भाषा

ENहिગુ
ग्रंथ पाठ

हरिवंश · भाग 481500

जातरूपमयैः शृङ्गैर् अप्सरोगणसेवितम् ॥
गिरिः पुष्पितकश् चैव लक्ष्मीवान् प्रियदर्शनः ।
उत्थितः सागरं भित्त्वा वयस्यश् चन्द्रसूर्ययोः ॥
रराज सुमहाशृङ्गैर् गगनं विलिखन्न् इव ।
चन्द्रसूर्यांशुसंकाशैः सागराम्बुसमावृतः ॥
विद्युत्वान् पर्वतः श्रीमान् आयतः शतयोजनम् ।
विद्युतां यत्र संपाता निपात्यन्ते नगोत्तमे ॥
ऋषभः पर्वतश् चैव श्रीमान् वृषभसंस्थितः ।
कुञ्जरः पर्वतश् चैव यत्रागस्त्यगृहं महत् ॥
विशालरथ्या दुर्धर्षा सर्पाणाम् आलया पुरी ।
तेषां भोगवती चापि दैत्येन्द्रेणाभिकम्पिता ॥
महामेघो गिरिश् चैव पारियात्रश् च पर्वतः ।
चक्रवांश् च गिरिश्रेष्ठो वाराहश् चैव पर्वतः ॥
प्राग्ज्योतिषपुरं चैव जातरूपमयं शुभम् ।
यस्मिन् वसति दुष्टात्मा नरको नाम दानवः ॥
मेघश् च पर्वतश्रेष्ठो मेघगम्भीरनिस्वनः ।
षष्टिस् तत्र सहस्राणि पर्वतानां विशां पते ॥
तरुणादित्यसंकाशो मेरुश् चैव महागिरिः ।
देवावासः शुभः पुण्यो गिरिराजो हिरण्मयः ॥
हेमशृङ्गो महाशैलस् तथा मेघसखो गिरिः ।
कैलासश् चापि शैलेन्द्रो दानवेन्द्रेण कम्पितः ॥
विन्ध्यश् च तु महाशैलो नानाद्रुमलतायुतः ।
कम्पितो दानवेन्द्रेण कुञ्जरो बाहुशालिना ॥
यक्षराक्षसगन्धर्वैर् नित्यं सेवितकंदरः ।
श्रीमान् मनोहरश् चैव नित्यं पुष्पितपादपः ॥
हेमपुष्करसंछन्नं तेन वैखानसं सरः ।
कम्पितं मानसं चैव राजहंसैर् निषेवितम् ॥
त्रिशृङ्गपर्वतश् चैव कुमारी च सरिद्वरा ।
तुषारचयसंकाशो मन्दरश् चैव पर्वतः ॥
उशीरबीजश् च गिरी रुद्रोपस्थस् तथाद्रिराट् ।
प्रजापतेश् च निलयस् तथा पुष्करपर्वतः ॥
देवावृत्पर्वतश् चैव तथा चैवालुको गिरिः ।
क्रौञ्चः सप्तर्षिशैलश् च धूमवर्णश् च पर्वतः ॥
एते चान्ये च गिरयो देशा जनपदास् तथा ।
नद्यश् च सागराश् चैव दानवेन्द्रेण कम्पिताः ॥
कपिलश् च महीपुत्रो व्याघ्राक्षश् चैव कम्पितः ।
खेचराश् च निशापुत्राः पातालतलवासिनः ॥
गणस् तथापरो रौद्रो मेघनादाङ्कुशायुधः ।
न ववौ भगवान् वायुर् न प्रभाति स्म भास्करः ।
ब्रह्माण्डं क्षुब्धम् अभवद् आपातालं समन्ततः ।

एवं क्षुब्धं जगत् सर्वं तस्मिन् क्रुद्धे महासुरे ॥
ऊर्ध्वगो भीमवेगश् च सर्व एवाभिकम्पिताः ॥
तत्रादित्याश् च साध्याश् च विश्वे च मरुतस् तथा ।
रुद्रा देवा महात्मानो वसवश् च महाबलाः ॥
आगम्य ते मृगेन्द्रस्य सकाशं सूर्यवर्चसः ।
ऊचुः संत्रस्तमनसो देवलोकक्षयार्दिताः ॥
जहि देव दितेः पुत्रं दानवं लोकनाशनम् ।
दुर्वृत्तम् असदाचारं सह सर्वैर् महासुरैः ॥
त्वं ह्य् एषाम् अन्तको नान्यो दैत्यानां दैत्यनाशनः ।
तन् नाशय हितार्थाय लोकानां स्वस्ति वै कुरु ॥
त्वं गुरुः सर्वलोकानां त्वम् इन्द्रस् त्वं पितामहः ।
ऋते त्वदन्यः शरणं न भूतं न भविष्यति ॥
तच् छ्रुत्वा वचनं देवो देवानाम् आदिसंभवः ।
ननाद सुमहानादम् अतिगम्भीरनिस्वनः ॥
पाटितान्य् असुरेन्द्राणां मृगेन्द्रेण महात्मना ।
सिंहनादेन महता हृदयानि मनांसि च ॥
गणः क्रोधवशो नाम कालकेयस् तथापरः ।
अङ्गपुत्रो गणश् चापि बाहुशाली तथापरः ।
वेगश् च वेगलेयश् च सैंहिकेयश् च वीर्यवान् ॥
संहृआदीयो महानादी महावेगस् तथापरः ।
कपिलश् च महीपुत्रो व्याघ्राक्षः क्षितिकम्पनः ।
खेचराश् च निशापुत्राः पातालतलचारिणः ॥
गणस् तथापरो रौद्रो मेघनादो ऽङ्कुशायुधः ।
ऊर्ध्वगो भीमवेगश् च भीमकर्मार्कलोचनः ।
एते चान्ये च बहवो विविधायुधपाणयः ।
नृसिंहम् अभ्यधावन्त पतङ्गा इव पावकम् ॥
ततो नृसिंहः संक्रुद्धस् तान् सर्वान् दैत्यसत्तमान् ।
हुंकारेणैव सहसा भस्मसाद् अकरोत् प्रभुः ॥
ततस् तान् निहतान् दृष्ट्वा नृसिंहेन महात्मना ।
प्रलयानलसंकाशः क्रुद्धः कालान्तकोपमः ॥
वज्री शूली करालश् च हिरण्यकशिपुस् ततः ॥
जीमूतघनसंकाशो जीमूतघनवेगवान् ।
जीमूतघननिर्घोषो जीमूतसदृशद्युतिः ।
दृप्तैर् दैत्यगणैस् तुष्टो मृगेन्द्रेण महात्मना ।
देवारिर् दितिजो दृप्तो नृसिंहं समुपाद्रवत् ॥
दृप्तशार्दूलविक्रमः ।
दीप्तैर् दैत्यगणैर् दृप्तान् @
क्रुद्धो दैत्यपतिस् तावद् धनुर् आदाय सत्वरम् ।
दशयोजनविस्तारं शतयोजनम् आयतम् ॥
तस्मिन् धनुषि संधाय वैष्णवास्त्रं महाद्युतिः ।

नदन् भीमरवं घोरं सिंहस्य पुरतः स्थितः ॥
मुमोच चास्त्रं दैत्येन्द्रः सिंहो ऽपि च तद् अग्रसत् ।
नारायणं ततो ऽप्य् अस्त्रं नियोज्य धनुषि स्थितः ॥
दृष्ट्वा तत् कर्म दैत्यस्य नारसिंहो जनार्दनः ।
तम् अभ्यधावद् वेगेन दैत्येन्द्रं पुरतः स्थितं ॥
जग्राह धनुरत्नं तत् तं च बाणं महाद्युतिः ।
धनुरत्नं द्विधा कृत्वा सिंहनादं व्यनीनदत् ॥
ततो दैत्यपतिश् चैव गदां गृह्य महाबलः ।
जघानोरसि सिंहस्य तां बभञ्ज तथाच्युतः ॥
बाहुभ्यां नारसिंहं तु जग्राह युधि दानवः ।
तयोः सुतुमुलं युद्धम् आसीद् दानवदेवयोः ॥
बाहुभिर् मुष्टिभिश् चैव दन्तैर् मस्तकसायकैः ।
शरैश् चाशनिकल्पैश् च उरसस् ताडनैस् तथा ॥
तयोः पादप्रहारेण नमिता भूतधारिणी ।
बाहुभिर् मर्दयाम् आस नृसिंहो दितिनन्दनम् ॥
एवं संक्रीड्य बहुधा देवदेवो जगत्पतिः ।
वधाय हि मनो दध्रे दैत्यस्य हरिर् ईश्वरः ॥
बाहुभ्यां परिजग्राह सर्वलोकस्य पश्यतः ।
असिधारानिभैस् तीक्ष्णैर् मृगेन्द्रो हरिर् ईश्वरः ।
हृदयं दारयाम् आस दैत्येन्द्रस्य महात्मनः ॥
समुत्पत्य ततस् तीक्ष्णैर् मृगेन्द्रेण महानखैः ।
तत्रोंकारसहायेन विदार्य निहतो युधि ॥
मृगेन्द्रेण हतं दृष्ट्वा हिरण्यकशिपुं सुराः ।
हृष्टाः प्रमुदिताः सर्वे पूजयन्ति मृगाधिपम् ॥
मही च लोकश् च शसी नभश् च @
ग्रहाश् च सूर्यश् च दिशश् च सर्वाः ।
नद्यश् च शैलाश् च महार्णवाश् च @
गताः प्रकाशं दितिपुत्रनाशात् ॥
ततः प्रमुदिता देवा ऋषयश् च तपोधनाः ।
तुष्टुवुर् विधैः स्तोत्रैर् आदिदेवं सनातनम् ॥
यत् त्वया विहितं देव नारसिंहम् इदं वपुः ।
एतद् एवार्चयिष्यन्ति परावरविदो जनाः ॥
वयं चापि त्वयाविष्टं नारसिंहम् इदं वपुः ।
मृगेन्द्रत्वं च लोकेषु सर्वसत्त्वेषु वा विभो ।
भजिष्यन्ति महाभागास् त्वद्भावगतमानसाः ।
स्वानि स्थानानि भूतानि प्रतिपन्नानि देवताः ।
गास्यन्ति त्वां च मुनयो मृगेन्द्र इति नित्यशः ।
त्वत्प्रसादात् स्वकं स्थानं प्रतिपन्नाः स्म वै विभो ॥
एवम् उक्तो देवसंघैर् नरसिंहो महामनाः ।
ब्रह्मा च परमप्रीतो विष्णोः स्तोत्रम् उदैरयत् ॥

चतुर्वेदोदाहृताभिर् ऋग्भिः समभितुष्टुवे ।
भवान् अक्षरम् अव्यक्तम् अचिन्त्यं गुह्यम् उत्तमम् ।
कूटस्थम् अकृतं कर्तृ सनातनम् अनामयम् ॥
सांख्ये योगे च या बुद्धिस् तत्त्वार्थपरिनिष्टिता ।
भगवान् देव विद्यात्मा पुरुषः शाश्वतो ध्रुवः ॥
त्वं व्यक्तश् च तथाव्यक्तस् त्वत्तः सर्वम् इदं जगत् ।
भवन् मया वयं देवा भवान् आत्मा भवान् प्रभुः ॥
चतुर्विभक्तमूर्तिस् त्वं सर्वलोकविभुर् गुरुः ।
चतुर्युगसहस्रेशः सर्वलोकान्तकान्तकः ॥
चतुर्वेदश् चतुर्होत्रश् चतुरात्मा सनातनः ।
प्रतिष्ठा सर्वभूतानाम् अनन्तबलपौरुषः ।
कपिलप्रभृतीनां च यतीनां परमा गतिः ॥
अनादिमध्यनिधनः सर्वात्मा पुरुषोत्तमः ।
स्रष्टा त्वं त्वं च संहर्ता त्वम् एको लोकभावनः ॥
भवान् ब्रह्मा च रुद्रश् च महेन्द्रो वरुणो यमः ।
भवान् कर्ता विकर्ता च लोकानां प्रभवो ऽव्ययः ॥
परां च सिद्धिं परमं च देवं @
परं च मन्त्रं परमं तपश् च ।
परं च धर्मं परमं यशश् च @
त्वाम् आहुर् अग्र्यं पुरुषं पुराणम् ॥
परं च सत्यं परमं हविश् च @
परं पवित्रं परमं च मार्गम् ।
परं च यज्ञं परमं च होत्रं @
त्वाम् आहुर् अग्र्यं पुरुषं पुराणम् ॥
परं परस्यापि परं परं यत् @
परं परस्यापि परं च देवम् ।
परात् परस्यापि परं च लोकं @
परात् परस्यापि परं च मोक्षम् ।
परात् परस्यापि परं पदं यत् @
त्वाम् आहुर् आद्यं पुरुषं पुराणम् ॥
परं शरीरं परमं च धाम @
परं च योगं परमाम् च वाणीम् ।
परं रहस्यं परमाम् गतिं च @
परं परस्यापि परं प्रभुं च ।
परं परस्यापि परां च कीर्तिम् @
त्वाम् आहुर् अग्र्यं मुनयश् च सर्वे ॥
परं परस्यापि परं च योगं @
परं परं चापि परं च मोक्षं ।
परं पदं विष्णु सनातनं च @
त्वाम् आहुर् अग्र्यं पुरुषं पुराणम् ॥

परं परस्यापि परं पदं यत् @
परं परस्यापि परं च देवम् ।
परं परस्यापि परम् प्रभुं च @
त्वाम् आहुर् अग्र्यं पुरुषं पुराणम् ॥
परं परस्यापि परं प्रधानं @
परं परस्यापि परं च तत्त्वम् ॥
परं परस्यापि परं च धातृ @
त्वाम् आहुर् अग्र्यं पुरुषं पुराणम् ॥
परं परस्यापि परं प्रधानं @
परं च गुप्तं परमं च मन्त्रम् ।
परेण योगेन परं सुगुप्तं @
त्वाम् आहुर् अग्र्यं पुरुषं पुराणम् ॥
परं परस्यापि परं रहस्यं @
परं परस्यापि परं परं यत् ।
परम् परस्यापि परं तपो यत् @
त्वाम् आहुर् अग्र्यं पुरुषं पुराणम् ॥
परं परस्यापि परं परो यत् @
परं परस्यापि परं विभुं च ।
परम् परस्यापि परं च दानं @
त्वाम् आहुर् अग्र्यं पुरुषं पुराणम् ॥
परं परस्यापि परं च योगं @
परं परस्यापि परं च मोक्षम् ।
परम् परस्यापि परां विभूतिं @
त्वाम् आहुर् अग्र्यं पुरुषं पुराणम् ॥
परं परस्यापि परं पुराणं @
परं च मन्त्रम् परमं च मन्त्रम् ।
परेण योगेन परमं च गुह्यं @
त्वाम् आहुर् अग्र्यं पुरुषं पुराणम् ॥
परं परस्यापि परं परायणं @
परं च गुह्यं परमं च मन्त्रम् ।
परेण योगेन परं सुगुप्तं @
त्वाम् आहुर् अग्र्यं पुरुषं पुराणम् ॥
एवम् उक्त्वा तु भगवान् सर्वलोकपितामहः ।
स्तुत्वा नारायणं देवं ब्रह्मलोकं गतः प्रभुः ॥
हत्वा दैत्यपतिं विष्णुर् असुरान् द्रावयन् रणे ।
दैत्यराजं ततश् चक्रे प्रह्रादं दानवेश्वरम् ॥
ततो नृसिंहो भगवान् प्रह्रादम् इदम् अब्रवीत् ।
ध्याहि मां सततं दैत्य मनःशुद्धिर् भवेत् तव ॥
तथेत्य् एवाब्रवीद् दैत्यः प्रणम्य हरिम् ईश्वरम् ।
आदिदेवं जगन्नाथम् अक्षरं पुष्करेक्षणम् ॥

ततो नदत्सु तूर्येषु नृत्यन्तीष्व् अप्सरःसु च ।
क्शीरोदस्योत्तरं कूलं जगाम प्रभुर् ईश्वरः ॥
नारसिंहीं तनुम् त्यक्त्वा स्थापयित्वा च तद् वपुः ।
पौराणं रूपम् आस्थाय ययौ स गरुडध्वजः ॥
अष्टचक्रेण यानेन भूतियुक्तेन शोभिना ।
अव्यक्तप्रकृतिर् देवः स्वस्थानम् अगमत् प्रभुः ॥
एवं महात्मना तेन नृसिंहवपुषा तदा ।
देवारिर् निहतो राजन् हिरण्यकशिपुः पुरा ॥
तत्रापि योगशयनं चक्रे चक्रगदाधरः ।
किम् अप्य् अचिन्त्यं योगात्मा चिन्तयाम् आस योगवित् ॥
लोकसंरक्षणपरः शेषे शेते जगत्पतिः ।
श्रियस् त्व् अङ्के तथान्यस्य पादौ रक्ततलौ हरिः ।
सुखं स्वपिति योगात्मा ब्राह्मणानां हिताय वै ॥
नारसिंहो मया प्रोक्तो वामनं शृण्वतः परम् ।
प्रादुर्भावो नारसिंहः कीर्तितः परमाद्भुतः ।
विष्णोश् च वामनत्वं हि प्रब्रवीहि सनातनम् ॥
नृसिंह एष कथितो भूयो ऽयं वामनः परः ।
यत्र वामनम् आस्थाय रूपं रूपवतां वरः ॥
बलेर् बलवतो यज्ञे बलिना विष्णुना पुरा ।
विक्रमैस् त्रिभिर् आक्रम्य त्रैलोक्यम् अखिलं हृतम् ॥
समुद्रवसना चोर्वी नानानगविभूषिता ।
हृत्वा दत्ता सुरेन्द्राय शक्राय प्रभविष्णुना ॥
अत्र मे संशयो ब्रह्मन्न् अत्र मे विस्मयो महान् ।
कथं नारायणो देवो वामनत्वम् उपागतः ॥
यः पुराणे पुराणात्मा भूत्वा नारायनो विभुः ।
पद्मनाभो महायोगी लोकानां प्रकृतिर् विभुः ॥
अनादिमध्यनिधनस् त्रैलोक्यादिः सनातनः ।
देवदेवः सुराध्यक्षः कृष्णो लोकनमस्कृतः ॥
हव्यकव्यवहः श्रीमान् हव्यकव्यभुग् अव्ययः ॥
अदित्या देवमातुश् च कथं गर्भे ऽभवत् प्रभुः ।
स्रष्टा यो वासवस्यापि स कथं वासवानुजः ॥
प्रसूतो दिवि देवेशो विष्णुत्वं प्राप्तवान् कथम् ।
एतद् आचक्ष्व मे विप्र प्रादुर्भावं महात्मनः ॥
शृणु राजन् कथां दिव्याम् अर्चिताम् ऋषिपुंगवैः ।
नमस् कृत्य जगन्नाथं देवदेवं जनार्दनम् ।
समाहितमना भूत्वा विष्णुम् उद्दिश्य भक्तितः ॥
पुराणैः कविभिः प्रोक्तां ब्रह्मोक्तां ब्रह्मणेरिताम् ॥
मारीचस्य सुरेशस्य कश्यपस्य प्रजापतेः ।
अदितिर् दितिर् द्वे भार्ये भगिन्यौ जनमेजय ॥
अदित्यां जज्ञिरे देवाः कश्यपस्य महात्मनः ।

धातार्यमा च मित्रश् च वरुणो ऽंशो भगस् तथा ॥
इन्द्रो विवस्वान् पूषा च पर्जन्यो दशमस् तथा ।
तथैकादशमस् त्वष्टा द्वादशो विष्णुर् उच्यते ॥
दित्यां जातो हि भगवान् हिरण्यकशिपुः प्रभुः ।
गणाः सुबहुशो राजन् देशे देशे सहस्रशः ।
तस्यानुजश् च दैत्येन्द्रो हिरण्याक्षो महाबलः ॥
हिरण्यकशिपोः पुत्राः पञ्च घोरपराक्रमाः ।
प्रह्रादश् चानुह्रादश् च जम्भः संह्राद एव च ॥
विरोचनस् तु प्राह्रादिस् तस्य पुत्रो बलिः स्मृतः ।
पुत्रपौत्रं च बलवत् तेषाम् अक्षयम् अव्ययम् ॥
तेजस्विनां सुरारीणां दैत्येन्द्राणां मनस्विनाम् ।
तेषाम् ईशो महावीर्यो हिरण्यकशिपुः प्रभुः ॥
शशास सर्वान् दैत्यैन्द्रो जित्वा देवान् सवासवान् ।
तं दृष्ट्वा भगवान् विष्णुर् जघान हरिरूपधृक् ॥
तस्मिन् हते महावीर्ये विष्णुना प्रभविष्णुना ।
गणाः सुबहुशो राजन् देशे देशे सहस्रशः ॥
तं दृष्ट्वा नारसिंहेन हिरण्यकशिपुं हतम् ।
दैत्या देववधार्थाय बलिम् इन्द्रं प्रचक्रिरे ॥
दृष्ट्वा धर्मपरं नित्यं सत्यवाक्यं जितेन्द्रियम् ।
शौर्याध्ययनसंपन्नं सर्वज्ञानविशारदम् ॥
परावरगृहीतार्थं तत्त्वदर्शिनम् अव्ययम् ।
तेजस्विनं सुररिपुं हिरण्यकशिपुं यथा ॥
कृतज्ञं दृढभक्तं च हिरण्यकशिपोः समम् ॥
अभिषेकेण दिव्येन बलिं वैरोचनिं तदा ।
दैत्याधिपत्ये दितिजास् तदा सर्वे न्ययोजयन् ॥
अभिषिक्तस् तु दैत्यैस् तैर् बलिर् बलिवतां वरः ।
ब्रह्मणा चैव तुष्टेन हिरण्यकशिपोः पदे ॥
अभिषिक्तो ऽसुरगणैर् बलिर् वैरोचनिस् तथा ।
काञ्चनैः कलशैः स्फीतैः सर्वतीर्थाम्बुसंभृतैः ॥
जयशब्दं ततश् चक्रुर् अभिषिक्तस्य दानवाः ।
बलेर् अतुलवीर्यस्य सिंहासनगतस्य वै ॥
कृत्वेन्द्रं दानवाः सर्वे बलिं बलवतां वरम् ।
ततो विज्ञापयाम् आसुः शिरोभिः पतिताः क्षितौ ॥
विदितं तव दैत्येन्द्र हिरण्यकशिपोर् यथा ।
त्रैलोक्यम् आसीद् अखिलं जगत् स्थावरजङ्गमम् ॥
पितामहं तु हत्वा ते सुरैः सुरनिषूदन ।
हृतं तद् एव त्रैलोक्यं शक्रश् चैवाभिषेचितः ।
हत्वेन्द्रम् अमरैः सार्धम् अस्माभिः सह दानव ।
तत् पितामहराज्यं स्वं प्रत्याहर्तुम् इहार्हसि ॥
अस्माभिः सहितो नाथ त्रैलोक्यम् इदम् अव्ययम् ।

प्रत्यानयस्व भद्रं ते राज्यं पैतामहं विभो ॥
असुरगणसहस्रसंवृतस् त्वं @
जय दिवि देवगणान् सहानुजस् त्वम् ।
अमितबलपराक्रमो ऽसि राजन्न् @
अतिशयसे स्वगुणैः पितामहं स्वम् ॥
निशम्य तेषां वचनं महामतिर् @
बलिस् तदा प्रीतमना महाबलः ।
आज्ञापयाम् आस स दैत्यकोटीस् @
त्रैलोक्यम् अद्यैव जयाम सर्वम् ॥
तस्य तद् वचनं श्रुत्वा बलेर् वैरोचनस्य तु ।
उद्योगं परमं चक्रुर् दानवा युद्धदुर्मदाः ॥
महापद्मो निकुम्भश् च कुम्भकर्णश् च वीर्यवान् ।
काञ्चनाक्षः कपिस्कन्धो मैनाकः क्षितिकम्पनः ॥
सितकेशोर्ध्ववस्त्रश् च वज्रनाभः शिखी जटी ।
सहस्रबहुर् विकचो व्याघ्राक्षः प्रियदर्शनः ॥
विकृतो दीर्घजिह्वश् च मानुषाशन एव च ॥
एकाक्ष एकपान्मुण्डो विद्युदक्षश् चतुर्भुजः ।
गजोदरो गजशिरा गजस्कन्धो गजेक्षणः ॥
क्षितिस् कन्धः क्षोभणो ऽथ भग्ननेत्रो गवेक्षणः ।
कपिस् कन्धः क्षोभणो ऽथ काञ्चन् आक्षो गवेक्षणः ।
अष्टदंष्ट्रश् चतुर्वक्त्रो मेघनादी जलंधमः ।
करालो ज्वालजिह्वश् च शताङ्गः शतलोचनः ॥
सहस्रपात् कृष्णमुखः कृष्णश् चैव महासुरः ।
रणोत्कटो दानपतिः शैलकम्पी कुलाकुलिः ॥
समुद्रो रभसश् चण्डो धूम्रश् चैव प्रियंकरः ।
गोव्रजो गोक्षुरो रौद्रो गोदन्तः स्वस्तिको ध्रुवः ॥
मांसपो माम्सभक्षश् च वेगवान् केतुमाञ् शिनिः ।
पञ्कदिग्धशरीरश् च बृहत्कीर्तिर् महाहनुः ॥
समप्रभो विकुम्भाण्डो विरूपाक्षो हराहरौ ।
श्वेतशीर्षश् चन्द्रहनुश् चन्द्रहा चन्द्रतापनः ॥
विक्षरो दीर्घबाहुश् च मद्यपो मारुताशनः ।
कालकञ्जो महाक्रोधः सरभः शलभः क्रथः ॥
समुद्रमथनो नादी विततश् च महाबलः ।
प्रलम्बो नरको वाली धेनुकः काललोचनः ॥
वरिष्ठश् च गविष्ठश् च भूतलोन्मथनो विभुः ।
दुष्प्रसादः किरीटी च सूचीवक्त्रो महासुरः ॥
सुबाहुः कुब्जबाहुश् च करुणः कलशोदरः ।
सोमपो देवयाजी च प्रवरो वीरमर्दनः ॥
शुश्रूषुः खण्डशक्तिश् च कुणिनेत्रः शशिध्वजः ।
विद्युद्दंष्ट्रो भीषणश् च बालनागो महाबलः ।

यथास्मृति मया प्रोक्ता मरीचेः कीर्तिवर्धनाः ॥
एते चान्ये च बहवो नानाभूशणभूषिताः ।
रथौघैर् बहुसाहस्रैर् ययुर् योद्धुम् अरिंदमाः ॥
दिव्याम्बरधरा दैत्या दिव्यमाल्यानुलेपनाः ।
दिव्यैश् च कवचैर् नद्धा दिव्यैश् चैवोच्छ्रितैर् ध्वजैः ॥
दिव्यायुधधरा दैत्या गर्जमाना यथाम्बुदाः ।
भृहद्भी रथनिर्घोषैश् चालयन्तो वसुंधराम् ॥
महाबला दिव्यबलास्त्रधारिणो @
भुजंगभोगप्रतिमैर् महाभुजैः ।
सुदुर्जया दैत्यवृषाः सुरारयो @
दितिप्रिया लोहितलोहितेक्षणाः ॥
ते जग्मुर् अर्कज्वलनोग्रवीर्या @
महेन्द्रवज्राशनितुल्यवेगाः ।
विवृद्धदंष्ट्रा हरिधूमकेशा @
विनर्दमानाः शरदीव मेघाः ॥
सहस्रबाहुर् बाणश् च बलेः पुत्रो महासुरः ।
रथातिरथकोट्यासौ संनह्यत महाबलः ॥
सर्वे मायाधरा दैत्याः सर्वे दिव्यास् त्रयोधिनः ।
सर्वे मदबलोत्सिक्ताः सर्वे लब्धवरास् तथा ॥
सर्वे कञ्चनशैलाभाः पीतकौशेयवाससः ।
किरीटोष्णीषमुकुटा दिव्यभूषणभूषिताः ॥
हिरण्यकवचाः सर्वे हिरण्यध्वजकेतवः ।
स्यन्दनस्था व्यराजन्त शारदाः खे ग्रहा इव ॥
तापनीयैर् वरैर् निष्कैर् अनलज्वलितप्रभैः ।
हेमपर्वतशृङ्गस्थाः पुष्पिता इव किंशुकाः ॥
तेषां मध्यगतो बाणः प्रावृषीवोत्थितो घनः ।
स्थितः शक्तिगदापाणिस् त्रिनल्वप्रतिमे रथे ॥
चित्राक्षेषाध्वजयुगे चित्रभक्तिविराजिते ।
गदापरिघसंपूर्ने हेमजालविभूषिते ॥
अन्वीयमानो दितिजैर् वालखिल्यैर् इवांशुमान् ।
नानाप्रहरणैर् घोरैस् तीक्ष्णदंष्ट्रैर् इवोरगैः ॥
पञ्च तस्य महावीर्या दानवा युद्धदुर्मदाः ।
ररक्षू रथम् अव्यग्रा व्यादितास्या भयावहाः ॥
सुबाहुर् मेघनादश् च भीमवेगश् च वीर्यवान् ।
तथा गगनमूर्धा च वेगवान् केतुमान् अपि ॥
कनकरजतभक्तिचित्रपार्श्वे @
पतगपतिप्रतिमे रथे स्थितो ऽभूत् ।
जलदनिनदतुल्यनेमिघोषे @
सुरगणसैन्यवधाय दानवेन्द्रः ॥
अनायुषायाः पुत्रस् तु बलो नाम महासुरः ।

वृतः शतसहस्रेण रथानां भीमवर्चसाम् ॥
युक्तम् ऋक्षसहस्रेण रथम् आरुह्य वीर्यवान् ।
नीलायसमयं घोरं वायसाङ्कं सुदुर्जयम् ॥
नीलाम्बरधरः श्रीमान् वैडूर्याचलसंनिभः ।
महता रथवृन्देन प्रययौ दानवस् तदा ।
तत्रैकार्णवसंकाशे सैन्यमध्ये व्यराजत ।
प्रभातसमये श्रीमान् समुद्रस्थ इवांशुमान् ॥
सुतप्तजाम्बूनदतुल्यवर्चसा @
निशाकराकारतडिद्गुणाकरः ।
किरीटमुख्येन विभाति शोभिना @
यथा गिरिः शृङ्गवरेण भास्वता ॥
षष्तिं रथसहस्राणि नमुचेर् असुरस्य वै ।
खरयुक्ताणि सर्वाणि मेघतुल्यरवाणि च ॥
नानाप्रहरणाः सर्वे सर्वे ते चित्रयोधिनः ।
महाभ्रघनसंकाशा वेगवन्तो महाबलाः ॥
रथो व्याघ्रसहस्रेण युक्तः परमवेगवान् ।
नमुचेर् असुरेन्द्रस्य सर्वरत्नविभूषितः ॥
शार्दूलचिह्नः शुशुभे तस्य केतुर् हिरण्मयः ।
रथमध्ये ऽसुरेशस्य मध्यंदिनरविर् यथा ॥
स भीमवेगश् च महाबलश् च @
प्रगृह्य चापं हिमवान् इव स्थितः ।
नीलाम्बरः काञ्चनपट्टनद्धो @
दिशागजो यद्वद् उपेतकक्षः ॥
किंकिणीजालनिर्घोषं तपनीयविभूषितम् ।
सपताकध्वजोपेतं ससंध्यम् इव तोयदम् ॥
चक्रैश् चतुर्भिः संयुक्तं अष्टनल्वायतान्तरम् ।
हेमजालाकुलं दीप्तं कालचक्रम् इवोद्यतम् ॥
नानायुधधरं दिव्यं व्याघ्रचर्मपरिष्कृतम् ।
ईहामृगगणाकीर्णं चित्रभक्तिविराजितम् ॥
तूणीरशतसंपूर्णं शक्तितोमरसंकुलम् ।
गदामुद्गरसंबाधं धनूरत्नविबूषितम् ॥
युक्तम् ऋक्षसहस्रेण लम्बकेसरवर्चसा ।
राजतेन विकीर्णेन शोभितं सिम्हकेतुना ॥
स तेन शुशुभे दैत्यो विश्वकर्मा मयो बली ।
रथरत्ने स्थितः श्रीमान् उदयस्थ इवांशुमान् ॥
हिमरजतसुचारुशोभिताङ्गं @
मणिकनकोज्ज्वलचारुभक्तिचित्रम् ।
अयुतशतसहस्रम् ऊर्जितानाम् @
अयम् अनुयाति महाहवे रथानाम् ॥
पुलोमा तु महादैत्यस् तिमिराकारगह्वरः ।

आरुरोहायसं घोरं रथं पररथारुजम् ॥
उत्कीर्णपर्वताकारं लोहजालान्तरान्तरम् ।
नेमिघोषेण महता क्षुभ्यन्तम् इव सागरम् ॥
गदापरिघनिस्त्रिंसैः सतोमरपरश्वधैः ।
शक्तिम् उद्गरसंकीर्णं सतोयम् इव तोयदम् ॥
रथम् उष्ट्रसहस्रेण संयुक्तं वायुवेगिणा ।
पुलोमारुह्य युद्धाय प्रस्थितो युद्धदुर्मदः ॥
षष्टिं रथसहस्राणि पुलोमानं महारथम् ।
अन्वयुः सूर्यवर्णाणि प्रदीप्तानीव तेजसा ॥
खड्गध्वजेन महता तप्तकाञ्चनवर्चसा ।
भ्राजते रथमध्यस्थः पर्वतस्थ इवांशुमान् ॥
स चारुचामीकरपट्टनद्धां @
महागदां कालनिभां महाबलः ।
प्रगृह्य बभ्राज स सैन्यमध्ये @
कार्ष्णायसः केतुर् इवोत्थितोर्व्याम् ॥
हयग्रीवस् तु बलवान् हयग्रीवो महाबलः ।
वृतः शतसहस्रेण रथानां रथसत्तमः ॥
धराधरनिभाकारं सपत्नानीकमर्दनम् ।
स्यन्दनं भीमम् आस्थाय युद्धायाभिमुखः स्थितः ॥
श्वेतशैलप्रतीकाशः श्वेतकुण्डलभूषणः ।
शुशुभे रथमध्यस्थः श्वेतशृङ्ग इवाचलः ॥
महता सप्तशीर्षेण शोभिना नागकेतुना ।
वैदूर्यमणिचित्रेन प्रवालाङ्कुरशोभिना ॥
अमितबलपराक्रमद्युतीनाम् @
वररथिनाम् अनुजग्मुर् ऊर्जितानाम् ।
असुरगणशताणि गच्छमानं @
त्रिदशगणा इव वासवं प्रयान्तम् ॥
प्रह्रादस् तु महाप्राज्ञः सर्वशास्त्रविशारदः ।
सर्वमायाधरः श्रीमान् यष्टा क्रतुशतैर् अपि ॥
समनह्यत तेजस्वी पावकार्चिः समप्रभः ।
रथानीकेन महता दुर्दिनाम्भोदनादिना ॥
शूरेणामितवीर्येण हेमकुण्डलधारिणा ।
वृतो दैत्यसहस्रेण देवैर् इव पितामहः ॥
स्ववीर्याद् अग्रणीर् दृप्तो मत्तवारणविक्रमः ।
सुरसैन्यस्य सर्वस्य प्रतिरोध इव स्थितः ॥
स धैर्येणोदधेस् तुल्यो वपुषाग्निर् इव ज्वलन् ।
तेजसा भास्कराकारः क्षमया पृथिवीसमः ॥
तालध्वजेन दीप्तेन रथेनातिविराजता ।
तं यान्तम् अनुयान्ति स्म दानवाः शतसंघशः ॥
सर्वे हिरण्यकवचाः सर्वे रत्नविभूषिताः ।

दिव्याङ्गरागाभरणाः समरेष्व् अनिवर्तिनः ॥
जाम्बूनदविचित्राङ्गा वैदूर्यविकृताङ्गदाः ।
दिव्यस्यन्दनमध्यस्थाः खस्था इव महाग्रहाः ॥
आचारवांश् चैव जितेन्द्रियश् च @
धर्मे रतः सत्यपरो ऽनसूयः ।
स्थितो ऽग्नितोयाम्बुदवायुकल्पो @
रूपी यथा सर्वहरः कृतान्तः ॥
शम्बरस् तु महामायो दैत्यानां रथयूथपः ।
आरुरोह रथं दिव्यं सर्वयुद्धविशारदः ॥
लोहिताक्षो महाबाहुः प्रतप्तोत्तमकुण्डलः ।
जीमूतघनसंकाशो दिव्यस्रगनुलेपनः ॥
विद्युद्द्योतनिकाशेन मुकुटेनार्कवर्चसा ।
मणिरत्नविचित्रेण वैदूर्यान्तरशोभिना ॥
तापनीयेन महता कवचेन विराजता ।
संध्याभ्रेणेव संछन्नः श्रीमान् अस्तशिलोच्चयः ॥
त्रिंशच्छतसहस्राणि दैत्यानां चित्रयोधिनाम् ।
बलिनां कालकल्पानाम् अन्वयुः शम्बरं तदा ॥
युक्तं हयसहस्रेण शुकवर्णेन राजता ।
क्रौञ्चध्वजेन दीप्तेन रथेनाहवशोभिना ॥
व्यासक्तवैदूर्यसुवर्णजालं @
नानाविहंगैर् अपि भक्तिचित्रम् ।
विद्युत् प्रभं भीमरथं सुवेगं @
रथं समारुह्य रराज दैत्यः ॥
अनुह्रादस् तु तत्रैव दैत्यः परमदुर्जयः ।
हिरण्यकशिपोः पुत्रः प्रययौ युद्धलालसः ॥
चतुश्चक्रेण यानेन त्रिनल्वप्रतिमेन तु ।
युक्तेनाश्वैर् महावीर्यैः सिंहवक्त्रैर् अजिह्मगैः ॥
युक्तेनोष्ट्रमुखैर् अश्वैर् हेमजालपरिच्छदैः ।
भीमगम्भीरनादेन नेमिघोषेण वीर्यवान् ।
चालयन् वसुधां सर्वां सशैलवनकाननाम् ॥
विनर्दमाना दैत्यौघा अनुह्रादं ययुः शुभाः ।
अनुह्लादं विनर्दन्तो दैत्यौघाः पर्यवारयन् ।
शतं शतसहस्राणां रथानां हेममालिनाम् ॥
परिघैर् भिण्डिपालैश् च भल्लैः प्रासैः परश्वधैः ।
विविधायुधहस्तास् ते शूलमुद्गरपाणयः ॥
सुवर्णजालनिर्मुक्तैर् वज्रैश् च समलंकृताः ।
रथैश् चक्रैश् च कवचैः सज्जमाना महासुराः ॥
तदा विशालोच्छ्रितशैलरूपे @
बभौ रथे काञ्चनचित्रिताङ्गे ।
दैत्याधिपः सर्वबलानुरूपे @

समास्थितस् तु अप्रतिमे सुरूपे ॥
विरोचनश् च बलवान् वैश्वानरसमद्युतिः ।
महता रथवंशेन सर्वास्त्रकुशलः शुचिः ॥
व्यूहानां विनियोगज्ञो ज्ञानविज्ञानतत्त्ववित् ।
बलेः पितासुरवरः सुराणाम् इव वासवः ॥
सर्वायुधवरोपेतं किंकिणीजालभूषितं ।
युक्तानां वाजिमुख्यानां सहस्रेणाशुगामिनाम् ॥
रथम् आरुह्य दैत्येन्द्रो बभौ मेरुर् इवापरः ।
किंकिणीजालपर्यन्तं गजेन्द्रध्वजशोभितम् ।
संध्याभ्रसमवर्णाभिः पताकाभिर् अलंकृतम् ॥
प्रवालजाम्बूनदभक्तिचित्रं @
व्यालं विमुक्तान्तरनेमिघोषम् ।
रथं समारुह्य किरीटमाली @
ययौ स युद्धाय महासुरेन्द्रः ॥
विरोचनानुजश् चैव कुजम्भो नाम दानवः ।
स्यन्दनैर् बहुसाहस्रैर् मणिकाञ्चनभूषितैः ॥
वृतो मदबलोत्सिक्तैर् देवारिर् अरिमर्दनः ।
वरदानमदोत्सिक्तैर् देवतानां च शत्रुभिः ।
प्रासपाशगदाहस्तैर् दानवैर् युद्धकाङ्क्षिभिः ॥
स पर्वतनिभाकारो भिन्नाञ्जनचयप्रभः ।
महता भ्राजमानेन किरीटेन सुवर्चसा ॥
सर्वरत्नविचित्रेण कवचेन च संवृतः ।
महता दीप्तवपुषा रथेनेन्दुर् इवांशुमान् ॥
शातकौम्भेन महता तालवृक्षेण केतुना ।
रराज रथमध्यस्थो मेरुस्थ इव भास्करः ॥
रणपटुर् अतिवीर्यसत्त्वबुद्धिः @
सुरसमराभिमुखः प्रयाति तूर्णम् ।
असुरगणसमावृतः कुजम्भस् @
त्रिदशगणैर् इव वृत्रहामरेन्द्रः ॥
असिलोमा च तत्रैव दानवः पर्वतायुधः ।
दारुणं वपुर् आस्ताय दारुणो दारुणाननः ॥
रौद्रः शकटचक्राक्षो महामायो महाबलः ।
कृष्णावासा महादंष्ट्रो रक्ताक्षो लोहिताननः ॥
वृतो दैत्यसहस्रौघैर् गिरिपादपयोधिभिः ।
नानारूपधरैर् दीप्तैर् दैत्यैस् त्रिदशशत्रुभिः ॥
ते शूलहस्ता गगने चरन्त @
इतस् ततस् तोयदवृन्दनादाः ।
खं छादयन्तस् तपनीयनिष्का @
यथोत्थिताः प्रावृषि कालमेघाः ॥
अनायुषायाः पुत्रस् तु वृत्रो नाम महासुरः ।

देवशत्रुर् महाकायस् ताम्रास्यो निर्णतोदरः ॥
दीप्तजिह्वो हरिश्मश्रुर् ऊर्ध्वरोमा महाहनुः ।
नीलाङ्गो लोहितग्रीवः किरीटी लोहिताङ्गदः ॥
आजानुबाहुर् विकृतः श्वेतदंष्ट्रो विभीषणः ।
महामायो महाभीमो हेमकेयूरभूषणः ॥
महता मणिचित्रेण कवचेन सुसंवृतः ।
हेममालाधरो रौद्रश् चक्रकेतुर् अमर्षणः ॥
किंकिणीशतसंघुष्टं तपनीयविभूषितम् ।
युक्तं हयसहस्रेण रक्तध्वजपताकिना ॥
रथानीकेन महता युद्धायाभिमुखो ययौ ।
दिव्यं स्यन्दनम् आस्थाय दैत्यानां नन्दिवर्धनः ॥
तपितकनकबिन्दुपिङ्गलाक्षो @
दितितनयो ऽसुरसैन्ययुद्धनेता ।
विकसितकमलाभचारुवक्त्रः @
सितदशनः शुशुभे रथासनस्थः ॥
एकचक्रस् तु तत्रैव सूर्यचक्र इवोदितः ।
कालचक्रसमो रौद्रश् चक्रायुध इवोद्यतः ।
सर्वायुधमयं दिव्यं रथम् आस्थाय भास्वरम् ।
वृतो दैत्यगणैर् दृप्तैः कालायसशिलायुधैः ॥
तस्याशीतिसहस्राणि रथानां चित्रयोधिनाम् ।
सर्वे कालान्तकप्रख्या रुधिराक्षा महाबलाः ॥
आयसैः काञ्चनैश् चैव संनद्धा वरवर्मिणः ।
व्यराजन्तान्तरिक्षस्था नीला इव पयोधराः ॥
संदष्टौष्ठपुटा घोरा महाकाया महोदराः ।
वधाय सुरसैन्यस्य संनह्यन्त महाबलाः ॥
सर्वे कालान्तकप्रख्या वीराः समरदुर्जयाः ।
सागरोदरगम्भीरा नीलवक्त्रा दुरासदाः ।
रेजुर् यान्तो ऽसुरवरा वेलातीता इवार्णवाः ॥
ते भीममायाः सुसमृद्धकायाः @
किरीटिनः काञ्चनभूषिताङ्गाः ।
ययुस् तदा स्वायुधदीप्तहस्ता @
नभः सपक्षा इव पर्वतेन्द्राः ॥
संदिष्टो बलिपुत्रेण वृत्रभ्राता महासुरः ।
वधाय सुरसैन्यस्य संनह्यस्वेति वीर्यवान् ॥
हेममाली महादंष्ट्रः स्रग्वी रुचिरकुण्डलः ।
रक्तमाल्याम्बरधरश् चण्डः समरदुर्जयः ॥
महाविवृत्तनयनः स किरीटी धनुर्धरः ।
प्रभिन्न इव मातङ्गः शार्दूलसमविक्रमः ॥
महातालनिभं चापं महारुचिरसायकम् ।
विस्फारयन् महावेगं वज्रनिष्पेषनिस्वनम् ।

रथेन खरयुक्तेन ध्वजेन भुजगेन च ।
शुशुभे स्यन्दनस्थः स संध्यागत इवांशुमान् ॥
रथैस् तु बहुसाहस्रैर् हेमपट्टविभूषितैः ।
शूलमुद्गरसंपूर्णैस् तोयपूर्णैर् इवाम्बुदैः ।
संदष्टौष्ठपुटः क्रुद्धो गर्जमानो ऽतिभैरवम् ॥
स दैत्येन्द्रो ऽभिचक्राम तस्मिन् युद्ध उपस्थिते ॥
पवनसमगतिर् विशालवक्षा @
विकसितपङ्कजचारुगर्भगौरः ।
प्रवररथगतो ययौ स तूर्णं @
त्रिदशगणैर् अभिलक्षितप्रभावः ॥
सिंहिकातनयश् चैव राहुर् नाम महासुरः ।
विकटः पर्वताकारः शतशीर्षः शतोदरः ॥
पीतमाल्याम्बरधरो जाम्बूनदविभूषितः ।
स्निग्धवैदूर्यसंकाशः पद्मपत्रनिभेक्षणः ॥
सर्वकाञ्चनसंयुक्तं मणिजालपरिष्कृतम् ।
पताकाशतसंकीर्णं युक्तं परमवाजिभिः ॥
आरुरोह रथं दिव्यं दैत्यः परमवीर्यवान् ।
ननाद च महानादं कम्पयन् वसुधातलम् ॥
मयेन विहितो दिव्यस् तस्य केतुर् हिरण्मयः ।
मयूरं सूर्यसंकाशं कवचं चायसप्रभं ॥
भीमवेगरवैश् चान्यै रथैर् दिव्यैः सुभासुरैः ।
नानाप्रहरणाकीर्णैः सेव्यमानो महाबलः ॥
असुरगणपतिर् गजेन्द्रगामी @
गतिर् अभवत् सुगतिर् महासुराणाम् ।
अरिगणम् अभितो विभुः प्रयातो @
गिरिवरम् अस्तम् इवांशुमान् प्रयातः ॥
विप्रचित्तिस् तु तत्रैव दनोर् वंशविवर्धनः ।
कश्यपस्यात्मजः श्रीमान् ब्रह्मणस् तेजसा समः ॥
यष्टा क्रतुसहस्राणां वेदवित् तपसान्वितः ।
स्वयंभुवा दत्तवरो वरदश् च स्वयंप्रभुः ।
ईशित्वं च वशित्वं च महत्त्वं च महाद्युतेः ॥
ऐश्वर्यगुणसंपन्नो ब्रह्मेव स्वयम् उर्जितः ।
सार्धं पुत्रैश् च पौत्रैश् च संनह्यत महाबलः ॥
सर्वे मायाधराः शूराः कृतास्त्रा रणदुर्जयाः ।
सर्वे कमलवर्णाभा हेमकूटोच्छ्रयोच्छ्रिताः ॥
सर्वे रजतसंकाशाः कैलासशिखरोपमाः ।
मयेन निर्मितास् तेषां सर्वे मायामया रथाः ॥
विचरन्तो व्यराजन्त शारदा इव तोयदाः ।
सर्वे हंसध्वजाः श्वेताः श्वेतदण्डसमुच्छ्रयाः ॥
श्वेताम्बरधरा दैत्याः श्वेतमाल्यविभूषिताः ।

श्वेतातपत्राः सर्वे ते श्वेतकुण्डलमण्डिताः ॥
मुक्ताहारवृतोरस्का भान्ति नागेश्वरा इव ।
महाग्रहनिभाकाराः शत्रूणां लोमहर्षणाः ।
रक्तचित्राम्बरधराश् चित्राभरणभूषिताः ॥
त्रैलोक्यविजयं नाम रथम् आस्थाय वीर्यवान् ।
कैलासशिखराकारम् अष्टनल्वायतान्तरम् ॥
युक्तं वाजिसहस्रेण सितेन शशिवर्चसा ।
पताकाशतसंछन्नं नानायुधविकल्पितम् ॥
हंसांशुकुन्दप्रतिमं विशालं @
सितातपत्रं दनुजेश्वरस्य ।
विभाति तस्योपरि धार्यमाणं @
श्वेताद्रिमूर्धावगतः शशाङ्कः ॥
केशी दानवमुख्यस् तु जिह्मस् ताम्राक्षदर्शनः ।
नीलमेघचयप्रख्यः कालः पुरुषविग्रहः ॥
महाग्रहनिभाकारः शत्रूनां लोमहर्षणः ।
चित्रमाल्याम्बरधरो रक्ताभरणभूषितः ॥
शताक्षः शतबाहुश् च हरिश्मश्रुर् महाबलः ।
शङ्कुकर्णो महानादो वपुषा रौद्रदर्शनः ॥
युक्तं महिषकैर् दिव्यैर् घण्टाकोटिकृतस्वनम् ।
महावारिधराकारम् आस्थाय रथम् उत्तमम् ॥
ध्वजेनोष्ट्रेण महता नीलकेसरवर्चसा ।
नानारागविचित्राभिः पताकाभिर् विबूषितम् ॥
द्विपञ्चाशत्सहस्राणि रथानाम् उग्रतेजसाम् ।
ययुस् तस्यासुरेन्द्रस्य प्रयातस्य सुरान् प्रति ॥
भान्ति भिन्नाञ्जननिभाः प्रयातस्य महात्मनः ।
दंष्ट्रार्धचन्द्रवदनाः सबलाका इवाम्बुदाः ॥
तत् तस्य वैदूर्यसुवर्णचित्रं @
विद्युत्प्रभं भास्कररश्मितुल्यम् ।
किरीटम् आभात्य् असुरोत्तमस्य @
दावाग्निदीप्तं शिखरं यथाद्रेः ॥
वृषपर्वासुरश् चैव श्रीमान् सुरनिषूदनः ।
आरुरोह रथं दिव्यं मेरुशृङ्गम् इवांशुमान् ॥
प्रवालजाम्बूनदचित्रकूबरं @
महारथं भारसहं महार्हम् ।
स्वलंकृतं राजतहेममण्डलं @
गभस्तिनक्षत्रतडिन्निकाशम् ॥
केयूरयुक्ताङ्गदनद्धबाहुः @
सहस्रतारेण च चर्मणा सः ।
सांग्रामिकैर् आभरणैश् च चित्रैर् @
मध्याह्नसूर्यप्रतिमो बभूव ॥

महाबलो बद्धतलाण्गुलित्रो @
बलोत्कटः किंशुकलोहिताक्षः ।
प्रगृह्य चामीकरचारुचित्रं @
चापं स्थितो वृत्तविशालनेत्रः ॥
सैन्येषु संनाहविधानत्सु @
भटेषु योग्येषु रणाय भूपते ।
रथेषु चित्रीकृतकूबरेषु @
नागेषु यत्तेषु रणाय पत्तिभिः ॥
महासुरेन्द्रश् च महासुरैर् वृतो @
बलिस् तदा स्यन्दनम् आरुरोह ।
वैदूर्यहेमोपचितं विशालं @
विद्युत्प्रभं षोडशनल्वमात्रम् ॥
युक्तं सहस्रेण दितेः सुतानां @
गजाननानां विकृताननानाम् ।
चामीकरोरःस्थलभूषितानां @
प्रनर्दतां प्रावृषि चाम्बुदानाम् ॥
महारथं देवरथप्रकाशं @
सहस्रमायेन मयेन सृष्टम् ।
ईहामृगाक्रीडितभक्तिचित्रं @
दिव्यं रथं वीररथानुयातम् ॥
सर्वास्त्रपूर्नं च समीरवेगम् ।
सकिंकिणीकं विमलं सुविस्तृतं @
हिरण्मयैः पद्मशतैर् अलंकृतम् ।
अभ्याददे वैजयन्तीं जयाय @
स्रजं बलिर् हेमविचित्रपुष्पाम् ॥
आबध्य मालां प्रबभौ विचित्रां @
बलिस् तदा भाति भुजैर् विशालैः ।
रराज तैः सर्वसमृद्धियुक्तैर् @
महार्चिषा सूर्य इवाम्बरस्थः ॥
स्रजं तदा बध्यति चास्य दुर्गां @
सर्वासुराणाम् इव हारभूताम् ।
वैरोचनिः सर्वश्रियाभिजुष्टो @
विभ्राजते ऽसौ शरदीव चन्द्रः ॥
मेरोस् तटैः काञ्चनरागरक्तैर् @
आदित्यसंसक्तम् इवाभ्रनीलम् ।
प्रासाश् च पाशाश् च हिरण्यनद्धाश् @
चर्माणि खड्गाश् च परश्वधाश् च ॥
धनूंषि वज्रायुधसप्रभाणि @
दिव्या गदा वज्रमुखाश् च शक्त्यः ।
दिव्याश् च खड्गा विशिखाश् च दीप्ता @

नाराचपूर्णा विविधाश् च तूणाः ।
धृता रथे दैत्यवृषस्य तस्य @
चकाशिरे प्रज्वलिता यथोल्काः ॥
तं चामरापीडधराः सुदंष्ट्राः @
सुवर्णमुक्तामणिहेमचित्राः ।
वीजन्ति वालव्यजनैर् विनीताः @
स्वलंकृताः स्यन्दनवेदिकास्थाः ॥
अयःशिरा अश्वशिरा दुरापः @
शिबिर् मतङ्गो विकटः शताक्षः ।
अजो निकुम्भः कुपथश् च दानवो @
ररक्षुर् एते दश दानवाधिपम् ॥
पुरःसराश् चैव सहस्रशो ऽसुराः @
पदातयो दानवराजरक्षिणः ।
शतघ्निचक्राशनिशक्तिपाणयः @
प्रजग्मुर् अग्रे ऽनिलतुल्यवेगिनः ॥
घण्टासुशब्दास् तपनीयनद्धा @
आडम्बरा झर्झरडिण्डिमाश् च ।
महारवा दुन्दुभयश् च नेदू @
रथप्रयाणे दितिजेश्वरस्य ॥
तस्योच्छ्रितः काञ्चनवेदिकाढ्यो @
हिरण्मयो दिव्यमहापताकः ।
महाध्वजो वै तपनीयनद्धो @
रराज वीरस्य यथा विवस्वान् ॥
समुच्छ्रितं काञ्चनमातपत्रं @
स्रक्काञ्चनी वक्षसि चास्य भाति ।
समन्ततश् चैनम् उपाचरन्ति @
दैत्यर्षयः प्राञ्जलयो यजन्ति ॥
पुरोहिताः शत्रुवधे समाहितास् @
तथैव चान्ये श्रुतशीलवृद्धाः ।
जपैश् च मन्त्रैश् च तथौषधीभिर् @
महात्मनः स्वस्त्ययनं प्रचक्रुः ॥
स तत्र वस्त्राणि शुभाश् च गावः @
फलानि पुष्पाणि तथैव निष्कान् ।
बलिर् दैत्यो ब्राह्मणेभ्यः प्रयच्छन् @
विराजते ऽतीव यथा धनेशः ॥
सहस्रसूर्यो बहुकिंकिणीकः @
परार्ध्यजाम्बूनदहेमचित्रः ।
सहस्रचन्द्रायुततारकश् च @
रथो बलेर् अग्निर् इवावभाति ॥
तम् आस्थितो दानवसंगृहीतं @

महाबलः कार्मुकधृक्सबाणः ।
उद्वर्तयिष्यंस् त्रिदशेन्द्रसेनाम् @
अतीव रौद्रं स बिभर्ति रूपम् ॥
स वेगवान् वीररथौघसंकुलः @
प्रयाति देवान् प्रति दैत्यसागरः ।
महार्णवो वीचितरंगसंकुलो @
यथा जलौघैर् युगसंक्षये तथा ॥
त्रैलोक्यवित्रासकरैर् वपुर्भिस् @
तान्य् अग्रतो यान्ति बले रथस्य ।
महाबलान्य् उच्छ्रितकार्मुकाणि @
सपर्वतानीव वनानि राजन् ॥
श्रुतस् ते दैत्यसैन्यस्य विस्तरो जनमेजय ।
भूयस् त्रिदशसैन्यस्य शृणु विस्तरम् आदितः ॥
दैत्यानाम् अथ संनाहं दूताच् छ्रुत्वा सुराधिपः ॥
सुराधिपस् तु भगवान् आज्ञापयत वै सुरान् ।
मरुद्गणांस् तथादित्यान् विश्वेदेवांश् च वासवः ॥
वसूनष्टौ भृशं सर्वान् यक्षरक्षोमहोरगान् ।
अष्टौ चापि वसूंस् तूर्णं यक्षराक्षसकिंनरान् ।
विद्याधरगणान् सर्वान् गन्धर्वांश् च महाबलान् ॥
महार्णवांश् च शैलांश् च तथा रुद्रान् महौजसः ।
यमवैश्रवणौ चोभौ वरुणं च जलाधिपम् ॥
ये तु सिद्धा महात्मानः पितरश् च मनस्विनः ।
राजर्षींश् च अपि शतशो योगसिद्धांस् तथैव च ॥
त्रिदशाज्ञापकः शक्र आज्ञापयति वीर्यवान् ।
भवन्तो दैत्यनाशाय संनह्यन्ताम् इति प्रभुः ॥
शक्रस्य वचनं श्रुत्वा ततः सर्वे दिवौकसः ।
संनह्यन्त महात्मानः शक्रस्य समविक्रमाः ॥
नानाकवचिनः सर्वे विचित्रकवचध्वजाः ।
नानायुधोद्यतकरा मत्ता इव महागजाः ॥
केचिद् आरुरुहुर् व्याघ्रान् केचिद् आरुरुहुर् गजान् ।
केचिद् आरुरुहुर् नागान् केचिद् आरुरुहुर् वृषान् ॥
हरिनेत्रो हरिश्मश्रुर् द्विरदैरावतध्वजम् ।
रथं हरिहयैर् युक्त्वा स प्रायात् समरं प्रति ॥
आदित्यवर्णं विरजं सुधौतं @
त्वष्ट्रा स्वयं निर्मितम् ईश्वरार्थम् ।
जालैश् च जाम्बूनदभक्तिचित्रैर् @
अलंकृतं काञ्चनदामभिश् च ॥
सकूबरोपस्करवन्धुरेषं @
विद्युत्प्रभाभिः कृतम् आभिताम्रम् ।
कैलासशृङ्गोपमम् इन्द्रयानं @

सुचारुचारुप्रतिचक्रचक्रम् ॥
तारासहस्रै रुचिरैर् ज्वलद्भिर् @
देवार्धमाल्यार्चितसर्वदेहम् ।
समुच्छ्रितश्रीध्वजम् अक्षयाक्षम् @
जाज्वल्यमानं वपुषोत्तमेन ॥
आस्थाय तं भास्वरम् आशुवेगं @
शचीपतिर् लोकपतिः सुरेशः ।
वज्रस्य भर्ता भुवनस्य गोप्ता @
ययौ महात्मा भगवान् महेन्द्रः ॥
आमुच्य वर्माथ सहस्रतारं @
हुताशनादित्यसमप्रभावं ।
सूर्यप्रभं चामुमुचे किरीटं @
मालां च जाम्बूनदवैजयन्तीम् ॥
त्वष्ट्रा कृतं भास्वररश्मिदीप्तं @
सुतीक्ष्णघोरामलतीक्ष्णधारम् ।
महासुराणां रुधिरार्द्रम् उग्रं @
प्रगृह्य वज्रं शतपर्वमुख्यम् ॥
महाशनी द्वे च महाग्रहाभे @
दीप्ताम् अमोघां च स शक्तिम् उग्राम् ।
चक्रं तथैन्द्रं सुमहच् च चापं @
प्रगृह्य शक्रः प्रययौ रणाय ॥
सहस्रदृग्भूतपतिः सनातनः @
सनातनानाम् अपि यः सनातनः ।
प्रयाति देवाधिपतिर् महात्मा @
वैयाघ्रम् आदाय च चर्म चित्रम् ॥
क्षीरोदधिक्षोभसमुत्थितानि @
पुरामृताद् उत्तमभूषणानि ।
देवासुराणां श्रमनिर्जितानि @
सोमार्कनक्षत्रतडित्प्रभाणि ॥
दत्तान्य् अदित्या मणिकुण्डलानि @
युद्धं प्रयातस्य सुरेश्वरस्य ।
तैर् भूषितो याति सहस्रचक्षुर् @
उद्द्योतयन् वै विदिशो दिशश् च ॥
हरिः प्रभुर् नेत्रसहस्रचित्रो @
विभाति युद्धाभिमुखः सुरेन्द्रः ।
यथा सितं शारदम् अभ्रवृन्दं @
नभस्तलं ऋक्षसहस्रचित्रम् ॥
ऐरावतं नागवरं महात्मा @
तदा समारुह्य ययौ रणाय ॥
स्तुवन्ति यान्तं विपुलैर् वचोभिर् @

मूल पाठ: Harivaṃśa, Appendix I · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc