उपासीनो योगनिद्राम् उपागतः ।
लोकांश् चिन्तयसे भूयस् तेन सत्येन मोक्षय ॥
वाराहं रूपम् आस्थाय वेदयज्ञपुरस्कृतम् ।
धरा जलोद्धृता येन तेन सत्येन मोक्षय ॥
उद्धृत्य दंष्ट्रया यज्ञांस् त्रिपिण्डान् कृतवान् असि ।
त्वं पितॄणाम् अपि हरे तेन सत्येन मोक्षय ॥
प्रदुद्रुवुः सुराः सर्वे हिरण्याक्षभयार्दिताः ।
परित्रातास् त्वया देव तेन सत्येन मोक्षय ॥
दीर्घवक्त्रेण रूपेण हिरण्याक्षस्य संयुगे ।
शिरो जहार चक्रेण तेन सत्येन मोक्षय ॥
भग्नमूर्धास्थिमस्तिष्को हिरण्यकशिपुः पुरा ।
हुंकारेण हतो दैत्यस् तेन सत्येन मोक्षय ॥
दानवाभ्यां हृता वेदा ब्रह्मणः पश्यतः पुरा ।
परित्रातास् त्वया देव तेन सत्येन मोक्षय ॥
कृत्वा हयशिरोरूपम् हत्वा तु मधुकैटभौ ।
ब्रह्मणे ते ऽर्पिता वेदास् तेन सत्येन मोक्षय ॥
देवदानवगन्धर्वा यक्षसिद्धमहोरगाः ।
अन्तं तव न पश्यन्ति तेन सत्येन मोक्षय ॥
अपान्तरतमा नाम जातो देवस्य वै सुतः ।
कृताश् च तेन वेदार्थास् तेन सत्येन मोक्षय ॥
वेदयज्ञाग्निहोत्राणि पितृयज्ञहवींषि च ।
रहस्यं तव देवस्य तेन सत्येन मोक्षय ॥
ऋषिर् धीर्घतमा नाम जात्यन्धो गुरुशापतः ।
त्वत्प्रसादाच् च चक्षुष्मांस् तेन सत्येन मोक्षय ॥
ग्राहग्रस्तं गजेन्द्रं च दीनं मृत्युवशं गतम् ।
भक्तं मोक्षितवांस् त्वं हि तेन सत्येन मोक्षय ॥
अक्षयश् चाव्ययश् च त्वं ब्रह्मण्यो भक्तवत्सलः ।
उच्छ्रितानां नियन्तासि तेन सत्येन मोक्षय ॥
शङ्खं चक्रं गदां पद्मं शार्ङ्गं गरुडम् एव च ।
प्रसादयामि शिरसा ते बन्धान् मोक्षयन्तु माम् ॥
शङ्खचक्रगदातूण+ शार्ङ्गं च गरुडादयः ।
हरिं प्रसादयाम् आसुर् बलिं मोक्षय बन्धनात् ॥
ततः प्रसन्नो भगवान् आदिदेश खगेश्वरम् ।
गरुडं नागहन्तारं बलिं मोक्षय बन्धनात् ॥
ततो विक्षिप्य गरुडः पक्षावतुलविक्रमः ।
जगाम वसुधामूलं यत्रास्ते संयतो बलिः ॥
आगमं तस्य विज्ञाय नागा मुक्त्वा महासुरम् ।
ययुः पुरीं भोगवतीं वैनतेयभयार्दिताः ॥

मुक्तं कृष्णप्रसादेन चिन्तयानम् अधोमुखम् ।
भ्रष्टश्रियम् उवाचेदं गरुत्मान् अपपन्नगम् ॥
दानवेन्द्र महाबाहो विष्णुस् त्वाम् अब्रवीत् प्रभुः ।
मुक्तो निवस पाताले सपुत्रजनबान्धवः ॥
इतस्वया न गन्तव्यं गव्यूतिम् अपि दानव ।
समयं यदि भिन्द्यास् त्वं मूर्धा ते शतधा व्रजेत् ॥
पक्षीन्द्रवचनं श्रुत्वा दानवेन्द्रो ऽब्रवीद् इदम् ।
स्थितो ऽस्मि समये तस्य अनन्तस्य महात्मनः ॥
जीव्योपायं तु भगवान् मम किंचित् करोतु सः ।
इहस्थो ऽहम् सुखासीनो येनाप्याये खगेश्वर ॥
बलेस् तु वचनं श्रुत्वा गरुत्मान् इदम् अब्रवित् ।
पूर्वम् एव कृतस् तेन जीव्योपायो महात्मना ॥
प्रवर्तिष्यन्ति ये यज्ञा विधिहीना ह्य् अनृत्विजः ।
प्रायश्चित्तम् अजानन्तो यज्ञभागस् ततस् तव ॥
न तेषां यज्ञभागं वै प्रतिगृह्णन्ति देवताः ।
अनेनाप्यायितबलः सुखम् अत्र निवत्स्यसि ॥
संदेशम् एतं भगवान् दत्तवान् कश्यपात्मजः ।
दानवेन्द्र महाबाहो विष्णुस् त्रैलोक्यभावनः ॥
इमं स्तवम् अनन्तस्य सर्वपापप्रमोचनम् ।
यः पठेत नरो भक्त्या तस्य नश्यति किल्बिषम् ॥
गोहत्यायाः प्रमुच्येत ब्रह्मघ्नो ब्रह्महत्यया ।
अपुत्रो लभते पुत्रं कन्या चैवेप्सितं पतिम् ।
लग्नगर्भात् प्रमुच्येत गर्भिणी जनयेत् सुतम् ॥
ये च मोक्षैषिणो लोके योगिनः सांख्यकापिलाः ।
स्तवेनानेन गच्छन्ति श्वेतद्वीपम् अकल्मषाः ।
सर्वकामप्रदो ह्य् एष स्तवो ऽनन्तस्य कीर्त्यते ॥
यः पठेत् प्रातर् उत्थाय शुचिः प्रयतमानसः ।
सर्वकामम् अवाप्नोति मानवो नात्र संशयः ॥
एष वै वामनो नाम प्रादुर्भावो महात्मनः ।
वेदविद्भिर् द्विजैर् एव पठ्यते वैष्णवं यशः ॥
यस् त्व् इमं वामनं दिव्यं प्रादुर्भावं महात्मनः ।
शृणुयान् नियतो भक्त्या सदा पर्वसु पर्वसु ॥
परान् विजयते राजा यथा विष्णुर् महाबलः ।
यशो विपुलम् आप्नोति विपुलं चाप्नुते वसु ॥
प्रियो भवति भूतानां सर्वेषां वामनो यथा ।
पुत्रांश् च लभते धन्यान् मेघागुणसमन्विता ।
धर्मायुर् अर्था वर्धन्ते आरोग्यगुणसंपदः ।
पठन् नित्यम् इदं सर्वं चरितं वामनस्य ह ।
भक्त्या निष्कल्मषो भूत्वा दीर्घम् आयुर् अवाप्नुयात् ।
चिन्तयेद् वामनं नित्यं श्रियः प्राप्तुं यद् इच्छसि ।

श्रावयेद् दिव्यम् आख्यानं ब्राह्मणेभ्यो दिने दिने ।
पुत्रपौत्राश् च वर्धन्ते आरोग्यगुणसंपदा ॥
प्रीयते पठतश् चास्य देवदेवो जनार्दनः ।
सर्वकामयुतश् चैव कृष्णद्वैपायनो ऽब्रवीत् ॥
अभीक्ष्णं गर्भिणी श्रुत्वा नमस्यति च वामनम् ।
ध्रुवं पुत्रं जनयते देवदेवस्य कीर्तनात् ॥
यस् त्व् इमां हरिवंशस्य संहितां निखिलां पठेत् ।
सो ऽसुक्षये ब्रह्मलोकं गन्ता वै नात्र संशयः ॥
पिता पितामहश् चैव तथैव प्रपितामहः ।
पितामहः पिता चैव विष्णुर् एव न संशयः ।
परिवादो न कर्तव्यो विष्णुरुद्रस्वयंभुवाम् ।
परिवादात् कृमिर् भूत्वा तत्रैव परिवर्तते ॥
मनसा कर्मणा वाचा द्वेषम् एतेषु वर्जयेत् ।
प्रेत्यानन्त्यं फलं भुङ्क्ते इह चैव न संशयः ॥
कृष्णद्वैपायनं व्यासं विद्धि नारायणं प्रभुम् ।
को ह्य् अन्यः पुण्डरीकाक्षान् महाभारतकृद् भवेत् ॥
धर्माणां भाविनां चैव को ब्रूयात् तम् ऋते प्रभुम् ।
वर्ततां ते महायज्ञो यथा संकल्पितस् त्वया ॥
संकल्पिताश्वमेधस् त्वं श्रुत्वा धर्मांश् च शास्वतान् ।
आयुषो ऽन्ते तपस् तप्त्वा गन्तासि त्वं नराधिप ॥
एतत् ते महद् आख्यानं श्रुत्वा त्वं पार्थिवोत्तम ।
ततो यज्ञसमाप्त्यर्थं क्रियाः सर्वाः समारभ ॥
प्रादुर्भावो वामनस्य कथितश् चैष ते मया ।
राजर्षीणाम् ऋषीणां च नारदस्य च संनिधौ ॥
एषा ते वैष्णवी चर्या मया कार्त्स्न्येन कीर्तिता ।
पृच्छतस् तात यज्ञे ऽस्मिन् निवृत्ते जनमेजय ॥
आश्चर्यपर्वम् अखिलं यो हीदं शृणुयान् नरः ।
नाशुभं प्राप्नुया किंचिद् दीर्घम् आयुर् अवाप्नुयात् ॥
यश् चेदं ब्राह्मणो ऽधीते शुचिर् भूत्वा सनातनः ।
भक्तो नारायणं देवं श्रद्दधानो जितेन्द्रियः ॥
सखिलानां सकल्पानां सपादानां क्रमैः सह ।
चतुर्णाम् अपि वेदानां फलभागी भविष्यति ॥
आ ब्रह्मभवनाच् चापि यशः ख्यातिम् असंशयम् ।
भविष्यति नृपश्रेष्ठ सत्यम् एतद् ब्रवीमि ते ॥
इति पारिक्षितो राजा वैशंपायनभाषितम् ।
श्रुत्वा निष्कल्मषो ऽभूत् स हरिवंशं द्विजर्षभात् ॥
शौनकाद् यैर् हि संक्षेपाद् बिस्तरेण तथैव च ।
प्रोक्तस् ते हरिवंशस् तु किम् अन्यत् कथयामि ते ।
त्र्यक्षाद् वधम् अहं ब्रह्मञ् श्रोतुम् इच्छामि तत्त्वतः ।
त्रयाणां पुरसंज्ञानां खेचराणां समासतः ।

शृणु विस्तरतः सर्वं यन् मां पृच्छसि नैधनम् ।
दैत्यानां बाहुबलिनां सर्वप्राणिविरोधिनां ॥
शंकरेण वधं राजञ् शूलैस् त्रिभिर् अजिह्मगैः ।
कृतं पुरासुरेन्द्राणां सर्वभूतवधैषिणाम् ॥
त्रिपुरं पुरुषव्याघ्र बृहद्धातुसमीरितम् ।
विक्रामति नभोमध्ये मेघवृन्दम् इवोत्थितम् ॥
प्राकारेण प्रवृद्धेन काञ्चनेन विराजिता ।
मणिभिश् च प्रकाशद्भिः सर्वरत्नैश् च तोरणैः ॥
बभासे नभसो मध्ये श्रिया परमया ज्वलत् ।
गन्धर्वाणाम् इवोदग्रं कर्मणा साधितं पुरं ॥
वाजिनः पक्षसंयुक्ता वहन्ति बलदर्पिताः ।
पुरं प्रभाकरं श्रेष्ठं मनोभिः कामचारिणः ॥
धावन्तो ह्रेषमाणास् ते विक्रमैः प्राणसंभृतैः ।
आह्वयन्त इवाकाशं खुरैः श्यामदलप्रभैः ॥
वायुवेगसमैर् वेगैः कम्पयन्त इवाम्बरम् ।
सर्वतः समदृश्यन्त चक्षुर्भिर् विहितात्मभिः ॥
ऋषिभिर् ज्वलनप्रख्यैस् तपसा दग्धकिल्बिषैः ।
गीतवादित्रबहुलं गन्धर्वनगरोपमम् ॥
चित्रायुधसमाकीर्णैः प्रतप्तकनकप्रभैः ।
भवनैर् बहुवर्णैश् च प्रांशुभिः समलंकृतैः ॥
देवेन्द्रभवनाकारैः शुशुभे तन् महाद्युति ।
प्रासादाग्रैः प्रवृद्धैश् च कैलासशिखरप्रभैः ॥
शुशुभे दैत्यनगरं बहुसूर्यम् इवाम्बरम् ।
चयाट्टालकसंपन्नं तप्तकाञ्चनसप्रभम् ॥
प्रदीप्तम् इव तेजोभी रराजाथ महाप्रभो ।
क्ष्वेडितोत्क्रुष्टबहुलं सिंहनादविनादितम् ।
बभौ वल्गुजनाकीर्णं वनं चैत्ररथं यथा ॥
समुद्धूतपताकं तद् असिभिश् च विराजितम् ।
रराज त्रिपुरं राजन् महद्विद्युद् इवाम्बरम् ॥
सूर्यनाभश् च दैत्येन्द्रश् चन्द्रनाभश् च भारत ।
तथान्ये च महावीर्या दानवा बलदर्पिताः ॥
ममृदुश् च बभञ्जुश् च मोहिताः परमेष्ठिना ।
पन्थानं देवगमनं पितृयानं च भारत ॥
तैर् एवम् असुराग्रैश् च प्रगृहीतशरासनैः ।
दानवैर् नरशार्दूल देवयाने महापथे ।
पितृवह्निबलोपेते हृते भरतसत्तम ॥
ब्रह्माणम् अभ्यधावन्त सर्वे सुरगणास् तथा ।
विवर्णवदना दीनाश् छिन्ने च गतिकर्मणि ॥
अब्रुवंश् चाग्रतः स्थित्वा स्वरेणार्तनिनादिना ।
हन्यामहे शत्रुगणैर् भागोच्छेदेन भागद ॥

तेषां चैव वधोपायं वदस्व वदतां वर ।
यं ज्ञात्वा बाहुबलिनो वधेम समरे परान् ॥
सान्त्वयित्वाथ वरदो ब्रह्मा प्रोवाच देवताः ।
गच्छध्वम् अमराः सर्वे रुद्रम् आराधितुं भुवि ।
स एव निग्रहे शक्तो दैत्यानां नात्र संशयः ॥
तपसा तस्य देवस्य समर्थो वै ततो भवेत् ।
रुद्रस्याराधनार्थाय देवदेवस्य शाश्वतः ॥
महादेवं विरूपाक्षं भजध्वं त्रिदशोत्तमाः ।
स एव हत्वा तान् सर्वान् कुशलं वो विधास्यति ॥
शृणुध्वं देवताः सर्वाः शत्रुप्रतिकृतिं पराम् ।
अवध्या दानवाः सर्वे ऋते शंकरम् अव्ययम् ॥
प्रतिगृह्य च तद्वाक्यं मनोभिर् वाग्भिर् एव च ।
भूमौ प्रपेदिरे सर्वे सह रुद्रैश् च भारत ॥
विन्ध्यपादे च मेरौ च मध्ये च पृथिवीतले ।
तपसोग्रेण योगज्ञाः सर्वे ते मुनयो ऽभवन् ।
काश्यपेया हरं प्राप्ता जपन्तो ब्रह्मसंहितां ।
तेषां परमनारीणाम् अभवद् धव्यवाहने ।
विन्यस्तदर्भनिचये ताम्रं लोहं च भूषणम् ॥
परिधानानि चर्माणि मृदूनि च शुभानि च ।
स्वयंमृतानां कृष्णानां मृगाणां कुरुसत्तम ।
गृहीतानि विमुक्तानि देहेभ्यो वनचारिणाम् ॥
ते ऽन्तरिक्षम् अथोपेत्य विविशुर् मायया वृताः ।
हरालयं सुराः सर्वे व्याघ्रचर्मनिवासिनः ॥
प्रणिपत्याथ ते दीना भगवन्तं जगत्पतिम् ।
सुव्यक्तेनाभिधानेन प्रभाषन्ते हरं ततः ॥
हविर् दत्तम् इवाज्ञानाद् भस्मच्छन्नेषु वह्निषु ।
वरदानं वृथास्मासु भगवन् विमुखे त्वयि ॥
यथादेशं यथाकालं क्रियतां ब्रह्मणो वचः ।
यद् उक्तं देवदेवेन खेचराणां समीपतः ॥
एवम् आराधितो देवैः सुरासुरनमस्कृतः ।
प्रसन्नचेता भगवान् देवदेवो वृषध्वजः ।
प्रतिजज्ञे ऽसुरवधं सभृत्यबलवाहनम् ॥
ततः प्रोवाच भगवान् पुरंदरपुरोगमान् ।
सर्वे माम् अनुगच्छन्तु त्रिपुरस्य जिघांसया ॥
एवं देववचोभिश् च भाविनो ऽर्थस्य वै बलात् ।
समनह्यन् महादेवो देवैः सह सवासवैः ॥
आदित्या रथम् आस्थाय संनद्धाः समलंकृताः ।
सर्वे काञ्चन वर्णाभा बभुर् दीप्ता इवाग्नयः ॥
रुद्रेण सहिता रुद्रा दहन्त इव तेजसा ।
संनद्धाश् चारुमुकुटाः प्रांशवः पर्वता इव ॥

मूल पाठ: Harivaṃśa, Appendix I · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc