हरिवंश · भाग 581588
विश्वे विश्वेन वपुषा बलिनः कामरूपिणः ।
समनह्यन् महात्मानो दानवान्तं विधित्सवः ॥
एभिः सह बलाध्यक्षैः समन्तात् परिवारितः ।
त्रिपुरं योधयत् त्र्यक्षः प्रगृह्य सशरं धनुः ॥
अथ दैत्या भिन्नदेहाः पुराट् टालगता इव ।
न्यपतन् भुवि देहैस् ते विशीर्णा इव पर्वताः ॥
अभिविद्धाः प्रविद्धाश् च चयाट् टालगता नृप ।
न्यपतन् दैत्यसंघाश् च वज्रेणेव हता नगाः ॥
असिभिश् च हता देवैः शक्तिचक्रपरश्वधैः ।
बाणैश् च भिन्नमर्माणो दैत्येन्द्रा युधि गोचरे ।
प्रपेतुः सहिता उर्व्यां छिन्नपक्षा इवाचलाः ॥
तत्र संज्ञां व्यमुञ्चन्त तेन दीप्तेन तेजसा ।
एवं ते ऽन्योन्यसंबाधे क्षीयन्ते क्षयकर्मणा ।
नोपालभ्यन्त चक्षुर्भ्याम् अपि दिव्येन चक्षुषा ॥
अस्तं प्राप्ते दिनकरे सुरेन्द्रास् ते निशामुखे ।
छिन्नभिन्नक्षतमुखा निपेतुर् वसुधातले ॥
अथ दैत्या जयं प्राप्ता निशायां निशितैः शरैः ।
विनेदुर् विपुलैर् नादैर् मेघा इव महारवाः ॥
जयप्राप्त्यासुराश् चैव ते ऽन्योन्यम् अभिजल्पिरे ।
त्रासितास् त्रिदशाः सर्वे संग्रामे जयकाङ्क्षिणः ।
अस्माभिर् बलसंपन्नैः सह प्रासासितोमरैः ॥
विरेजुश् च जयं प्राप्ता उशनोहव्यबोधिताः ।
समरे बलसंपन्नाः सायुधा दैत्यसत्तमाः ॥
सुरैश् च सहितः सर्वै रथम् आस्थाय शंकरः ।
दर्पितान् अभिनद् दैत्यान् प्रभिन्दन्न् इव वै दिशः ॥
युगान्तकाले विततो रश्मिवान् इव निर्दहन् ।
सर्वभूतानि भूताग्र्यः प्रलये समुपस्थिते ॥
स रथो वाजिभिः शीघ्रैर् उह्यमानो मनोजवैः ।
विबभौ नभसो मध्ये सविद्युद् इव तोयदः ॥
वृषभेण ध्वजाग्रेण गर्जमानेन भारत ।
भाति स्म स रथो राजन् सेन्द्रायुध इवाम्बुदः ॥
ततो ऽम्बरगताः सिद्धास् तुष्टुवुर् वृषभध्वजम् ।
कर्मभिः पूर्वजं पूर्वैः शुचिभिस् त्र्यम्बकं तदा ॥
ऋषयश् च तपःश्रान्ताः सत्यव्रतपरायणाः ।
अमृतप्राशिनश् चैव सुरसंघाः सहस्रशः ॥
गन्धर्वाश् चोपगायन्ति गान्धर्वेण स्वरेण वै ।
प्रहृष्टवदनाः सौम्याः पैत्र्ये स्थानान्तरे नृप ॥
चयाट्टालकसंपन्ने शतघ्नीशतसंकुले ।
तस्मिंस् तु दैत्यनगरे सर्वभूतभयावहे ॥
ततस् तु शरवर्षाणि मुमुचुर् दैत्यदानवाः ।
सुराणाम् अरयो मध्ये तीक्ष्णाग्राणि समन्ततः ॥
शतघ्नीभिश् च निघ्नन्तो भल्लैः शूलैश् च भारत ।
ते चक्रिरे महत्कर्म दानवा युद्धकोविदाः ॥
गदाभिश् च गदा जघ्नुर् भल्लैर् भल्लांश् च चिच्छिदुः ।
अस्त्रैर् अस्त्राण्य् अबाधन्त मायां मायाभिर् एव च ॥
ततो ऽपरे समुद्यम्य शरशक्तिपरश्वधान् ।
अशनीश् च महाघोरा युक्ताः शतसहस्रशः ॥
असिभिर् मायाविहितैर् मृत्योर् विषयगोचरैः ।
ते वध्यमाना विबुधाः शरवर्षैर् अवस्थिताः ॥
गन्धर्वनगराकारः सो ऽसीदत् सहरो रथः ।
हन्यमानो ऽसुरगणैः सार्धं प्रासासितोमरैः ॥
दैत्यप्रहरणैस् तैश् च गुरुभिर् भारसादिभिः ।
चित्रैश् च बहुभिः शस्त्रैर् अतिष्ठत शचीपतिः ॥
ततो मध्ये दिव्यशब्दः प्रादुर् आसीन् महीपते ।
ऋषीणां ब्रह्मपुत्राणां महताम् अपि भारत ॥
स एष शंकरस्याग्रे रथो भूमिं प्रतिष्ठितः ।
अजेयो जय्यतां प्राप्तः सर्वलोकस्य पश्यतः ॥
तस्मिन् निपतिते राजन् रथानां प्रवरे रथे ।
निपेतुः सर्वभूतानि वसुधां वसुधाधिप ॥
विचेलुः पर्वताग्राणि चेलुश् चैव महाद्रुमाः ।
विचुक्षुभुः समुद्राश् च न रेजुश् च दिशो दश ॥
वृद्धाश् च ब्राह्मणास् तत्र जेपुश् च परमं जपम् ।
यत् तद् ब्रह्ममयं तेजः सर्वत्र विजयैषिणाम् ॥
शान्त्यर्थम् इह भूतानाम् इह लोके परत्र च ।
समाधायात्मनात्मानं योगप्राप्तेन हेतुना ॥
रथन्तरेण साम्नाथ ब्रह्मभूतेन भारत ।
तेजसा ज्वलयन् विष्णोस् त्र्यक्षस्य च महात्मनः ॥
सर्वेषां चैव देवानां बलिनां कामरूपिणाम् ।
ऋषीणां तपसाढ्यानां वसतां विजने वने ॥
अथ विष्णुर् महायोगी सर्वतो दृष्य तत्त्वतः ।
वृषरूपं समास्थाय प्रोज्जहार रथोत्तमम् ।
समाक्रान्तं देवगणैः समग्रबलपौरुषैः ॥
बलवांस् तोलयित्वा तु विषाणाभ्यां महाबलः ।
ननाद प्राणयोगेन मथ्यमान इवार्णवः ॥
तृतीयं वायुविषयं समाक्रम्य विषाणवान् ।
ननाद बलवन् नादं समुद्र इव पर्वणि ॥
ततो नादेन वित्रस्ता दैतेया युद्धदुर्मदाः ।
पुनस् ते कृतसंनाहा युयुधुः सुमहाबलाः ॥
सर्वे वै बाहुबलिनः समर्थबलपौरुषाः ।
सुरसैन्यं प्रमर्दन्ति प्रगृहीतशरासनाः ॥
अग्निं संधाय धनुषि तं च बाणं सुयन्त्रितम् ।
ब्रह्मास्त्रेणाभिसंयोज्य ब्रह्मदण्डम् इवाव्ययः ।
मुमुचे दैत्यनगरे त्रिधा शब्देन संज्ञितम् ॥
तं बाणं त्रिविधं वीर्यात् संधाय मनसा प्रभुः ।
सत्येन ब्रह्मयोगेन तपोग्रेण च भारत ॥
मुमुचे दैत्यनगरे सर्वप्राणहराञ् शरान् ।
दीप्तान् कनकवर्णाभान् सुपर्णांश् च सुनिर्मलान् ॥
मुक्त्वा शरवरान् घोरान् सविषान् इव पन्नगान् ।
सुप्रदीप्तैस् त्रिभिर् बाणैर् वेगिभिस् तद् विदारितम् ॥
शरपातप्रदीप्तानि विन्ध्याग्राणीव भारत ।
गोपुराण्य् असुरैः सार्धं दह्यमानानि भारत ।
विशीर्यन्त इवाभान्ति मनुजेन्द्र धराधराः ॥
अग्निना संप्रदीप्तानि वह्निगर्भाणि भारत ।
धरणीं प्रत्यपद्यन्त पुराणि वसुधाधिप ॥
तानि तस्य तु दग्धानि वैदूर्यसदृशानि वै ।
निपेतुर् दह्यमानानि शिखराणि गिरेर् इव ।
शङ्करेण प्रदग्धानि ब्रह्मास्त्रेणापतन् नृप ॥
ततस् तु विजयी रुद्रः सेव्यमानो महर्षिभिः ।
वृषरूपं तदा विष्णुं पूजयन् प्रययौ गिरिम् ॥
य इमं शृणुयान् नित्यं विजयं शंकरस्य च ।
सर्वत्र विजयं प्राप्तः स तु दीर्घायुर् आप्नुयात् ॥
हते तु त्रिपुरे देवैर् वाचो हर्षात् किलेरिताः ।
सर्वाञ् जहीति शत्रूंस् त्वं प्रवृद्धान् पुरुषोत्तम ॥
विष्णुर् एव महायोगी योगेन प्रस्मयन्न् इव ।
स्तूयते ब्रह्मसदृशैर् ऋषिभिः शंकरेण च ।
ब्रह्मणा सहितैर् देवैः संपन्नबलपौरुषैः ॥
हरिवंशे ऽत्र वृत्तान्ताः क्रमाद् एते इहोदिताः ॥
तत्राद्य आदिसर्गस् तु भूतसर्गस् ततः परः ।
पृथोर् वैन्यस्य चाख्यानं मनूनां कीर्तनं तथा ॥
वैवस्वतकुलोत्पत्तिर् धुन्धुमारकथा तथा ।
गालवोत्पत्तिर् इक्ष्वाकु+ वंशस्याप्य् अनुकीर्तनम् ॥
पितृकल्पस् तथोत्पत्तिः सोमस्य च बुधस्य च ।
अमावसोर् अन्वयस्य कीर्तनं कीर्तिवर्धनम् ॥
च्युतिप्रतिष्ठे शक्रस्य प्रसवः क्षत्रवृद्धिजः ।
ययातिचरितं चैव पूरुवंशानुकीर्तनम् ॥
दिवोदासप्रतिष्ठा च त्रिशङ्कोः क्षत्रियस्य च ।
कीर्तनं कृष्णसंभूतेः स्यमन्तकमणेस् तथा ।
संक्षेपात् कीर्तिता विष्णोः प्रादुर्भावास् ततः परम् ॥
तारकामययुद्धं च ब्रह्मलोकस्य वर्णनम् ।
योगनिद्रासमुत्थानं विष्णोर् वाक्यं च वेधसः ॥
पृथ्वीवाक्यं च देवानाम् अंशावतरणं तथा ।
प्रलम्बनिधनं चैव शरद्वर्णनम् एव च ।
गिरियज्ञप्रवृत्तिस् तु गोवर्धनविधारणे ।
ततो नारदवाक्यं च स्वप्नगर्भविधिस् तथा ॥
आर्यास्तवः पुनः कृष्ण+ समुत्पत्तिः प्रपञ्चतः ।
गोव्रजे गमनं विष्णोः शकटस्य निवर्तनम् ॥
पूतनाया वधो भङ्गो यमलार्जुनयोर् अपि ।
वृकसंदर्शनं चैव वृन्दावननिवेशनम् ॥
प्रावृषो वर्णनं चापि यमुनाह्रददर्शनम् ।
दमनं कालियस्यापि धेनुकस्य वधस् तथा ॥
प्रलम्बनिधनं चैव शरद्वर्णनम् एव च ।
गिरियज्ञप्रवृत्तिश् च गोवर्धनविधारणम् ॥
गोविन्दस्याभिषेकं च गोपीसंक्रीडनं तथा ।
रिष्टासुरस्य निधनम् अक्रूरप्रेषणं तथा ॥
अन्धकस्य च वाक्यानि केशिनो निधनं तथा ।
अक्रूरागमनं चैव नागलोकस्य दर्शनम् ॥
राजमार्गस्य गमनं रजके वस्त्रयाचनम् ।
मालाकारे माल्ययाच्ञा वरदानं च तस्य वै ।
कुब्जाया दर्शनं चात्र अनुलेपनयाचनम् ।
व्यवस्था चात्र कुब्जाया अक्षतस्वाविहंसनम् ।
धनुर्भण्गस्य कथनं कंसवाक्यम् अतः परम् ।
मल्लस्य मत्त्रणा चात्र महामात्रे निवेदनम् ।
कुवलयापीडवधश् चाणूरस्य वधस् तथा ॥
कंसस्य निधनं चापि विलापः कंसयोषिताम् ।
कंससत्कारकरणम् उग्रसेनाभिषेचनम् ॥
उग्रसेनाभिशेकश् च यादवाश्वासनं तथा ।
प्रत्यागतिर् गुरुकुलाद् अथोक्ता रामकृष्णयोः ।
मथुरायाश् चोपरोधो जरासंढनिवर्तनम् ॥
विकद्रुवाक्यं रामस्य दर्शनं भाषणं तथा ।
गोमन्तारोहणं चापि जरासंधागतिस् तथा ॥
गोमन्तस्य गिरेर् दाहः करवीरपुरे गतिः ।
शृगालस्य वधस् तत्र मथुरागमनं ततः ॥
यमुनाकर्षणं चैव मथुरापक्रमस् तथा ।
उपायेन वधः काल+ यवनस्य प्रकीर्तितः ॥
निर्माणं द्वारवत्यास् तु रुक्मिणीहरणं तथा ।
विवाहश् चैव रुक्मिण्या रुक्मिणो निधनं तथा ॥
बलदेवाह्निकं पुण्यं बलमाहात्म्यम् एव च ।
नरकस्य वधः पारि+ जातस्य हरणं तथा ॥
नरकस्य वधश् चैव पारिजातहरस् तथा ।
नरकस्य वधश् चात्र पारिजातापहारणम् ।
द्वारवत्या विशेषेण पुनर् निर्माणकीर्तनम् ।
द्वारकायां प्रवेशश् च सभायां च प्रवेशनम् ॥
नारदस्य च वाक्यानि वृष्णिवंशानुकीर्तनम् ।
षट्पुरस्य वधाख्यानम् अन्धकस्य निबर्हणम् ॥
समुद्रयात्रा कृष्णस्य जलक्रीडाकुतूहलम् ।
तथा भैमप्रवीराणां मधुपानप्रवर्तनम् ॥
ततश् छालिक्यगान्धर्व+ कम् उदाहरणं हरेः ।
भानोश् च दुहितुर् भानुम् अत्याहरणकीर्तनम् ।
निकुम्भस्य वधाख्यानं प्रपञ्चेनैव कीर्तितम् ॥
अथ वज्रपुरे भूरि+ विचित्रोपायकल्पनैः ।
वज्रनाभवधश् चात्र प्रपञ्चेनैव दर्शितः ॥
शम्बरस्य वधश् चैव धन्योपाख्यानम् एव च ।
वासुदेवस्य माहात्म्यं बाणयुद्धं प्रपञ्चितम् ॥
भविष्यं चात्र दाहश् च त्रिपुरस्य उदाहृतः ।
भविष्यं पुष्करं चैव प्रपञ्चेनैव कीर्तितम् ।
वाराहं नारसिंहं च वामनं बहुविस्तरम् ।
कैलासयात्रा कृष्णस्य पौण्ड्रकस्य वधस् तथा ।
हंसस्य डिम्भकस्यैव वधश् चैव प्रकीर्तितः ॥
सुदर्शनेन कृत्यास्तु द्रावणं दहनं तथा ।
त्रिपुरस्यापि संदाहो भारतश्रवणस्य तु ।
फलमाहात्म्यनियमम् वाचकस्य च पूजनम् ।
इत्य् एश हरिवंशस्य प्रोक्तो वृत्तान्तसंग्रहः ॥
शताश्वमेधस्य यद् अत्र पुण्यं @
चतुःसहस्रं च शतक्रतोश् च ।
भवेद् अनन्तं हरिवंशदानात् @
प्रकीर्तितं व्यासमहर्षिणा च ॥
यद् वाजपेयेन तु राजसूयाद् @
दृष्टं फलं हस्तिरथेन चान्यत् ।
तल् लभ्यते व्यासवचः प्रमाणं @
गीतं च वाल्मीकिमहर्षिणा च ॥
पाराशर्यवचः सरोजम् अमलं गीतार्थगन्धोत्कटं @
नानाख्यानककेसरं हरिकथासंबोधनाबोधितम् ।
लोके सज्जनषट्पदैर् अहर् अहः पेपीयमानं मुदा @
भूयाद् भारतपङ्कजं कलिमलप्रध्वंसि नः श्रेयसे ॥
अष्टादश सहस्राणि श्लोकानां कीर्तितानि वै ।
श्लोकाश् च चतुराशीतिर् हरिवंशः प्रकीर्तितः ॥
खिलेषु हरिवंशे ऽत्र संख्यातानि महात्मना ।
एतत् सर्वं समाख्यातं भारतं पूर्वसंग्रहात् ॥
॥ इति श्रीमन्महाभारते शतसहस्रसंहितायां वैय्यासक्यां पारिजाते सकलहरिचरिते खिलसंज्ञं समाप्तम् *॥
॥ श्री प्रयागमाधवार्पणम् अस्तु *॥
त्रिपुरस्यापि दाहश् च इति वृत्तान्तसंग्रहः ॥
हरिवंशे श्रुते चैव सर्वपापैः प्रमुच्यते ।
हरिवंशे शृणोतीह .......तस्य दे.... ॥
.... .... .... . वाचयेत् ।
कथितो नृपशार्दूल सर्वपापप्रणाशनः ॥
वृत्तान्तं शृणुयाद् यस् तु सायं प्रातः समाहितः ।
स याति वैष्णवं धाम लब्धकामः कुरूद्वह ॥
धन्यं यशस्यम् आयुष्यं भुक्तिमुक्तिफलप्रदम् ।
इमां च संहितां चेति सर्वशास्त्रमयीं तथा ।
एककालं द्विकालं वा त्रिकालं वापि यः पठेत् ॥
देवतायतने तीर्थे विष्णोश् चात्र विशेषतः ।
शिवालये तथा क्षेत्रे नैमिषे पुष्करे तथा ॥
शुचिर् भूत्वा दम्पती च वाचकं पूजयेत् सुधीः ।
मन्त्रावलिं खिलस्यापि एकेन मनसापि वा ॥
खिलो विष्णुः प्रसीदेत वाचकः पठनात् पुनः ।
संहितां हरिवंशस्य तथानुक्रमणीं शुभाम् ॥
श्रुत्वा च लभते लक्ष्मीं संततिं मनसेप्सितां ।
ब्रह्महत्यादिपापेभ्यो मुच्यते नात्र संशयः ॥
सर्वतीर्थेषु स स्नातः श्रुत्वानुक्रमणीं शुभाम् ॥
वशीं विभूशितकरान् नवनीरदाभात् @
पीताम्बराद् अरुणबिम्बफलाधरोष्ठात् ।
पूर्णेन्दुसुन्दरमुखाद् अरविन्दनेत्रात् @
कृष्णात् परं किम् अपि तत्त्वम् अहं न जाने ॥
य इदं श्रावयेद् विद्वान् समस्तं त्व् अर्धम् एव वा ।
पादमात्रं तदर्धं वा त्व् एकं चाख्यानं उत्तमम् ।
स नमस्यः प्रयत्नेन विष्णोः संप्रीतये सदा ॥
.... .... संपूज्यस् त्व् इष्टदेववत् ।
तस्मै देयं प्रयत्नेन विष्णोः संप्रीतये सदा ।
य एतत् पुस्तकं रम्यं लेषयित्वा समर्प .. ।
अखिलानि पुराणानि तेन दत्तानि नान्यथा ।
अत्राख्यानानि यावन्ति श्लोका यावन्त एव हि ।
तथा पादानि यावन्ति वर्णा यावन्त ... ।
यावन्त्य् अपि च मात्राणि यावन्त्यः पत्रपङ्कयः ।
गुणे सूत्राणि यावन्ति यावन्तः पटतन्तवः ।
चित्ररूपाणि रम्य .. .... . पुस्तके ।
तावद् युगसहस्राणि दाता स्वर्गे महीयते ।
अपुत्रः शृणुयाद् यस् तु सुस्नातः श्रद्धयान्वितः ।
तस्य पुत्रा भवन्त्य् एव नारायणप्रभावतः ।
एतच्छ्रवणतः पुंसां सर्वत्र विजयो भवेत् ।
सौभाग्यं चापि सर्वत्र प्राप्नुयान् निर्मलाशयः ।
यस्य विश्वेश्वरस् तुष्टस् तस्मै तच्छ्रवणे मतिः ।
जायते पुण्ययुक्तस्य महानिर्मलचेतसः ।
तच् छ्रोतव्यं मनुष्येण परमं पदम् इच्छता ।
एतत् पवित्रं परमं एतद् धर्मनिदर्शनम् ।
एतत् सर्वगुणोपेतं श्रोतव्यं श्रेय इच्छता ।
धर्मार्थकाममोख्यांश् च लभते नात्र संशयः ॥
हरिवंशे पुराणे तु श्रुते मुनिवरोत्तम ।
किं फलं किं च देयं वै तद् ब्रूहि त्वं ममाग्रतः ॥
हरिवंशे पुराणे तु श्रुते च भरतोत्तम ।
कायिकं वाचिकं चैव मनसा समुपार्जितम् ।
तत् सर्वं नाशम् आयाति हिमं सूर्योदये यथा ॥
अष्टादशपुराणानां श्रवणाद् यत् फलं लभेत् ।
तत् फलं समवाप्नोति वैष्णवो नात्र संशयः ॥
स्त्रियश् च पुरुषाश् चैव वैष्णवं पदम् आप्नुयुः ।
श्लोकार्धं श्लोकपादं वा हरिवंशसमुद्भवम् ।
शृण्वन्तः श्रद्धया युक्ता वैष्णवं पदम् आप्नुयुः ॥
जम्बूद्वीपं समाश्रित्य श्रोतारो दुर्लभाः कलौ ।
भविष्यन्ति नरा राजन् सत्यं सत्यं वदाम्य् अहम् ॥
स्त्रीभिश् च पुत्रकामाभिः श्रोतव्यं वैष्णवं यशः ।
दक्षिणा चात्र देया वै निष्कत्रयसुवर्णकम् ।
वाचकाय यथाशक्त्या यथोक्तं फलम् इच्छता ॥
स्वर्णशृङ्गीं च कपिलां सवत्सां वस्त्रसंयुताम् ।
वाचकाय प्रदद्याद् वै आत्मनः श्रेयकाङ्क्षया ॥
अलंकारं प्रदद्याच् च पाण्योर् वै भरतर्षभ ।
कर्णस्याभरणं दद्याद् यानं च सविशेषतः ॥
भूमिदानं समादद्याद् ब्राह्मणाय नराधिप ।
भूमिदानसमं दानं न भूतं न भविष्यति ॥
घोटकं जविनं दद्याद् वृषं च धुरि योजितम् ।
शृणोति श्रावयाद् वापि हरिवंशं तु यो नरः ।
सर्वपापविनिर्मुक्तो वैष्णवं पदम् आप्नुयात् ॥
कुण्डले चैव दातव्ये ऊर्णावस्त्रं तथैव च ।
समाप्तौ विधिवद् वस्त्रं देयं क्षौमं द्विजातये ॥
पितॄन् उद्धरते सर्वान् एकादश समुद्भवान् ।
आत्मानं ससुतं चैव स्त्रियं च भरतर्षभ ।
दशांशश् चात्र होमो वै कार्यः श्रोत्रा नराधिप ॥
इदं मया तवाग्रे च सर्वं प्रोक्तं नरर्षभ ।
यस्य श्रवणमात्रेण सर्वपापैः प्रमुच्यते ।
अपुत्रः पुत्रम् आप्नोति अधनो धनम् आप्नुयात् ॥
नरमेधाश्वमेधाभ्यां यत् फलं प्राप्यते नरैः ।
तत् फलं लभते नूनं पुराणश्रवणाद् धरेः ॥
ब्रह्महा भ्रूणहा गोघ्नः सुरापो गुरुतल्पगः ।
सकृत् पुराणश्रवणात् पूतो भवति नान्यथा ॥
इदं मया ते परिकीर्तितं महच् @
छ्रीकृष्णमाहात्म्यम् अपारम् अद्भुतम् ।
शृण्वन् पठन्न् आशु समाप्नुयात् फलं @
यच् चापि लोकेषु सुदुर्लभं महत् ॥
मूल पाठ: Harivaṃśa, Appendix I · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0