हरिवंश · भाग 521540
तान् अन्तरिक्षे नाराचान् भगश् चिच्छेद पत्रिणा ।
ज्वलन्तम् अचलप्रख्यं वैश्वानरसमप्रभान् ॥
ततो भगं चतुःषष्ट्या विव्याधासुरसत्तमः ।
शिलीमुखैर् महावेगैर् जाम्बूनदविभूषितैः ॥
सायकानां सुतीक्ष्णानां सुमुखानां सुवेगिनाम् ।
तदा तत् सुचिरं कालं युद्धं समम् इवाभवत् ।
शम्बरस्य च मायाभिर् नादृश्यत ततो ऽम्बरम् ॥
दोर्भ्यां विक्षिपतश् चापं रथं विष्टभ्य तिष्ठतः ।
श्रूयते धनुषः शब्दो विस्फूर्जितम् इवाशणेः ॥
स भगस्य हयान् हत्वा छित्त्वा च ध्वजम् आहवे ।
अभ्यवर्षच् छरैर् एनं पर्जन्य इव वृष्टिमान् ॥
न तस्यासीद् अनिर्भिन्नं गात्रे द्व्यङ्गुलम् अन्तरम् ।
भगदेवस्य दैत्येन शम्बरेणास्त्रघातिना ॥
भगादित्यस्य देवस्य शम्बरास्त्रेण धीमतः ।
दैत्यस्य चाद्भुतं दिव्यम् अस्त्रम् अस्त्रेण वारयन् ।
मुमोच क्रोधतां राक्षो दिधक्षन् दैत्यम् आहवे ।
मायायुद्धेन मायावी शम्बरस् तम् अयोधयत् ।
अवञ्चयद् भगं दैत्यो मायाभिर् लाघवेन च ॥
अथ दैत्यो भगं सम्यग् वञ्चयाम् आस लाघवैः ।
भगस् तस्य रथं साश्वं शरवर्षैर् अवाकिरत् ।
सहस्रमायो द्युतिमान् देवसेनां निषूदयन् ।
अदृश्यत शरैश् छन्नः शम्बरः शतधा रणे ॥
अदृश्यत् पतितो भूमौ गतचेता इवासुरः ।
अथ स्म युध्यते भूयः शतधा शैलसंनिभः ॥
दिशागजेन्द्रम् आरूढो दृश्यते स्म पुनर् बली ।
पादेशमात्रश् च पुनर् भूत्वा भवति शैलवत् ।
महामेघ इव श्रीमांस् तिर्यग् ऊर्ध्वं च सो ऽभवत् ।
गर्जमानो ऽनिशं रौद्रं विद्युत् संपातभीषणः ।
पुनः कृत्वा विरूपाणि विकृतानि च सर्वशः ।
सर्वां भीषयते सेनां देवानां भीमदर्शनः ॥
ते भीताः प्रपलायन्ते सिंहत्रस्ता मृगा इव ।
ततः सो ऽन्यं नवं देहं कृत्वा प्रांशुतरं पुनः ।
गच्छत्य् ऊर्ध्वगतिं घोरो दिशः शब्देन पूरयन् ।
नभस्तलगतश् चापि वर्षते वासवो यथा ।
संवर्तकाम्बुदप्रख्यः पूरयन् पृथिवीतलम् ॥
तज् जलं शोषयित्वा तु युगान्तादित्यरूपधृक् ।
संवर्तको ऽनलश् चैव भूत्वा भीमपराक्रमः ।
शतवर्त्मा शतशिखो ददाह च पुनः सुरान् ॥
मुहूर्ताच् च महाशैलः शतशीर्षः शतोदरः ।
अदृश्यत दिवं स्तब्ध्वा शतशृङ्ग इवाचलः ॥
यो ऽन्ये दैत्याश् च साध्याश् च ये च विश्वे च देवताः ।
क्षिपन्त्य् अस्त्राणि दिव्यानि तानि सो ऽग्रसतासुरः ॥
युध्यमानश् च समरे सरथः सो ऽसुरोत्तमः ।
गन्धर्वनगराकारस् तत्रैवान्तरधीयत ॥
ते भीताः समुदैक्षन्त त्रिदशा भीमविक्रमम् ।
सहस्रमायं समरे शम्बरं चित्रयोधिनम् ॥
स भगो भयसंत्रस्तो दानवेन्द्रस्य संयुगे ।
रथं त्यक्त्वा महाभागो महेन्द्रं शरणं गतः ॥
पराजित्य तु तं देवं दानवेन्द्रः प्रतापवान् ।
गतो यत्र महातेजा जातवेदा महाप्रभः ॥
स वह्निर् वाग्भिर् उग्राभिः क्रुद्धस् तर्जयते बली ।
भवाम्य् एष हि ते मृत्युर् इत्य् उक्त्वान्तरधीयत ॥
एतस्मिन्न् अन्तरे चैव ब्राह्मणेन्द्रो महाबलः ।
जघान सोमः शीतास्त्रो दानवानां चमूं रणे ॥
कैलासशिखराकारो द्युतिमद्भिर् गणैर् वृतः ।
अवधीद् दानवान् दृप्तान् दण्डपाणिर् इवान्तकः ॥
पोथयन् रथवृन्दानि वाजिवृन्दानि चाभिभूः ।
दैत्येषु व्यचरच् छ्रीमान् युगान्ते कालवच् छशी ॥
स कर्षन् रथजालानि ऊरुवेगेन चन्द्रमाः ।
ददाह दानवान् सर्वान् दावाग्निर् इव चोदितः ॥
मृद्गन् रथेभ्यो रथिनो गजेभ्यो गजयोधिनः ।
सादिनश् चाश्वपृष्ठेभ्यो भूमौ चापि पदातिनः ॥
शीतेन व्यधमत् सर्वान् वायुर् वृक्षान् इवौजसा ।
चन्द्रमाः सुमहातेजा दानवानां महाचमूम् ॥
तद् अस्त्रम् अभवत् तस्य प्रदिग्धं शत्रुशोणितैः ।
पिनाकम् इव रुद्रस्य क्रुद्धस्याभिघ्नतः पशून् ।
युगान्तकोपमः श्रीमान् दैत्येषु व्यचरद् बली ॥
आवार्य महतीं सेनां प्रद्रवन्तीं पुनः पुनः ।
चन्द्रं मृत्युम् इवायान्तं दृष्ट्वा योधा विसिष्मियुः ॥
यतो यतः प्रक्षिपति शिशिरास्त्रं तमोनुदः ।
ततस् ततो व्यशीर्यन्त दैत्यसैन्यानि संयुगे ॥
व्यदारयत सैन्यानि स्वबलेनाभिसंवृतः ।
ग्रसमानम् अनीकानि व्यादितास्यम् इवान्तकम् ॥
तं तथा भीमकर्माणं गृहीतास्त्रं महाहवे ।
दृष्ट्वा शशाङ्कम् आयान्तं दैत्यानां चन्द्रभास्करौ ॥
तालमात्राणि चापानि कर्षमानौ महाबलौ ।
छादयेतां शरैश् चन्द्रं वृष्टिम् अन्ताव् इवाम्बुदौ ॥
अथ विस्फार्यमाणानां कार्मुकाणां सुरासुरैः ।
अभवत् सुमहाशब्दो दिशः संनादयन्न् इव ॥
विनदद्भिर् महानागैर् हेषमानैश् च वाजिभिः ।
भेरीशङ्खनिनादैश् च तुमुलं सर्वतो ऽभवत् ॥
युयुत्सवस् ते संरब्धा जयगृद्धा यशस्विनः ।
अन्योन्यम् अभिगर्जन्तो गोष्ठेष्व् इव महावृषाः ॥
शिरसां पात्यमानानां समरे निशितैः शरैः ।
अश्मवृष्टिर् इवाकाशे ह्य् अभवत् सेनयोस् तयोः ॥
कुण्डलोष्णीषधारीणी जातरूपस्रजांसि च ।
पतितानि स्म दृश्यन्ते शिरांसि रणमूर्धनि ॥
विशिखोन्मथितैर् गात्रैर् बाहुभिश् च सकार्मुकैः ।
सहस्राभरणैश् चान्यैर् विच्छिन्नै रुचिरैः करैः ॥
कवचैर् आवृतैर् गात्रैर् उरुभिश् चन्दनोक्शितैः ।
मुखैश् च चन्द्रसंकाशैस् तप्तकुण्डलभूषनैः ॥
गजवाजिमनुष्याणां सर्वगात्रैः समन्ततः ।
आसीत् सर्वा समाकीर्णा मुहूर्तेन वसुंधरा ॥
चापमेघाश् च विपुलाः शस्त्रविद्युत्प्रकाशिनः ।
वाहनानां च निर्घोषः स्तनयित्नुसमो ऽभवत् ॥
स संप्रहारस् तुमुलः कटुकः शोणितोदकः ।
प्रावर्तत सुराणां च दानवानां च संयुगे ॥
तस्मिन् महाहवे रौद्रे तुमुले लोमहर्षणे ।
स संप्रहारस् तुमोलो भीरूनां भयवर्धनः ।
ववर्षुः शरवर्षाणि संरब्धा देवदानवाः ॥
व्यक्रोशन्त गजास् तत्र शरवर्षप्रपीडिताः ।
अश्वाश् च पर्यधावन्त हतारोहा दिशो दश ।
उत्पत्य निपतन्त्य् अन्ये शरवर्षप्रपीडिताः ॥
देवानां दानवानां च गजाश्वरथिनां रणे ।
समरे तत्र शूराणां प्रवराणां तरस्विनाम् ।
धनुर्ज्यातलशब्देन न प्राज्ञायत किंचन ॥
शरशक्तिगदाभिस् ते खड्गैश् चामिततेजसः ।
निर्जघ्नुर् महतीं सेनाम् अन्योन्यस्य परंतपाः ॥
बाहूनाम् उत्तमाङ्गानां कार्मुकानां च संयुगे ।
राशयस् तत्र दृश्यन्ते देवदैत्यसमागमे ॥
अश्वानां कुञ्जराणां च रथानां च वरूथिनां ।
नान्तं समधिगच्छन्ति निहतानां सुरासुरैः ॥
गदाभिर् असिभिः प्रासैर् भल्लैः संनतपर्वभिः ।
योधास् तत्राभ्यहन्यन्त हस्त्यश्वम् अपि तद् बहु ॥
प्रावर्तत नदी घोरा शोणितौघतरंगिणी ।
तदा मध्येन सैन्यानां केशशैवलशाड्वला ॥
हाहाकारो महाशब्दो योधानाम् अभवत् तदा ।
दानवैर् हन्यमानानां त्रिदशानां महारणे ॥
अभवत् तुमुलः शब्दो मेघानाम् इव गर्जताम् ।
एवं तद् अभवद् युद्धं देवानाम् असुरैः सह ।
विभीषणं महारौद्रं विकृतं भीमदर्शनम् ॥
विरोचनस् तु तत्रैव विष्वक्सेनं महाहवे ।
जघान रुधिराभाक्षं साध्यं परमधन्विनाम् ॥
तम् आयान्तम् अभिप्रेक्ष्य विष्वक्सेनः सुरैर् वृतः ।
अमेयात्मा सुरश्रेष्ठः प्रत्यविध्यत् स्तनान्तरे ॥
साध्यस्य बाणाभिहतस् तोत्रार्दित इव द्विपः ।
विरोचनः प्रजज्वाल क्रोधेनाग्निर् इवाध्वरे ॥
स कार्मुकविनिर्मुक्तैः शरैर् दानवसत्तमः ।
विष्वक्सेनं बिभेदाजौ दीप्तैः सप्तभिर् आशुगैः ॥
सो ऽतिविद्धो बलवता दानवेन सुरोत्तमः ।
मूर्च्छाम् अभिजगामाशु ध्वजं चाप्य् आश्रयत् प्रभुः ॥
ततः स पुनर् आश्वस्य साध्यो युद्धे मनो दधे ।
विस्फार्य च महाचापं दैत्यमध्ये व्यवस्थितः ॥
विरोचनश् च बलवान् अभ्ययुध्यत सर्वशः ।
क्षोभयन् सुरसैन्यानि समन्तान् निशितैः शरैः ॥
ततस् तस्यासुरेन्द्रस्य युध्यमानस्य संयुगे ।
तस्य वै युध्यमानस्य संयुगे निशितैः शरैः ।
श्रूयते तुमुलः शब्दो जीमूतस्येव गर्जतः ॥
जगर्ज च महाघोषो विनिघ्नन् देववाहिनीम् ।
चण्डमेघो ऽश्मवर्षी च सविद्युत् स्तनयित्नुमान् ॥
दिशो विद्रावयाम् आस शरवर्षेण दानवः ।
सर्वसैन्यानि देवानाम् उद्यतास्त्रो महाहवे ॥
ते प्राद्रवन्त वित्रस्ता रथेभ्यो रथिनस् तदा ।
सादिनश् चाश्वपृष्ठेभ्यो भूमौ चापि पदातयः ॥
श्रुत्वा कार्मुकनिर्घोषं विस्फूर्जितम् इवाशनेः ।
स्तम्भीभूता निरुत्साहा गतसत्त्वा इवाभवन् ।
ससैन्यो ऽनुगतो नित्यं बलं यत्र समाविशात् ॥
सर्वसैन्यानि भीतानि निव्यलीयन्त संयुगे ॥
विरोचनभयत्रस्ता रथेभ्यो रथिनस् तदा ।
पदातीनां ययुः संघा यत्र देवः शचीपतिः ॥
विष्वक्सेनस्य साध्यस्य सर्वतः स महाबलः ।
पादरक्षसहस्राणि निजघान चतुर्दश ॥
अश्ववृन्देषु नागेषु रथानीकेषु चाभिभूः ।
पदातीनां च संघेषु विनिघ्नन् प्रत्यदृश्यत ॥
वितत्य श्येनवत् पक्षौ सर्वतः स वरूथिनीम् ।
भित्त्वा भित्त्वा महाबाहुः शिरांस्य् आजाव् अकृन्तत ॥
सादिनश् च पदाताश् च हतशेषा रथास् तथा ।
विष्वक्सेनेन सहिता विरोचनम् अभिद्रवन् ॥
ते ऽसिचर्मगदाशक्ति+ परिघप्रासतोमरैः ।
तम् एकम् अभ्यधावन्तं सिंहनादं प्रचक्रिरे ॥
ततः सो ऽसिं समुद्यम्य जवम् आस्थाय दानवः ।
चकर्त रथिनाम् आजौ शिरांसि च धनूंषि च ॥
रथनागाश्ववृन्देषु बलवान् अरिसूदनः ।
विरोचनश् चरन् मार्गान् प्रकारान् एकविंशतिम् ॥
भ्रान्तम् उद्भ्रान्तम् आविद्धम् आप्लुतं विप्लुतं प्लुतम् ।
संपातं समुदीर्णं च दर्शयाम् आस दानवः ॥
केचिद् वरासिना रुग्णा दानवेन महात्मना ।
विनेदुश् छिन्नवर्माणो निपेतुश् च गतासवः ॥
छिन्नपृष्ठा हतारोहा दानवेन महात्मना ।
विद्रुताः स्वान्य् अनीकानि जघ्नुस् त्रिदशवारणाः ॥
निपेतुर् उर्व्याम् आकाशान् निकृत्ता दृढधन्विना ।
विविधास् तोमराश् चापा महामात्रशिरांसि च ।
प्रतीपम् आहरन् नागान् अश्वांश् च दृढविक्रमान् ।
चकर्त रथिनाम् आजौ शिरांसि च धनूंषि च ॥
आप्लुत्य रथिनः कांश्चित् परामृश्य महाबलः ।
सूतांश् चिच्छेद खड्गेन रथान् अपि च दानवः ॥
मुहुर् उत्पततो दिक्षु धावतश् च यशस्विनः ।
मार्गांश् चरित वै चित्रान् व्यस्मयन्त ततो ऽसुराः ॥
निजघान पदा कांश्चिद् आक्षिप्यान्यान् अपोथयत् ।
खड्गेन चान्यांश् चिच्छेद नादेनान्यांश् च भीषयत् ॥
ऊरुस्तम्भगृहीताश् च प्रपतन्त्य् अपरे भुवि ।
अपरे दैत्यम् आलोक्य भयात् प्राणान् अवासृजन् ॥
तस्मिंस् तथा वर्तमाने युद्धे महति दारुणे ।
रथौघवाजिनागानां सुराणां च महाक्षये ॥
सुराणां कम्पजनन+ कल्पान्तसदृशो भुवि ॥
कुजुम्भो दानवश्रेष्ठो ह्य् अंशम् आदित्यम् आहवे ।
योधयाम् आस समरे वृषः प्रतिवृषं यथा ।
जघानाचलसंकाशो मत्तवारणविक्रमः ॥
स्फुरद्भिर् निशितैस् तीक्ष्नैः शरैर् बहुभिर् आशुगैः ।
देवसेनासहस्राणि सरथानि महाहवे ।
तस्य बाणपथं प्राप्य नाभ्यवर्तन्त सर्वशः ॥
प्रणेदुः सर्वभूतानि बभुः सतिमिरा दिशः ।
देवानाम् अजयः क्रुरः प्रत्यपद्यत दारुणः ॥
अंशश् च दानवेन्द्रस्य जघानोत्तमविक्रमः ।
अनीकं दशसाहस्रं कुञ्जराणां तरस्विनाम् ॥
आपतन्तं गजानीकं कुजम्भो वीक्ष्य दानवः ।
गदापाणिर् अवारोहद् रथोपस्थाद् अरिंदमः ।
अद्रिसारमयीं गुर्वीं प्रगृह्य महतीं गदां ।
अभ्यद्रवद् गजानीकं व्यादितास्य इवान्तकः ॥
स गजान् गदया निघ्नन् व्यचरत् समरे बली ।
कुजम्भो दानवश्रेष्ठो गदापाणिर् बलाधिकः ॥
विशीर्णदन्तांश् च बहून् भिन्नकुम्भांश् च वारणान् ।
अकरोद् दानवश्रेष्ठ उद्दिश्योद्दिश्य तान् बली ॥
विशीर्णदन्ता बहवो भिन्नकुम्भास् तथापरे ।
कुजम्भेनार्दिना नागा व्यद्रवन्त दिशो दश ॥
कुजम्भस्य च ये ऽमात्या दानवा घोरविक्रमाः ।
नाराचैर् विविधैस् तीक्ष्णैर् अपास्य गजयोधिनः ॥
क्षुरैः क्षुरप्रैर् भल्लैश् च पीतैर् अञ्जलिकैः शितैः ।
चिच्छेद चोत्तमाङ्गानि कुजम्भो दानवोत्तमः ॥
शिरोभिः प्रपतद्भिश् च गगनं प्रत्यपूर्यत ।
अश्मवृष्टिर् इवाभाति बाहुभिश् च सहाङ्कुशैः ॥
हृतोत्तमाङ्गाः स्कन्धेषु गजानां गजयोधिनः ।
अदृश्यन्त महाराज ताला विशिरसो यथा ॥
आपतन्तं महानागम् अंशस्यासुरसत्तमः ।
जघानैकेषुणा क्रुद्धस् ततः स विमुखो ऽभवत् ॥
विगाह्यैवं गजानीकं कुजम्भो दानवोत्तमः ।
विनिघ्नन् प्रवरान् सैन्यान् गदया बलिनां वरः ॥
एकप्रहराभिहतान् कुजम्भेन महागजान् ।
अपश्यन्त सुराः सर्वे पर्वतान् इव पातितान् ॥
कुजम्भस्य च मार्गेषु विशीर्णास् ते महागजाः ।
वज्राहता इवेन्द्रेण विशीर्णा इव पर्वताः ॥
अपश्यंस् त्रिदशाः सर्वे मूर्तिमन्तम् इवान्तकम् ।
गन्धादेवास्य दीर्यन्ते सिंहस्येवेतरे मृगाः ॥
स बभौ तां गदां बिभ्रत् प्रोक्षितां गजशोणितैः ।
व्यादितास्यो ऽनदत् क्रुद्धो रौद्ररूपो भयानकः ।
यथा हि भगवान् क्रुद्धः प्रजानां संक्षये पुरा ।
विक्रीडमानो गदया रणमध्ये महासुरः ॥
गोपाल इव दण्डेन कालयन् स महागजान् ।
क्रुद्धं कालम् इवाकाशे दण्डम् उद्यम्य दानवम् ।
अपश्यन्त सुराः सर्वे कुजम्भं भीमविक्रमम् ॥
हतारोहास् तु तत्रान्ये प्रभिन्ना वारणोत्तमाः ।
ते हन्यमाना गदया बाणैश् च भृशविक्षताः ॥
असहन्तः कुजम्भस्य गदावेगं महाहवे ।
स्वान्य् अनीकानि मृद्नन्तः प्राद्रवन्त महागजाः ॥
महावात इवाभ्राणि विधमन् गदया गजान् ।
अभ्यधावद् गजानीकं व्यादितास्य इवान्तकः ।
अतिष्टत् समरे दैत्यः कालः संवर्तको यथा ॥
ततः सर्वाणि सैन्यानि देवराजस्य शासनात् ।
अभ्यद्रवन्त दितिजान् नन्दन्तो भैरवान् रवान् ॥
गदया हन्यमानानि बाणक्षतवपूंषि च ।
तं बलौघम् अपर्यन्तं देवानां सुदुरासदम् ।
आपतन्तम् अपारं च समुद्रम् इव पर्वणि ।
रथनागाश्वकलिलं शङ्खदुंदुभिनिस्वनम् ॥
आपतन्तं सुदुष्पारं रजसा सर्वतो वृतम् ।
सैन्यसागरम् अक्षोभ्यं वेलेव मकरालयम् ॥
तद् आश्चर्यम् अपश्यन्त अश्रद्धेयम् इवाद्भुतम् ।
रथनागाश्वकलिलं समुदीर्णं महाबलम् ।
उदीर्णां पृतनां सर्वां साश्वां सरथकुञ्जराम् ॥
आवार्य समरे ऽतिष्ठत् कुजम्भस् तरसा बली ।
सैन्यार्णवं देवतानां गिरिर् मेरुर् इवाचलः ।
अनीकिनीं कुजम्भस् तु गदया संन्यवारयत् ॥
सा तथा वारिता सेना विह्वलाभून् निरुद्यमा ।
तस्मिंस् तथा वर्तमाने संप्रहारे सुदारुणे ।
असिलोमा हरिश् चैव जघ्नतुस् तौ परस्परम् ॥
असिलोमा तु बलवान् दानवो दानवाधिपः ।
देवसैन्यस्य सर्वस्य धूमकेतुर् इवोत्थितः ।
तपत्य् अर्क इवामोघः सुरसैन्यानि संयुगे ॥
सहस्ररश्मिप्रतिमो दानवस्य रथोत्तमः ।
शरैर् मेघ इवावर्षद् देवानीकं प्रतापवान् ॥
शरौघरश्मिभिर् दीप्तैः प्रतपद् घोरविक्रमः ।
रौद्रः क्रूरो दुराधर्षो दुर्वार्यो ध्वजिनीमुखे ॥
युध्यते दैवतैः सार्धं ग्रसमान इव प्रभुः ।
उग्रेषुर् उग्रवदनो मृद्यमानो महागजान् ॥
सुराणाम् उत्तमाङ्गानि प्रचिनोति महाबलः ।
ग्रसन् दैवतसैन्यानि शरदंष्ट्रः प्रतापवान् ॥
शक्रचापमहाचापो महामेघ इवासुरः ।
असिजिह्वश् चक्रहस्तश् चापव्यात्ताननो ऽसुरः ।
परश्वधनखः श्रीमान् मृदङ्गापूरितध्वनिः ॥
तिष्ठते दानवश्रेष्ठः संयुगे व्याघ्रवद् बली ।
पृषत्कवृष्टिमान् घोरो ज्यामेघः स्तनयित्नुमान् ।
शक्रचापमहाचापो महामेघ इवासुरः ॥
मौर्वीघोषः स्तनयित्नुः पृषत्कप्रथितो महान् ॥
धनुर् विद्युद्गुणाटोपो महामेघ इवापरः ।
इष्वस्त्रसागरो घोरो बाहुग्राहो दुरासदः ॥
कार्मुकोर्मितरङ्गौघो बाणावर्तमहाह्रदः ।
गदासिमकरो रौद्रो ज्यावेलः शिक्षितो ऽर्णवः ॥
पदातिमीनः सुमहान् गर्जितोत्क्रुष्टघोषवान् ।
हयान् गजान् पदातींश् च रथांश् च तरसा बहून् ॥
न्यमज्जयत् स समरे परवीरान् महारथान् ।
अप्लावयत् स देवौघान् दारुणो दानवेश्वरः ॥
प्रामर्दत युधि श्रीमान् युधि श्रेष्टो युधि स्थितः ।
अपष्यंस् त्रिदशाः सर्वे शुद्धजाम्बूनदप्रभम् ॥
संनद्धं तत्र युध्यन्तं ज्वलन्तम् इव पावकम् ।
मध्यंदिनगतं सूर्यं ज्वलन्तम् इव तेजसा ।
न शेकुः सर्वभूतानि दानवं प्रसमीक्षितुम् ॥
यथा प्ररूढे घर्मान्ते दहेत् कक्षं हुताशनः ।
तथा सुरवरान् दैत्यो दहते बलतेजसा ॥
देवानां दानवानां च बलं नर्दति दारुणम् ।
विमूढम् अभवत् सर्वम् आकुलं च समन्ततः ॥
ततः शूरा बलोदग्रा हस्त्यश्वरथधूर्गताः ।
आर्यां बुद्धिं समादाय न त्यजन्ति महारणम् ॥
तद् उत्पिञ्जलकं युद्धं अभवल् लोमहर्षणम् ।
देवदानवयोः संख्ये रुधिरस्रावकर्दमम् ।
न दिशं प्रत्यजानन्त भयग्राहनिपीडिताः ॥
अस्त्रघातांश् च विविधान् दानवानां तदा रणे ।
अन्योन्यं मूढचित्तास् ते निजघ्नुर् व्याकुलीकृताः ।
स्वान् परान् नाभिजानन्ति विमूढाः शस्त्रपाणयः ॥
शिरोरुहेषु संगृह्य कश्चिच् छूरस्य संयुगे ।
शूरश् छिनत्ति मूर्धानं संदष्टौष्ठपुटाननम् ॥
बाहुभिर् मुष्टिभिश् चैव वज्रकल्पैः सुदारुणैः ।
प्रहरन्ति रणे वीरा आत्तशस्त्राः परस्परम् ॥
योधप्राणहरे रौद्रे स्वर्गद्वारविघट्टने ।
संकुले तुमुले युद्धे वर्तमाने महाभये ॥
हयो हयं गजो नागं वीरो वीरं महाहवे ।
अभ्यद्रवञ् जिघांसन्तो ह्य् असमञ्ज समाहवे ॥
अभिदुद्राव वेगेन न्यहनच् चैवम् अन्तिकात् ।
असुराश् च सुराश् चैव विक्रमाढ्या महारथाः ।
जुह्वतः समरे प्राणान् निजघ्नुर् इतरेतरम् ॥
मुक्तकेशा विकवचा विरथाश् छिन्नकार्मुकाः ।
हस्तैः पादैश् च युध्यन्ते दानवास् त्रिदशैः सह ॥
हरिस् तु निशितं भल्लं प्रेषयाम् आस संयुगे ।
स तस्य घनुषः कोटिं छित्त्वा भूमाव् अपातयत् ।
पुनश् चापि पृषत्कानां शतानि नतपर्वणाम् ।
प्राहिणोत् सहसा तस्य दानवेन्द्रस्य संयुगे ॥
तस्य देहे विमुक्तास् ते मारुतेन समीरिताः ।
मग्नार्धकाया विविशुः पन्नगा इव पर्वते ॥
स तैर् निपतितैर् गात्रैः क्षरद्भिर् असृग् अव्ययम् ।
बभौ दैत्यो महाबाहुर् मेरुर् धातुम् इवोत्सृजन् ॥
पुनश् चापि पृषत्कानां शतानि नतपर्वणाम् ।
ततो ऽसिलोमा संक्रुद्धः प्रगृह्यान्यन् महद् धनुः ।
रुक्मपुङ्खांश् च निशितान् प्रेषयाम् आस सायकान् ॥
तैस् तु मर्मसु विव्याध सर्पानलविषोपमैः ।
गात्रं संछादयाम् आस महाभ्रैर् इव पर्वतम् ॥
सर्वाङ्गेषु हविर् देवान् दानवो बलदर्पितः ।
भूयः संधाय च शरं मुमोचान्तकसंनिभम् ।
भूयश् च संधयाम् आस सपुङ्खाकालसंनिभः ।
सुपुङ्खं सूर्यसंकाशं बाणम् अप्रतिमं रणे ॥
तेन बाणप्रहारेण संयुगे भीमकर्मणा ।
मुमोह सहसा देवो भूमौ चापि पपात ह ॥
ततो हाहाकृताः सर्वे देवे भूतलम् आश्रिते ।
ततः स मर्माभिहतो वेपमान इवापतत् ।
जगत् सदेवम् आविग्नं यथार्कपतने तथा ॥
परिवारं तु समरे तस्य हत्वा महासुरः ।
एकत्रिंशत् सहस्राणि योधानां दानवोत्तमः ॥
जयश्रिया सेव्यमानो दीप्यमान इवाचलः ।
प्रगृह्य कार्मुकं घोरं गतः शक्ररथं प्रति ॥
तत्रैव तु महायुद्धे ससैन्याव् अश्विनाव् उभौ ।
प्रयुद्धौ सह वृत्रेण बलिना देवतारिणा ॥
बाणखड्गधनुष्पाणिः समरे त्यक्तजीवितः ।
आसाद्य सो ऽश्विनौ दैत्यः स्थितो गिरिर् इवाचलः ॥
ततः शङ्खम् उपाध्माय द्विषतां लोमहर्षणम् ।
ज्याघोषतलशब्दैश् च सर्वभूतान्य् अमोहयत् ॥
ततः संहृष्टरोमाणः शङ्खशब्दं विशुश्रुवुः ।
यक्षराक्षसदेवौघा वृत्रस्यापि च निस्वनम् ॥
गदातोमरनिस्त्रिंश+ शक्तिशूलपरश्वधाः ।
प्रगृहीता व्यराजन्त यक्षराक्षसबाहुभिः ॥
तैः प्रयुक्तान् महाकायैः शूलशक्तिपरश्वधान् ।
भल्लैर् वृत्रः प्रचिच्छेद भीमवेगरवैस् तथा ।
अन्तरिक्षचराणां च भूमिष्ठानां च गर्जताम् ।
शरैर् विव्याध गात्राणि देवानां प्रियदर्शनः ॥
वृत्रासुरभुजोत्सृष्टैर् बहुधा यक्षरक्षसाम् ।
तत्रायुधभुजोत्सृष्टा बहुधा यक्षराक्षसाः ।
निकृत्तान्य् एव दृश्यन्ते शरीराणि शिरांसि च ॥
अथ रक्तमहावृष्टिर् अभ्यवर्तत मेदिनीम् ।
गदापरिघभिन्नानां देवानां गात्रसंभवा ॥
प्रच्छादयन्तं बाणौघैर् वृत्रं भीमपराक्रमम् ।
ददृशुः सर्वभूतानि भानुमन्तम् इवांशुभिः ॥
तीक्ष्णरश्मिर् इवादित्यः प्रतपन् सर्वदेवताः ।
अविध्यत् सबलान् क्रुद्धः सायकैर् मर्मभेदिभिः ॥
नदतो विविधान् नादान् अर्दितस्यापि सायकैः ।
न मोहम् असुरेन्द्रस्य ददृशुस् त्रिदशा रणे ॥
ते ऽसिचर्मगदाभिश् च परिघप्रासतोमरैः ।
परश्वधैश् च शूलैश् च प्रववर्षुर् महारथाः ॥
ततो वृत्रः सुसंक्रुद्धस् तैस् तदाभ्यर्दितो बलात् ।
व्र्त्रासुरस् तु संक्रुद्धस् त्वरमाणो महाबलः ।
अभ्यवर्षच् छितैर् बाणैस् तान् सर्वान् सत्यविक्रमः ॥
तेन वित्रासिता देवा विप्रकीर्णमहायुधाः ।
घोरम् आर्तस्वरं चक्रुर् वृत्रासुरभयार्दिताः ॥
उत्सृज्य ते गदाशक्ति+ शूलर्ष्टिपरिघाशनीन् ।
उत्तरां दिशम् आजग्मुस् त्रासिता दृढधन्वना ॥
ततः शूलगदापाणिर् व्यूढोरस्को महाभुजः ।
प्रावर्तत रणे वृत्रस् त्रासयानश् चराचरान् ॥
तत्रैकस् तु महाबाहुर् असिशूलधरः प्रभुः ।
अभ्यधावत दैत्येन्द्रं वृत्रम् अप्रतिमं रणे ॥
गृहीतचापो वेगेन प्रभिन्न इव वारणः ।
तम् आपतन्तं संप्रेक्ष्य प्रभिन्नम् इव वारणम् ।
वत्सदन्तैस् त्रिभिः पार्श्वे विव्याधासुरसत्तमम् ॥
सो ऽतिविद्धो महेष्वासः शरैर् अमितविक्रमः ।
गदां जग्राह बलवान् गदायुद्धविशारदः ॥
तां प्रगृह्य महाभीमाम् अद्रिसारमयीं दृढाम् ।
अश्विनं सहसागम्य ताडयाम् आस वीर्यवान् ॥
दीप्यमानं ततः शूलम् अश्वी सुविपुलं दृढम् ।
प्रासृजद् वृत्रदैत्याय स हरोपमविक्रमः ॥
भङ्क्त्वा शूलं गदाग्रेण गदायुद्धविशारदः ।
अश्विनं सहसा भर्त्स्य गरुत्मान् इव पन्नगम् ॥
सो ऽन्तरिक्षात् समुत्पत्य विधूय महतीं गदाम् ।
नासत्योपरि चिक्षेप गिरिशृङ्गोपमां बली ॥
गदयाभिहतः सो ऽश्वी त्यक्त्वा शूलम् अनुत्तमम् ।
प्रयातः सहसा तत्र यत्र युध्यति वासवः ॥
पराजित्य तु संग्रामे सो ऽश्विनं भीमविक्रमम् ।
जयश्रिया सेव्यमानो वृत्रो युद्धे व्यवस्थितः ॥
तत्रैव तु महायुद्धे रणाजिर् देवसत्तमः ।
युध्यते सह दैत्येन एकचक्रेण धीमता ॥
प्रच्छाद्य रथपन्थानम् उत्क्रोशन्तं महारवम् ।
एकचक्रस्य सैन्यं तच् छरवर्षैर् अवाकिरत् ॥
महासुरा महावीर्या महापट्टसयोधिनः ।
शूलानि च भुशुण्डीश् च क्षिपन्ति स्म महारणे ॥
तच् छूलवर्षं सुमहद् गदाशक्तिसमाकुलम् ।
अशिवं दितिजैर् मुक्तं दुर्निवार्यं चराचरैः ॥
अन्योन्यम् अभ्यवर्षन्त देवासुरगणा युधि ।
महाद्रिशिखराकारा वीर्यवन्तो महाबलाः ॥
तुरंगमाणां तु शतं तस्य युक्तं महारथे ।
महासुरवरस्येव हिरण्यकशिपोर् युधि ॥
तेषां च रणपातेन चक्रनेमिस्वनेन च ।
तस्य बाणनिपातैश् च हता वै शतशः सुराः ॥
ततः स लघुभिश् चित्रैः शरैः संनतपर्वभिः ।
आयुधान् अच्छिनत् क्रुद्धः शतशो ऽथ सहस्रशः ॥
वध्यमानाः शरैस् तीक्ष्णै रथद्विरदवाजिनः ।
गमिताः प्रक्षयं केचित् त्रिदशैर् दानवा रणे ॥
ततः प्रक्षीयमाणांस् तान् उत्प्रेक्ष्य च दिते सुताः ।
त्यक्त्वा प्राणान् न्यवर्तन्त प्रगृहीतवरायुधाः ॥
ते दिशो विदिशश् चैव प्रतिरुध्य प्रहारिणः ।
अभ्यघ्नन् निशितैः शस्त्रैर् देवान् दितिसुता रणे ॥
रणाजिर् ज्वलितं घोरं परमं तिग्मतेसम् ।
मुमोचास्त्रं महाबाहुर् मथनं नाम संयुगे ॥
ततः शस्त्राणि शूलानि निशितानि सहस्रशः ।
अस्त्रवीर्येण महता दितिजः संप्रचिच्छिदे ॥
छित्त्वा शूलांश् च तान् सर्वान् एकचक्रो महासुरः ।
अभ्यविध्यत तं साध्यं दशभिर् निशितैः शरैः ॥
अस्त्रवेगं निहत्यैवं सो ऽस्त्रैस् तस्यानुसैनिकान् ।
ज्वलितैर् अपरैः शीघ्रैस् तान् अविध्यत् सहस्रशः ॥
तेषां छिन्नानि गात्राणि विसृजन्ति स्म शोणितम् ।
प्रावृषीवातिवृष्टानि शृङ्गानि धरणीभृताम् ॥
इन्द्राशनिसमस्पर्शैर् वेगवद्भिर् अजिह्मगैः ।
दितिजैः काल्यमानास् ते वित्रेसुः सुरसत्तमाः ॥
एकचक्रो रणे तिष्ठन्न् अपश्यद् गजयूथपान् ।
वराभरणनिर्ह्रादान् समुद्रसमनिस्वनान् ॥
मत्तान् सुविहितान् दृप्तान् महामात्रैर् अधिष्ठितान् ।
कुलीनान् वीर्यसंपन्नान् प्रतिद्विरदघातिनः ॥
शिक्षितान् गजशिक्षायाम् ऐरावतसमान् युधि ।
न्यहनत् सुरसैन्यस्य गजान् गज इवासुरः ॥
विक्षरन्तो महानागान् भीमवेगांस् त्रिधा मदम् ।
मेघस् तनितनिर्घोषान् महाद्रीन् इव चोत्थितान् ॥
सहस्रसंमितान् दिव्याञ् जाम्बूनदपरिष्कृतान् ।
सुवर्णजालैर् विततांस् तरुणादित्यवर्चसः ॥
एकचक्रो गदापाणिर् बलवान् गदिनाम् वरः ।
उत्सारयाम् आस गजान् महाभ्राणीव मारुतः ॥
निहत्य गदया सर्वांस् तान् गजान् गजमर्दनः ।
भूयो ऽश्वसंघान् बलिनो निरैक्षत महासुरः ॥
शुकवर्णान् ऋश्यवर्णान् मयूरसदृशांस् तथा ।
पारावतसवर्णांश् च हंसवर्णांस् तथैव च ॥
मल्लिकाक्षान् विरूपाक्षान् क्रौञ्चवर्णान् मनोजवान् ।
अश्वसैन्यं महाबाहुस् तद् अप्रतिमपौरुषः ।
निषूदयाम् आस बली गदया भीमविक्रमः ॥
रणाजिस् तस्य समरे सर्वान् दृष्ट्वासुरद्विषः ।
अचिन्त्यविक्रमः श्रीमान् अभ्ययाद् देववाहिनीम् ॥
गदायुद्धेषु कुशलो रथेन रथयूथपः ।
हृष्टसैन्यो महाबाहुः प्रस्थितः शक्रसंनिधौ ॥
त्रिंशच्छतसहस्राणि प्राणिनां विनिहत्य सः ।
रणे ऽतिष्ठत दैत्येन्द्रो विधूम इव पावकः ॥
तस्मिन्न् एव तु संग्रामे बलोद्रिक्तो महासुरः ।
मृगव्याधं महात्मानं योधयत्य् अजितं रणे ॥
मृगव्याधस्य रुद्रस्य महापारिषदास् ततः ।
समुत्पेतुर् बलं दृष्ट्वा हुताग्निसमतेजसः ॥
गजैर् मत्तै रथैर् दिव्यैर् वाजिभिश् च महाजवैः ।
अस्त्रैश् च निशितैस् तीक्ष्णैः शरैश् चानलसंनिभैः ॥
ततस् ते ददृशुर् वीरा दीप्यमानं महासुरं ।
रश्मिवन्तम् इवोद्यन्तं स्वतेजोरश्मिमालिनम् ॥
संग्रामस्थं महावेगं महासत्त्वं महाबलम् ।
महामतिं महोत्साहं महाकायं महासुरम् ॥
तं संईक्ष्य महायोधं दिक्षु सर्वास्व् अवस्थितम् ।
ततः प्रहरणैर् घोरैर् अभिपेतुः समन्ततः ॥
तस्य सर्वायसास् तीक्ष्णाः शराः पीतमुखाः शिताः ।
शिरस्य् अद्रिप्रतीकाशे मृगव्याधेन पातिताः ॥
तैश् च सप्तभिर् आविष्टः शरैः शिरसि चार्पितैः ।
उत्पपात तदा व्योम्नि दिशो दश विनादयन् ॥
ततस् तं त्रिदशो वीरः सरथः सज्यकार्मुकः ।
अनुवव्राज संहृष्टः खं तदा स महाबलः ॥
अवर्षद् गिरिसंकाशं वेगवान् स महाबलः ।
असुरं छादयाम् आस तं व्योम्नि शरवृष्टिभिः ।
वृष्टिमान् इव जीमूतो निदाघान्ते धराधरम् ॥
अर्द्यमानस् ततस् तेन मृगव्याधेन दानवः ।
चकार निनदं घोरम् अम्बरे जलदो यथा ॥
स दूरं सहसोत्पत्य मृगव्याधरथं प्रति ।
निपपात महावेगः पक्षवान् वै गिरिर् यथा ॥
बभञ्ज च ततो दैत्यो भग्नेषाकूबरं रथं ।
मृगव्याधः परित्यज्य स्थितो भूमौ महाबलः ॥
विरथं प्रेक्ष्य रुद्रं तु तस्य पारिषदाः शुभाः ।
उत्थिता घोररक्ताक्षा व्योम्नि मुद्गरपाणयः ॥
स तु तैः सहसोत्थाय विष्ठितो विमले ऽम्बरे ।
मुद्गरैर् अर्दितो भीमैर् वृक्षः परशुभिर् यथा ॥
तेषां वेगवतां वेगं निहत्य स महासुरः ।
निपपात पुनर् भूमौ सुपर्णसमविक्रमः ॥
स सालवृक्षम् उत्पाट्य महाशाखं महाबलः ।
सर्वान् पारिषदान् संख्ये सूदयाम् आस दानवः ॥
स तैर् विक्षतदेहस् तु रुधिरौघपरिप्लुतः ।
शुशुभे दानवश्रेष्ठो बालसूर्य इवोदितः ॥
अथोत्पाट्य गिरे शृण्गं समृगव्यालपादपम् ।
जघान तान् पारिषदान् समरे दानवेश्वरः ॥
ततस् तेष्व् अवसन्नेषु महापारिषदेषु वै ।
बलं तद् अवशेषं स नाशयाम् आस वीर्यवान् ॥
अश्वैर् अश्वान् गजैर् नागान् योधान् योधै रथान् रथैः ।
दानवः सूदयाम् आस युगान्ते ऽन्तकवत् प्रजाः ॥
हतैर् अश्वैश् च नागैश् च भग्नाक्षैश् च महारथैः ।
त्रिदशैश् चाभवद् भूमी रुद्धमार्गा समन्ततः ॥
एवंबलः स दैत्येन्द्रो मृगव्याधश् च वीर्यवान् ।
युधि प्रयुद्धौ बलिनौ प्रभिन्नाव् इव वारणौ ॥
तत्रैव युध्यते रुद्रो द्वितीयो राहुणा सह ।
विश्रुतस् त्रिषु लोकेषु क्रोधात्मा अज एकपात् ॥
तत् तदा सुमहद् युद्धं तुमुलं लोमहर्षणम् ।
आसीत् प्रतिभयं रौद्रं वीराणां जयम् इच्छताम् ॥
देवदानवदेहैस् तु दुस्तरा केशशाड्वला ।
शरीरसंघातवहा प्रसृता लोहितापगा ॥
आजघानाथ संक्रुद्धो रुद्रो रौद्राकृतिः प्रभुः ।
राहुं शतमुखं युद्धे शत्रुसैन्यविदारणम् ॥
तस्य काञ्चनचित्राङ्गं रथं साश्वं ससारथिम् ।
जघान समरे श्रीमान् क्रुद्धो दैत्यस्य सायकैः ॥
तस्य पारिषदस् त्व् एको रथशक्त्या महाबलः ।
बिभेद समरे हृष्टो दानवं तं स्तनान्तरे ।
स भिन्नगात्रो रुद्रेण तथा पारिषदैर् अपि ॥
रुद्रस्य रथम् आयान्तं स राहुर् दानवोत्तमः ।
प्रममाथ तलेनाशु सहसा क्रोधमूर्छितः ॥
भिन्नगात्रः शरैस् तीक्ष्णै रुद्रेणामिततेजसा ।
मेरुं सूर्य इवांशुभिः ।
हतैर् दानवमुख्यैस् तु @
रुद्रपारिषदान् सर्वान् निजघान महासुरः ॥
सृजन्तं शरवर्षाणि दानवं घोरदर्शनम् ।
बिभेद समरे रुद्रः शरैः संनतपर्वभिः ॥
वर्तमाने महाघोरे संग्रामे लोमहर्षणे ।
रुधिरौघा महावेगा महानद्यः प्रसुस्रुवुः ॥
दानवः समरे रुद्रं नीलाञ्जनचयोपमः ।
निर्बिभेद शरैस् तीक्ष्णैर् मेरुं सूर्य इवांशुभिः ॥
हतैर् दानवमुख्यैश् च शक्तिशूलपरश्वधैः ।
पतितैः पर्वताभैश् च दानवैः कामरूपिभिः ॥
ततः स रुद्रः समरे मुष्टिनाभिहतस् तदा ।
पपात सरथः साश्वः पुराट्ट इव भूतले ॥
वर्तमाने महाघोरे संग्रामे लोहमर्षणे ।
विरेजुस् ते तदा दैत्याः पुष्पिता इव किंशुकाः ।
रुधिरोदा महावेगा महानद्यः प्रसुश्रुवुः ।
महाभेरीमृदङ्गानां पणवानां च निस्वनैः ॥
शङ्खवेणुस्वनोन्मिश्रः संबभूवाद्भुतोपमः ।
हतानां स्वनतां तत्र दैत्यानां चापि निस्वनैः ।
सुराणाम् असुराणां च संबभूव महास्वनः ॥
तुरंगमखुरोत्कीर्णं रथनेमिसमुद्धतम् ।
रुरोध मार्गं योधानां चक्षूंषि च धरारजः ॥
शस्त्रपुष्पोपहारा सा तत्रासीद् युद्धमेदिनी ।
आसीत् प्रतिभयं रौद्रं वीराणां जयम् इच्छतां ॥
देवदानवदेहैस् तु दुस्तराभूद् रणोत्कटा ।
शरीरसहने रूढा प्रसृता लोहिता नदी ॥
दुर्दर्शा दुर्विगाह्या च मांसशोणितकर्दमा ॥
भग्नैः खड्गैर् गदाभिश् च शक्तितोमरपट्टिशैः ।
भग्नैः खड्गगदाशक्ति+ तोमरासिपरश्वधैः ।
अपविद्धैश् च भग्नैश् च रथैः सांग्रामिकैर् हतैः ॥
निहतैः कुञ्जरैर् मत्तैस् तथा त्रिदशदानवैः ।
चक्राक्षयुगशस्त्रैश् च भग्नैर् अवनिपातितैः ।
बभूवायोधनं घोरं पिशिताशनसंकुलम् ॥
अष्टाशीतिसहस्राणि रथास् तत्र हताः किल ।
नागा लक्षं हता राजन्न् अश्वा लक्षत्रयं नृप ॥
उत्पेतुश् च कवन्धानि दिक्षु सर्वासु संयुगे ।
अन्योन्यबद्धवैराणां दैत्यानां जयगृद्धिनाम् ।
संप्रहारस् तदा युद्धे वर्तते ऽतिभयंकरः ॥
सैन्यानां संप्रयुक्तानां शूराणाम् अनिवर्तिनाम् ।
अजस्य चैकपादस्य राहोश् चैव महात्मनः ॥
तेषां तु तत्र पततां क्रुद्धानाम् अतिनिस्वनः ।
उद्वर्त इव भूतानां समुद्राणां च शुश्रुवे ॥
तत्रैकस् तु सधूम्राक्षः श्रीमान् रुद्रो मुनीश्वरः ।
बिभेद केशिनं शक्त्या गदापट्टिसशूलधृक् ॥
नानाप्रहरणा घोरा भीमाक्षा भीमदर्शनाः ।
निपेतू रुद्रदयिता महापारिषदास् तदा ॥
रथम् आस्थाय च श्रीमांस् तप्तकाञ्चनकुण्डलः ।
दानवैः संवृतः केशी युध्यते युधि दुर्जयैः ॥
तस्य संग्रामशौण्डस्य संग्रामाग्रे युयुत्सवः ।
निष्पेतुर् उग्रवीर्यस्य ज्वाला हि प्रसृता मुखात् ॥
स तु सिंहाञ्चितस्कन्धः शार्दूलसमवीक्रमः ।
महाजलदसंकाशो मृदङ्गध्वनिनिस्वनः ॥
तस्य निष्पतमानस्य दानवैः संवृतस्य वै ।
बभूव सुमहानादः क्षोभयंस् त्रिदिवं तदा ॥
तेन शब्देन वित्रस्ता त्रिदशानां महाचमूः ।
द्रुमशैलप्रहरणा योद्धुम् एवाभ्यवर्तत ॥
तेषां च देवदैत्यानां युयुत्सूनां परस्परम् ।
संनिपातः सुतुमुलो रौद्रो लोकभयावहः ॥
तेषां युद्धं महाघोरं संजज्ञे लोमहर्षणम् ।
देवदानवसंघानां प्राणांस् त्यक्त्वा महाहवे ॥
सर्वे ह्य् अतिबलाः शूराः सर्वे पर्वतसंनिभाः ।
सर्वे सर्वास्त्रविद्वांसः सर्वे सर्वायुधोद्यताः ।
त्रिदशा दानवाश् चैव परस्परजिघांसवः ॥
तेषां निनदतां शब्दः संयुगे मेघनिस्वनः ।
शुश्रुवे ऽतिमहाघोषो गरुडस्येव गच्छतः ।
शुश्रुवे ऽतिमहाघोरश् चरस्थावरकम्पनः ॥
रेणुश् चारुणसंकाशः सभीमः समपद्यत ।
उद्भूतो देवदैत्यौघैः संरुरोध दिशो दश ॥
अन्योन्यं रजसा तेन कौशेयारुणपाण्डुना ।
संवृता बहुरूपेण ददृशुर् न स्म किंचन ॥
न ध्वजो न पताका वा न वर्म तुरगो ऽपि वा ।
आयुधं स्यन्दनं वापि दृश्यते नैव सारथिः ॥
स शब्दस् तुमुलस् तेषाम् अन्योन्यम् अभिधावताम् ।
निपेतुर् उग्रवीर्यस्य ज्वाला हि प्रसृता मुखात् ॥
स तु सिंहर्षभस्कन्धः शार्दूलसमविक्रमः ।
महाजलदसंकाशो महाजलदनिस्वनः ॥
तस्य निष्पतमानस्य दानवैः संवृतस्य च ।
श्रूयते तुमुलः शब्दो न रूपाणि चकाशिरे ॥
दानवास् तत्र संक्रुद्धा दानवान् एव जघ्निरे ।
त्रिदशास् त्रिदशांश् चैव निजघ्नुस् तुमुले तदा ॥
ते परांश् च विनिघ्नन्तः स्वांश् च युद्धे महासुरान् ।
रुधिरार्द्रां तथा चक्रुर् मेदिनीम् असुराः सुराः ॥
ततस् तु रुधिरौघेण संसिक्तं मृदितं रजः ।
शरीरशतसंकीर्णं बभूव सुमहारणम् ॥
शूलशक्तिगदाखङ्ग+ परिघप्रासतोमरैः ।
त्रिदशा दानवाश् चैव जघ्नुर् अन्योन्यम् आहवे ॥
बाहुभिः परिघाकारैर् निघ्नन्तः पर्वतैस् तदा ।
रुद्रपारिषदान् सर्वान् सूदयन्ति स्म दानवाः ॥
रुद्रपारिषदाश् चैव महाद्रुममहाश्मभिः ।
व्यदारयन्न् अतिक्रम्य शस्त्रैश् चादित्यवर्चसैः ॥
एतस्मिन्न् अन्तरे क्रुद्धः केशी दानवसत्तमः ।
संग्राममर्षी घोरः स स्वान्य् अनीकानि हर्षयन् ।
तेषां परमसंक्रुद्धो वज्रम् अस्त्रम् उदीरयत् ॥
वज्रेणास्त्रेण दिव्येन शस्त्रेण च महात्मना ।
महापारिषदाः सर्वं निहता युधि दुर्जयाः ॥
वज्रास्त्रपीडिता भ्रान्ता रुद्रपारिषदा युधि ।
विप्रकीर्णद्रुमाः पेतुः शैला वज्रहता इव ॥
एवं तत् तुमुलं युद्धम् अभवल् लोमहर्षणम् ।
केशिनः सह रुद्रेण तद् अद्भुतम् इवाभवत् ॥
वृषपर्वा तु दैत्येन्द्रो विश्वम् अद्भुतदर्शनम् ।
निष्कुम्भं योधयाम् आस लोहितार्कसमद्युतिम् ॥
क्रोधमूर्छितवक्त्रस् तु धुन्वन् परमकार्मुकम् ।
ध्वजिनीं प्रेक्ष्य शत्रूणां सारथिं त्वरितो ऽब्रवीत् ॥
अत्रैव तावत् त्वरितं नयेमं सारथे रथम् ।
एते हि देवाः सहिता घ्नन्ति नः समरे बलम् ॥
एतान् निहन्तुम् इच्छामि समरश्लाघिनो रणे ।
एतैर् हि दानवानीकं कृतच्छिद्रम् इदं महत् ॥
ततः प्रजविताश्वेन रथेन रथिनां वरः ।
अरीन् अभ्यहनत् क्रुद्धः शरजालैर् महासुरः ॥
तस्य विक्रमतः संख्ये दानवेन्द्रस्य धीमतः ।
न स्थातुं देवताः शक्ताः किं पुनर् योद्धुम् आहवे ।
अत्यर्थं वै रणे शूराः संग्रामेष्व् अनिवर्तिनः ।
वृषपर्वविनिर्भिन्नाः सर्व एवाभिदुद्रुवुः ॥
वृषपर्वविनिर्भिण्णा विनेदुश् चात्र सर्वशः ।
तान् मृत्युवशम् आपन्नान् वैवस्वतवशं गतान् ।
समीक्ष्य निहताञ् ज्ञातीन् अवतस्थे महासुरः ॥
निष्कुम्भं तत्र तं दृष्ट्वा सर्वे ते त्रिदशोत्तमाः ।
समेत्य सहिताः सर्वे तं द्रुतं पर्यवारयन् ॥
व्यवस्थितं च निष्कुम्भं तं दृष्ट्वा त्रिदशोत्तमाः ।
बभूवुर् बलवन्तो वै तस्यास्त्रबलतेजसा ॥
वृषपर्वा तु शैलाभं निष्कुम्भं समरे स्थितम् ।
महेन्द्र इव धाराभिः शरवर्षैर् अवाकिरत् ॥
अचिन्तयित्वा तु शराञ् शरीरे पतितान् बहून् ।
स्थितश् च प्रमुखे श्रीमान् ससैन्यः स महाबलः ॥
स प्रहस्य महातेजा वृषपर्वाणम् आहवे ।
अभिदुद्राव वेगेन कम्पयन्न् इव मेदिनीम् ॥
तस्य त्व् आधावमानस्य दीप्यमानस्य तेजसा ।
बभूव रूपं दुर्धर्षं दीप्तस्येव विभावसोः ॥
रथं त्यक्त्वा स तु श्रीमान् सक्रोधः कमलेक्षणः ।
वृक्षम् उत्पाटयाम् आस महाशाखं महोच्छ्रयम् ।
ततश् चिक्षेप तं वृक्षं निष्कुम्भो वृषपर्वणः ॥
तं गृहीत्वा महावृक्षं पाणिनैकेन दानवः ।
विनद्य सुमहानादं भ्रामयित्वा च वीर्यवान् ॥
सगजान् सगजारोहान् सरथान् रथिनस् तथा ।
जघान दानवस् तेन शाखिना त्रिदशांस् तदा ॥
तम् अन्तकम् इव क्रुद्धं समरे प्राणहारिणम् ।
वृषपर्वाणम् आसाद्य त्रिदशा विप्रदुद्रुवुः ॥
तम् आपतन्तं संक्रुद्धं त्रिदशानां भयावहम् ।
आलोक्य धन्वी निष्कुम्भश् चुक्रोध च ननाद च ॥
स तत्र निशितैर् बाणैर् विंशद्भिर् मर्मवेधिभिः ।
निर्बिभेद महावीर्यो निष्कुम्भो दानवाधिपम् ॥
शरशक्तिभिर् उग्राभिर् दैत्यानाम् अधिपं प्रभुम् ।
दैत्यानाम् अथ निष्कुम्भः शरशक्तिभिर् अर्दितः ।
ततो दैत्यो ऽभवत् क्रुद्धो दानवानां चमूमुखे ।
बिभेद निशितैर् बाणैः निष्कुम्भं दानवोत्तमः ॥
विद्धः समरमध्यस्थो रुधिरं प्रास्रवद् बहु ॥
उद्विग्ना मुक्तकेशाश् च भग्नदर्पाः पराजिताः ।
श्वसन्तो दुद्रुवुः सर्वे भयाद् वै वृषपर्वणः ॥
अन्योन्यं प्रममन्थुस् ते त्रासिता वृषपर्वणा ।
पृष्ठतस् त्राससंविग्नाः प्रेक्षमाणा मुहुर् मुहुः ॥
त्यक्तप्रहरणाः सर्वे कृतास् ते वृषपर्वणा ।
संग्रामे युद्धशौण्डेन तदा निष्कुम्भसैनिकाः ॥
तत्रैव तु महावीर्यः प्रह्रादः कालम् आहवे ।
योधयाम् आस रक्ताक्षो हिरण्यकशिपोः सुतः ॥
तस्य दानववीरस्य युद्धकाले जयक्रियाः ।
लोकनाथे हरौ विष्णौ ज्ञानगम्ये जगन्मये ।
तस्य दानवराजस्य युद्धकालक्षमाः क्रियाः ॥
चकार त्वरया युक्तो भार्गवो विजयावहाः ॥
हुताशनं तर्पयतो ब्राह्मणांश् च नमस्यतः ।
आज्यगन्धप्रतिवहो मारुतः सुरभिर् ववौ ॥
स्रजश् च विविधाश् चित्रा जयार्थम् अभिमन्त्रिताः ।
प्रह्लादस्य शुभे मूर्ध्नि आबबन्धोशनाः स्वयम् ।
कालेन सह संग्रामे प्रयुद्धः स महासुरः ॥
प्रह्रादस्यातिवीर्यस्य शान्तिं चक्रे स भार्गवः ।
दश शिष्यसहस्राणि भार्गवस्य महात्मनः ।
तानि दानववीराणां जेपुः शान्तिम् अनुत्तमाम् ॥
अथर्वाणम् अथो दिव्यं ब्रह्मसंस्तवचोदितम् ।
रणप्रवेशसान्तिं ते क्रमाच् चक्रुश् च दानवाः ।
रणप्रवेशसदृशं कर्म वैजयिकं कृतम् ॥
ततः सर्वास्त्रविदुषः समरेष्व् अनिवर्तिनः ।
विद्यातपःसमायुक्ताः कृतस्वस्त्ययनक्रियाः ॥
धनुर्हस्ताः कवचिनो वेगेनाप्लुत्य दानवाः ।
बलिम् अभ्यर्च्य राजानं प्रह्रदां पर्यवारयन् ॥
आस्थाय विपुलं दिव्यं रथं पररथारुजम् ।
नानाप्रहरणाकीर्णं सचक्रम् इव पर्वतम् ॥
तद् बभूव मुहूर्तेन क्ष्वेडितास्फोटिताकुलम् ।
मेरोः शिखरम् आकीर्णं द्यौर् इवाम्बुधरागमे ॥
स्रजः पद्मपलाशानाम् आमुच्य सुविभूषीताः ।
बान्धवान् संपरित्यज्य निपतन्ति रणप्रियाः ॥
महायुधधरः श्रीमाञ् शुभवर्मधरः प्रभुः ।
शिरस्त्राणतनुत्राणी धन्वी परमदुर्जयः ॥
सिंहशार्दूलदर्पाणां नदतां किंकिणीकिनाम् ।
तस्य दैत्यसहस्राणि प्रयान्त्य् अग्रे महारणे ॥
सैन्यपक्षहतास् तस्य रथाः परमदुर्जयाः ।
सप्ततिर् वै सहस्राणि गजास् तावन्त एव च ॥
मध्ये व्यूहोदरस्थस् तु कालनेमिर् महासुरः ।
धनुर् विस्फारयन् घोरं ननाद प्रजहास च ॥
तस्मिञ् शतसहस्राणि पुरो यान्ति महाद्युतेः ।
दानवानां बलवतां शक्रप्रतिमतेजसाम् ॥
स समं वर्तमानस् तु पक्षाभ्यां विस्तृतो महान् ।
अभवद् दानवव्यूहो दुर्भेद्यः सर्वदेवतैः ॥
षष्तिं रथसस्हराणि दानवानां धनुर्भृताम् ।
नानाप्रहरणानां च परिमाणं न विद्यते ॥
गदापरिघनिस्त्रिंश+ शूलम् उद्गरपट्टिसैः ।
प्रगृहीतैर् व्यराजन्त दानवाः पर्वतोपमाः ॥
गर्जन्तो विनदन्तश् च विक्रोशन्तः पुनः पुनः ।
अयुध्यन्त महावीर्याः समरेष्व् अनिवर्तिनः ॥
तत्र तूर्यसहस्राणां संजज्ञे निस्वनो महान् ।
हयानां च गजानां च गर्जताम् अभितौजसाम् ॥
दुंदुभीनां च निर्घोषः पर्जन्यनिनदोपमः ।
शुश्रुवे शङ्खशब्दश् च पटहानां च निस्वनः ॥
तेन शङ्खनिनादेन भेरीतूर्यरवेण च ।
निर्घोषेण रथानां च क्रोशतीव नभःस्थलम् ॥
सागरप्रतिमौघेन बलेन महता वृतः ।
प्रह्रादो ऽयुध्यत क्रुद्धः कालान्तकयमोपमः ॥
तस्य नादेन रौद्रेण घोरेणाप्रतिमौजसः ।
विनेदुः सर्वभूतानि त्रैलोक्यविसृतैः स्वरैः ॥
अन्तरिक्षात् पपातोल्का वायुश् च परुषो ववौ ।
वमन्त्यः पावकं घोरं शिवाश् चैव ववाशिरे ॥
प्रह्रादस् तु महावीर्यः प्रहसन् युद्धदुर्मदः ।
उवाच वचनं श्रीमांस् तत्कालक्षमम् उत्तमम् ।
अद्याहं दर्शयिष्यामि स्वबाहुबलम् ऊर्जितम् ।
अद्य मद्बाणनिहतान् देवान् द्रक्ष्यथ संयुगे ॥
बान्धवा निहता येषां त्रिदशैर् इह संयुगे ।
अद्य ते निर्वपिष्यन्ति शत्रुमांसानि दानवाः ॥
इमम् अद्य समुद्भूतं रेणुं समरमूर्धनि ।
अहं संशमयिष्यामि शत्रुशोणितविस्रवैः ॥
तिमिरौघहतार्कं च सैन्यरेण्वरुणीकृतम् ।
आकाशं संपतिष्यन्ति खद्योता इव मे शराः ॥
हृष्टाः संपरिमोदध्वं देवेभ्यस् त्यज्यतां भयम् ।
अद्याहं निहनिष्यामि कालेन्द्रं धनुषा रणे ॥
तोषयिष्यामि राजानं बलिं बलवतां वरम् ।
त्रिदशान् सगणान् हत्वा रणे चान्तकसंनिभान् ॥
अक्षयाः सन्ति मे तूणाः शराश् चाशीविषोपमाः ।
स्थातुं मे पुरतः शक्ताः के रणे जीवितेप्सवः ॥
हत्वा रिपुगणांस् तुष्टिर् अनुरागश् च राजसु ।
हतस्य त्रिदिवे वासो नास्ति युद्धसमा गतिः ॥
ते भयं पृष्ठतः कृत्वा रणे दानवसत्तमाः ।
निहत्येमान् अरीन् सर्वान् मोदध्वं नन्दने वने ॥
एवम् उक्त्वा महासैन्यं प्रह्रादो दानवोत्तमः ।
कालसैन्यं महारौद्रं तरसामर्दतासुरः ॥
सर्वास्त्रविद्वाञ् शूरश् च नित्यं चाप्य् अपराजितः ।
युद्धेष्व् अभिमुखो नित्यं स्वबाहुबलदर्पितः ॥
षष्तिं रथसहस्राणि विविधायुधधारिणाम् ।
प्रह्रादस्यातिवीर्यस्य ये तस्य तनया निजाः ॥
तैस् तु क्रतुशतैर् इष्टं विपुलैर् आप्तदक्षिणैः ।
क्षान्ता धर्मपरा नित्यं सत्यव्रतपरायणाः ॥
दातारः प्रियवक्तारो वक्तारः शास्त्रवस्तुषु ।
स्वदारनिरता नित्यं ब्रह्मण्याः सत्यसंगराः ॥
यष्टारः क्रतुभिर् नित्यं नित्यं चाध्ययने रताः ।
इष्वस्त्रकुशलाः सर्वे बहुशो दृष्टविक्रमाः ॥
मत्तवारणविक्रान्ताः शत्रुसैन्यप्रमर्दकाः ।
दारयन्तः पदाक्षेपैः सुघोरान् वातरेचकान् ॥
युद्धोत्सुकधियो नित्यं क्रोधरञ्जितलोचनाः ।
संदष्टौष्ठपुटा दैत्या विनेदुर् भीमविक्रमाः ॥
क्ष्वेडितास्फोटितरवैर् अन्योन्यं समहर्षयन् ।
वेणुशङ्खरवैश् चैव सिंहनादैश् च पुष्कलैः ॥
आप्लुत्याप्लुत्य सहसा रणे वव्रुर् अनेकशः ।
तालमात्राणि चापानि विकृष्य सुमहाबलाः ॥
अमृष्यमाणाः सहसा दानवा बाणपाणयः ।
महासुरैर् अप्य् अजिता योधयन्ति रणे ऽन्तकम् ॥
प्रतप्तहेमाभरणाः सर्वे ते श्वेतवाससः ।
दानवा मानिनः सर्वे सर्वे स्वर्गाभिकाङ्क्षिणः ॥
सर्वे जयैषिणो वीराः सर्वे शत्रुवधोद्यताः ।
शुशुभे सा चमूर् दीप्ता पताकाध्वजमालिनी ।
गजाश्वरथसंबाधा स्वर्गमार्गाभिकाङ्क्षिणी ॥
ततः कालस् तु निर्यातो भीमो भीमपराक्रमः ।
विनदन् सुमहाकायो व्याधिभिर् बहुभिर् वृतः ॥
ददर्श महतीं सेनां दानवानां बलीयसाम् ।
अभिसंजातहर्षाणां कालं समभिगर्जताम् ॥
आपतन्तं तदानीकं दानवानां तरस्विनाम् ।
प्रतिलोमं चकाराशु व्याधिभिः सहितो ऽन्तकः ॥
प्रविश्य ध्वजिनीं चैषां घातयाम् आस वीर्यवान् ।
कालो रुधिररक्ताक्षः स्वेनानीकेन संवृतः ॥
प्रह्रादबलम् अत्युग्रं प्रह्रादं च महाबलम् ।
आजघान रणे कालो दण्डम् उद्गरपट्टिसैः ॥
शरशक्त्यृष्टिखड्गांश् च शूलानि मुसलानि च ।
गदाश् च परिघाश् चैव विविधाश् च परश्वधाः ॥
धनूंषि च विचित्राणि शतघ्नीश् च स्थिरायसीः ।
पात्यन्ते व्याधिभिर् युद्धे दानवानां चमूमुखे ॥
अतिसारा ज्वराश् चैव यक्ष्माणः श्लेष्मजा रुजाः ।
शिरोरोगाक्षिरोगाश् च औदरीकाश् च ये ऽगदाः ॥
बहवो व्याधयो युद्धे बहून् असुरपुङ्गवान् ।
व्याधीन् अपि च दैत्यौघा निजघ्नुर् बहवो बहून् ॥
शूलैः प्रमथिताः केचित् केचिच् छिन्नाः परश्वधैः ।
परिघैर् आहताः केचित् केचिच् च परमायुधैः ॥
केचिद् द्विधाकृताः खड्गैः स्फुरन्तः पतिता भुवि ।
व्याधयो दानवैर् एवं नानाशस्त्रैर् विदारिताः ॥
ते चापि व्याधिभिः सर्वे विविधैर् आयुधोत्तमैः ।
खड्गैश् च विपुलैस् तीक्ष्णैः प्रासतोमरमुद्गरैः ।
भिन्नाश् च दानवाः शूलैर् निकृत्ताश् च परश्वधैः ॥
मुद्गरैः पट्टिसैश् चैव व्याधिभिश् च महाबलैः ।
क्षताः शस्त्रैर् अनेकैश् च मुष्टिभिश् च महामृधे ॥
वेमुः शोनितम् अक्षोभ्यं विष्ठब्धदशनेक्षणाः ॥
आर्तस्वरं च नदतां सिंहनादांश् च गर्जताम् ।
बभूव तुमुलः शब्दः संग्रामे लोमहर्षणः ॥
मुष्टिभिश् चोत्तमाङ्गानि तलैर् गात्राणि चासकृत् ।
मूल पाठ: Harivaṃśa, Appendix I · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0