भाषा

ENहिગુ
ग्रंथ पाठ

हरिवंश · भाग 541560

सादितानि महीं जग्मुस् तिष्ठताम् एव संयुगे ॥
अस्त्रफेना ध्वजावर्ता छिन्नबाहुमहोरगा ।
शूलशक्तिमहामत्स्या चापग्राहसमाकुला ॥
रथेषूपलसंबाधा ध्वजद्रुमसमावृता ।
सशब्दघोरविस्तारा लोहितोदाभवन् नदी ॥
सधनुःशक्रधनुषौ काञ्चनाङ्गदविद्युतौ ।
तौ दैत्यकालजलदौ शरधारां व्यमुञ्चताम् ॥
तौ महामेघसंकाशौ रथनागगतौ तदा ।
बभूवतुर् अतिक्रुद्धौ साम्बुगर्भाविवाम्बुदौ ॥
तप्तकाञ्चनसंनाहौ दिव्यहारविभूषितौ ।
तौ विरेजतुर् आयस्तौ सूर्यवैश्वानरोपमौ ॥
तौ महाचलसंकाशाव् अन्योन्यस्य चमूमुखे ।
वज्राशनिसमस्पर्शैर् बाणैर् जघ्नतुर् आहवे ॥
परस्परं समासाद्य तयोर् युधि दुरासदम् ।
नाशंसन्त तदा योधा जीवितान्य् अपि संयुगे ॥
शरनिर्भिन्नसर्वाङ्गा युधि प्रक्षीणजीविताः ।
निपेतुर् योधमुख्यास् तु रुधिरोक्षितवक्षसः ॥
पतितैर् निपतद्भिश् च पात्यमानैश् च संयुगे ।
बभूव भूः समाकीर्णा योधैर् उद्गतजीवितैः ॥
न गृह्णतोः शरान् घोरान् न च संदधतोस् तयोः ।
अन्तरं ददृशे कश्चित् प्रयत्नाद् अपि संयुगे ॥
लघुत्वाच् च महाबाहू युद्धशौण्डौ महाबलौ ।
मण्डलीभूतधनुषौ सकृद् एव बभूवतुः ॥
प्रह्रादस्य च बाणौघैर् दुद्रावान्तकवाहिनी ।
तुद्यमाना बलवता वायुनेवाभ्रमण्डलम् ॥
ततो मुद्गरम् आदाय प्रह्लादो दानवोत्तमः ।
अन्तकाय प्रचिक्षेप तेन भग्नस् तदान्तकः ।
प्राणसंशयम् आपन्नो निपपात महीतले ॥
हतदर्पं तु विज्ञाय प्रह्रादः कालम् आहवे ।
अपयातं च समराद् द्विषन्तं संप्रतर्क्य तम् ॥
तनूजः शार्ङ्गिण इति भीतं नाम तृणाननम् ।
मत्वा वशगतं चैव प्रह्रादो युद्धदुर्मदः ।
तत्रैवान्यां चमूं भूयः स ममर्द महासुरः ॥
कालप्रह्रादयो युद्धम् अभवद् यादृशं पुरा ।
तादृशं सर्वलोकेषु न भूतं न भविष्यति ॥
एवम् अद्भुतवीर्यौजा महारणकृतव्रणः ।
प्रह्रादः परिवृद्धो ऽत्र कालस् त्व् अपसृतो रणात् ॥
धनाध्यक्षम् अनुह्रादः प्रह्रादस्यानुजो बली ।
ससैन्यो योधयाम् आस क्षोभयन् यक्षवाहिनीम् ॥
महता च बलौघेन अनुह्रादो ऽसुरोत्तमः ।

अर्दयाम् आस संक्रुद्धो धनाध्यक्षं प्रतापवान् ॥
अमृष्यमाणस् त्रिदशान् आहवस्थान् उदायुधान् ।
चकार कदनं घोरं धनुष्पाणिर् महासुरः ॥
आवर्त इव संजज्ञे बलस्य महतो महान् ।
क्षुभितस्याप्रमेयस्य सागरस्येव संप्लवः ॥
त्रिदशानां शरीरैस् तु दानवानां च मेदिनी ।
बभूव निचिता घोरैः पर्वतैर् इव संप्लवे ॥
मेरुपृष्ठं तु रक्तेन रञ्जितं संप्रकाशते ।
सर्वतो माधवे मासि पुष्पितैर् इव किंशुकैः ॥
हतैर् वीरैर् गजैर् अश्वैः प्रावर्तत महानदी ।
शोणितौघमहातोया यमराष्ट्रविवर्धनी ॥
शकृन्मेदोमहापङ्का विप्रकीर्णान्त्रशैवला ।
छिन्नकायशिरोमीना अङ्गावयवशाड्वला ॥
गृध्रहंससमाकीर्णा कङ्कसारसनादिता ।
वसाफेनसमाकीर्णा प्रोत्क्रुष्टस्तनितस्वना ॥
तां कापुरुषदुस्तारां युद्धभूमौ महानदीम् ।
नदीम् इव जलापाये हंससार्थोपशोभिताम् ॥
त्रिदशा दानवाश् चैव तेरुस् तां दुस्तरां नदीम् ।
यथा पद्मरजोध्वस् तां नलिनीं गजयूथपाः ॥
ततः सृजन्तं बानौघान् अनुह्रादं रथे स्थितम् ।
ददर्श तरसा देवो निघ्नन्तं यक्षवाहिनीम् ॥
क्रुद्धस् ततो दैत्यबलं सूदयाम् आस वित्तपः ।
विक्षिपन्न् इव खे वायुर् महाभ्रपटलं बलात् ॥
समीक्ष्य तुमुलं युद्धम् अनुह्रादश् च भूपतिः ।
रथेनादित्यवर्णेन कुबेरम् अभिदुद्रुवे ॥
स धनुर् धनिनां श्रेष्ठो विकृष्य रणमूर्धनि ।
उत्ससर्ज शितान् बाणान् वित्तेशस्य महात्मनः ॥
कुबेरं प्राप्य ते बाणा निर्भिद्य सुसमाहिताः ।
अपरान् पृष्ठतो जघ्नुर् व्यासक्तान् यक्षराक्षसान् ॥
देवः शरैर् अभिहतो निशितैर् ज्वलनोपमैः ।
अनुह्रादं प्रत्युदीयात् संक्रुद्धः परमाहवे ॥
ततो वैश्रवणो राजा क्रुद्धो यक्षगणैः सह ।
ववर्ष शरवर्षाणि दानवं प्रति वीर्यवान् ॥
तद् यथा शारदं वर्षं गोवृषः शीघ्रम् आगतम् ।
अपारयन् वारयितुं प्रतिगृह्णन् निमीलितः ॥
एवम् एव कुबेरस्य शरवर्षं महासुरः ।
निमीलिताक्षः सहसा दैत्यः सहति दारुणम् ॥
रोषितः शरवर्षेण धनदेन महाबलः ।
उत्पपात रथात् तूर्णं क्षितिं पद्भ्याम् उपागतः ।
इन्द्रकेतुप्रतीकाशम् अभितो ऽपश्यत द्रुमम् ॥

प्रवृद्धशाखाविटपं तरुणाङ्कुरपल्लवम् ।
उत्पाट्य कुपितो दैत्यस् तरुं फलसमन्वितम् ।
निजघान हयाञ् श्रेष्ठान् कुबेरस्य महाजवान् ॥
तस्य कर्म महाघोरं दृष्ट्वा सर्वे महासुराः ।
सिंहनादं नन्दन्ति स्म अनुह्रादप्रहर्षिताः ॥
तयोस् तु तुमुलं युद्धं संजज्ञे देवदैत्ययोः ॥
बलीन्द्रविजयार्थाय त्रैलोक्यविजयाय च ।
ततस् तौ क्रोधरक्ताक्षाव् अन्योन्यवधकाङ्क्षिणौ ।
अन्योन्यं विविधैः शस्त्रैर् घोरैर् जघ्नतुर् आहवे ॥
त्रिदशा दानवान् युद्धे मथित्वा प्राणदंस् तदा ।
दानवैस् त्रिदशाश् चापि क्रुद्धैर् भुवि निपातिताः ॥
दानवास् त्व् अथ संक्रुद्धास् त्रिदशान् निशितैः शरैः ।
विव्यधुर् वह्निसंकाशैः कङ्कपत्रैर् अजिह्मगैः ॥
विदार्यमाणा दैत्यौघैस् त्रिदशास् तु महाबलाः ।
अमर्षिततरा भूयश् चक्रुः कर्माण्य् अभीतवत् ॥
ते गदाभिः सुभीमाभिः पट्टिशैः शूलम् उद्गरैः ।
परिघैश् च सुतीक्ष्णाग्रैर् दानवाः पीडिताः सुरैः ॥
शरनिर्भिन्नगात्राश् च खड्गविच्छिन्नवक्षसः ।
जगृहुस् ते शिलाश् चैव द्रुमांश् चासुरसत्तमाः ॥
ते भीमवेगा दितिजा नर्दमानाः पुनः पुनः ।
ममन्थुस् त्रिदशान् वीराञ् शतशो ऽथ सहस्रशः ॥
ततः सुतुमुलं युद्धं तेषां समभिवर्तत ।
शिलाभिर् विपुलाभिश् च शतशाखैश् च पादपैः ।
परिघैः पट्टिसैर् भल्लैर् भिण्डिपालैः परश्वधैः ॥
केचिन् निकृत्तशिरसः केचिच् च विदलीकृताः ।
केचिद् विनिहता भूमौ रुधिरार्द्राः सुरासुराः ॥
केचिद् विद्राविता नष्टाः परस्परवधार्दिताः ।
विभिन्नहृदयाः केचिच् छिन्नपादाश् च शेरते ।
विदारितास् त्रिशूलैश् च केचित् तत्र गतासवः ॥
तत् सुभीमं महायुद्धं देवदानवसंकुलम् ।
बभूव शस्त्रतुमुलं शिलापादपसंकुलम् ॥
धनुर् ज्यातन्त्रिमधुरं हिक्कातालसमन्वितम् ।
आर्तस्तनितघोषाढ्यं युद्धं गान्धर्वम् आबभौ ॥
कुबेरः स धनुष्पाणिर् दानवान् रणमूर्धनि ।
दिशो विद्रावयाम् आस संक्रुद्धः शरवृष्टिभिः ॥
कुबेरेणार्दितं सैन्यं विद्रुतं प्रेक्ष्य दानवः ।
अभ्यद्रवद् अनुह्रादः प्रगृह्य विपुलां शिलाम् ॥
क्रोधाद् द्विगुणरक्ताक्षः पितुस् तुल्यपराक्रमः ।
शिलां तां पातयाम् आस कुबेरस्य रथोत्तमे ॥
आपतन्तीं शिलां दृष्ट्वा गदापाणिर् धनाधिपः ।

रथाद् आप्लुत्य वेगेन वसुधायां व्यतिष्ठत ॥
सचक्रकूबरहयं सध्वजं सशरासनम् ।
भङ्क्त्वा रथोत्तमं तस्य निपपात शिला भुवि ॥
विमथ्य तु कुबेरस्य प्रह्रादस्यानुजो रथम् ।
सुराणां कदनं चक्रे सस्कन्धविटपैर् द्रुमैः ॥
विभिन्नशिरसो भग्नास् त्रिदशाः शोणितोक्षिताः ।
द्रुमैः प्रमथिताङ्गाश् च निपेतुर् धरणीतले ॥
विद्राव्य विपुलं सैन्यम् अनुह्रादो ऽसुरोत्तमः ।
गिरिशृङ्गं महद् गृह्य कुबेरम् अभिदुद्रुवे ॥
तम् आपतन्तं धनदो गदाम् उद्यम्य वीर्यवान् ।
विनर्दन्न् आह्वयाम् आस दानवेन्द्रं महाबलम् ॥
तस्य क्रुद्धस्य संक्रुद्धो गदां तां बहुकण्टकाम् ।
न्यपातयत वित्तेशो दानवस्योरसि प्रभुः ॥
दैत्यस् तु क्रोधताम्राक्षस् तं प्रहारम् अचिन्तयन् ।
वित्तेशस्योपरि तदा गिरिशृङ्गम् अपातयत् ॥
स विह्वलितसर्वाङ्गो गिरिशृण्गेण ताडितः ।
पपात सहसा भूमौ विशीर्ण इव पर्वतः ॥
वित्तेशं विह्वलं दृष्ट्वा सर्वे ते यक्षराक्षसाः ।
परिवार्य महात्मानं ररक्षुर् भीमविक्रमाः ॥
मुहूर्तं विह्वलो भूत्वा प्रभुर् विश्रवसः सुतः ।
रराज पतितो भूमौ छिन्नपक्ष इवाचलः ।
उत्थितः सहसा भूयः पिङ्गाक्षः स महाबलः ॥
ननाद च महानादं त्रैलोक्यम् अभिनादयन् ।
जनयन्न् इव निर्घोषं विधमन्न् इव पर्वतान् ॥
तम् अवध्यं तु विज्ञाय निहतं पुनर् उत्थितम् ।
प्रेक्ष्य पिङ्गाक्षम् आयान्तं दानवा विप्रदुद्रुवुः ॥
तांस् तु विद्रवतो दृष्ट्वा अनुह्रादो ऽसुरो ऽब्रवीत् ।
कालनेमिं च नेमिं च महानेमिं च दानवम् ॥
आत्मानं चैव वीर्यं च विस्मृत्याभिजनं तदा ।
क्व गच्छत भयत्रस्ताः प्राकृता इव दानवाः ॥
निवर्तध्वं महावीर्याः किं प्राणान् परिरक्षथ ।
नालं युद्धाय यक्षो ऽयं महतीयं विभीषिका ॥
एतां समुत्थिताम् अद्य दानवानां विभीषिकाम् ।
विक्रम्य विधम् इष्यामि निवर्तध्वं महासुराः ॥
ते ऽसुराः संनिवृत्याथ समदा इव कुञ्जराः ।
निजघ्नुः परमक्रुद्धा देवसैन्यं महासुराः ॥
क्षीणप्रहरणाः केचिन् महामेघनिभस्वनाः ।
दर्पोत्कटा भुजैर् एव संप्रहारं प्रचक्रिरे ॥
पांसुभिश् चैव काष्ठैश् च शिलाभिश् च महाबलाः ।
बाहुभिश् च तथान्योन्यम् आक्षिपन्ति स्म वेगिताः ॥

मुष्तिभिश् च तलैश् चैव नखपातैर् महाबलाः ।
पादपैश् च महाशाखैर् अयुध्यन्त रणाजिरे ॥
अनुह्रादस् तु संक्रुद्धो देवतानां महाचमूम् ।
ममन्थ परमायस्तो वनान्य् अग्निर् इवोत्थितः ॥
रुधिरार्द्रास् तु बहवः शेरते योधसत्तमाः ।
निकृत्ताः पतिता भूमौ ताम्रपुष्पा इव द्रुमाः ॥
अनुह्रादस् तु विक्रान्तो देवांस् त्व् आशीविषोपमान् ।
युध्यमानांश् च समरे व्यसृजन् निशिताञ् शरान् ॥
धनाधिपेन विद्धस्य अनुह्रादस्य संयुगे ।
अङ्गारमिश्राः क्रुद्धस्य मुखान् निश्चेरुर् अर्चिषः ॥
अथ बाणसहस्रेण वित्तेशं दानवोत्तमः ।
विव्याध समरे क्रुद्धो दण्डपाणिर् इवान्तकः ॥
कुबेरस् तु शरैर् भिन्नः समन्तात् क्षतजोक्षितः ।
रुधिरं परिसुस्राव गिरिः प्रस्रवणैर् इव ॥
विह्वलश् चाप्य् अभूद् देवो मुहूर्तं धनदाधिपः ।
लब्ध्वा स तु पुनः संज्ञां रोषरक्तेक्षणः सुरः ।
गदाम् अथ समासाद्य भीमां भीमपराक्रमः ।
चिक्षेष दैत्यम् उद्दिश्य बलात् क्रोधेन मूर्छितः ॥
अप्राप्ताम् अन्तरे सो ऽथ तां गदां गदयासुरः ।
बभञ्ज विनदन् क्रुद्धस् तद् आश्चर्यम् अभूत् तदा ।
प्रगृह्य तु गदां भूयो ह्य् अभिदुद्राव दानवम् ॥
तम् आपतन्तं दृष्ट्वैव अनुह्रादो महाबलः ।
गिरिशृङ्गम् अथोत्पाट्य कैलासाचलसंनिभम् ।
धनाधिपं प्रदुद्राव व्यादितास्य इवान्तकः ॥
तम् अन्तकम् इवायान्तम् अजेयं सकलैः सुरैः ।
ग्रसन्तम् इव तं दैत्यं त्रैलोक्यम् अखिलं रुषा ॥
तम् आलोक्य तथारूपं धनाध्यक्षो रणं भयात् ।
अपहाय ययौ तत्र यत्र शक्रः सुराधिपः ॥
तस्य चापि महत् कर्म दृष्ट्वा वित्तपतिस् तदा ।
नाहं शक्तो रणे योद्धुम् इति मत्वा धनाधिपः ।
जगाम भयसंत्रस्तो यत्र देवः शचीपतिः ॥
विप्रचित्तिस् तु वरुणं दैत्यानाम् आदिर् अव्ययम् ।
जघानेषुगणैः क्रुद्धो दीप्तैर् इव महोरगैः ॥
स दह्यमानो दैत्येन दीप्तैः शरगभस्तिभिः ।
नाभ्यजानत कर्तव्यं संग्रामे स जलेश्वरः ॥
सर्वलोकेश्वरस्येव परमेष्ठी प्रजापतिः ।
विष्णोर् अमिततेजसः ।
नारायणस्य बलवान् @
न शक्नोत्य् अग्रतः स्थातुं विप्रचित्तेर् जलाधिपः ॥
वज्रो नाम महाव्यूहो निर्भयः सर्वतोमुखः ।

तं व्यूह्य प्रत्ययुध्यन्त दानवा देववाहिनीम् ॥
वह्निज्वालासमं तत्र रविमण्डलसंनिभम् ।
मुखम् आभाति दैत्यस्य विप्रचित्तेर् महात्मनः ॥
वरुणस् तु महातेजा विप्रचित्तिं महासुरम् ।
प्रदहन्न् इव तेजोभिर् जिगीषुः प्रत्यवैक्षत ।
कृतस्यन्दनमात्रं तु दत्तपञ्चाङ्गुलान्तरम् ।
स्रग्दाममालाभरणः केयूराङ्गदशोभितः ।
जग्राह परिघं दैत्यः कैलासशिखरोपमम् ॥
पिनद्धं काञ्चनैः पट्टैर् हेममालिनम् आयसम् ।
यमदण्डोपमं घोरं दैत्यानां भयनाशनम् ॥
तम् आविध्य महातेजा महाशक्रध्वजोपमम् ।
विननाद विवृत्तास्यो विप्रचित्तिर् महासुरः ।
स कण्ठस्थेन निष्केण भुजस्थैर् अपि चाङ्गदैः ।
कुण्डलाभ्यां विचित्राभ्यां स्रजा चैव विचित्रया ॥
दानवो भूषणैर् भाति परिघेणायसेन च ।
यथेन्द्रधनुषा मेघः सविद्युत् स्तनयित्नुमान् ॥
आविद्धः परिघस् तेन स्फोटयानो नभस्थलम् ।
प्रस्फोट्य परिघाग्रेण वातस्कन्धान् महास्वनः ।
प्रजज्वाल सधूमार्चिः संघर्षेण यथानलः ॥
विद्याधरगणैः सार्धं गन्धर्वनगराण्य् अपि ।
सह चैवामरावत्या सिद्धलोकैस् तथा सह ॥
ग्रहनक्षत्रचरितं सार्कचन्द्रविभूषितम् ।
दैत्येन्द्रपरिघोद्धूतं भ्रमतीव नभःस्थलम् ॥
दुरासदः स संजज्ञे परिघाभरणः प्रभुः ।
सुरेन्धनो ऽसुरेन्द्राग्निर् युगान्ताग्निर् इवोत्थितः ॥
त्रिदशा वरुणश् चैव न शेकुः स्पन्दितुं भयात् ।
तत्रासीन् निर्भयस् त्व् एकः कौशिको वासवः प्रभुः ॥
भास्करप्रतिमं घोरं परिघं रौद्रदर्शनम् ।
पातयाम् आस सेनायां जलेशस्य महात्मनः ॥
पतता तेन संग्रामे जलेशस्य महात्मनः ।
भूतानां दशसाहस्रं परिघेण समाहतम् ।
पपात स पुनस् तूर्णं वरुणस्येव वक्षसि ।
तस्य गात्रं समासाद्य व्यशीर्यत सहस्रधा ॥
तेषां गात्राणि चासाद्य व्यशीर्यत सहस्रशः ।
विशीर्यमाणो विबभाव् उल्काशतम् इवाम्बरे ॥
भूयश् चैनं तदा भ्राम्य वरुणाय न्यपातयत् ॥
स पपात पुनस् तूर्णं वरुणस्येह वक्षसि ।
पात्यमाने तदा तस्मिञ् शरीरे वरुणस् तदा ।
स भिन्नः परिघो घोरो देवगात्रे व्यशीर्यत ।
शीर्यमाणस्य चूर्णानि खद्योता इव चाम्बरे ॥

स तु तेन प्रहारेण चचाल सलिलाधिपः ।
परिघेणाहतः संख्ये यथा भूमिचले ऽचलः ॥
स सैन्येष्व् अथ भग्नेषु भिन्नदेहेषु चाहवे ।
मुहूर्तम् अगमत् क्षोभम् अपां पतिर् अमर्षणः ॥
सो ऽमर्षवशम् आपन्नो वरुणो ऽमितविक्रमः ।
सर्वसंहारम् अकरोत् स्वपक्षस्यारिमर्दनः ॥
स सागरैश् चतुर्भिस् तु वृतो दीप्तैः सपन्नगैः ।
शङ्खमुक्तामणिनिभो बिभ्रत् तोयम् अयं वपुः ॥
पाण्डुरोद्धूतवसनो नानारत्नचिताङ्गदः ।
वरुणः पाशधृक् श्रीमान् कूर्ममीनसमाकुलः ॥
वरुणस् तु तदा क्रुद्धस् तान् निरीक्ष्य स्वसैनिकान् ।
उवाच हृष्टा युध्यध्वं दानवानां जिघांसया ॥
अहम् एनं हनिष्यामि भयं मुक्त्वा तु युध्यत ।
ततस् ते पन्नगाः सर्वे महार्णवजलाश्रयाः ।
जघ्नुर् दैत्यान् रणमुखे नदन्तो जयगृद्धिनः ॥
ते तु नालीकनाराचैर् गदाभिः परिघैर् अपि ।
अभ्यघ्नन् दानवान् दृप्तान् मुदिता वरुणानुगाः ॥
विप्रचित्तिस् तु संक्रुद्धो महाबलपराक्रमः ।
पन्नगानां शरीराणि व्यधमद् रणमूर्धनि ॥
गारुडेन तु सो ऽस्त्रेण पन्नगान् दानवोत्तमः ।
घातयाम् आस समरे गरुडैः पन्नगाशनैः ॥
स शरैः सूर्यसंकाशैः शातकुम्भविभूषितैः ।
पन्नगान् समरे वीरः प्रममाथ सुदुर्जयः ॥
ते भिन्नगात्राः समरे पन्नगाः शरपीडिताः ।
पेतुर् मथितसर्वाङ्गा गजा इव महागजैः ॥
प्रतपन्तम् इवादित्यं दीप्तैर् बाणगभस्तिभिः ।
अभ्यधावत संक्रुद्धः समरे वरुणः प्रभुः ॥
तं दृष्ट्वा क्रुद्धम् आयान्तं हन्तारं दानवान् बहून् ।
ततस् तु दानवास् तत्र भिन्नदेहाः सहस्रशः ।
व्यथिता विद्रवन्ति स्म दिशो दश विचेतसः ।
इन्द्रस्यार्थे पराक्रम्य वरुणस् त्यक्तजीवितः ।
विनर्दमानो युयुधे समरे पाशभृद् वरः ॥
वारुणाः पन्नगाश् चैव मुष्टिभिः समरोत्कटाः ।
अभ्यवर्तन्त समरे विप्रचित्तिं महासुरम् ॥
ततो ऽस्त्रैश् च शिलाभिश् च प्रहरन् स बलोत्कटः ।
व्यपोहत महातेजा विप्रचित्तिर् महासुरः ॥
ततः पावकसंकाशैः सुमुक्तैः शीघ्रगामिभिः ।
वरुणस्य महावेगान् बिभेद समरे हयान् ॥
कर्मणा तेन महता विप्रचित्तेर् महात्मनः ।
अग्नेर् आज्याहुतस्येव तेजः समभिवर्धत ॥

स शरैः सूर्यसंकाशैः सुमुक्तैः शीघ्रगामिभिः ।
वारुणीं तां महासेनां निर्ममन्थ महासुरः ॥
क्षीणास्त्रां सायकाक्रान्तां शरजालेन मोहिताम् ।
शूलशक्त्यृष्टिभिन्नां च चकार रुधिरोक्षिताम् ॥
शूलशक्त्यष्टिसंभिन्नः शररुद्धः शरक्षतः ।
स शरैर् वह्निसंकाशैः सुमुक्तैर् नतपर्वभिः ।
वरुणस्य महावेगान् बिभेद समरे हयान् ।
अभिद्रुतो ऽथ दैत्येन ससैन्यः सलिलाधिपः ।
महेन्द्रं शरणं प्राप्तो विप्रचित्तेर् भयार्दितः ॥
पराजयं तु देवानां दृष्ट्वाग्निस् त्रिदशोत्तमः ।
चकार बुद्धिं दैत्यानां वधे ब्रह्मर्षिभिः स्तुतः ॥
स्वयंप्रभायाः शाण्डिल्या यः पुत्रो हव्यवाहनः ।
हिरण्यरेताः पिङ्गाक्षो देवदूतो हुताशनः ॥
लोहितो लोहितग्रीवो हर्ता दाता हविः कविः ।
पावको विश्वभुग् देवः सर्वदेवाननः प्रभुः ॥
सुब्रह्मात्मा सुवर्चस्कः सहस्रार्चिर् विभावसुः ।
कृष्णवर्त्मा चित्रभानुर् देवाग्र्यश् चित्र एकराट् ॥
लोकसाक्षी द्विजहुतो वषट्कारप्रियो ऽर्चिमान् ।
हव्यभक्षः शमीगर्भः स्वयोनिः सर्वकर्मकृत् ॥
पावनः सर्वभूतानां त्रिदशानां तपोनिधिः ।
शमनः सर्वपापानां लेलिहानस् तपोमयः ॥
प्रदक्षिणावर्तशिखः शुचिलोमा मखाकृतिः ।
हव्यभुग् भूतभव्येशो हव्यभागहरो हरिः ॥
सोमपः सुमहातेजा भूतेशः सर्वभूतहा ।
अधृष्यः पावको भूतिर् भूतात्मा वै स्वधाधिपः ॥
स्वाहापतिः सामगीतः सोमपूताशनो ऽद्रिधृक् ।
देवदेवो महाक्रोधो रुद्रात्मा ब्रह्मसंभवः ॥
लोहिताश्वं वायुचक्रं रथम् आस्थाय भूतकृत् ।
धूमकेतुर् धूमशिखो नीलवासाः सुरोत्तमः ॥
उद्यम्य दिव्यम् आग्नेयम् अस्त्रं देवो रणे महत् ।
दानवाणां सहस्राणि प्रयुतान्य् अर्बुदानि च ॥
ददाह भगवान् वह्निः संक्रुद्धः प्रलये यथा ।
समरे विजयाकाङ्क्षी ददाहानिलसारथिः ।
प्राणो यः सर्वभूतानां हृदि तिष्ठति पञ्चधा ॥
यन्ता यश् च हुताशस्य सखा च प्रभुर् ईश्वरः ।
प्रभञ्जनो यो लोकानां युगान्ते सर्वनाशनः ॥
सप्तस्वरगता यस्य योनिर् गीर्भिर् उदीर्यते ।
यो ह्य् आकाशगतो देवो दूरगः शब्दसंभवः ॥
यश् च कर्ता विकर्ता च गतिर् गतिमतां प्रभुः ।
देवकर्ता समो लोके ब्रह्मणा यः सनातनः ॥

अमूर्तिमन्तं यं प्राहुर् महाभूतं महत्तरम् ।
सो ऽग्निं समीरयाम् आस शमीगर्भं समीरणः ॥
त्रिदिवारोहिभिर् ज्वालैर् जृम्भमाणो दिशो दश ।
दानवानाम् अभावाय युगान्तग्निर् इवोत्थितः ॥
मेदोमज्जामहापङ्कां केशशैवलशाड्वलाम् ।
योधशीर्षोपलवहां मृतद्विपतटोत्कटाम् ।
शोणितोदां रणे दृष्ट्वा संग्रामसरितं विभुः ॥
वह्निः प्रस्कन्दयाम् आस दैत्यानां भयवर्धनः ।
अग्निस् तु सर्वान् दितिजान् प्रह्रादप्रमुखांस् तदा ।
पराजयाम् आस विभुः क्रोशमानान् महाहवे ॥
केचित् प्रदीप्तैर् मुकुटैः केचिद् दीप्तैः शिरोरुहैः ।
केचित् प्रदीप्तैर् वसनैः केचिद् दीप्तैर् भुजाननैः ॥
केचित् प्रदीप्तैर् वचनैः केचिच् छत्रैर् ध्वजै रथैः ।
असुरास् तत्र दृश्यन्ते प्रदीप्तेनाग्निना वृताः ।
पताकाश् च पराश् चान्ये मुकुतेष्व् अङ्गदेषु च ॥
सैन्यास् ते च न दीप्यन्ते पावकाभिहता रणे ।
असुरा भयवित्रस्ता विद्रुताश् च दिशो दश ॥
त्यक्त्वायुधानि सर्वाणि सध्वजांश् च रथोत्तमान् ।
दग्धाङ्गाः समरे भीताः पावकेन पराजिताः ॥
न च पश्यन्ति ते सर्वे रूपिणं ध्वजिनीमुखे ।
दिशः खं गां च मेघांश् च दीप्तान् पश्यन्ति दानवाः ॥
ध्रुवं स्वयंभुवा सृष्टो युगान्तस् तोययोनिना ।
इत्य् एवं दानवाः सर्वे मेनिरे त्रस्तचेतसः ॥
मयश् च शम्बरश् चैव महामायाधरौ तदा ।
पार्जन्यवारुणी माये व्यधत्तां वारिविक्षरे ॥
ताभ्यां वह्निः स मायाभ्यां शाम्यते व्युत्थितस् तदा ।
स वह्निः शामितस् तदा ।
दैत्याभ्यां घोररूपाभ्यां शामितो वह्निर् अद्भुतः ॥
घनैश् च वृष्टिम् अद्भिश् च जलौघान् बहुशस् तदा ।
नीतो वह्निस् तदा शान्तिं मयेन शम्बरेण च ।
तोयौघैः पर्वतनिभैर् मृद्वर्चिर् अभवद् रणे ॥
शाम्यमाने तु समरे पावके दैत्यनाशने ।
बृहत्कीर्तिर् बृहत्तेजा वह्निम् आह बृहस्पतिः ॥
हिरण्यरेतः सुशिख ज्वलनाक्षय सर्वभुक् ।
सप्तजिह्वानन क्षाम लेलिहान महाबल ॥
आत्मा वायुस् तव विभो शरीरम् उत वीरुधः ।
योनिर् आपश् च ते शुक्रे योनिस् त्वम् असि चाम्भसः ॥
ऊर्ध्वं चाधश् च गच्छन्ति संचरन्ति च पार्श्वतः ।
अर्चिषस् ते महाभाग सर्वतः प्रभवन्ति च ॥
त्वम् एवाग्ने सर्वम् असि त्वयि सर्वम् इदं जगत् ।

त्वं धारयसि भूतानि भुवनं त्वं बिभर्षि च ॥
त्वम् एवाग्ने हव्यवाड् एकस् त्वम् एव परमं हविः ।
यजन्ति च सदा सन्तस् त्वाम् एव परमाध्वरे ॥
त्वम् अन्नं प्राणिनां भुङ्क्षे जग्धपीताशितं विभो ।
लीढा पीतासि च प्रभो ।
त्वम् अन्ते प्राणिनाम् अत्सि @
त्वम् अन्तः प्राणिनाम् आसीद् दग्धपीताशनः प्रभो ।
त्वयि प्रवृत्तो विजयस् त्वयि लोकाः प्रतिष्ट्ःइताः ॥
सर्वांल् लोकांस् त्रीन् इमान् हव्यवाह @
प्राप्ते काले पचसि त्वं समिद्धः ।
त्वम् एवैकस् तपसे जातवेदो @
नान्यस् तप्ता विद्यते गोषु देव ॥
वृषाकपिः सिन्धुपतिस् त्वम् अग्ने @
महामखेष्व् अग्रहरस् त्वम् एव ।
विश्वस्य भूम्नस् त्वम् असि प्रसूतिस् @
त्वं च प्रतिष्ठा भगवन् प्रजानाम् ॥
सृजस्य् अपो रश्मिभिर् जातवेदस् @
तथौषधीर् ओषधीनां रसांश् च ।
विश्वं त्वम् आदाय युगान्तकाले @
स्रष्टा भवस्य् आनल सर्गकाले ॥
त्वम् अग्ने सर्वभूतानां योनिर् वेदेषु गीयसे ।
त्वया देवहितार्थाय निहता दानवा रणे ॥
स्वयोनिस् ते महातेजस् तोयं नखशतार्चितः ।
तां स्वयोनिं समासाद्य किं विषीदसि पावक ॥
गतिस् तवाप्रतिहता भवतः शरणं विभो ।
त्रायस्व देवान् समरे दैत्येभ्यः सुरसत्तम ।
युगान्ताभ सुरारिघ्न विश्वकर्मन् सहस्रभुक् ।
पिङ्गाक्ष लोहितग्रीव कृष्णवर्त्मन् हुताशन ॥
नमस् ते हव्यवाड् एको नमस्ते दाहशक्तये ।
बृहस्पतेस् तु वचनं श्रुत्वाग्निः सत्यम् ईरितम् ।
भूयः प्रजज्वाल रणे हविषेव महामखे ॥
हतास् तु माया दैत्यानां संप्रदीप्ताग्निना रणे ।
हतमाया हतबला बलिं ते समुपस्थिताः ॥
पराजितेषु दैत्येषु वह्निनाद्भुतकर्मणा ।
प्रह्रादस् तूत्तरं वाक्यम् आह दैत्यपतिं बलिम् ॥
भवान् अग्निश् च वायुश् च भास्करः सलिलं शशी ।
नक्षत्राणि दिशो व्योम भूश् च दानवसत्तम ॥
भविष्यं चैव भूतं च भवच् चासुरसत्तम ।
दत्तं हि ते भगवता वरहेतोः स्वयंबुवा ॥
इन्द्रत्वं चामरत्वं च युद्धे चाप्य् अपराजयः ।

ईशित्वं च वशित्वं च बलं चैवामितं तव ।
सर्वभूतेश्वरत्वं च प्रभुत्वं च सदा तव ।
महायोगीश्वरत्वं च शूरत्वं च महामृधे ॥
अमितत्वं लघुत्वं च ये चान्ये सात्त्विका गुणाः ॥
तत् पराजय देवेन्द्रं देवान् सर्वांश् च सानुगान् ।
यथोक्तं ब्रह्मणा राजंस् तत् तथा न तद् अन्यथा ॥
तस्य तद् वचनं श्रुत्वा प्रह्रादस्य महात्मनः ।
बलिः परमसंहृष्टो गतः शत्रुरथो यतः ॥
ततः प्रयान्तं त्रिदशेन्द्रसंनिधौ @
महासुरेन्द्रं बलिम् उत्तमश्रियम् ।
तम् अञ्जसा चक्रुर् अभिप्रदक्षिणं @
द्विजाश् च मुख्याः पशवश् च मङ्गलाः ॥
महाजटाभारधरास् तपस्विनस् @
तदा तम् आहुर् विधिमन्त्रमङ्गलैः ।
अभिष्टुवन्तः कवयः स्वलंकृतं @
बलिं प्रयान्तं रणमूर्धनि स्थितम् ॥
जयाय मन्त्रं कवयस् त्व् अलंकृतं @
बलिं संएत्योचुर् अथाग्रतः स्थितम् ।
प्रतप्तजाम्बूनदचित्रभूषणैर् @
दिव्यैश् च रत्नैर् विविधैर् अलंकृतः ।
विराजमानः परमेण वर्चसा @
रणे विभात्य् अग्निशिखेव दानवः ॥
स वै तदा शत्रुबलार्दितं बलं @
बलिर् ददर्शोत्तमवीर्यविक्रमः ।
जलागमे श्रीमद् इवाभ्रमण्डलं @
विकीर्यमाणं नभसीव वायुना ॥
ततो ददर्शाथ बलानि सर्वतो @
रणे सुगुप्तानि हुताशनेन वै ।
समुत्थितान्य् उत्तमवीर्यवन्ति @
समुद्रवेगान् इव पर्वसंधिषु ॥
स शूलशक्त्यृष्टिगदासिसायकान् @
क्षिपन् रिपूणां समुदग्रतेजसाः ।
ननाद सिंहर्षभमत्तनागवज् @
जलागमे तोयदवच् च वीर्यवान् ॥
दिव्यास्त्रधूमः सुभुजौघवायुर् @
महाबलः पौरुषविक्रमेन्धनः ।
प्रजा दिधक्षन्न् इव कालवह्निः @
सुघोररूपो विबभौ रणे बलिः ॥
बलिना तु सुराः सर्वे वर्जयित्वा सुराधिपम् ।
रणे शरशतैर् भिन्नाः ससैन्या वै पराजिताः ॥

विमुखा सा तु दैत्येन्द्रैर् वध्यमाना महाचमूः ।
जिताश् च बलिना देवाः शक्रम् आहुर् महाबलम् ॥
भवान् इन्द्रश् च धाता च लोकानां प्रभुर् अव्ययः ।
त्वम् अप्रतिमकर्मा च तथैवानुपमद्युतिः ॥
विद्रुतानीह सैन्यानि सहास्माभिः सुरेश्वर ।
रथचक्रध्वजाक्षाणि विभिन्नानि महासुरैः ॥
रथहस्त्यश्वयोधाश् च पदाताश् च सहस्रशः ।
भिन्नाश् छिन्नाश् च शतशो गदामुसलपट्टिसैः ॥
महाभैर् अवरूपं हि दैत्येन्द्रेण कृतं रणे ।
किम् उपेक्षसि दैत्येन्द्रैर् हन्यमानां महाचमूम् ।
त्रायस्व त्रिदशश्रेष्ठ शरण्य शरणागतान् ॥
श्रुत्वा तु वचनं तेषां देवानाम् अमराधिपः ।
संवर्तकम् इव क्रुद्धः सर्वान् दहति दानवान् ॥
दिवाकरकराकारं किरीटं धारयन् प्रबुः ।
वैदूर्यवर्णसंकाशो नानारत्नचिताङ्गदः ।
मयूरलोमा धूम्नाक्षः शतबाहुः सहस्रदृक् ॥
हरिकेशो हरिश्मश्रुर् नागकेतुर् महाबलः ।
वज्रप्रहरणः श्रीमान् योगी शतशिरोधरः ॥
स धनुर् बद्धसंनाहः शतादित्यसमप्रभः ।
देवगन्धर्वयक्षौघैर् अनुयातः सहस्रशः ॥
सामगैः सुजपैश् चापि स्तूयमानो महर्षिभिः ।
शतपर्व महारौद्रं स्फोटनं सर्वतोमुखम् ॥
प्रगृह्य रुचिरं वज्रं दीप्तं रौद्राट्टहासिनम् ।
दैत्यान् अयोधयत् सर्वान् महेन्द्रः पाकशासनः ।
अधृष्यः सर्वभूतानाम् अदित्या दयितः सुतः ॥
ततः प्रवृत्तः संग्रामो बलिवासवयोस् तदा ।
उभाभ्यां देवदैत्याभ्याम् अचिरान् महदद्भुतः ।
अतिवीर्यबलोदग्रस् तुमुलो लोमहर्षणः ॥
शरैर् अनेकसाहस्रैर् अर्दयाम् आस वासवः ।
बलिं बलवतां श्रेष्ठं बलिश् चापि सुरेश्वरम् ॥
उभौ तौ लोकविख्यातौ बलिवासवशब्दितौ ॥
ततः क्रुद्धो बलिर् दैत्यः शक्रं हन्तुं महामृधे ।
नारायणं महारौद्रम् अस्त्रम् आदाय दानवः ।
सिंहनादं विनद्याशु तिष्ठेत्य् असकृद् अब्रवीत् ॥
शक्रो ऽपि तेन देवेशो वारयित्वा समुद्यतम् ।
पर्जन्यम् अथ माहेन्द्रं वारुणं वायुसंज्ञितम् ।
चत्वार्य् एतानि संगृह्य शक्रस् तिष्ठेति चाब्रवीत् ॥
तैस् तानि च समाहत्य ननाद विपुलं बलिः ।
स पाशुपतम् आदाय बलिर् बलवतां वरः ।
अनेन त्वां हनिष्यामि बलिर् आह शतक्रतुम् ॥

तेनैव तत् समाहत्य शक्रो दीप्तत्वम् आययौ ॥
अस्त्रे पाशुपते चैव निर्भग्ने वैष्णवे तदा ।
कृत्ये चैव तदा मूढे शक्रो वज्रं समाददे ॥
भ्रामयित्वा शतगुणं मोक्तुम् ऐच्छच् छतक्रतुः ।
ततो हाहाकृतं सर्वं जगद् आसिज् जगत्पते ॥
ततो बलिर् महातेजा ब्रह्मास्त्रं च समाददे ।
तेन तत् प्रहृतं घोरं वज्रम् अस्त्रं महारणे ॥
इत्थं वृत्ते महाघोरे संग्रामे देवदैत्ययोः ।
उभौ तौ कृत्यसंमूढौ वीर्यवन्तौ महारणे ।
विजेतुकामाव् अन्योन्यम् ईश्वरौ लोकविश्रुतौ ॥
उभाभ्यां देवदैत्याभ्याम् अचिरान् महदद्भुतः ।
महादेवस्तुतिशतैः कर्मभिर् जयसंमितैः ।
प्रबोधितो दैत्यपतिर् अग्निर् इद्ध इवाबभौ ॥
सुरासुरेन्द्रयोर् दृष्ट्वा संग्रामं लोमहर्षणम् ।
देवानां दानवानां च भूयो युद्धम् अभूत् तदा ॥
ततो ऽविध्यन् महेन्द्रस् तं बलिं शस्त्रैर् महाबलः ।
तान्य् अस्त्राणि महाबाहुश् चिच्छेद शतधा रणे ॥
ततः क्रुद्धः पुनस् तत्र निजघ्ने दानवं महत् ।
आग्नेयम् अथ शत्रुघ्नं चिक्षेपेन्द्रो महाबलः ।
तं दृष्ट्वा खे समागच्छत् प्रलयानलसंनिभम् ।
शातयाम् आस तच् चैन्द्रं वारुणास्त्रेण धीमता ॥
संक्रुद्धो मघवा वज्रम् अगृह्णात् पर्वतोपमम् ।
हन्तुकामो बलश्लाघी बलिं दैत्याधिपं रणे ॥
ततः शुश्राव देवेन्द्रः कौशिको हरिवाहनः ।
अशरीरां शुभां वाणीं तस्मिन् महति वैशसे ॥
निवर्तस्व महाबाहो सुराणां नन्दिवर्धन ।
पुरंदर सुरश्रेष्ठ जेष्यसि बलिं रणे ॥
तपसा ह्य् उत्तमो दैत्यो वरदानेन चाधिकः ।
स्वयंभूपरितोषाच् च सत्यधर्माच् च वासव ।
नैष शक्यस् त्वया जेतुं त्रिदशैर् वा सुरेश्वर ॥
न शक्यो भवता जेतुं कुतो ऽन्यैस् त्रिदशालयैः ।
यो ह्य् अस्य जेता भगवांस् तं शृणुष्व समाहितः ।
ब्रह्मणः स हि सर्वस्वं देवानां चैव सा गतिः ॥
परं रहस्यं धर्मस्य परस्य च परा गतिः ।
परात् परतरः श्रीमाण् परावरगतिः प्रभुः ॥
व्यक्ताव्यक्तमहाभूतो भूतभव्यभवत्प्रभुः ।
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
शङ्खचक्रगदापाणिः पीतवासाः सुरारिहा ।
जेताजेयो जयः श्रीमान् सो ऽस्य जेता भविष्यति ॥
श्रुत्वा दिव्यां तु मधुरां वाणीं ताम् अशरीरिणीम् ।

अपयातो रणाच् छक्रः सार्धं सर्वैर् मरुद्गणैः ॥
अपयातो तु देवेन्द्रे कौशिके हरिवाहने ।
सिंहनादो महान् आसीद् दानवानां महामृधे ॥
जितं त्रिभुवनं सर्वं बलिनेति महामृधे ।
ततः किलकिलाशब्दः क्ष्वेडितास्फोटितस्वनः ।
शङ्खानां निनदश् चात्र योधानां वल्गितस्वनः ॥
वादित्राणां च निर्घोषस् तुमुलश् चाभवत् तदा ।
जयशब्दरवश् चैव देवानां तु पराजये ॥
ससैन्यो दैत्यराजस् तु स्तूयमानः सुहृद्गणैः ।
बलिर् इन्द्रो बभौ दैत्यो हिरण्यकशिपुर् यथा ॥
निष्प्रयत्नेषु देवेषु त्रैलोक्ये दैत्यपालिते ।
जये बलेर् बलवतो मयशम्बरयोस् तथा ॥
शुद्धासु दिक्षु सर्वासु प्रवृत्ते धर्मकर्मणि ।
अपावृते देवपथे अयनस्थे दिवाकरे ॥
प्रह्रादशम्बरमयैर् अनुह्रादेन चैव हि ।
दिक्षु सर्वासु गुप्तासु गगने दैत्यपालिते ॥
देवेषु मखशोभाश् च स्वर्गार्थं दर्शयत्सु च ।
प्रकृतिस्थे तदा लोके वर्तमाने च सत्पथे ॥
अभावे सर्वपापानां भावे चैव तथा स्थिते ।
भावे तपसि सिद्धानां सर्वत्राश्रमरक्षिषु ॥
भावे च कार्यसिद्धीनां सद्वार्तानयशीलिषु ।
चतुष्पादे स्थिते धर्मे अधर्मे पादविग्रहे ।
प्रजापालनयुक्तेषु भ्राजमानेषु राजसु ॥
स्वधर्मसंप्रयुक्तेषु सर्वाश्रमनिवासिषु ।
अभिषिक्तो ऽसुरैः सर्वैर् देवराज्ये बलिस् तदा ॥
हृष्टेष्व् असुरसंघेषु नदत्सु मुदितेषु च ।
अथाभ्युपगता लक्ष्मीर् बलिं पद्मासने स्थिता ।
पद्मोद्यतकरा देवी वरदासुरसेविनी ॥
श्रीर् उवाचासुरपतिं सुप्रसन्नमुखी तदा ।
बले बलवतां श्रेष्ठ महाराज महाद्युते ।
प्रीतास्मि तव भद्रं ते देवतानां पराजये ॥
यत् त्वया युधि विक्रम्य देवराजः पराजितः ।
दृष्ट्वा ते परमं सत्त्वं ततो ऽहं स्वयम् आगता ॥
नाश्चर्यं दानवश्रेष्थ हिरण्यकशिपोः कुले ।
प्रसूतस्यासुरेन्द्रस्य तव कर्मेदम् ईदृशम् ॥
विशेषितस् त्वया राजन् दैत्येन्द्रः स पितामहः ।
रसो दिव्या नृत्यसीमा स्वर्गस्थाः सर्वसंपदः ।
येन भुक्तं हि निखिलं त्रैलोक्यम् इदम् अव्ययम् ॥
विशेषतस् तव विभो सर्वो धर्मः स्थितः पथि ।
तेन त्रैलोक्यम् अक्षय्यं भोक्ष्यस्य् अमितविक्रम ।

एवम् उक्त्वा हि सा देवी लक्ष्मीर् दैत्यपतिं बलिम् ।
ग्रविष्टा वरदा सौम्या सर्वभूतमनोरमा ॥
शिष्टाश् च दिव्यः प्रवरा ह्रीः कीर्तिर् द्युतिर् एव च ।
प्रभा धृतिः क्षमा भूतिर् नीतिर् विद्या दया मतिः ॥
स्मृतिर् मेघा तथा लज्जा लक्ष्मीर् ईडा गतिस् तथा ।
श्रुतिः प्रीतिस् तथा कान्तिः शान्तिः पुष्टिः क्रिया तथा ॥
अनुप्रविष्टास् ताः सर्वा दैत्यनाथं महाबलम् ।
सर्वाश् चाप्सरसो दिव्या नृत्यगीतविशारदाः ।
उपतस्थुर् महात्मानं बलिं इन्द्रं महारथम् ॥
प्रतिपन्नं तु दैतेयैस् त्रैलोक्यं सचराचरम् ।
प्राप्तम् ऐश्वर्यम् अमितं बलिना ब्रह्मवादिना ॥
पराजिताः सुरा दैत्यैः किम् अकुर्वत वै मुने ।
कथं च त्रिदिवं लब्धं भूयो देवैर् द्विजोत्तम ॥
श्रुत्वा वाणीं तु तां दिव्यां सह देवैः सुराधिपः ।
प्राग्दिशं प्रस्थितः श्रीमान् अदित्यालयम् उत्तमम् ॥
देवमातुः सुरश्रेष्ठो देवैः सह पुरंदरः ।
प्राप्यादित्यालयं शक्रः कथयाम् आस तां गिरम् ।
अदित्या सा यथा युद्धे तेन वाणी पुरा श्रुता ॥
यद्य् एवं पुत्र युष्माभिर् न शक्यो हन्तुम् आहवे ।
बलिर् विरोचनसुतः सर्वैश् चैव मरुद्गणैः ॥
सहस्रशिरसा हन्तुं केवलं शक्यते ऽसुरः ।
तेनैकेन सहस्राक्ष न ह्य् अन्येन शतक्रतो ॥
तद् वः पृच्छामि पितरं कश्यपं सत्यवादिनम् ।
तद् गच्छ पितरं पृच्छ काश्यपं ब्रह्मवादिनम् ।
पराजयार्थं दैत्यस्य बलेस् तस्य महात्मनः ॥
ततो ऽदित्या सह सुराः संप्राप्ताः कश्यपान्तिकम् ।
अपश्यन् कश्यपं तत्र मुनिं दीप्ततपोनिधिम् ॥
आद्यं देवगुरुं दिव्यं क्लिन्नं त्रिषवणाम्बुभिः ।
तेजसा भास्कराकारं गौरम् अग्निशिखाप्रभम् ॥
न्यस्तदण्डं तपोयुक्तं बद्धकृष्णाजिनोत्तरम् ।
वल्कलाजिनसंवीतं प्रदीप्तं ब्रह्मवर्चसा ॥
संवेष्टितजटाभारं प्रदीप्तम् इव पावकम् ।
हुताशम् इव दीप्यन्तम् आज्यमन्त्रपुरस्कृतम् ।
स्वाध्यायनिरतं नित्यं वपुष्मन्तम् इवानलम् ॥
तं ब्रह्मवादिनां श्रेष्ठं सुरासुरगुरुं प्रभुम् ।
ब्रह्मवादी सत्यवादी सुरासुरगुरुश् च सः ।
प्रतपन्तम् इवादित्यं मारीचं दीप्ततेजसम् ॥
त्रैलोक्ये ऽप्रतिमं लक्ष्म्या काश्यपं दीप्ततेजसम् ।
यः स्रष्टा सर्वभूतानां प्रजानां पतिर् उत्तमः ।
आत्मभावविशेषेण तृतीयो यः प्रजापतिः ॥

ततः प्रणम्य ते वीराः सहादित्या सुरर्षभाः ।
ऊचुः प्राङ्जलयः सर्वे ब्रह्माणम् इव मानसाः ॥
यच् छ्रुतं युधि शक्रेण सरस्वत्या समीरितम् ।
अजेयस् त्रिदशैः सर्वैर् बलिर् दानवसत्तमः ॥
श्रुत्वा तु वचनं तेषां पुत्राणां कश्यपस् तदा ।
चकार गमने बुद्धिं ब्रह्मलोकाय लोककृत् ॥
गच्छाम ब्रह्मसदनं ब्रह्मघोषनिनादितम् ।
यथाश्रुतं च तत्रैव ब्रह्मणे वदतानघाः ॥
ततो ऽदित्या सह सुरा यान्तं कश्यपम् अन्वयुः ।
प्रस्थितं ब्रह्मसदनं देवर्षिगणसेवितम् ॥
ते मुहूर्तेन संप्राप्ता ब्रह्मलोकं दिवौकसः ।
दिव्यैः कामगमैर् यानैर् महार्हैः सुमनोहरैः ॥
दिदृक्षवस् ते ब्रह्माणं तपसो राशिम् अव्ययम् ।
अभ्यगच्छन्त विस्तीर्णां ब्रह्मणः परमां सभाम् ॥
षट्पदोद्गीतिनिनदां सामगैः समुदीरिताम् ।
यजुवदार्थतत्त्वज्ञैर् आवृतां वेदपारगैः ।
अध्वर्युवृषभैश् चैव नादितां सर्वतः शुभाम् ॥
ऋचो बह्वृचमुख्यैश् च प्रोक्ताः पुण्यपराक्षराः ।
षट्पदोद्गीतनिनदां सामगीतविमिश्रिताम् ।
श्रेयस्करीम् अमित्रघ्नीं दृष्ट्वा संजहृषुर् मुदा ।
सर्वकामदुघां दिव्यां शीतान्ते धर्मदाम् इव ।
शुश्रुवुर् मधुरां देवा ब्रह्मणः सदने स्थिताः ॥
ब्राह्मणैश् च महाभागैर् वेदवेदाङ्गपारगैः ।
श्रेयस्करीम् अमित्रघ्नीं श्रुत्वा संजहृषुर् मुदा ।
ऋचो बह्वृचमुख्यैश् च प्रेर्यमाणैः पदक्रमैः ।
शब्दनिर्वचनार्थं च प्रेर्यमाणपदाक्षराः ।
शुश्रुवुस् ते ऽमरव्याघ्रा विततेषु च कर्मसु ॥
यज्ञवेदाङ्गविद्भिश् च क्रमशिक्षाविशारदैः ।
घोषेण परमर्षीणां सा बभूव विनादिता ॥
यज्ञसंस्तवविद्भिश् च शिक्षाविद्भिस् तथा द्विजैः ।
शब्दनिर्वचनार्थज्ञैर् सर्वविद्याविशारदैः ।
वाक्यैर् नानार्थसंयोगैः समवायविशारदैः ।
हृष्टपुष्टस्वरैस् तत्र द्विजेन्द्रैर् वल्गुवादिभिः ।
नादितं ब्रह्मसदनं प्रवरं देवसद्मवत् ॥
ते तत्र समनुप्राप्य शृण्वन्तो वै ध्वनिं सुराः ।
पूतान्य् आत्मशरीराणि मेनिरे ते न संशयः ॥
तूष्णीभूता एकचित्ता ब्रह्मण्यगतमानसाः ।
विस्मयोत्फुल्लनयना निरीक्षन्तः परस्परम् ॥
नमस्कुर्वन्ति च पुनर् गुरुं लोकगुरुं प्रभुम् ।
मनसैव सुरश्रेष्ठाः पुरस्कृत्य तु कश्यपम् ॥

पुनः प्रहृष्टाः परमं वेदोच्चारणनिस्वनम् ।
गम्भीरोदारमधुरं सुस्वरं हंसगद्गदम् ॥
मीमांसाहेतुवाक्यज्ञैः सर्ववादविशारदैः ।
लोकायतिकमुख्यैश् च शुश्रुवुः स्वनम् ईरितम् ।
तत्र तत्र च विप्रेन्द्रान् नियतान् संशितव्रतान् ।
जपहोमपरान् मुख्यान् ददृशुः कश्यपात्मजाः ॥
तस्यां सभायाम् आस्ते स्म ब्रह्मा लोकपितामहः ।
सुरासुरगुरुः श्रीमान् विधिवद् देवमायया ॥
उपासते च तत्रैनं प्रजानां पतयः प्रभुम् ।
दक्षः प्रचेताः पुलहो मरीचिश् च द्विजोत्तमः ॥
भृगुर् अत्रिर् वसिष्ठश् च गौतमो नारदस् तथा ।
मनो द्यौर् अन्तरिक्षं च वायुस् तेजो जलं मही ॥
शब्दः स्पर्शश् च रूपं च रसो गन्धस् तथैव च ।
प्रकृतिश् च विकारश् च यच् चान्यत् कारणं महत् ॥
साङ्गोपाङ्गाश् चतुर्वेदाः सरहस्यपदक्रमाः ।
क्रियाश् च क्रतवश् चैव संकल्पः प्राण एव च ॥
एते चान्ये च बहवः स्वयंभुवम् उपस्थिताः ।
अर्थो धर्मश् च कामश् च द्वेषो हर्षश् च नित्यदा ॥
शुको बृहस्पतिश् चैव संवर्तो बुध एव च ।
शनैश् चरश् च राहुश् च ग्रहाः सर्वे ह्य् अशेषतः ॥
मरुतो विश्वकर्मा च नक्षत्राणि च भारत ।
दिवाकरश् च सोमश् च ब्रह्माणं समुपासते ।
सावित्री दुर्गतरणी वाणी सप्तविधा तथा ॥
सर्वाणि श्रुतिशास्त्राणि गाथाश् च नियमास् तथा ।
भाष्याणि सर्वशास्त्राणि देहवन्ति विशां पते ॥
क्षणा लवा मुहूर्ताश् च दिवा रात्रिश् च भारत ।
अर्धमासाश् च मासाश् च ऋतवः षट् तथैव च ॥
संवत्सराश् चतुर्युगं मासा रात्रिश् चतुर्विधाः ।
कालचक्रं च यद् दिव्यं नित्यम् अध्रुवम् अव्ययम् ॥
एते चान्ये च बहवः स्वयंभुवम् उपस्थिताः ।
ते प्रविष्टाः सभां दिव्यां ब्रह्मणः सर्वकामदाम् ॥
कश्यपस् त्रिदशैः सार्धं पुत्रैर् धर्मविशारदैः ।
सर्वतेजोमयीं दिव्यां ब्रह्मर्षिगणसेविताम् ॥
ब्राह्म्या श्रिया दीप्यमानम् अचिन्त्यं विगतक्लमम् ।
ब्रह्माणं वीक्ष्य ते सर्वे आसीनं परमासने ।
शिरोभिः प्रणताः सर्वे देवाः काश्यप एव च ।
जग्मुर् मूर्ध्ना शुभौ पादौ ब्रह्मणस् ते दिवौकसः ॥
शिरोभिः स्पृश्य चरणौ तस्य ते परमेष्ठिनः ।
विमुक्ताः सर्वपापेभ्यः शान्ता विगतकल्मषाः ॥
दृष्त्वा तु तान् सुरान् सर्वान् कश्यपेन सहागतान् ।

आह ब्रह्मा महातेजा देवानां प्रभुर् ईश्वरः ॥
यदर्थम् इह संप्राप्ता भवन्तः सर्व एव हि ।
विजानाम्य् अहम् अव्यग्रम् एनम् अर्थं महाबलाः ॥
भविष्यति च वः सो ऽर्थः काङ्क्षितो यः सुरोत्तमाः ।
बलेर् दानवमुख्यस्य यो वै जेता भविष्यति ॥
न खल्व् असुरसंघानाम् एको जेता स विश्वकृत् ।
न केवलं सुरारीणां विजेता विश्वकर्मकृत् ।
त्रैलोक्यस्यापि जेतासौ देवानाम् अपि चोत्तमः ॥
धाता चैव हि लोकानां विश्वयोनिः सनातनः ।
यो मान्यः सर्वभूतानां यश् च भूतः सनातनः ।
पूर्वदेवं सदा प्राहुर् हेमगर्भनिदर्शनम् ॥
आत्मा वै येन विभुना कृतो ऽजेयो महात्मना ।
बलेर् असुरमुख्यस्य विश्वस्य जगतस् तथा ॥
परं देवस्य विश्वस्य जगतः शाश्वतस् तथा ।
प्रभवः स हि सर्वेषाम् अस्माकम् अपि पूर्वजः ।
अचिन्त्यः स हि विश्वात्मा योगयुक्तः परं तपः ॥
तं देवापि महात्मानं न विदुः को ऽप्य् असाव् इति ।
वेदात्मानं च विश्वं च स देवः पुरुषोत्तमः ॥
तस्यैव तु प्रसादेन तस्य वक्ष्ये परां गतिम् ।
यत्र योगं समास्थाय तपश् चरति दुश्चरम् ॥
क्षीरोदस्योत्तरे कूले उदीच्यां दिशि देवताः ।
अमृतं नाम परमं स्थानम् आहुर् मनीषिणः ॥
भवन्तस् तत्र वै गत्वा तपसा संशितव्रताः ।
अमृतं स्थानम् आसाद्य तपश् चरत दुश्चरम् ॥
तत्र श्रोष्यथ विस्पष्टां स्निग्धगम्भीरनिस्वनाम् ।
उष्णगे तोयपूर्णस्य तोयदस्य समस्वनाम् ॥
युक्ताक्षरपदस्निग्धां रम्याम् अभयदां शिवाम् ।
वाणीं परमसंस्कारां वरदां ब्रह्मवादिनीम् ॥
दिव्यां सरस्वतीं सत्यां सर्वकिल्बिषनाशिनीम् ।
सर्वदेवाधिदेवस्य भाषितां भावितात्मनः ॥
तस्य व्रतसमाप्त्यां तु यावद् व्रतविसर्जनात् ।
अमोघां तस्य देवस्य विश्वे देवा महात्मनः ॥
दर्शनं वो भविष्यति ।
अथ युष्मान् हरिर् ब्रूयात् किम् आगमनकारणम् ।
स्वागतं वः सुरश्रेष्ठा मत्सकाशे व्यवस्थिताः ।
कस्य कं वा वरं देवा ददामि वरदः स्थितः ॥
तं कश्यपो ऽदितिश् चैव वरं गृह्णीत वै ततः ।
प्रणम्य शिरसा पादौ तस्मै योगात्मने तदा ॥
भगवान् एव नः पुत्रो भवत्व् इति न संशयः ।
उक्तश् च परया भक्त्या तथास्त्व् इति स वक्ष्यति ॥

देवा ब्रुवन्तु ते सर्वे भ्राता नस् त्वं भवेति च ।
तथास्त्व् इति च स श्रीमान् वक्ष्यते सर्वलोककृत् ॥
तस्माद् एवं गृहीत्वा तु वरं त्रिदशसत्तमाः ।
कृतकृत्याः पुनः सर्वे गच्छध्वं स्वं स्वम् आलयम् ॥
तथास्त्व् इति सुराः सर्वे कश्यपो ऽदितिर् एव च ।
वन्दित्वा ब्रह्मचरणौ गताः सौम्यां दिशं प्रति ॥
ते ऽचिरेणैव संप्राप्ताः क्षीरोदस्योत्तरं तटम् ।
यथोद्दिष्ठं भगवता ब्रह्मणा ब्रह्मवादिना ॥
ते ऽतीत्य सागरान् सर्वान् पर्वतांश् च बहून् क्षणात् ।
नदीश् च विविधा दिव्याः पृथिव्यां सुरसत्तमाः ॥
पश्यन्ति च सुघोरां वै सर्वसत्त्वविवर्जिताम् ।
अभास्कराम् अमर्यादां तमसा संवृतां दिशम् ॥
अमृतं स्थानम् आसाद्य कश्यपेन सुराः सह ।
दीक्षिताः कामदं दिव्यं व्रतं वर्षसहस्रकम् ॥
प्रसादार्थं सुरेशाय तस्मै योगाय धीमते ।
नारायणाय देवाय सहस्राक्षाय भूतये ॥
ब्रह्मचर्येण मौनेन स्थानवीरासनेन च ।
दमेन च सूराः सर्वे तपो दुश्चरम् आस्थिताः ॥
कश्यपस् तत्र भगवान् प्रसादार्थं महात्मनः ।
उदीरयति वेदोक्तं यम् आहुः परमं स्तवम् ॥
सर्वकामयुतं चैव कृष्णद्वैपायनो ऽब्रवीत् ।
कृताञ्जलिपुटो भूत्वा प्रोच्चार्य प्रणवं सकृत् ।
एकाग्रः प्रयतो भूत्वा तुष्टाव जगतीपतिम् ।
॥* नमो ऽस्तु ते देवदेव एकशृङ्ग वराह वृषार्चिष वृषसिन्धो वृषाकपे सुरवृषभ सुरनिर्मित अनिर्मित भद्र कपिल विष्वक्सेन ध्रुवधर्म धर्मराज वैकुण्ठ शतावर्त अनादिमध्यनिधन धनंजय शुचिश्रवः अग्निज वृष्णिज अज अजय अमृतेश सनातन विधातः त्रिकाम त्रिधाम त्रिककुत् कुकुद्मिन् दुंदुभे महानाभ लोकनाभ पद्मनाभ विरिञ्चे वरिष्ठ बहुरूप विरूप विश्वरूप अक्षय अक्षर सत्याक्षर हंसाक्षर हव्यभुज खण्डपरशो शुक्र मुञ्जकेश हंस महदक्षर हृषीकेश सूक्ष्म परमसूक्ष्म तुराषाट् विश्वमूर्ते सुराग्रज नील निस्तम विरज तमोरजःसत्त्वधाम सर्वलोकप्रतिष्ठ शिपिविष्ट सुतपः तपोग्र अग्र अग्रज धर्मनाभ गभस्तिनाभ धर्मनेमे सत्यधाम सत्याक्षर गभस्तिनेमे विपाप्मन् चन्द्ररथ त्वम् एव समुद्रवासी अज एकपात् सहस्रशीर्ष सहस्रसंमित महाशीर्ष सहस्रदृक् सहस्रपात् अधोमुख महामुख महापुरुष पुरुषोत्तम सहस्रबाहो सहस्रमूर्ते सहस्रास्य सहस्राक्ष सहस्रभुज सहस्रभुव सहस्रशस् त्वाम् आहुर् वेदाः *॥
॥* विश्वदेव विश्वसंभव सर्वेषाम् एव देवानां सौभग आदौ गतिः विश्वं त्वम् आप्यायनः विश्वं त्वाम् आहुः पुष्पहास परमवरदस् त्वम् एव त्वम् एव वौषट् *॥
॥* ओंकार वषट्कारं त्वाम् एकम् आहुर् अग्र्यं मखभागप्राशिनम् *॥
॥* शतधार सहस्रधार भूर्द भुवर्द स्वर्द भूर्भुवःस्वर्द त्वम् एव भूतं भुवनं त्वं स्वधा त्वम् एव ब्रह्मशय ब्रह्ममय ब्रह्मादिस् त्वम् एव *॥
॥* द्यौर् असि पृथिव्य् असि पूषासि मातरिश्वासि धर्मो ऽसि मघवासि होता पोता नेता हन्ता मन्ता होम्यहोता परात्परस् त्वं होम्यहोता त्वम् एव *॥
॥* आपो ऽसि विश्ववाक् धात्रा परमेण धाम्ना त्वम् एव दिग्भ्यः स्रुक् स्रुग्भाण्ड इज्यो ऽसि ईड्यो ऽसि त्वष्टा त्वम् एव समिद्धः त्वम् एव गतिर् गतिमताम् असि मोक्षो ऽसि योगो ऽसि गुह्यो ऽसि सिद्धो ऽसि धन्यो ऽसि धातासि परमो ऽसि यज्ञो ऽसि सोमो ऽसि यूपो ऽसि दक्षिणासि दीक्षासि विश्वम् असि *॥
॥* स्थविष्ठ स्थविर विश्वतुराषाट् हिरण्यगर्भ हिरण्यनाभ हिरण्यनारायण नारायणान्तर नृणाम् अयन आदित्यवर्ण आदित्यतेजः महापुरुष सुरोत्तम आदिदेव पद्मनाभ पद्मेशय पद्माक्ष पद्मगर्भ हिरण्याग्रकेश शुक्ल विश्वदेव विश्वतोमुख विश्वाक्ष विश्वसंभव विश्वभुक् त्वम् एव *॥
॥* भूरिविक्रम चक्रक्रम त्रिभुवनसुविक्रम स्वविक्रम स्वर्विक्रम बभ्रुः सुविभुः प्रभाकरः शंभुः स्वयंभूश् च भूतादिः भूतात्मन् महाभूत विश्वभुक् त्वम् एव विश्वगोप्तासि विश्वंभर पवित्रम् असि हविर्विशारद हविःकर्मा अमृतेन्धन सुरासुरगुरो महादिदेव नृदेव ऊर्ध्वकर्मन् पूतात्मन् अमृतेश दिवस्पृक् विश्वस्थपते घृताच्य् असि अनन्तकर्मन् द्रुहिणवंश स्ववंश विश्वपास् त्वं त्वम् एव विश्वं बिभर्षि वरार्थिनो नस् त्रायस्वेति *॥
नारायणस् तु भगवाञ् श्रुत्वेमं परमं स्तवम् ।
ब्रह्मज्ञेन द्विजेन्द्रेण कश्यपेन समीरितम् ॥
स्निग्धगम्भीरनिर्घोषं जीमूतस्वननिस्वनम् ।
मनसा प्रीतियुक्तेन विबुधानां महात्मनाम् ॥
उवाच वचनं सम्यग् हृष्टपुष्टपदाक्षरम् ।
आकाशाच् छुश्रुवुर् देवा दर्शनं नोपलभ्यते ।
श्रीमान् प्रीतमना देवः प्रोवाच प्रबुर् ईश्वरः ॥
प्रीतो ऽस्मि वः सुरश्रेष्ठाः सर्वे मत्तो विनिश्चयन् ।
वरं वृणुत भद्रं वो वरदो ऽस्मि सुरोत्तमाः ॥

यदैव भगवान् प्रीतः सर्वेषाम् अमरोत्तम ।
तदैव कृतकृत्याः स्म त्वं हि नः परमा गतिः ॥
यदि प्रसन्नो भगवान् दातव्यो वा परो यदि ।
वासवस्यानुजो भ्राता ज्ञातीनां नन्दिवर्धनः ।
अदित्यां वै मम श्रीमान् भगवान् अस्तु वै सुतः ॥
अदितिर् देवमाता च एतम् एवार्थम् उत्तमम् ।
पुत्रार्थे वरदं प्राह भगवन्तं वरार्थिनी ॥
याचते पुत्रकामा वै भवान् पुत्रो भवत्व् इति ।
निःश्रेयसार्थं सर्वेषां देवानां हि महात्मनाम् ।
भ्राता भर्ता च धाता च शरणं च भवस्व नः ॥
अदित्याः पुत्रतां याते त्वयि देवाः सवासवाः ।
देवशब्दं वहिष्यन्ति कश्यपस्यात्मजो भव ॥
ततस् तान् अब्रवीद् विष्णुर् देवान् कश्यपम् एव च ।
एवं भवतु भद्रं वो यथेष्टं कामम् आप्नुत ।
सर्वेषाम् एव युष्माकं ये भविष्यन्ति शत्रवः ।
मुहूर्तम् अपि ते सर्वे न स्थास्यन्ति ममाग्रतः ॥
परैर् मम सुखं चापि तत् करिष्यामि चादरात् ॥
परितुष्टो ऽस्मि वो देवा ममैवं नियमेन च ।
पितामहवरान् मत्तान् महेश्वरवरैस् तथा ।
हनिष्यामि च दुर्वृत्तान् दानवान् अमरद्विषः ।
हत्वासुरगणान् सर्वान् ये चान्ये देवशत्रवः ।
करिष्ये देवताः सर्वा यज्ञभागाग्रभोजिनः ।
हव्यादांश् च सुरान् सर्वान् कव्यादांश् च पितॄन् अपि ॥
करिष्ये विबुधश्रेष्ठाः पारमेष्ठ्येन कर्मणा ।
यथागतेन मार्गेण निवर्तध्वं सुरोत्तमाः ॥
देवमातुस् तथादित्याः कश्यपस्यामितात्मनः ।
यथामनीषितं कर्ता गच्छध्वं त्वं स्वम् आलयम् ॥
एवम् उक्ते तु वचने विष्णुना प्रभविष्णुना ।
देवाः प्रहृष्टमनसः पूजयन्ति स्म सर्वशः ।
विश्वे देवा महात्मानः कश्यपो ऽदितिर् एव च ॥
साध्या मरुद्गणाश् चैव शक्रश् चैव महाबलः ।
नमस्कृत्य सुरेशाय तस्मै देवाय रंहसे ।
प्रयाताः प्राग्दिशं दिव्यं विपुलं कश्यपाश्रमम् ॥
गत्वा तम् आश्रमं तत्र ब्रह्मर्षिगणसेवितम् ।
चेरुः स्वाध्यायनिरता अदित्या गर्भम् ईप्सवः ॥
अदितिर् देवमाता च गर्भं दध्रे ऽतितेजसम् ।
भूतात्मानं महात्मानं दिव्यं वर्षसहस्रिकम् ॥
कुक्षिं प्रविष्टे जगतां निवासे @
सुरेन्द्रमातुः सुरलोकवन्द्ये ।
क्षुब्धाश् च दैत्याः सकला महाबलाः @

मूल पाठ: Harivaṃśa, Appendix I · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc