भाषा

ENहिગુ
ग्रंथ पाठ

हरिवंश · भाग 501520

जयाशिषा चोर्जितसत्त्ववीर्यम् ।
अत्रिर् वसिष्ठो जमदग्निर् और्वो @
बृहस्पतिर् नारदपर्वतौ च ॥
समन्वयुर् देवगणा महेन्द्रं @
प्रयान्तम् आदित्यसमानवर्चसम् ।
विश्वे च देवा मरुतश् च सर्वे @
साध्यास् तथा आदित्यगणाश् च सर्वे ॥
ते देवराजस्य पुरंदरस्य @
हयाश् च ये मातलिसंगृहीताः ।
प्रयान्ति देवेश्वरम् उद्वहन्तो @
नभस्तलं पद्भिर् इवाक्षिपन्तः ॥
ब्रह्मर्षयश् चैव सुरर्षयश् च @
राजर्षयश् चाक्षयपुण्यलोकाः ॥
सर्वे ऽनुजग्मुः सहसा ज्वलन्तं @
तेजोन्वितं शक्रम् अमित्रसाहम् ॥
प्रगृह्य शूलानि परश्वधांश् च @
दीप्तानि चापान्य् अशनीर् विचित्राः ।
वर्माणि चामुच्य हिरण्मयानि @
प्रयान्ति सूर्यांशुसमप्रभाणि ॥
तथा कुबेरो ऽश्वसहस्रयुक्तं @
श्रेष्ठं रथं सर्वसहं महार्हम् ।
दिव्यं समारुह्य रणाय यातो @
धनेश्वरो दीप्तगदाग्रहस्तः ॥
निशाचराः पावकधूम्रकाया @
रक्षोवृषा रुद्रसखस्य तस्य ।
विशालनानायुधदीप्तहस्ता @
यान्त्य् अग्रतो वैश्रवणस्य राज्ञः ॥
ते लोहिताक्षाः परिवार्य देवं @
व्रजन्ति भिन्नाञ्जनचूर्णवर्णाः ।
यक्षोत्तमा यक्षपतिं धनेशं @
रक्षन्ति वै प्रासगदासिहस्ताः ॥
पुण्यः प्रभुः प्राणपतिर् यतात्मा @
वैवस्वतो धर्मभृतां वरिष्ठः ।
तडिद्गुणाभं शतवाजियुक्तं @
रथं समारोहत सूर्यकल्पम् ॥
तं लोकपालं पितरो ऽनुजग्मुर् @
विविक्तपापा ज्वलिता यशोभिः ।
सर्वे च भूता भुवनप्रधाना ।
नानायुधव्यग्रकराः सुभीमाः ॥
दण्डं महास्त्रं परिगृह्य देवो @

लोकाङ्कुशं विग्रहनिश्चितार्थं ।
हिरण्मयानां कमलोत्पलानां @
मालां मनोज्ञाम् अवसज्य कण्ठे ॥
स्थितो ऽस्थिमेदामिषलोहितार्द्रं @
सर्वासुरानां निधनं विकाङ्क्षन् ।
तेजोमयं मुद्गरम् उग्ररूपं @
विकर्षमाणो ऽरुणधूम्रनेत्रः ॥
समन्वितो व्याधिशतैर् अनेकैर् @
ययौ हरिश्मश्रुर् उदारसत्त्वः ।
महासुराणां निधनाय बुद्धिं @
चक्रे तदा व्याधिपतिः कृतान्तः ॥
ततस् त्रिशीर्षैर् भुजगैर् बृहद्भिर् @
युक्तं रथं हेमचितं महात्मा ।
आस्थाय कुन्देन्दुनिभं जलेशो @
ययौ रणायासुरदर्पहन्ता ॥
वैदूर्यमुक्तामणिभूषिताङ्गस् @
तेजोमयः पाशगृहीतहस्तः ।
महासुराणां निधनाय देवः @
प्रयाति रूप्याकरनद्धबाहुः ॥
अन्वीयमानो जलदेवताभिर् @
निषेव्यमाणो जलजैश् च सत्त्वैः ।
संस्तूयमानश् च महर्षिवृन्दैः @
संपूज्यमानश् च महाभुजङ्गैः ॥
कैलासशृङ्गप्रतिमो ऽप्रमेयः @
समुद्रनाथो ऽमृतपो महात्मा ।
महोरगैः स्वैस् तनयैश् च गुप्तो @
ययौ रथेनार्कसमप्रभेण ॥
युद्धाय तं यान्तम् अदीनसत्त्वं @
नभस्तले चन्द्रम् इवातिकान्तम् ।
पश्यन्ति भूतानि महानुभावं @
संहृष्टरोमाणि कृताञ्जलीनि ॥
धातार्यमांशो ऽथ भगो विवस्वान् @
पर्जन्यमित्रौ च शशी च देवः ।
त्वष्टा तथैवोर्जितविश्वकर्मा @
पूषा च साक्षाद् इव देवराजः ॥
सोरश्छदैः सध्वजकिंकिणीकैर् @
वैदूर्यनिष्कैश् चितहेमकण्ठैः ।
हयैर् वरैः शक्रहयप्रकाशैर् @
युक्तान् रथान् आरुरुहुः सुरास् ते ॥
दिवाकराकारनिभानि केचिद् @

धुताशनार्चिःप्रतिमानि केचित् ।
निशाकरांशुप्रतिमानि केचित् @
तडिद्गुणोद्द्योतनिभानि केचित् ॥
नीलांशुमेघप्रतिमानि केचित् @
नीलाभताम्रस्थितपुष्पवर्णैः ।
कार्ष्णायसाकारनिभानि केचित् @
केचित् सुवर्णाभनिभा विभान्ति ।
वर्माणि दिव्यानि महाप्रभाणि @
त्वष्ट्रा कृतान्य् उत्तमभानुमन्ति ॥
आमुच्य मालाश् च सुवर्णपद्माः @
प्रयान्ति तोयानिलतुल्यवेगाः ।
द्वाव् अश्विनौ चापि महानुभावौ @
रूपोत्तमौ धर्मभृतां वरिष्ठौ ॥
रथं समारुह्य सुवर्णचित्रं @
रणं गतौ काञ्चनतुल्यवर्णौ ।
मनोः सुता वै वसवश् च सर्वे @
बलोत्कटा दैत्यवधाय देवाः ॥
रथांश् च नागांश् च महाप्रमाणान् @
आस्थाय जग्मुः सुशुभास्त्रहस्ताः ।
रुद्राश् च सर्वे ऽरुणधूम्रवर्णाः @
श्वेतैर् ययुर् गोपतिभिर् बृहद्भिः ॥
महौजसः सर्वगुणोपपन्ना @
दीप्तात्मनो भाभिर् इव ज्वलन्तः ।
नानायुधव्यग्रकरैर् भुजैस् ते @
लोकान् समस्तान् इव निर्दहन्तः ॥
ययुः ससैन्यास् तपनीयनद्धाः @
सविद्युतस् तोयधरा यथैव ।
विश्वे च देवास् तपसा ज्वलन्तो @
वीर्योत्तमाः सूर्यमरीचिवर्णाः ॥
ययुः ससैन्या युधि दुर्निवार्या @
बलोत्कटाः पद्मसहस्रमालाः ।
रथैः सुयुक्तैस् तपनीयवर्णैर् @
वैदूर्यमुक्तामणिदामचित्रैः ॥
नानायुधाकारसमाकुलास् ते @
पारिप्लवैश् चैव सितातपत्रैः ।
सितातपत्रैः शरदिन्दुकान्तैः ।
तेजोमयैः काञ्चनचारुचित्रैः @
सुनिर्मलैः पावकसंनिभैस् ते ॥
उरश्छदैः सध्वजकिंकिणीकैर् @
हयैश् च वायोः समवेगवद्भिः ।

दिशां गजैश् चैव महाबलैस् ते @
कैलासशृङ्गप्रतिमैर् महद्भिः ॥
प्रजग्मुर् उग्रायुधदीप्तहस्ताश् @
चतुर्युगान्ते ज्वलिता इवोल्काः ।
साध्याश् च देवाः सुमहाप्रभावाः @
स्वाधीनचक्राः प्रतिदीप्तवक्त्राः ।
प्रयान्ति जाम्बूनदभूषिताङ्गा @
गङ्गौघमार्गैर् गगने बलौघैः ॥
विद्योतयन्तो विदिशो दिशश् च @
महाबलास् ते जयतां वरिष्ठाः ।
वरिष्ठपृष्ठौष्ठभुजाः सुदृप्ता @
वैश्वानरार्कप्रतिमप्रभावाः ॥
ते ब्रह्मविद्भिश् च नमस्यमानाः @
संपूज्यमानाश् च सुरैः सशक्रैः ॥
गन्धर्वसंघैर् अनुगम्यमाना @
वधाय तेषाम् असुराधिपानाम् ॥
वैदूर्यवज्रस्फटिकाग्रचित्रैर् @
वस्त्रैः सुवर्णैश् च परिष्कृतानाम् ।
रूपं बभूवोत्कटभूषणानाम् @
दैत्येन्द्रनाशाय विभूषितानाम् ॥
आत्मप्रभाभिश् च रणोत्कटाभिर् @
वर्मप्रभाभिश् च तमोनुदाभिः ।
ध्वजोत्तमाभिः स्वशरीरभाभिर् @
महाप्रभाभिश् च महोज्ज्वलाभिः ।
विभान्ति ते देववराः ससाध्याः @
प्रध्मातशङ्खस्वनसिंहनादाः ॥
महारथस्थास् त्रिदिवौकसस् ते @
महाबलाः शत्रुबलं प्रयान्ति ।
महास्त्रहस्ता ययुर् उग्ररूपा @
महासुराणां निधनाय देवाः ॥
तथैव सर्वे मरुतो ऽतिवीर्या @
बलोत्कटाः खे समरप्रतीताः ।
ययुर् महामेघसमानवर्णा @
बह्वायुधास् तोयदनादनादाः ॥
महेन्द्रकेतुप्रतिमा महाबलाः @
प्रगृह्य सर्वासुरसूदनां गदाम् ।
रणोत्कटा लोहितचन्दनाक्ताः @
सहेममाल्याम्बरभूषिताङ्गाः ॥
ते युद्धशौण्डाः सुभुजास्त्रवीर्या @
बलोत्कटाः क्रोधविलोहिताक्षाः ।

ययुः सजाम्बूनदपद्ममाला @
यथेष्टनानाविधकामरूपाः ॥
खड्गप्रभाश्यामलितांसपीठाः @
पुरंदरं वै परिवार्य देवाः ।
वैदूर्यचामीकरचारुरूपाण्य् @
आबध्य गात्रेषु महाप्रभाणि ।
वर्माणि दैत्यास्त्रनिवारणानि @
प्रयान्ति युद्धाय सपत्नसाहाः ॥
तैर् उच्छ्रितैः काञ्चनवेदिकाढ्यैर् @
वरध्वजैर् भास्कररश्मिवर्णैः ।
ययौ सुराणां पृतनोग्रतेजाः @
समुन्नदन्ती युधि सिंहनादान् ॥
इत्य् एवम् उग्रं त्रिदशेश्वरस्य @
सैन्यं तद् आसीत् सुमहाप्रभावम् ।
योद्धुं प्रयातस्य जयावहस्य @
वधाय तेषाम् असुराधिपानाम् ॥
ततः प्रवृत्तो ऽसुरदेवविग्रहस् @
तदाद्भुतो भाति सुरासुराकुलः ।
वेलाम् अतिक्रम्य युगान्तकाले @
महार्णवान्योन्यम् इवाश्रयन्तः ॥
नानायुधोद्द्योतविदीपिताङ्गा @
महाबला व्यायतकार्मुकास् ते ।
मदोत्कटा वारणहस्तहस्ताः @
सुदुर्जयास् तोयदनादनादाः ॥
विस्फारयन्तः सहसा धनूंषि @
चक्राणि चादित्यसमप्रभाणि ।
समुत्क्षिपन्तो ह्य् अशनीश् च घोराः @
खड्गांश् च ते वज्रमुखाश् च शक्तीः ॥
महागदाः काञ्चनपट्टनद्धास् @
तथायसान् कार्मुकमुद्गरांश् च ।
शूलांश् च वृक्षांश् च विगृह्य दीप्तान् @
नदन्ति शूराः शतशो रणस्थाः ॥
एतस्मिन्न् अन्तरे तेषाम् अन्योन्यम् अभिनिघ्नताम् ।
द्वन्द्वयुद्धान्य् अवर्तन्त देवानां दानवैः सह ॥
शूलैस् तथान्ये परिघैस् तथापरे @
खड्गैश् च पाशैर् इतरे महीपते ।
चापैर् अथान्ये मुसलैस् तथापरे @
कुन्तैश् च केचिद् युधि युद्धवीराः ॥
चक्रैः कुठारैर् असिभिस् तथापरे @
गदाभिर् आयामविभूषिताभिः ।

अन्योन्यम् आजघ्नुर् अथात्र वीराः @
महासुरा देववराश् च राजन् ॥
शूलैश् च शूलानि समाहतानि @
खड्गाश् च खड्गैः समम् आहता नृप ।
कुन्तैश् च कुन्ता युधि योधवीराः @
समाहताः संप्रति राजमानाः ॥
शरान् समाहत्य शराः समाहता @
बाणान् समाहत्य तथैव बाणाः ।
रथी रथं याति बलान् महारणे @
गजी गजं याति स कुन्तपाणिः ।
अश्वी हयं याति सुशीघ्रहस्तः @
सादी पदातिं स्फुरिताधरोष्ठः ॥
खड्गी च हत्वा युधि युद्धवीरं @
ननाद खड्गेन स खड्गपाणिः ।
पाशेन बध्वा समरे तु पाशी @
पाशं दधानं स्फुरिताधरोष्ठः ॥
गजेन हत्वा गजम् एव केवलं @
गजाधिपे खड्गवरेण पातिते ।
आकृष्य दन्तौ रिपुम् अन्यम् आशु @
जघान ताभ्यां विननाद भूयः ॥
कश्चिद् धयं सादिनम् उग्रवीर्यो @
हत्वा तदीयैश् च कुठारकुन्तैः ।
अन्यं समाहत्य तदीयम् आशु @
जग्राह शस्त्रं समरे महाबलः ॥
गजाश् च केचित् पतिता महारणे @
हयाश् च संभिन्नशिरोधराः क्षितौ ।
रथाश् च केचिद् ग्रथितोग्रशक्तयः @
भटाश् च केचिन् मथिताक्षकूबराः ॥
ततः सपाशाः प्रचरन्ति युद्धे @
पिशाचसंघा अथ राक्शसोत्तमाः ।
गृध्रा बलाः श्येनकपोतकाश् च @
विकृष्य मांसानि नदन्ति सर्वे ॥
उत्कृष्य चाकृष्य च मांसराशिं @
पिबन्ति कामं रुधिरं शवानां ।
संछिद्य मांसानि बहूनि संख्ये @
स्थानं विभज्याथ पिशाचसंघाः ॥
ततश् च तूर्याणि बहूनि संख्ये @
नादं महान्तं प्रसभं प्रचक्रुः ।
शङ्खाश् च भेर्यः पणवाः सडिण्डिमाः @
चक्रुः प्रणादं बहुशः समाहताः ॥

संक्षोभम् ईयुः सहसा च लोकाः @
क्षुब्धाश् च सर्वे जलराशयश् च ।
समागमे दैत्यमहासुराणां @
दिवौकसां युद्धसमुत्सुकानाम् ॥
तस्मिन् सुघोरे महति प्रवृत्ते @
रणोत्तमे देवमहासुराणाम् ।
द्वन्द्वानि युद्धानि बभूवुर् अत्र @
देवासुराणां जयम् इच्छतां नृप ॥
मरुतां पञ्चमो यस् तु स बाणेनाभ्ययुध्यत ।
महाबलः सुरवरः सावित्र इति यं विदुः ॥
अनायुषायाः पुत्रस् तु बलो नाम महासुरः ।
सो ऽयुध्यत रणे ऽत्युग्रो ध्रुवेण वसुना सह ।
नमुचिश् चासुरश्रेष्ठो धरेण समयुध्यत ।
सार्धं सर्वेण सैन्येन व्यादितास्य इवान्तकः ॥
विश्वकर्मा सुरश्रेष्ठो मयेन समयुध्यत ।
प्रवरौ विश्वकर्मानौ ख्यातौ देवासुरेश्वरौ ॥
पुलोमा तु महादैत्यो वायुना समयुध्यत ।
ससैन्यः पर्वताकारो रणे ऽयुध्यत दंशितः ।
हयग्रीवस् तु दितिजः सह पूष्णा त्व् अयुध्यत ।
शूरेणामितवीर्येण भास्कराकारवर्चसा ॥
शम्बरस् तु महावीर्यो महामायो महासुरः ।
भगेनायुध्यत तदा सहितो युद्धदुर्मदः ॥
शरभः शलभश् चैव दैत्यानां चन्द्रभास्करौ ।
प्रयुद्धौ सह सोमेन शिशिरास्त्रेण धीमता ॥
विरोचनस् तु बलवान् बलेर् बलवतः पिता ।
विष्वक्सेनेन साध्येन देवेन समयुध्यत ॥
कुजम्भस् तु महातेजा हिरण्यकशिपोः सुतः ।
अंशेनायुध्यत तदा प्रासप्रहरणेन वै ॥
असिलोमा तु बलिना मारुतेन समं विभो ।
तदायुध्यत दीप्तास्यो विकृतः पर्वतायुधः ॥
अनायुषायाः पुत्रस् तु वृत्रो नाम महासुरः ।
अश्विभ्यां देववैद्याभ्यां सहायुध्यत संयुगे ॥
एकचक्रस् तु दितिजश् चक्रहस्तो दुरासदः ।
सहायुध्यत देवेन साध्येन दितिजारिणा ॥
बलस् तु मधुपिङ्गाक्षो वृत्रभ्राता महासुरः ।
मृगव्याधेन रुद्रेण सहायुध्यत वीर्यवान् ॥
राहुस् तु विकृताकारः शतशीर्षः शतोदरः ।
अजैकपादेन रणे सहायुध्यत दंशितः ॥
केशी तु दानवश्रेष्ठः प्रावृट्कालाम्बुदप्रभः ।
धनेश्वरेण भीमेन सहायुध्यत संयुगे ॥

वृषपर्वा तु बलिना सह निष्कम्भुना रणे ।
विश्वेदेवेन विश्वेशः सहायुध्यत वीर्यवान् ॥
प्रह्रादस् तु महावीर्यो वीरैः स्वैस् तनयैर् वृतः ।
युयुधे सह कालेन रणे काल इव स्थितः ॥
अनुह्रादः कुबेरेण धनदेन महारणे ।
गदाहस्तेन युयुधे क्षोभयन् रिपुवाहिनीम् ॥
विप्रचित्तिस् तु दैतेयो वरुणेन महात्मना ।
प्रवृत्तो वै रणं कर्तुं दैत्यानां नन्दिवर्धनः ॥
बलिस् तु सह शक्रेण सुरेशेन महात्मना ।
युयुधे देवराजेन बलिना बलवान् रणे ॥
शेषा देवाश् च दैत्याश् च जघ्नुर् अन्योन्यम् आहवे ।
विनदन्तो महानादान् प्रासासिशरशक्तिभिः ॥
अदृश्यन्त महोत्पाता ये प्रोक्ता जगतः क्षये ।
मरुतः सप्त ते क्षुब्धा व्यशीर्यन्त महीधराः ॥
सप्त चैवोत्थिताः सूर्याः शोषयन्तो महार्णवान् ।
बहुधाभिद्यत धरा वायुना मथिता यथा ॥
व्युत्थिताश् च महामेघाः शक्रचापाङ्कितोदराः ।
प्रणेदुः सर्वभूतानि सर्वाः सतिमिरा दिशः ।
देवानाम् अजयो घोरो दृश्यते कालनिर्मितः ॥
देवानाम् अरयः शूरा दृश्यन्ते कालनिर्मिताः ।
घोरोत्पाताः समुद्भूता युगान्तसमये यथा ।
न ह्य् अन्तरिक्षं न दिशो न भूमिर् @
न भास्करो ऽदृश्यत रेणुजालैः ।
ववुश् च वातास् तुमुलाः सधूमा @
दिशश् च सर्वास् तिमिरोपगूढाः ॥
एते चान्ये च बहवो दृश्यन्ते देवनिर्मिताः ।
भूमौ तथान्तरिक्षे च घोरोत्पाताः समन्ततः ॥
युगान्तसमये तथा एते चान्ये च तत्त्वतः ॥
तद् युद्धं देवदैत्यानां भीमानां भीमदर्शनम् ।
अपश्यत गुरुर् ब्रह्मा सर्वैर् एव सुरैः सह ॥
वेदैश् चतुर्भिः साङ्गैश् च विद्याभिश् च सनातनः ।
पद्मयोनिर् वृतः श्रीमान् सिद्धैश् च परमर्षिभिः ॥
नानामणिस्तम्भसहस्रचित्रम् @
आरुह्य यानं ददृशे स्वयंभूः ।
सुभास्वरं भूतसहस्रयुक्तं @
प्रदीप्यमानं वपुषा परेण ॥
सुतप्तजाम्बूनदचारुचित्रम् @
आनन्दभेरीशतसंप्रणादम् ।
नक्षत्रचन्द्रांशुभिर् अंशुमन्तं @
वैदूर्यसोमार्कविभूषिताङ्गम् ॥

तम् आत्मजो वै पुलहः पुलस्त्यस् @
तथा मरीचिर् भृगुर् अङ्गिराश् च ।
ऋक्सामभिः सम्यग् अभिष्टुवन्तः @
सेवन्ति देवं वरदं विमाने ॥
तं पावका लोकगुरुं स्वयंभुवं @
साङ्गाश् च वेदा मखदेवताश् च ।
सेवन्ति देवं भुवनेश्वरेशं @
भूतानि चान्यानि महानुभावम् ॥
एते च भूयश् च मनुष्यसंघा @
वैखानसाः पावकयोनयश् च ।
सर्वे ययुर् देवपुरोहिताश् च @
युद्धोत्सुकाः सर्वसुरासुराणाम् ।
योगेश्वराः षट् च दिवाकराभा @
वाग्भूषणैर् भूषितसर्वदेहाः ।
जगत्पतिर् देवपतिर् जनार्दनः @
शिखी च चक्री शरशार्ङ्गधन्वा ।
अन्तर्हितो माधव एव साक्षाद् @
द्रष्टा रणं याति नगेन्द्रम् ईशः ।
अन्तर्हिता वै ददृशुर् नभःस्था @
नारायणश् चैव नरश् च देवः ॥
वक्त्रैश् चतुर्वेदधरैश् चतुर्भिः @
संपूर्णचन्द्रप्रतिमैः सुकान्तैः ।
सर्वा दिशो निस्तिमिराश् चकार @
नवोदितो ऽसौ शरदीव चन्द्रः ॥
उभयोः सेनयो राजंस् तयोर् युद्धम् अवर्तत ।
शृणुष्वावहितो राजन् यथा युद्धम् अवर्तत ।
कीर्तनाद् यस्य युद्धस्य पाप्मा सद्यो विमुच्यते ॥
नादेन संचालयता त्रैलोक्यम् इदम् अव्ययम् ॥
गोमुखाडम्बराणां च भेरीणां मुरजैः सह ।
झर्झरीडिण्डिमाणां च व्यश्रूयन्त महास्वनाः ॥
प्रवृत्तो युद्धयज्ञस् तु तुमुलो लोमहर्षणः ।
रणभूमौ महानादः स्वर्गीयः शूरसंमतः ॥
स युद्धयज्ञस्य मुखे प्रह्रादो दैत्यसत्तमः ।
विरोचनस् तथाध्वर्युर् युद्धयज्ञप्रवर्तकः ॥
होता चैवात्र नमुचिर् वृत्रः स्तोत्रोपकल्पकः ।
मन्त्रा दैत्याः समाख्याता यज्ञकर्मणि तत्र वै ॥
अनुयातश् च पितरम् अधिको वा पराक्रमे ।
यष्टा तत्राभवद् बाणः संयुगे चोपतिष्ठति ॥
यष्टा वै तत्र बाणस् तु सम्यग् एवावतिष्ठते ।
नेष्टा तत्र स बाणस् तु समरे चावतिष्ठतः ।

ऐन्द्रं पाशुपतं ब्राह्मं स्थूणाकर्णं सुदुर्जयम् ।
मन्त्रास् तत्राभ्यवर्तन्त साध्वनुह्रादयोजिताः ॥
दैत्याश् च प्रथिता मन्त्रे यक्षकर्मणि तत्र वै ।
उद्गाता च मयः श्रीमान् स्थितः सर्वभयंकरः ।
विनदन् दितिजश्रेष्ठो देवानीकं व्यदारयत् ॥
बलिस् तु राजा द्युतिमाञ् शश्वत् तत्र महासुरः ।
बलिस् तु बलवान् राजा वैश्वानरसमद्युतिः ।
जपैर् होमैश् च संयुक्तो ब्रह्मत्वम् अकरोत् प्रभुः ॥
रणाग्निर् ज्वलितो घोरो वैरेन्धनसमीरितः ।
देवो विष्णुः सुरैस् तत्र रथवेद्यां सुसंस्कृतः ॥
शङ्खशब्दैः सुतुमुलैर् भेरीणां च महास्वनैः ।
उद्घुष्टं विपुलं चैव सुब्रह्मण्यं प्रयुज्यते ॥
बलश् च बलकश् चैव पुलोमा च महासुरः ।
प्रशान्तरूपं कृत्वा तु मन्त्रं सम्यक् प्रवर्तयन् ॥
कल्माषदण्डा विमला विपुला रथपङ्क्तयः ।
यूपाश् च समकल्प्यन्त युद्धयज्ञे महाफले ॥
कर्णिनालीकनाराच+ वत्सदन्तोपबृंहकाः ।
तोमराः सोमकलशा विचित्राणि धनूंषि च ॥
अस्थीन्य् अत्र कपालानि पुरोडाशाः शिरांसि च ।
आज्यं च रुधिरं रौद्रं तस्मिन् यज्ञे ऽभिहूयते ॥
इध्माः परिधयस् तत्र प्रस्तारा विपुला गदाः ।
हयग्रीवो ऽसिलोमा च राहुः केशी च दानवाः ॥
विरोचनश् च जम्भश् च कुजम्भश् च महाबलः ।
सदस्यास् तत्र तु मखे विप्रचित्तिश् च वीर्यवान् ॥
इषवस् तु स्रुवास् तत्र रथाक्षसदृशाः शुभाः ।
धनुष्कोट्यो धनुर्ज्याश् च स्रुवस् तत्र महामखे ॥
प्रतिप्रस्थानिकं कर्म वृषपर्वाकरोत् तदा ।
दीक्षितस् तत्र तु बलिस् तस्य पत्नी महाचमूः ॥
शम्बरस् तत्र शामित्रम् अकरोद् दितिनन्दनः ।
आग्नीध्रस् तत्र बलवान् अकरोच् छम्बरस् तदा ।
अतिरात्रे महाबाहुर् वितते यज्ञकर्मणि ॥
दक्षिणास् तस्य यज्ञस्य कालनेमिर् महासुरः ।
वैताने कर्मणि विभो यः ख्यातो हव्यवाड् इव ॥
त्रिदशानां तु सैन्यस्य शरीरैर् गतजीवितैः ।
तस्मिन् यज्ञे तु सवनं वर्धते दैत्यनिर्मितम् ॥
देवानां रुधिरं संख्ये पपुर् उग्रा दितेः सुताः ।
नर्दमानाः प्रमुदिताः सोमपानं रणाध्वरे ॥
यदा बलिर् महादैत्यो विजेता समरे सुरान् ।
तदा ह्य् अवभृथं यज्ञे भविष्यति न संशयः ॥
महासुरेन्द्रपतयो यज्वानो भूरिदक्षिणाः ।

वेदवन्तो वृत्तवन्तः शूराः सर्वे तनुत्यजः ॥
त्रैलोक्यहरणे सृष्टा युद्धयज्ञाय दीक्षिताः ।
बद्धकृष्णाजिनाः सर्वे व्रतिनो मुञ्जधारिणः ।
स्वं स्वं कर्म यथाशक्त्या युद्धकर्म प्रवर्तते ॥
एवं समभवद् भीमो युद्धयज्ञो महात्मनाम् ।
शक्त्यृष्टिपरशुप्रासैर् निघ्नताम् इतरेतरम् ॥
स्वं स्वं तथा यथा चक्रुर् युद्धकर्म विशारदाः ।
एकनिश्चयकार्याश् च त्रैलोक्यजयकाङ्क्षिणः ॥
सुरदानवसैन्यानां शब्दः समभवन् महान् ।
नानायुधनिहस्तानां त्वरितानां प्रधावताम् ॥
क्ष्वेडितोत्क्रुष्टनिनदैर् गजबृंहितनिस्वनैः ।
रथनेमिस्वनैर् घोरैस् तुमुलः सर्वतो ऽभवत् ।
शङ्खदुन्दुभिनिर्घोषैर् हयहेषितनिस्वनैः ॥
हयानां हेषमाणानां दानवानां च गर्जताम् ।
क्ष्वेडितोत्क्रुष्टनिनदैः पाणिपादरवैस् तथा ॥
दानवानां परेषां च शस्त्रवन्ति महान्ति च ।
भिद्यतीव नभस्थलम् ।
दैत्यानां च सुराणां च @
समरे भीमकर्माणि सैन्यानि प्रचकाशिरे ॥
ततो नागा रथाश् चैव जाम्बूनदविभूषिताः ।
भ्राजमाना ह्य् अदृश्यन्त मेघा इव सविद्युतः ॥
ऋष्टिखड्गगदास् तीक्ष्णाः शूलशक्तिपरश्वधाः ।
चारु बिभ्राजिरे तत्र स्वेष्व् अनीकेषु भागशः ॥
रथा बहुविधाकाराः शतशो ऽथ सहस्रशः ।
हेमसंछन्नशिखरा ज्वलन्त इव पावकाः ॥
दानवानां सुराणां च समालोक्यन्त सैनिकाः ।
काण्चनैः कवचैः सर्वे ज्वलितार्कसमप्रभैः ॥
संनद्धाः समदृश्यन्त ज्योतींषि गगने यथा ।
उद्यतैर् आयुधैश् चित्रैस् तलबद्धाः पताकिनः ।
ऋषभाक्षाः सुरगणाश् चमूमुखगता बभुः ॥
नानावर्णाः पताकाश् च ध्वजमालाश् च संयुगे ।
युध्यतां रणशौण्डानाम् ईरयाम् आस मारुतः ॥
ध्वजालंकारवस्त्राणि वर्माणि कवचानि च ।
रश्मिभिर् भासयाम् आस रश्मिवर्णानि रश्मिमान् ॥
उभाभ्याम् अप्रमेयाभ्यां बलाभ्यां पादचारिणाम् ।
रजः प्रच्छादयाम् आस पत्रोर्णाः पाण्डुरा दिशः ॥
दिव्यायुधधराः सर्वे दीप्तायुधपरिच्छदाः ।
ते तदा देवदानवाः ।
युद्धं प्रचक्रिरे रम्यं @
प्रतितस्तम्भिरे ऽन्योन्यम् अनीकं प्रत्यनीकतः ॥

गिरिकूटोच्छ्रयाः सर्वे तदा ते देवदानवाः ।
अन्योन्यम् अभिनिघ्नन्तो रणस्थाश् चित्रयोधिनः ।
बाणैः सुरुचिरैस् तीक्ष्णैः पत्रवाजैर् दुरासदैः ॥
मुद्गरैर् मुसलैः शूलैर् अयस्तुण्डैर् उलूखलैः ।
वज्रैर् अशनिकल्पैश् च खड्गवृक्षादिभिस् तथा ॥
एवं तद् अभवद् युद्धं मेरुपर्वतमूर्धनि ।
सुरदानवसैन्यानां घोरं क्षयकरं महत् ॥
तथा प्रवर्तिते तेषां विमर्दे ऽद्भुतविक्रमे ।
सावित्रस्य वधं प्रेप्सुर् बाणो जग्राह कार्मुकम् ॥
शरजालेन दिव्येन छादयानः सुरोत्तमम् ।
मन्त्रैर् हुत इवार्चिष्मान् स प्रजज्वाल तेजसा ॥
सागराभ्यां महासेनां देवानां दैत्यपुंगवः ।
संशोषयति बाणौघैर् अर्कांशुभिर् इवार्णवम् ॥
मारुतः स महावेगः सावित्रः शक्तिम् उत्तमाम् ।
चिक्षेप बलिपुत्राय शक्रो ऽशनिम् इवाद्रये ॥
आपतन्ती च सा शक्तिर् महोल्का ज्वलिता इव ।
द्विधा छिन्ना क्षुरप्रेण बाणेनाद्भुतकर्मणा ॥
हतायाम् अथ शक्त्यां तु सावित्रो देवसत्तमः ।
विश्वकर्मकृतं दिव्यं सुतीक्ष्णं दानवार्दनम् ॥
सुपीतधारं विपुलं विमलं चन्द्रवर्चसम् ।
अगृह्णान् निशितं खड्गम् आशीविषम् इवोरगम् ॥
तं गृहीत्वा रणमुखे प्रज्वलन्तं महाप्रभम् ।
बाणाभ्याशे महातेजाः खड्गपाणिर् अवस्थितः ॥
स तं स्थितम् अथालक्ष्य सावित्रं बलिनन्दनः ।
लोहिताक्षं महाकायं चिक्षेप च ननाद च ॥
ततो ऽर्ककिरणाकारान् अशनिप्रतिमाञ् शितान् ।
संदधे चाशु बाणौघान् आशीविषसमान् बली ॥
रुक्मपुङ्खान् प्रदीप्ताग्रान् उग्रवेगान् अलंकृतान् ।
आकर्णपूर्णांश् चिक्षेप शरान् उग्रान् समन्ततः ॥
दृढचापप्रमुक्तास् ते शरा वैश्वानरप्रभाः ।
सावित्रं छादयाम् आसुः कैलासम् इव तोयदाः ॥
संछाद्यमानः शस्त्रौघैर् बाणेन बलिसूनुना ।
पराङ्मुखः सुरवरः प्रयातः सरथध्वजः ॥
पराजित्य च सावित्रं बाणः परमहर्षितः ।
प्रगृह्य कार्मुकं घोरं गतः शक्ररथं प्रति ॥
बलश् चाप्य् असुरश्रेष्ठः प्रगृह्य महतीं गदाम् ।
ध्रुवाय वसवे मूर्ध्नि रौद्रां चिक्षेप दानवः ॥
तस्य निर्मथितो देहो हेमचित्रं च वर्म वै ।
गदावेगेन भीमेन ध्रुवस्य समरे तदा ॥
शेषश् च वसवः सर्वे दिव्यास्त्रैर् घोरदर्शनैः ।

प्राच्छादयन् रणे दैत्यम् आदित्यम् इव तोयदाः ॥
ततः सो ऽमर्षितो बाणैर् बलो दानवसत्तमः ।
अवातरद् रथात् तस्माद् गदाम् उद्यम्य वेगवान् ॥
सर्वायसमयीं दिव्यां हेमचित्रां गदोत्तमाम् ।
पातयाम् आस शत्रूणां समाविध्य महासुरः ।
शिरःसु पातयाम् आस शत्रूणां तां गदां तदा ।
दिशः प्राद्रावयत् सर्वांस् स्त्रिदशान् सा महागदा ।
इन्द्राशनिर् इवेन्द्रेण प्रवृद्धाः सुमहास्वनाः ॥
तस्याः सुविद्युद्घोषायास् तेन शब्देन वेजिताः ।
व्यद्रवन्त परिभ्रष्टा रथेभ्यो रथिनस् तदा ॥
तदुदीर्णं रथानीकं सूर्याभं मेघनिस्वनम् ।
देवानां शरधाराभिः समन्ताद् अभ्यवर्षत ।
क्षुरप्रैर् विशिखैर् भल्लैर् वत्सदन्तैः शिलीमुखैः ॥
मुहुर् मुहुर् महातेजाः प्रत्यविध्यन् महासुरः ।
बलस् तु स गदापाणिर् व्यादितास्य इवान्तकः ॥
तडिद्गुणार्कसदृशो वैश्वानर इवापरः ।
पिबन्न् इव शरौघांस् तान् देवचापसमुत्थितान् ॥
अभ्यद्रवत दैत्येन्द्रो महार्णव इवापरः ।
अवस्फूर्जन् दिशः सर्वाः स्वेन वीर्येण दानवः ॥
अरुजंस् त्रिदशान् दैत्यः सिन्धुवेघो नगान् इव ।
समृद्धस् तरसा देवान् वायुर् वृक्षान् इवौजसा ।
शमयंश् च महेष्वासाण् वसुभ्यां समसज्जत ॥
आपश् चैवानिलश् चैव ववर्षतुर् अरिंदमौ ।
शरवर्षाणि दीप्तानि मेघाव् इव परंतपौ ।
क्षिप्तांस् तान् विशिखान् दीप्तान् अन्तरिक्षे स चिच्छिदे ॥
प्रासादान् विविधान् दीप्तान् अन्तरिक्षे च चिच्छिदुः ।
अमृष्यमाणस् तत् कर्म ध्रुवस् तम् अभिदुद्रुवे ।
तौ पृथक् शरवर्षाभ्याम् अन्योन्यम् अभिजघ्नतुः ॥
उत्तमाभिजनौ शूरौ देवदैत्ययशस्करौ ।
तौ नखैर् इव शार्दूलौ दन्तैर् इव महाद्विपौ ।
रथशक्तिभिर् अन्योन्यं विशिखैश् चाभ्यकृन्तताम् ॥
निर्भिन्दन्तौ च गात्राणि विलिखन्तौ च सायकैः ।
स्तम्भयन्तौ च बलिनौ प्रतुदन्तौ स्थितौ रणे ।
चरन्तौ विविधान् मार्गान् मण्डलानि च भागशः ॥
मुद्गरैर् जघ्नतुः क्रुद्धाव् अन्योन्यम् अभिमानिनौ ।
असिभ्यां चर्मणी दिव्ये विपुले च शरासने ।
निकृत्याचलसंकाशौ बाहुयुद्धं प्रचक्रतुः ॥
ब्यूढोरस्कौ दीर्घभुजौ नियुद्धकुशलाव् उभौ ।
बाहुभिः समसज्जेताम् आयसैः परिघैर् इव ॥
तयोर् आसीद् भुजाघात+ निग्रहः प्रग्रहस् तथा ।

अतीव भीमः संह्रादो वज्रपर्वतयोर् इव ॥
द्विपाव् इव विषाणाग्रैः शृङ्गैर् इव महावृषौ ।
अन्योन्यम् अभिसंरब्धौ मुहूर्तं पर्यकर्षताम् ॥
ततः पराजितो देवो बलकेन तदा ध्रुवः ।
रथं त्यक्त्वा भयात् तस्य प्रनष्टः प्राङ्मुखो वसुः ॥
पुनर् एव च तत्रासीन् महद् युद्धं सुदारुणम् ।
क्रुद्धस्य नमुचेश् चैव धरस्य च महात्मनः ॥
संरब्धौ च महाबाहू महेष्वासाव् अरिंदमौ ।
परस्परम् उदीक्षेतां दहन्ताव् इव लोचनैः ॥
विस्फार्य च महच् चापं हेमपृष्ठं दूरासदम् ।
संरम्भात् स वसुश्रेष्ठस् त्यक्त्वा प्राणान् अयुध्यत ॥
स सायकमयैर् जालैर् वृतो दैत्यरथं प्रति ।
भानुमद्भिः शिलाधौतैर् भानोः प्रच्छादयत् प्रभाम् ॥
ततः प्रहस्य नमुचिर् धरस्य च शिलाशितान् ।
असृजत् सायकान् दीप्तान् भीमवेगान् दुरासदान् ॥
महातेजा महाबाहुर् महावेगो महारथः ।
विव्याधातिरथो दैत्यो नवभिर् निशितैः शरैः ॥
स तोत्रैर् इव मातङ्गो दार्यमाणः पतत्रिभिः ।
अभ्यधावत संक्रुद्धो नमुचिं वसुसत्तमः ॥
तम् आपतन्तं वेगेन संरम्भान् नमुची रणे ।
दैत्यः प्रत्यसरद् देवं मत्तो मत्तम् इव द्विपम् ॥
ततः प्राध्मापयच् छङ्खं भेरीशतनिनादितम् ।
विक्षोभ्य तद् बलं हर्षाद् उद्धूतार्णवसप्रभम् ॥
अश्वान् ऋक्षसवर्णाभान् हंसवर्णैः सुवाजिभिः ।
भिश्रयन् समरे दैत्यो वसुं प्राच्छादयच् छरैः ॥
समाश्लिष्टाव् अथान्योन्यं वसुदानवयो रथौ ।
दृष्ट्वा प्राकम्पत मुहुस् त्रिदशानां महद् बलम् ॥
क्रोधसंरक्तताम्राक्षौ प्रेक्षमाणौ मुहुर् मुहुः ॥
गर्जन्ताव् इव शार्दूलौ प्रभिन्नाव् इव वारणौ ॥
महामेघोपमं रौद्रम् आसीद् आयोधनं तयोः ।
रथाश्वनरसंबाधं मत्तवारणसंकुलम् ॥
समाजम् इव तं दृष्ट्वा प्रेक्षमानौ महारथौ ।
आशंसन्ते जयं ताभ्यां योधास् ते गणशः स्थिताः ॥
परस्परं प्रार्थयन्तः परस्परसमाश्रयाः ।
तयोः प्रैक्षन्त समरं संनिकृष्टं महास्त्रयोः ।
सिद्धगन्धर्वमुनयो देवदानवयोस् तदा ॥
सिद्धचारणगन्धर्व+ मुनयो दानवास् तथा ।
तौ छादयन्ताव् अन्योन्यं समरे निशितैः शरैः ।
शरजालावृतं व्योम चक्रतुस् तौ महाबलौ ॥
ताव् अन्योन्यं जिघांसन्तौ शरैस् तीक्ष्नैर् महारथौ ॥

आसादयेताम् अन्योन्यं तौ रणे निशितैः शरैः ॥
प्रेक्षणियतराव् आस्तां वृष्टिमन्ताव् इवाम्बुदौ ॥
सुवर्णविकृतान् बाणान् प्रमुञ्चन्ताव् अरिंदमौ ।
भास्कराभं तदाकाशम् उल्काभिर् इव चक्रतुः ॥
तयोः शराः प्रकाशन्ते देवदानवयोस् तदा ।
पङ्क्त्यः शरदि मत्तानां सारसानाम् इवाम्बरे ॥
त्रिदशाश्वगजानां हि शरीरैर् गतजीवितैः ।
क्षणेन संवृता भूमिर् मेघैर् इव नभस्तलम् ॥
ततः सुधारं ज्वलितं सूर्यमण्डलसंनिभम् ।
धराय वसवे मुक्तं चक्रं नमुचिना रणे ॥
पतता तेन चक्रेण धरस्य स्यन्दनोत्तमः ॥
सध्वजः सपताकश् च दग्धो ऽर्ककिरणप्रभः ॥
स त्यक्त्वा स्यन्दनं देवः प्रदीप्तं चक्रतेजसा ।
भयात् तस्यासुरेन्द्रस्य गतः स्वगृहम् उत्तमम् ॥
पराजित्य सुरं दैत्यो नमुचिर् बलदर्पितः ।
प्रयातः स्वेन सैन्येन भूयः सुरचमूं प्रति ॥
यौ तौ मयश् च त्वष्टा च देवदैत्येषु विश्रुतौ ।
प्रवरौ विश्वकर्माणौ मायाशतविशारदौ ॥
घोरस् तयोः संप्रहारः प्रावर्तत सुदारुणः ।
तयोः प्राणहरस् त्व् आसीत् संप्रहारो महात्मनोः ।
अन्योन्यस्पर्धिनोस् तत्र चिरात् प्रभृति संयुगे ॥
चिरात् प्रभृति संरम्भाद् अन्योन्यस्पर्धिनौ रणे ।
त्वष्टा तु निशितैर् बाणैर् दैत्यं तु बलदर्पितम् ।
पराक्रान्तं पराक्रम्य विव्याध त्रिंशता शरैः ॥
मयस् तु प्रतिविव्याध त्वष्टारं निशितैः शरैः ।
सुधौतैः सुप्रसन्नाग्रैः शातकुम्भविभूषितैः ॥
ननाद दितिजश्रेष्ठो हतस् त्वष्टुः शरैर् मयः ॥
संक्रुद्धो दैत्यसैन्यस्य विचिन्वन्न् इव जीवितम् ।
शक्तिं कनकचित्राक्षां चित्रदण्डां महाप्रभाम् ।
देवो गृहीत्वा समरे दैत्येन्द्रे संन्यपातयत् ।
भीमां सर्वायसीं त्वष्टा पुरंदर इवाशनिम् ॥
तां त्वष्टुर् भुजनिर्मुक्ताम् अर्कवैश्वानरप्रभाम् ।
मयश् चिच्छेद तीक्ष्णाग्रैस् तूर्णं सप्तभिर् आशुगैः ॥
ततः क्षिण्वन्न् इव प्राणांस् त्वष्टुः कोपान् महासुरः ।
प्रेषयाम् आस संरब्धः शरान् बर्हिणवाससः ॥
चिच्छेद बाणांस् त्वष्टा ताञ् ज्वलितैर् नतपर्वभिः ।
दैत्यस्य सुमहावेगैः सुवर्णविकृतैः शरैः ॥
तौ वृषाव् इव नर्दन्तौ बलिनौ वाशितान्तरे ।
शार्दूलाव् इव चान्योन्यं प्रसक्ताव् अभिजघ्नतुः ॥
अन्योन्यं प्रतिविध्यन्ताव् अन्योन्यवधकाङ्क्षिणौ ।

अन्योन्यम् अभिवीक्षन्तौ क्रुद्धाव् आशीविषाव् इव ॥
महागजाव् इवासाद्य विषाणाग्रैः परस्परम् ।
शरैः पूर्णायतोत्सृष्टैर् अन्योन्यम् अभिजघ्नतुः ॥
ततः स विपुलां दीप्तां मयो रुक्माङ्गदां गदाम् ।
त्वष्टुः संप्राहिणोत्क्रुद्धः सर्वप्राणहरां रणे ॥
तया जघानातिरथस् त्वष्टुर् उत्तमवाजिनः ।
गदया दानवः क्रुद्धो वज्रेणेन्द्र इवाचलान् ॥
ततः क्रुद्धो महादैत्यः क्षुराभ्यां तस्य संयुगे ।
पुनर् द्वाभ्यां शराभ्यां तु निशिताभ्यां महारणे ।
ध्वजं त्वष्टुर् अथ च्छित्त्वा सूतं निन्ये यमक्षयम् ॥
महाबलान् महावेगान् सदश्वान् गदयाहनत् ।
दृष्ट्वा त्वष्टा हतं सूतं क्षुराभ्यां विनिपातितम् ।
हताश्वं रथम् उत्सृज्य सूतं च पतितं भुवि ।
विस्फारयन् महाचापं स्थितो भूमौ महाबलः ॥
हताश्वसूतं विरथं दृष्ट्वा रिपुम् अवस्थितम् ।
जयश्रिया सेव्यमानो दीप्यमान इवाचलः ॥
मयः कालान्तकप्रख्यश् चापपाणिर् इवान्तकः ।
प्रादहद् देवसैन्यानि दावाग्निर् इव काननम् ॥
स्वष्टुः सो ऽक्षिपतात्युग्रान् नाराचांस् तिग्मतेजसः ।
चतुर्दश शिलाधौतान् सायकान् विविधाकृतीन् ॥
ते पपुस् तस्य देवस्य शोणितं रुक्मभूषणाः ।
आशीविषा इव क्रुद्धा भुजगाः कालचोदिताः ॥
ते क्षितिं समवर्तन्त शोभन्ते रुधिरोक्षिताः ।
ते पतन्तः क्षितितले दृश्यन्ते स्मासृगुक्षिताः ।
अर्धप्रविष्टाः संरब्धा बिलानीव महोरगाः ॥
ते प्रकाशन्त नाराचाः प्रविशन्तो वसुंधराम् ।
अस्तं गच्छन्तम् आदित्यं प्रविशन्त इवांशवः ॥
तं प्रत्यविध्यत् त्वष्टा तु जाम्बूनदविभूषितैः ।
चतुर्दशभिर् अत्युग्रैर् नाराचैर् अभिदारयन् ॥
ते तस्य दैत्यस्य भुजं सव्यं निर्भिद्य पत्रिणः ।
विदार्य विविशुर् भूमिं भुजगा इव वेगिताः ॥
मयस् त्रिभिर् अथानर्च्छत् त्वष्टारं तु पतत्रिभिः ।
सपत्रवेगैर् विकृतैर् ज्वलद्भिः प्राणनाशनैः ॥
अर्दयाम् आस दैत्येन्द्रो ज्वलितैः शोणिताशनैः ।
त्वष्टाथ मयनिर्मुक्तैः सायकैर् अर्दितः प्रभुः ॥
अपयातो रणं हित्वा व्रीडयाभिसमन्वितः ॥
तं तत्र हतसूताश्वं भुजंगम् इव निर्विषम् ।
त्वष्टारं विरथं दृष्ट्वा मुदितः स तु दानवः ॥
विस्फारयन् सुरुचिरं चापं रुक्माङ्गदं दृढम् ।
रणे ऽभ्यतिष्ठद् दैत्येन्द्रो ज्वलन्न् इव हुताशनः ॥

पुलोमा तु बलश्लाघी दृप्तो दानवसत्तमः ।
रणे श्वेताश्वयुक्तेन रथेन प्रत्यदृश्यत ॥
ततो वै सर्वभूतानां शरीरान्तरचारिणाम् ।
सर्वेषाम् एव भूतानां यः प्राणः कथ्यते द्विजैः ।
बलिना कालकल्पेन वायुना सह संगतः ॥
पुलोम्नस् तत्र पवनः श्रुत्वा ज्यातलनिस्वनम् ।
नामृष्यत यथा मत्तो गजः प्रतिगजस्वनम् ॥
दैत्यचापच्युतैर् बाणैः प्राच्छाद्यन्त दिशो दश ।
रश्मिजालैर् इवार्कस्य विततं साम्बरं जगत् ॥
स ताम्रनयनः क्रुद्धः श्वसन्न् इव महोरगः ।
वृतो दैत्यशतैर् वायू रश्मिवान् इव भास्करः ॥
दैत्यचापभुजोत्सृष्टाः शरा बर्हिणवाससः ।
रुक्मपुङ्खा व्यराजन्त हंसाः श्रेणीकृता इव ॥
चापध्वजपताकाभ्यः शस्त्रा दीप्तमुखाश् च्युताः ।
प्रपतन्तः स्म दृश्यन्ते दैत्यस्यायुतशः शराः ॥
एवं सुतीक्ष्णान् खचराञ् शलभान् इव पावके ।
सुवर्णविकृतांश् चित्रान् मुमोच दितिजः शरान् ॥
तम् अन्तकम् इव क्रुद्धम् आपतन्तं स मारुतः ।
त्यक्त्वा प्राणान् अतिक्रम्य विव्याध नवभिः शरैः ॥
तस्य वेगम् असंहार्यं दृष्ट्वा वायुः सनातनः ।
उत्तमं जवम् आस्थाय व्यधमत् सायकव्रजान् ॥
ततो विधम्य बलवाञ् शरजालानि मारुतः ।
विव्याधोरसि तीक्ष्णाग्रैः शरैः शक्तिभिर् आयसैः ।
विव्याध दैत्यं विंशत्या विशिखैर् नतपर्वभिः ॥
मारुद्गणानां प्रवरा दश दिव्या महौजसः ।
साधु साध्व् इति वेगेन सिंहनादं प्रचक्रिरे ॥
तस्मिन् समुत्थिते शब्दे तुमुले लोमहर्षणे ।
अभ्यधावन्त दितिजाः पौलोमाः क्रोधमूर्छिताः ॥
ते समासाद्य पवनं समावृण्वञ् शरोत्तमैः ।
ततः प्रच्छादयाम् आसुः पवनं शरवृष्टिभिः ।
पर्वतं वारिधाराभिः प्रावृषीव बलाहकाः ॥
ते पीडयन्तः पवनं क्रुद्धाः सप्त महारथाः ।
प्रजासंहरणे घोराः सोमं सप्त ग्रहा इव ॥
ततो दक्षिणम् अक्षोभ्यं नानारत्नविभूषितम् ।
करं गजकराकारम् उद्यम्य युधि मारुतः ॥
तेषां मूर्धसु दैत्यानां पातयाम् आस वीर्यवान् ।
निहता वायुवेगेन सप्त तेन महारथाः ॥
त्यक्त्वा प्राणान् पुलोमा तु विव्याध नवभिः शरैः ।
तस्यापि तम् असंहार्यं दृष्त्वा वायुः सनातनः ।
असंचिन्त्य शरौघांस् ताञ् ज्वलितान् वै पुलोमतः ॥

तेषां विदार्य तेजांसि दानवानां महात्मनाम् ।
शोणितक्लिन्नमुकुटा गैरिकार्द्रा इवाद्रयः ॥
ते भिन्नवर्मास्थिभुजाः पतन्तो भान्ति दानवाः ।
मातङ्गयूथसंरुग्णाः पुष्पिता इव पादपाः ॥
तेषां विदारितैर् देहैर् दानवानां महात्मनाम् ।
ततः प्रावर्तत नदी रौद्ररूपा भयावहा ॥
प्रस्रवन्ती रणे रक्तं भीरूणां भयवर्धिनी ।
देवदैत्यगणैश् चैव रुधिरौघपरिप्लुता ।
रणभूमिर् अभूद् रौद्रा तत्र तत्र सहस्रशः ॥
संभृता गतसत्त्वैश् च यक्षराक्षसखेचरैः ।
सानुकर्षपताकैश् च सोपासङ्गैर् ध्वजै रथैः ॥
शीर्णकुम्भैस् तथा नागैर् घण्टाभिः सुविभूषितैः ।
सुवर्णपुङ्खैर् ज्वलितैर् नाराचैस् तिग्मतेजसैः ॥
देवदानवनिर्मुक्तैः सविषैर् उरगैर् इव ।
प्रासतोमरनाराचैः शक्तिखड्गपरश्वधैः ।
सुवर्णविकृतैश् चापैर् गदामुसलपट्टिसैः ।
कनकाङ्गदकेयूरैर् मणिभिश् च सकुण्डलैः ॥
तनुत्रैः सतलत्रैश् च हारैर् निष्कैश् च शोभनैः ।
हतैश् च दितिजैस् तत्र शस्त्रस्यन्दनवर्जितैः ॥
पतितैर् अपविद्धैश् च शतशो ऽथ सहस्रशः ।
निपातितध्वजरथो हतवाजिरथद्विपः ।
निपातितैर् ध्वजरथै रथैर् निहतवाजिभिः ।
विमर्दो देवसैन्यानां सदृशः कर्मणां बभौ ॥
अथ दैत्यसहस्रेण पौलोमेन महारथः ।
संवृतः पवनः श्रीमान् गदामुसलपाणिना ॥
ते जघ्नुः शतसाहस्राः पवनं दानवोत्तमाः ।
तैर् वध्यमानः स बभौ समन्ताद् अर्पितैः शरैः ॥
हत्वा तु दितिजः पृष्ठम् आसाद्य युधि वर्जितान् ।
हत्वाष्टौ तत्र योधानां शतानि पवनः प्रभुः ।
कृत्वा मार्गं सुरश्रेष्ठः प्रयातः स महारथः ॥
अद्यापि च सुविस्तीर्णः पन्थाः संदृश्यते दिवि ।
नाम्ना वायुपथो नाम सिद्धाः पश्यन्ति तं दिवि ॥
हयग्रीवस् तु दितिजः पूषाणं प्रति वीर्यवान् ।
ननाद सुमहानादं सिंहनादं महारथः ॥
विस्फार्य सुमहच् चापं हेमजालविभूषितम् ।
पूषाणं दितिजो ऽपश्यत् क्रुद्धो घोरेण चक्षुषा ॥
भुजाभ्याम् आददानस्य संदधानस्य वै शरान् ।
मुञ्चतः कर्षतो वापि ददृशुस् तत्र नान्तरम् ॥
अग्निचक्रोपमं दीप्तं मण्डलीकृतकार्मुकम् ।
तदासीद् दानवेन्द्रस्य सव्यदक्षिणम् अग्रतः ॥

रुक्मपुङ्खैस् ततस् तस्य चापमुक्तैः शितैः शरैः ।
प्राच्छाद्यन्त शिलाधौतैर् दिशः सूर्यस्य च प्रभाः ॥
ततः कनकपुङ्खानां शराणां नतपर्वणाम् ।
नभश्चराणां नभसि दृश्यन्ते बहवो व्रजाः ॥
गिरिकूटनिभाच् चापात् प्रभवन्तः शरोत्तमाः ।
श्रेणीभूताः प्रकाशन्ते यान्तः श्येना इवाम्बरे ॥
गृध्रपत्राञ् शिलाधौतान् कार्तस्वरविभूषितान् ।
गृध्रपत्राः शिलाधौताः कार्तस्वरविभूषिताः ।
महावेगान् प्रसन्नाग्रान् मुमोच दितिजः शरान् ॥
ततश् चापबलोद्धूताः शातकुम्भविभूषिताः ।
देहे समवकीर्यन्त पूष्णः सुनिशिताः शराः ॥
ते व्योम्नि विकृताकाराः संप्रकाशन्त सर्वशः ।
खद्योता इव घर्मान्ते खे चरन्तः समन्ततः ॥
शिलाधौताः प्रसन्नाग्राः पूषणं विकृताः शराः ।
पर्वतं वारिधाराभिर् यथा प्रावृषि तोयदाः ॥
दैत्यः प्रच्छादयाम् आस पूषणं शरवृष्टिभिः ।
पर्वतं वारिधाराभिश् छादयन्न् इव तोयदः ॥
आच्छादयत दैत्येन्द्रो रणे घोरपराक्रमः ।
शिलाधौतैः प्रसन्नाग्रैः पूषणं बिभिदे शरैः ।
पूषापि दैत्यं नवभिः शरै @
विव्याध हेमाङ्गदभूषिताङ्गकः ।
निर्भिद्य देहं दितिजस्य ते शरा @
जग्मुः पृथिव्यां रुधिरारुणाननाः ॥
ते बाणा भूतले मग्नाः पूष्णो भाति शिलाशिताः ।
विक्रमं शंसितुं तूर्णम् अनन्तस्य च वै गताः ॥
आच्छादयत दैत्येन्द्रं पूषा घोरपराक्रमः ॥
आच्छाद्यत तदा देवो रणे घोरपराक्रमः ।
व्यतीते धर्मसमये मेघजालैर् इवांशुमान् ॥
ततस् तु पूष्णो देवस्य बलं वीर्यं पराक्रमम् ।
व्यवसायं च सत्त्वं च पश्यन्ति त्रिदशाद्भुतम् ॥
तां समुद्राद् इवोद्भूतां शरवृष्टिं समुत्थिताम् ।
नाचिन्तयत् तदा पूषा दैत्यांश् चाभ्यद्रवद् रणे ॥
हेमपृष्ठं महानादं पूष्ण आसीन् महद् धनुः ।
विकृतं मण्डलीभूतं शक्राशनिम् इवापरम् ॥
ततः शराः प्रादुर् आसन् पूरयन्त इवाम्बरम् ।
सुवर्णपुङ्खाः पूष्णस् ते प्रभवन्तः शरासनात् ॥
मालेव रुक्मपुङ्खानां वितता व्योम्नि पत्रिणाम् ।
प्रादुर् आसीन् महाघोरा बृहतः पूषकार्मुकात् ॥
ततो व्योम्नि विभक्तानि शरजालानि सर्वशः ।
आहतानि व्यशीर्यन्त शरैः संनतपर्वभिः ॥

ततः कनकपुङ्खानां छिन्नानां कङ्कवाससाम् ।
पततां पात्यमानानां खम् आसीत् संवृतं व्रजैः ॥
पूषा प्रापूरयद् बाणैर् हयग्रीवं शिलाशितैः ।
नामाङ्कैर् अर्कसदृशैर् दिव्यहेमपरिष्कृतैः ॥
ततो व्यसृजद् उग्राणि शरजालानि दानवः ।
अमर्षी बलवान् क्रुद्धो दिधक्षन्न् इव पावकः ॥
पूष्णस् त्व् आजौ ध्वजं चैव पताकां धनुर् एव च ।
रश्मीन् योक्त्राणि चाश्वानां हयग्रीवो रणे ऽच्छिनत् ॥
अथास्याश्वान् पुनर् हत्वा चतुर्भिः सायकोत्तमैः ।
सारथिं स महातेजा रथोपस्थाद् अपातयत् ॥
कृतस् तु विरथः पूषा हयग्रीवेण संयुगे ।
पूषा तस्य रथाभ्याशात् स ययौ तेन वै जितः ॥
गतः शक्ररथाभ्याशं मुक्तो मृत्युमुखाद् इव ।
तत्राद्भुतम् इतो भूयो युद्धं वर्तत दारुणम् ।
कृतप्रतिकृतं घोरं शम्बरस्य भगस्य च ॥
सप्तकिष्कुपरीणाहं द्वादशारत्निकार्मुकम् ।
वासवाशनिनिर्घोशं दृढज्यं भारसाधनम् ॥
विक्षिपन्न् अक्षसदृशान् व्यसृजत् सायकान् बहून् ।
क्रोधसंरक्तनयनः शम्बरः सर्वयोगवित् ॥
तेन वित्रास्यमानानि देवसैन्यानि सर्वशः ।
समकम्पन्त भीतानि सिन्धोर् इव महोर्मयः ॥
तम् आपतन्तं संप्रेक्ष्य विरूपाक्षं विभीषणम् ।
भगः प्रस्फुरमाणौष्ठस् त्वरमाणो न्यवारयत् ॥
ततो भगो महेष्वासो दिव्यं विस्फारयन् धनुः ।
अवाकिरद् दैत्यगणाञ् शरजालेन छादयन् ॥
तम् अभ्ययाद् भगो दैत्यं तूर्णम् अस्यन्तम् अन्तिकात् ।
मातङ्गम् इव मातङ्गो वृषः प्रतिवृषं यथा ॥
तौ प्रगृह्य महावेगौ धनुषी भारसाधने ।
प्राच्छादयेताम् अन्योन्यं तक्षमाणौ रणे शरैः ॥
तयोः सुतुमुलं युद्धम् आसीद् घोरं महारणे ।
भगशम्बरयोर् भीमम् अप्रमेयं महात्मनोः ॥
अथ पूर्णायतोत्सृष्टैः शरैः संनतपर्वभिः ।
व्यदारयेताम् अन्योन्यं कार्ष्णे निर्भिद्य वर्मणी ॥
तौ तु विक्षतसर्वाङ्गौ रुधिरेण समुक्षितौ ।
संप्रेक्षमानौ रथिनाव् उभौ परमदुर्मदौ ।
तक्षमानौ शितैर् बाणैर् नान्वीक्षितुम् अशक्नुताम् ॥
अथ विव्याध समरे त्वरमाणो ऽसुरो भगम् ।
नाराचैः क्रोधताम्राक्षः कालान्तकयमोपमः ॥
गरुत्मान् इव चाकाशे पोथयानो महोरगान् ।
नाराचा न्यपतन् देहे तूर्णं शम्बरचोदिताः ॥

मूल पाठ: Harivaṃśa, Appendix I · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc