हरिवंश · भाग 461480
समुद्यतायुधं दृष्ट्वा सर्वे देवगणास् तदा ।
ते हिरण्याक्षम् असुरं दैत्यानाम् अग्रतः स्थितम् ॥
युगान्तसमये भीमं स्थितं मृत्युम् इवाग्रतः ।
प्रविव्यथुः सुराः सर्वे तदा शक्रपुरोगमाः ॥
दृष्ट्वायान्तं हिरण्याक्षं महाद्रिम् इव जङ्गमम् ।
देवाः संविग्नमनसः प्रगृहीतशरासनाः ।
सहस्राक्षं पुरस्कृत्य तस्थुः संग्राममूर्धनि ॥
सा तु दैत्यचमू रेजे हिरण्यकवचोज्ज्वला ।
प्रवृद्धनक्षत्रगणा शारदी द्यौर् इवामला ॥
ते ऽन्योन्यम् अभिसंपेतुः पातयन्तः परस्परम् ।
बभञ्जुर् बाहुभिर् बाहून् द्वंद्वम् अन्ये युयुत्सवः ।
गदानिपातैर् भग्नाङ्गा बाणैश् च मथितोरसः ॥
विनिपेतुः पृथक् केचित् तथान्ये विजुघूर्णिरे ।
बभञ्जिरे रथान् केचित् केचित् संमृदिता रथैः ।
संबाधम् अन्ये संप्राप्ता न शेकुश् चलितुं रथाः ॥
दानवेन्द्रबलं तत् तु देवानां च महद् बलम् ।
अन्योन्यं बाणवर्षेण युद्धदुर्दिनम् आबभौ ॥
हिरण्याक्षश् च बलवान् क्रुद्धः स दितिनन्दनः ।
व्यवर्धत महातेजाः समुद्र इव पर्वणि ॥
तस्य क्रुद्धस्य सहसा मुखान् निश्चेरुर् अर्चिषः ।
तैः साग्निधूमपवनैर् व्यदहद् देवतागणान् ॥
शस्त्रजालैर् बहुविधैर् धनुर्भिः परिघैर् अपि ।
दिव्यम् आकाशम् आवव्रे पर्वतैर् उच्छ्रितैर् इव ॥
बहुभिः शत्रनिस्त्रिंशैश् छिन्नभिन्नशिरोरसः ।
न शेकुश् चलितुं देवा हिरण्याक्षार्दिता युधि ॥
तेन वित्रासिता देवा हिरण्याक्षेण संयुगे ।
न शेकुर् यत्नवन्तो ऽपि यत्नं कर्तुं विचेतसः ॥
तेन शक्रः सहस्राक्षः स्तम्भितो ऽस्त्रेण धीमता ।
ऐरावतगतः संख्ये नाशकच् चलितुं भयात् ॥
सर्वांश् च देवान् अखिलान् स पराजित्य दानवः ।
स्तम्भयित्वा च देवेशम् आत्मस्थं मन्यते जगत् ॥
सतोयमेघप्रतिमोग्रनिस्वनं @
प्रभिन्नमातङ्गविलासविक्रमम् ।
धनुर्विधुन्वन्तम् उदारवर्चसं @
तदासुरेन्द्रं ददृशुः सुराः स्थितम् ॥
निष्प्रयत्ने सुरपतौ धर्षितेषु सुरेषु च ।
हिरण्याक्षवधे बुद्धिं चक्रे चक्रगदाधरः ॥
वाराहः पर्वतो नाम यः पूर्वं समुदाहृतः ।
स एष भूत्वा भगवान् आजगामासुरान्तकृत् ॥
ततश् चन्द्रप्रतीकाशं सो ऽगृह्णाच् छङ्खम् उत्तमम् ।
सहस्रारं च तच्चक्रं चक्रपर्वतसंस्थितम् ॥
महादेवो महाबुद्धिर् महायोगी महेश्वरः ।
जप्यते यो ऽमरैः सर्वैर् गुह्यैर् नामभिर् अव्ययः ॥
स च सर्वात्मनि श्रेष्ठः सद्भिर् यः सेव्यते सदा ।
इज्यते च पुराणैश् च त्रिलोके लोकभावनः ॥
यो वैकुण्ठः सुरेन्द्राणाम् अनन्तो भोगिनाम् अपि ।
विष्णुर् यो योगविदुषां यो यज्ञो यज्ञकर्मणि ॥
मखे यस्य प्रसादेन भुवनस्था दिवौकसः ।
आज्यं महर्षिभिर् दत्तम् अश्नुवन्ति त्रिधा हुतम् ॥
यो नैधनो ऽग्निर् दैत्यानां यः सुराणां परा गतिः ।
यः पवित्रं पवित्राणां स्वयंभोर् अपि यो विभुः ॥
यस्य चक्रप्रविष्टानि दानवानां युगे युगे ।
कुलान्य् आकुलतां यान्ति यानि दृप्तानि वीर्यतः ॥
ततो दैत्यद्रवकरं पौराणं शङ्खम् उत्तमम् ।
दध्मौ प्राणेन बलवान् विक्षिपन् दैत्यजीवितम् ॥
श्रुत्वा शङ्खस्वनं घोरम् असुराणां भयावहम् ।
क्षुभिता दानवाः सर्वे दिशो दश विलोकयन् ॥
ततः संरक्तनयनो हिरण्याक्षो महसुरः ।
को ऽयम् इत्य् अब्रवीद् रोषान् नारायणम् उदैक्षत ॥
वराहरूपिणं देवं संस्थितं पुरुषं यथा ।
शङ्खचक्रोद्यतकरं देवानाम् आर्तिनाशनम् ॥
रराज शङ्खचक्राभ्यां ताभ्याम् असुरसूदनः ।
सूर्याचन्द्रमसोर् मध्ये यथा नीलः पयोधरः ॥
ततो ऽसुरगणाः सर्वे हिरण्याक्षपुरोगमाः ।
उद्यतायुधनिस्त्रिंशा दृष्ट्वा देवम् उपाद्रवन् ॥
पीड्यमानो ऽतिबलिभिर् दैत्यैः सर्वायुधोद्यतैः ।
न चचाल हरिर् युद्धे ऽकम्पमान इवाचलः ॥
ततः क्रुद्धो हिरण्याक्षः प्रोवाच हरिम् उद्धतः ।
तिष्ठ तिष्ठ न मे ऽद्य त्वं मोक्ष्यसे सहजीवितः ॥
ततः प्रज्वलितां शक्तिं वराहोरसि दानवः ।
हिरण्याक्षो महातेजाः पातयाम् आस वीर्यवान् ।
तस्याः शक्त्याः प्रहारेण ब्रह्मा विस्मयम् आगतः ॥
समीपम् आगतां दृष्ट्वा महाशक्तिं महाबलः ।
हुंकारेणैव निर्भर्त्स्य पातयाम् आस भूतले ॥
तस्यां प्रतिहतायां तु ब्रह्मा साध्व् इति चाब्रवीत् ।
यः प्रभुः सर्वभूतानां वराहस् तेन ताडितः ॥
तस्यां प्रतिहतायां तु हिरण्याक्षः प्रतापवान् ।
आसाद्य दानवेन्द्रस् तु तलेनाहत्य केशवम् ।
बाहुभ्यां परिजग्राह सिंहनादं समानदत् ॥
ततश् च भगवान् विष्णुर् दुर्विज्ञेयगतिः प्रभुः ।
बाहुयुद्धं समारेभे दैत्यं प्रति महाबलम् ॥
महावराहं दैत्येन्द्रो मुष्टिना तं जघान ह ॥
तयोर् युद्धं महच् चासीद् देवदैत्येन्द्रयोस् तदा ।
तयोः शब्दो महान् आसीद् बाह्वोः संक्षोभजस् तदा ॥
क्षुब्धा देवास् तदा सर्वे भीतास् तत्रावतथिरे ।
स्वस्तीत्य् उक्त्वा मुनिगणा देवदैत्यसमागमे ॥
तस्मिन् युद्धे महाघोरे सनकाद्यास् ततो हरिम् ।
तुष्टुवुः पुण्डरीकाक्षं वाराहं वपुर् आस्थितम् ॥
जय प्रपन्नार्तिहर प्रभो हरे @
जयस्व गोविन्द ननातनात्मन् ।
जयादिदेवेश जयामरेश @
जयस्व देव त्रिपुरारिसंस्तुत ॥
नमो नमो देव महामते हरे @
महावराहाय नमो ऽस्तु भूयः ।
नमः समस्तेश वराहरूपिणे @
जनार्दनाय प्रभविष्णवे नमः ॥
नमो वरेण्याय वराय देव @
त्रिविक्रमायादिवराहरूपिणे ।
नमो नमो भूपविलासविक्रम @
प्रभो हरे देव सनातनाय ॥
अचिन्त्यरूपाय हिरण्यरेतसे @
विनाशकर्त्रे क्षितिपालनाय ।
नताः स्म देवं वरदं वरेण्यं @
नताः स्म विष्णो नियता जनार्दन ॥
नताः स्म शङ्खारिगदासिधारिणे @
नताः स्म शार्ङ्गायुध देवदेव ॥
कृष्ण कृष्ण हृषीकेश देवदेव सनातन ।
नारायन पुराणात्मन् योगिध्येय जगत्पते ॥
जहीमं दानवं विष्णो चक्रेण मधुसूदन ।
निर्विघ्नाः सन्तु लोकाश् च दानवस्य वधाद् धरे ॥
एते देवा नमस्यन्ति भीतास् त्वां शरणं गताः ।
जहि क्षिप्रं दुरात्मानं विप्राणां भयवर्धनम् ॥
इत्य् उक्त्वा ते मुनिवरा वाचम् आयम्य संस्थिताः ।
देवाश् च मुनयश् चैव संस्थिता भयविक्लवाः ॥
एवं स्तुतो जगन्नाथो ववृधे विष्णुर् अव्ययः ।
दानवस्य करं गृह्य बलाद् दण्डम् इवायसम् ॥
महावराहो भगवान् ननाद बहुशस् तदा ।
परिबभ्राम सहसा भ्रामयंस् तं महासुरम् ।
तयोश् चटचटाशब्दः प्रादुर् आसीत् समन्ततः ॥
महावराहः सहसा तदा हरिः @
समानदन् भीमम् अतीव हृष्टः ।
विघूर्णयन् लोकम् इमं ससागरम् @
सुरारिभीतिं विदधन् सनातनः ॥
ततो हिरण्याक्षमहासुरः क्रुधा @
ननाद भूयो ऽपि ततो बलात् स तम् ।
विघूर्णयाम् आस दिशः समग्राः @
ससागराः सागरपत्तनास् तदा ॥
तयोस् तदा शब्द उदारनिस्वनः @
स पूरयाम् आस तथैव रोदसी ।
सुसंमितः सो ऽथ महारणे तदा @
गुहाश् च सर्वाः प्रविवेश पर्वतान् ॥
ते पर्वताश् चापि तथा विनेदुः @
शब्देन तेन प्रसभं समायुताः ।
महावराहः स्फुटतीक्ष्णदंष्ट्रवान् @
ददंश दैत्यं समरे महामतिम् ॥
मुष्टिप्रहारेण च दैत्यसत्तमं @
जघाण विष्णुः सुरलोकसत्कृतः ।
स दैत्यराजो ऽथ महावराहं @
जघान वीरः प्रसभं बलाद् बली ॥
स्तनान्तरे मुष्टिभिर् आत्तसायकस् @
ततान वृष्टिं पुनर् एव वक्षसि ।
महावराहस्य च पादसंभ्रमं @
सोढुं न शक्ता किल भूतधारिणी ॥
ननाद दुःखाद् बहुशः ससागरा @
साद्रिद्रुमा पर्वतकन्दरान्तरा ।
तथैव दैत्यस्य च पादपातनम् @
सोढुं प्रवीणा युधि विष्णुसंग्रहात् ॥
तयोः शरीरे सहसा प्रसुस्रुवू @
रक्तानि मांसानि बहूनि चासकृत् ।
अस्थीनि मज्जाश् च बभूवुर् अन्यतः @
क्षितेः स्थलं शोणितकर्दमं कृतम् ॥
एवं बहूनि युद्धानि कृत्वा तौ देवदानवौ ।
पीडां नावापतुस् तत्र देवदैत्यसमागमे ॥
निश्चेष्टं च जगत् सर्वं प्रादुर् आसीत् समन्ततः ।
एवं संक्रीड्य बहुधा दैत्यं हन्तुं मनो दधे ॥
ततश् चक्रं समादत्त सहस्रारं महाद्युतिः ।
चिक्षेपोरसि दैत्यस्य विनदन् बहुशो हरिः ॥
ततो भगवता चक्रम् आविध्याद् इत्य् असंनिभम् ।
पातितं दानवेन्द्रस्य शिरस्य् उत्तमतेजसः ॥
ततः स्थितस्यैव शिरस् तस्य भूमौ पपात ह ।
दैत्येन्द्रस्याशनिहतं मेरुशृङ्गम् इवोत्तमम् ॥
हिरण्याक्षे हते दैत्ये ये शेषास् तत्र दानवाः ।
सर्वे तस्य भयत्रस्ता जग्मुर् आर्ता दिशो दश ॥
स सर्वलोकाप्रतिचक्रचक्रो @
महाहवेष्व् अप्रतिमोग्रचक्रः ।
बभौ वराहो युधि चक्रपाणिः @
कालो युगान्तेष्व् इव दण्डपाणिः ॥
विद्राव्य तु रणे सर्वान् असुरान् पुरुषोत्तमः ।
मुमोच तत्र बद्धांस् तान् पुरंदरमुखान् सुरान् ॥
ततः प्रकृतिम् आपन्नाः सर्वे देवगणास् तदा ।
पुरंदरं पुरस्कृत्य नारायणम् उपस्थिताः ॥
कृताञ्जलिपुटाः प्रोचुर् जगतीपतिम् ईश्वरम् ।
त्वत्प्रसादेन भगवंस् तव बाहुबलेन च ।
नताः स्म देवदेवेश त्वां वयं शरणं गताः ।
नताः स्म विष्णुं सकलं निष्कलं भूतभावनम् ॥
नताः स्म विष्णुं देवेशं शङ्खचक्रगदाधरम् ।
नताः स्म भूतभव्येशम् ईड्यम् आदिगुरुं हरिम् ॥
नताः स्म वरुणं देवम् अर्चितं भुवनेश्वरम् ।
नताः स्म प्रेताधिपतिं कुबेरं देवसत्तमम् ॥
नमस् तुभ्यं जगन्नाथ सनातन जगत्पते ।
नमः सर्वात्मने तुभ्यं सर्वकर्त्रे नमो नमः ॥
नम आद्याय बीजाय प्रधानाय जगत्पते ।
नमः स्रष्टे नमो हर्त्रे नमः कर्त्रे जगत्पते ।
नमो गोप्त्रे जगन्नाथ नमः स्थात्रे नमो नमः ॥
यं प्राप्य न निवर्तन्ते योगिनो यतचेतसः ।
तस्मै तुभ्यं प्रधानात्मन् सर्वाय जगतः पते ॥
सर्वेश भूतभव्येश सर्वलोकनमस्कृत ।
प्रसीद देवदेवेश भक्तानाम् अभयंकर ॥
जीवामो ऽद्य महाबाहो निष्क्रान्ताश् चान्तकाननात् ॥
त्वच्छासनाद् धि भगवन् किं कुर्वन्त्व् अदितेः सुताः ।
इच्छामः पादशुश्रूषां तव कर्तुं सनातन ॥
तच् छ्रुत्वा वचनं तेषां पुण्डरीकनिभेक्षणः ।
उवाच वचनं देवान् मुदा युक्तो हतद्विषः ॥
यो ऽयं स भवतां लोको मयैव विहितः पुरा ।
पाल्यतां स तु यत्नेन प्राधान्येन क्वचित् क्वचित् ॥
ऐश्वर्यं प्रतिपन्नाः स्थ क्रतुभागपुरस्कृतम् ।
मयैव पूर्वं निर्दिष्टो नियोगः परिपाल्यताम् ॥
शक्रं प्रोवाच भगवान् वचनं दुंदुभिस्वनः ।
इदं यथावत् कर्तव्यं सत्सु चासत्सु च त्वया ॥
गच्छन्तु तपसा स्वर्गं मुनयः संशितव्रताः ।
तव लोकं सुरश्रेष्ठ सर्वकामदुघं सदा ॥
यायजूकाश् च ये केचिद् ब्राह्मणाः क्षत्रिया विशः ।
तेषां कामदुघा लोकाः स्वर्गम् आदिमनोहराः ॥
यज्ञैर् इष्ट्वा यायजूकाः फलं ते प्राप्नुवन्तु च ॥
भावः स्वधर्मशीलानाम् अभावः पापकर्मणाम् ।
सन्तः स्वर्गजितः सन्तु सर्वाश्रमनिवासिनः ॥
सत्यशूरा दानशूरा रणशूराश् च ये नराः ।
ते स्वर्गफलम् अश्नन्तु सदा ये चानसूयकाः ॥
अश्रद्दधानाः पुरुषाः कामिनो ऽर्थपराः शठाः ।
अब्रह्मण्या नास्तिकाश् च नरकं यान्तु मानवाः ॥
योगिनो मां तु ये देवं भजन्ते योगतत्पराः ।
नमस्कार्यास् त्वया शक्र भक्तप्रवणचेतसा ॥
सदा मां ध्याहि देवेश श्रेयस् तव भविष्यति ।
मत्परो भव देवेश मां नमस्कुरु यत्नतः ।
इदम् एव परं श्रेयो नात्र कार्या विचारणा ॥
एतावत् क्रियतां वाक्यं मयोक्तं त्रिदशेश्वराः ।
ततो मयि स्थिते सर्वान् बाधिष्यन्ते न चारयः ॥
इत्य् उक्त्वान्तर्हितो देवः शङ्खचक्रगदाधरः ।
देवतानां च सर्वेषाम् अभवद् विस्मयो महान् ॥
एतद् अत्यद्भुतं दृष्ट्वा वराहचरितं सुराः ।
नमस्कृत्वा वराहाय नाकपृष्ठम् इतो गताः ॥
ततः स्वान्य् आधिपत्यानि प्रतिपन्नानि दैवतैः ।
सर्वलोकाधिपत्ये च प्रतिष्ठां वासवो गतः ।
विमुक्ता दानवगणैः प्रकृतिं धरणी गता ॥
स्थैर्यहेतोर् धरण्यास् तु ज्ञात्वा चागस्कृतान् गिरीन् ।
स्वेषु स्थानेषु संस्थाप्य पर्वतानां पुरंदरः ।
चिच्छेद भगवान् पक्षान् वज्रेण शतपर्वणा ॥
सर्वेषाम् एव पक्षा वै छिन्नाः शक्रेण धीमता ।
एकः सपक्षो मैनाकः सुरैस् तत्समयः कृतः ॥
एष नारायणस्याद्यः प्रादुर्भावो महात्मनः ।
वाराह इति विप्रेन्द्रैः पुराणे परिकीर्तितः ॥
कृष्णद्वैपायनमतं नानाश्रुतिसमाहितम् ।
नाशूचेर्न कृतघ्नाय नृशंसाय न कीर्तयेत् ॥
न क्षुद्राय न नीचाय न गुरुद्वेषकारिणे ।
नाशिष्याय तथा राजन् न कृतघ्नाय चैव हि ॥
आयुष्कामैर् यशस्कामैर् महीकामैश् च मानवैः ।
जयैषिभिश् च श्रोतव्यो देवानाम् एष वै जयः ॥
पुराणो वेदसंबद्धः शिवः स्वस्त्ययनो महान् ।
पावनः सर्वभूतानां सात्त्विको विजयंकरः ॥
एष कौरव्य तत्त्वेन कथितस् ते ऽनुपूर्वशः ।
वराहस्य नरश्रेष्ठ प्रादुर्भावो महात्मनः ॥
ये यजन्ति मखैः पुण्यैर् दैवतानि पितॄन् अपि ।
आत्मानम् आत्मना नित्यं विष्णुम् एव यजन्ति ते ॥
लोकायनाय त्रिदशायनाय @
ब्रह्मायनायात्मभवायनाय ।
नारायणायात्महितायनाय @
महावराहाय नमस्कुरुष्व ॥
वाराह एष कथितो नारसिंहम् अतः शृणु ।
वाराह एष कथितो नारसिंहम् अतः परम् ।
कथयस्व महाभाग हिरण्यकशिपोर् वधम् ।
यत्र भूत्वा मृगेन्द्रेण हिरण्यकशिपुर् हतः ॥
पुरा कृतयुगे राजन् हिरण्यकशिपुः प्रभुः ।
दैत्यानाम् आदिपुरुषश् चकार सुमहत्तपः ॥
दशवर्षसहस्राणि शतानि दश पञ्च च ।
जलवासी समभवत् स्थानमौनधृतव्रतः ॥
ततः शमदमाभ्यां च ब्रह्मचर्येण चैव ह ।
ब्रह्मा प्रीतो ऽभवत् तस्य तपसा नियमेन च ॥
ततः स्वयंभूर् भगवान् स्वयम् आगत्य तत्र ह ।
विमानेनार्कवर्णेन हंसयुक्तेन भास्वता ॥
आदित्यैर् वसुभिः साध्यैर् मरुद्भिर् दैवतैः सह ।
रुद्रैर् विश्वसहायैश् च यक्षराक्षसकिंनरैः ॥
दिग्भिश् चापि विदिग्भिश् च नदीभिः सागरैस् तथा ।
नक्षत्रैश् च मुहूर्तैश् च खेचरैश् च महाग्रहैः ॥
देवैर् ब्रह्मर्षिभिः सार्धं सिद्धैः सप्तर्षिभिस् तथा ।
राजर्षिभिः पुण्यकृद्भिर् गन्धर्वैर् अप्सरोगणैः ॥
चराचरगुरुः श्रीमान् वृतो देवगणैः सह ।
ब्रह्मा ब्रह्मविदां श्रेष्ठो दैत्यं वचनम् अब्रवीत् ॥
प्रीतो ऽस्मि तव भक्तस्य तपसानेन सुव्रत ।
वरं वरय भद्रं ते यथेष्टं कामम् आप्नुहि ॥
ततो हिरण्यकशिपुः प्रीतात्मा दानवोत्तमः ।
कृताञ्जलिपुटः श्रीमान् वचनं चेदम् अब्रवीत् ।
न देवासुरगन्धर्वा न यक्षोरगराक्षसाः ।
न मानुषाः पिशाचाश् च निहन्युर् मां कथंचन ॥
ऋषयो नैव मां क्रुद्धाः सर्वलोकपितामह ।
शपेयुस् तपसा युक्ता वर एष वृतो मया ॥
न शस्त्रेण न चास्त्रेण गिरिणा पादपेन वा ।
न शुष्केण न चार्द्रेण न चान्येनापि मे वधः ॥
नाकाशे वा न भूमौ वा रात्रौ वा दिवसे ऽपि वा ।
नान्तर्धाने बहिर् वापि स्याद् वधो मे पितामह ।
पशुभिर् वा मृगैर् न स्यात् पक्षिभिर् वा सरीसृपैः ।
न केनचिद् भवेद् ब्रह्मन् मृत्युर् मे लोकभावन ।
न स्वर्गे ऽप्य् अथ पाताले नाकाशे नावनिस्थले ।
न चाभ्यन्तररात्र्यह्नोर् न चाप्यन्येन मे वधः ॥
पाणिप्रहारेणैकेन सभृत्यबलवाहनम् ।
यो मां नाशयितुं शक्तः स मे मृत्युर् भविष्यति ॥
भवेयम् अहम् एवार्कः सोमो वायुर् हुताशनः ।
सलिलं चान्तरिक्षं च नक्षत्राणि दिशो दश ॥
अहं क्रोधश् च कामश् च वरुणो वासवो यमः ।
धनदश् च धनाध्यक्षो यक्षः किंपुरुषाधिपः ॥
मूर्तिमन्ति च दिव्यानि ममास्त्राणि महाहवे ।
उपतिष्ठन्तु देवेश सर्वलोकपितामह ॥
ददासि चेद् वरान् एतान् देवदेव वृणोम्य् अहम् ।
एते दिव्या वरास् तात मया दत्तास् तवाद्भुताः ।
सर्वकामप्रदा वत्स प्राप्स्यसे तान् न संशयः ॥
एवम् उक्त्वा स भगवाञ् जगामाकाशम् एव च ।
वैराजं ब्रह्मसदनं ब्रह्मर्षिगणसेवितम् ॥
ततो देवाश् च नागाश् च गन्धर्वा ऋषिभिः सह ।
वरप्रदानं श्रुत्वैव पितामहम् उपस्थिताः ॥
वरेणानेन भगवन् वधिष्यति स नो ऽसुरः ।
तत् प्रसीदस्व भगवन् वधो ऽप्य् अस्य विचित्यताम् ॥
भगवान् सर्वभूतानाम् आदिकर्ता स्वयं प्रभुः ।
स्रष्टा च हव्यकव्यानाम् अव्यक्तः प्रकृतिर् ध्रुवः ॥
सर्वलोकहितं वाक्यं श्रुत्वा देवः प्रजापतिः ।
आश्वासयाम् आस सुरान् सुशीतैर् वचनाम्बुभिः ॥
अवश्यं त्रिदसास् तेन प्राप्तव्यं तपसः फलम् ।
तपसो ऽन्ते ऽस्य भगवान् वधं विष्णुः करिष्यति ॥
एतच् छ्रुत्वा सुराः सर्वे वाक्यं पङ्कजजन्मनः ।
स्वानि स्थानानि दिव्यानि प्रतिजग्मुर् मुदान्विताः ॥
लब्धमात्रे वरे तस्मिन् सर्वाः सो ऽबाधत प्रजाः ।
हिरण्यकशिपुर् दैत्यो वरदानेन दर्पितः ॥
आश्रमेषु मुनीन् सर्वान् ब्राह्मणान् संशितव्रतान् ।
सत्यधर्मरतान् दान्तान् धर्षयाम् आस वीर्यवान् ॥
स्वर्गश्रेणीं समालोक्य गृहीत्वैरावतं बलात् ।
इन्द्रं च पोथयाम् आस बबाधे स तु संयुगे ॥
स तु स्वर्गं परित्यज्य गतः शक्रः शचीपतिः ।
यमलोकं समागम्य यमं वैवस्वतं रणे ॥
पराजित्य महायुद्धे कालमृत्युं तथैव च ।
याम्यान् अथ समाजघ्ने दैत्यो दानवसंवृतः ॥
नरकस्थान् समानीय स्वर्गस्थांस् तांश् चकार ह ।
ततो ऽथ वरुणं देवं पराजित्य महारणे ॥
वारुणांश् च तथा पाशांश् छित्वा दानवपुंगवः ।
दानवान् स्थापयाम् आस यथेष्टं दानवेश्वरः ॥
सौम्यां दिशम् अथो गत्वा कुबेरम् अथ संयुगे ।
गृहीत्वा सबलं तं तु पद्मशङ्खौ समाददे ।
अलकायां तथा दैत्यान् स्थापयाम् आस दानवः ॥
देवांस् त्रिभुवनस्थांश् च पराजित्य महासुरः ।
त्रैलोक्यं वशम् आनीय स्वर्गे वसति दानवः ॥
यदा वरमदोन्मत्तश् चोदितः कालधर्मणा ।
यज्ञियान् अकरोद् दैत्यान् देवांश् चैवाप्य् अयज्ञियान् ॥
यथेष्टं बुभुजे लोकान् दानवो विगतज्वरः ।
अनेककालः सुमहान् व्यतीयाद् दानवस्य ह ॥
अथादित्याश् च साध्याश् च विश्वे च वसवस् तथा ।
रुद्रा देवगणा यक्षा देवद्विजमहर्षयः ॥
जितास् तेन महाराज दैत्येन च महौजसा ।
शरण्यं शरणं विष्णुम् उपतस्थुर् महाबलम् ।
देवं देवमयं यज्ञं ब्रह्मदेवं सनातनम् ॥
भूतं भव्यं भविष्यं च प्रजालोकनमस्कृतम् ।
नारायणं महादेवं देवास् त्वां शरणं गताः ॥
त्वं हि नः परमो धाता त्वं हि नः परमो गुरुः ।
त्वं हि नः परमो देवो ब्रह्मादीनां सुरोत्तम ॥
त्वं फुल्लामलपत्राक्ष शत्रुपक्षक्षयावह ।
क्षयाय दितिवंशस्य शरणं भव नः प्रभो ॥
त्रायस्व जहि दैत्येन्द्रं हिरण्यकशिपुं प्रभो ।
भयं त्यजध्वम् अमरा अभयं वो ददाम्य् अहम् ।
तथैव त्रिदिवं देवाः प्रतिपत्स्यथ माचिरम् ॥
एषो ऽहं सगणं दैत्यं वरदानेन दर्पितम् ।
अवध्यम् अमरेन्द्राणां दानवेन्द्रं निहन्म्य् अहम् ॥
एवम् उक्त्वा तु भगवान् विसृज्य त्रिदिवौकसः ।
वधं संकल्पयित्वा तु हिरण्यकशिपोः प्रभुः ।
सो ऽचिरेणैव कालेन हिमवत्पार्श्वम् आगतः ॥
किं नु रूपं समास्थाय निहन्म्य् एनं महासुरम् ।
यत् सिद्धिकरम् आशु स्याद् वधाय विबुधद्विषः ॥
अनुत्पन्नं ततश् चक्रे सो ऽत्यन्तं रूपम् ईश्वरः ।
नारसिंहम् अनाधृष्यं दैत्यदानवरक्षसाम् ॥
सहायं तु महाबाहुर् जग्राहोंकारम् एव च ॥
अथोंकारसहायो ऽसौ भगवान् विष्णुर् अच्युतः ।
हिरण्यकशिपोः स्थानं जगाम प्रभुर् ईश्वरः ॥
तेजसा भास्कर इव कान्त्या चन्द्र इवापरः ।
नरस्य कृत्वार्धतनुं सिंहस्यार्धतनुं प्रभुः ।
नारसिंहेन वपुषा पाणिं संस्पृश्य पाणिना ॥
ततो ऽपश्यत् सुविस्तीर्णां दिव्यां रम्यां मनोरमाम् ।
सर्वकामयुतां शुभ्रां हिरण्यकशिपोः सभाम् ॥
विस्तीर्णां योजनशतं शतम् अध्यर्धम् आयताम् ।
वैहायसीं कामगमां पञ्चयोजनम् उच्छ्रिताम् ॥
सर्वलोकगुणोपेतां दिव्यां गन्धवहां शुभाम् ।
जराशोकक्लमत्यक्तां निष्प्रकम्पां शिवां शुभाम् ।
शुभ्रासनवतीं रम्यां ज्वलन्तीम् इव तेजसा ॥
अन्तःसलिलसंयुक्तां विहितां विश्वकर्मणा ।
दिव्यरत्नमयैर् वृक्षैः फलपुष्पप्रदैर् युताम् ॥
नीलपीतासितश्यामैः सितैर् लोहितकैर् अपि ।
अवतानैस् तथा गुल्मैर् मञ्जरीशतधारिभिः ॥
सिताभ्रघनसंकाशा प्लवन्तीवाप्सु दृश्यते ।
भास्वरा दिव्यगन्धा च रश्मिमत्य् अपि चातुला ।
शय्यासनवती रम्या ज्वलन्तीव च तेजसा ॥
प्रभावती भासुरा च दिव्यगन्धा मनोरमा ।
नासुखा न च दुह्खा सा न शीता न च घर्मदा ॥
न क्षुत्पिपासे ग्लानिं वा प्राप्य तां प्राप्नुवन्ति ह ।
नानारूपैर् विरचिता विचित्रैर् अतिभास्वरैः ॥
स्तम्भैर् मणिमयैर् दिव्यैः शाश्वती चाक्षया च या ।
अति चन्द्रं च सूर्यं च पावकं च स्वयंप्रभा ।
दीप्यते नाकपृष्ठस्था भर्त्सयन्तीव भास्करम् ॥
सर्वे च कामाः प्रचुरा ये दिव्या ये च मानुषाः ।
रसवन्तः प्रभूताश् च भक्ष्यं भोज्यं तथाक्षयम् ॥
पुण्यगन्धाः स्रजस् तत्र नित्यपुष्पफलद्रुमाः ।
उष्णे शीतानि तोयानि शीते चोष्णानि सन्ति वै ।
पुष्पिताग्रा महाशाखाः प्रवालाङ्कुरधारिणः ॥
लतावितानसंछन्नाः सरःसु च सरित्सु च ।
मनोहरांश् च विविधान् ददर्श स तदा प्रभुः ॥
द्रुमान् बहुविधांस् तत्र मृगेन्द्रो ददृशे प्रभुः ।
गन्धवन्ति च पुष्पाणि रसवन्ति फलानि च ॥
तानि शीतानि तोयानि तत्र तत्र सरांसि च ।
अपश्यत् सर्वतीर्थानि सभायां तस्य वै प्रभुः ॥
नलिनैः पुण्डरीकैश् च शतपत्रैः सुगन्धिभिः ।
रक्तैः कुवलयैर् नीलैः कुमुदैः संततानि च ॥
सकान्तैर् धार्तराष्ट्रैश् च राजहंसैः सरःप्रियैः ।
कादम्बैश् चक्रवाकैश् च सारसैः कुररैर् अपि ॥
विमलस्फटिकाभानि पाण्डुरच्छदनानि च ।
कलहंसोपगीतानि सारसाभिरुतानि च ॥
गन्धवत्यः शुभास् तत्र पुष्पमञ्जरिधारिणीः ।
दृष्टवान् पादपाग्रेषु नानापुष्पधरा लताः ॥
केतकाशोकसरलाः पुन्नागतिलकार्जुनाः ।
चूता नीपा नागपुष्पाः कदम्बा बकुला धवाः ॥
प्रियङ्गुपाटला वृक्षाः शाल्मल्यः सहरिद्रवाः ।
सालास् तालाः प्रियालाश् च चम्पकाश् च मनोहराः ॥
तथैवान्ये व्यराजन्त सभायां पुष्पिता द्रुमाः ।
विद्रुमाश् च द्रुमानीका दावाग्निज्वलितप्रभाः ।
स्कन्धवन्तः सुशाखाश् च बहुतालसमुच्छ्रयाः ॥
अञ्जनाशोकवर्णाभा भान्ति वञ्जुलका द्रुमाः ।
वरणा वत्सनाभाश् च असनाः स्यन्दनैः सह ।
नीलाः सुमनसश् चैव पीताः साश्वत्थतिन्दुकाः ॥
निम्बाश् च बर्बराश् चैव वृक्षाः साश्वत्थतिन्दुकाः ।
अङ्कोलोदुम्बराश् चैव किंशुका भूर्जपत्रकाः ॥
प्राचीनामलका लोध्रा मल्लिका भद्रदारवः ।
आम्रातकास् तथा जम्बूर् लकुचाश् चैलवालुकाः ॥
सर्जरसाः कुन्दरवाः पतङ्गाः कुटजास् तथा ।
रक्ताः कुरबकाश् चैव नीपाश् चागुरुभिः सह ॥
कदम्बाश् चैव भव्याश् च दाडिमा बीजपूरकाः ।
कालीयका दुकूलाश् च हिङ्गवस् तैलपर्णिकाः ॥
खर्जूरा नारिकेलाश् च धर्मवृक्षा हरीतकी ।
मधुकाः सप्तपर्णाश् च बिल्वाः पारावतास् तथा ॥
पनसाश् च तमालाश् च नानागुल्मलतावृताः ।
लताश् च विविधाकाराः पुष्पपत्रफलोपगाः ॥
एते चान्ये च बहवस् तत्र काननजा द्रुमाः ।
नानापुष्फफलोपेता व्यराजन्त समन्ततः ॥
चकोराः शतपत्राश् च मत्तकोकिलसारिकाः ।
पुष्पितान् पुष्पिताग्रांश् च संपतन्ति महाद्रुमान् ॥
रक्तपीतारुणास् तत्र पादपाग्रगता द्विजाः ।
परस्परम् अवैक्षन्त प्रहृष्टा जीवजीवकाः ॥
तस्यां सभायां दैत्येन्द्रो हिरण्यकशिपुस् तदा ।
आसीन आसने चित्रे नल्वमात्रे प्रमाणतः ॥
दिवाकरनिभे दिव्ये दिव्यास्तरणसंवृते ।
रराज सुचिरं राजञ् ज्वलत्काञ्चनकुण्डलः ॥
तस्य दैत्यपतेर् मन्दं विरजस्कः समन्ततः ।
दिव्यगन्धवहस् तत्र मारुतः सुसुखो ववौ ॥
तत्र देवाः सगन्धर्वा गणैर् अप्सरसां वृताः ।
दिव्यतालेन दिव्यानि जगुर् गीतानि गायनाः ॥
विश्वाची सहजन्या च प्रम्लोचेत्य् अभिविश्रुताः ।
दिव्या च सौरभेयी च समीची पुञ्जिकस्थला ॥
मिश्रकेशी च रम्भा च चित्रसेना शुचिस्मिता ।
चारुनेत्रा घृताची च मेनका चोर्वशी तथा ॥
एताः सहस्रशश् चान्या नृत्यवादित्रकोविदाः ।
उपतिष्ठन्ति राजानं हिरण्यकशिपुं तदा ॥
उपचेरुर् इमं दैत्यं हिरण्यकशिपुं प्रभुम् ।
हिरण्यकशिपुस् तत्र विचित्राभरणाम्बरः ।
स्त्रीसहस्रैः परिवृतस् तस्थौ ज्वलितकुण्डलः ॥
तत्रासीनं महाबाहुं हिरण्यकशिपुं प्रभुम् ।
उपासन्त दितेः पुत्राः सर्वे लब्धवराः पुरा ॥
बलिर् विरोचनस् तत्र नरकः पृथिवीजयः ।
प्रह्लादो विप्रचित्तिश् च गविष्ठश् च महासुरः ॥
चक्रहन्ता क्रोधहन्ता सुमनाः सुमतिस्वनः ।
घटोदरो महापार्श्वः क्रथनः पिठरस् तथा ॥
विश्वरूपः सुरूपश् च विरूपश् च महाद्युतिः ।
दशग्रीवश् च वाली च मेघवासा महारवः ॥
घटाभो विकटाभश् च संह्रादश् चेन्द्रतापनः ।
दैत्यदानवसंघाश् च सर्वे ज्वलितकुण्डलाः ॥
स्रग्विणो वाग्मिनः सर्वे सर्वे सुचरितव्रताः ।
सर्वे लब्धवराः शूराः सर्वे विगतमृत्यवः ॥
एते चान्ये च बहवो हिरण्यकशिपुं प्रभुम् ।
उपासन्ते महात्मानं सर्वे दिव्यपरिच्छदाः ॥
विमानैर् विविधैर् अग्र्यैर् भ्राजमानैर् इवार्चिभिः ।
स्रग्विणो भूषिताः सर्वे यान्ति चायान्ति चापरे ॥
विचित्राभरणोपेता विचित्रवसनास् तथा ।
विचित्रशस्त्रकवचा विचित्रध्वजवाहनाः ॥
महेन्द्रचापसंकाशैर् विचित्रैर् अङ्गदैर् वरैः ।
भूषिताङ्गा दितेः पुत्रास् तम् उपासन्त सर्वशः ॥
तस्यां सभायां दिव्यायाम् असुराः पर्वतोपमाः ।
हिरण्यमुकुटाः सर्वे दिवाकरकरप्रभाः ॥
कनकमणिविचित्रवेदिकायाम् @
उपहितवेदिसवज्रवीथिकायाम् ।
स ददर्श मृगाधिपः सभायां @
सुरुचिरदन्तगवाक्षसंवृतायाम् ॥
कनककमलहारभूषिताण्गं @
दितितनयं स मृगाधिपो ददर्श ।
दिवसकरकरप्रभं ज्वलन्तम् @
असुरसहस्रगणैर् निषेव्यमाणम् ॥
ततो दृष्ट्वा महाबाहुं कालचक्रम् इवागतम् ।
नारसिंहवपुश् छन्नं भस्मच्छन्नम् इवानलम् ॥
विकुञ्चितसटान्तस्य नारसिंहस्य भारत ।
रूपौदार्यं बभौ तत्र समस्तं शशिसंनिभम् ॥
अहो रूपम् इदं चित्रं शङ्खकुन्देन्दुसंनिभम् ।
अब्रुवन् दानवाः सर्वे हिरण्यकशिपुश् च सः ॥
एवं हि ब्रुवतां तेषां निर्दग्धानां महात्मनाम् ।
नारसिंहेन चक्षुर्भ्यां चोदिताः कालधर्मणा ॥
हिरण्यकशिपोः पुत्रः प्रह्रादो नाम वीर्यवान् ।
साक्षाद् योगेश्वरो योगी तन्मयस् तत्परायणः ।
दिव्येन चक्षुषा सिंहम् अपश्यद् देवम् आगतम् ॥
तं दृष्ट्वा रुक्मशैलाभम् अपूर्वां तनुम् आस्थितम् ।
विस्मिता दानवाः सर्वे हिरण्यकशिपुश् च सः ॥
महाराज महाबाहो दैत्यानाम् आदिसंभव ।
न श्रुतं नैव नो दृष्टं नारसिंहम् इदं वपुः ॥
अव्यक्तप्रभवं दिव्यं किम् इदं रूपम् अद्भुतम् ।
दैत्यान्तकरणं घोरं शंसतीव मनांसि नः ॥
अस्य देवाः शरीरस्थाः सागराः सरितस् तथा ।
हिमवान् पारियात्रश् च ये चान्ये कुलपर्वताः ॥
चन्द्रमाः सह नक्षत्रैर् आदित्याश् चाग्निना सह ।
धनदो वरुणश् चैव यमः शक्रः शचीपतिः ॥
मरुतो देवगन्धर्वा ऋषयश् च तपोधनाः ।
नागा यक्षाः पिशाचाश् च राक्षसा भीमविक्रमाः ॥
ब्रह्मा देवः पशुपतिर् ललाटस्था विभान्ति वै ।
स्थावराणि च भूतानि जङ्गमानि तथैव च ॥
भवांश् च सहितो ऽस्माभिः सर्वदैत्यगणैर् वृतः ।
विमानशतसंकीर्णा तथाभ्यन्तरजा सभा ॥
सर्वं त्रिभुवनं राजंल् लोकधर्मश् च शाश्वतः ।
दृश्यते नारसिंहे ऽस्मिन् यथेन्दौ विमले जगत् ॥
प्रजापतिश् चात्र मनुर् महात्मा @
ग्रहाश् च यागाश् च मही नभश् च ।
उत्पातकालश् च धृतिः स्मृतिश् च @
रजश् च सत्त्वं च तमो दमश् च ॥
सनत्कुमारश् च महानुभावो @
विश्वे च देवा वसवश् च सर्वे ।
क्रोधश् च कामश् च तथैव हर्षो @
दर्पश् च मोहः पितरश् च सर्वे ॥
इत्य् एवम् उक्त्वा स च दैत्यराजं @
हिरण्यनामानम् अविस्मयेन ।
दध्यौ च दैत्येश्वरपुत्र उग्रं @
महामतिः किंचिद् अधोमुखः प्राक् ॥
पाहि तीव्रं महाराज कालरूपो हि दृश्यते ।
एवं ब्रुवति वै पुत्रे रोषाक्रान्तभयस् तदा ॥
यः प्राणः सर्वभूतानां यः क्रतुः स्वयम् एव ह ।
प्रणवः सर्ववेदानां सो ऽयं विष्णुः सनातनः ॥
प्रमाणैर् अपरिच्छेद्यः प्रमाणं यः प्रचक्षते ।
आदिदेवः सहस्रांशुः सामगः सामवाचकः ॥
ऋङ्मयो ऽयं पुराणात्मा यज्ञरूपः सनातनः ।
योगिध्येयः सदा दान्तः पूज्यो हि सततं प्रभो ॥
सुखदः सर्वदो नित्यम् आदिकर्ता जनार्दनः ।
नमस्कुरुष्व यत्नेन भूयो भूयः पितः कुरु ॥
प्रह्रादस्य ततः श्रूत्वा हिरण्यकशिपुर् वचः ।
ध्वंसेति च तदा पुत्रं रोषाद् आह नृपोत्तम ।
को ऽयं विष्णुस् त्वया ज्ञेयः को ऽयं देवः सनातनः ।
अयं किल सदा विष्णुर् मोक्षिभिर् ध्येय इत्य् उत ॥
इत्य् अबद्धं तदा दैत्यः क्रुद्धो दृष्ट्वा जनार्दनम् ।
उवाच दानवान् सर्वान् सगणांश् च गणाधिपः ॥
मृगेन्द्रो गृह्यतां शीघ्रम् अपूर्वां तनुम् आस्थितः ।
यदि वा संशयः कश्चिद् वध्यतां वनगोचरः ॥
श्रुत्वा तु वचनं तस्य हिरण्यकशिपोस् तदा ।
तच् छ्रुत्वा दानवाः सर्वे मृगेन्द्रं भीमविक्रमम् ।
परिक्षिपन्तो मुदितास् त्रासयाम् आसुर् ओजसा ॥
दश पञ्च तथा कोटिर् दानवाथ महाबलाः ।
न विव्यथुर् महासिंहे सुरास्त्रा दिव्यरूपिणः ॥
सिंहनादं विमुच्याथ नरसिंहो महाबलः ।
हुंकारेण तदा सर्वान् दानवांस् त्रासयन् हरिः ।
बभञ्ज तां सभां दिव्यां व्यादितास्य इवान्तकः ॥
सभायां भज्यमानायां हिरंयकशिपुः स्वयम् ।
उत्थाय चासनात् तस्मात् सिंहनादं व्यमुञ्चत ।
चिक्षेपास्त्राणि सिंहस्य रोषव्याकुललोचनः ॥
सर्वास्त्राणाम् अथ श्रेष्ठं दण्डम् अस्त्रं सुभैरवम् ।
कालचक्रं तथात्युग्रं विष्णुचक्रं तथापरम् ॥
धर्मचक्रं महाचक्रम् अजितं नाम नामतः ।
चक्रम् ऐन्द्रं तथा घोरम् ऋषिचक्रं तथैव च ॥
पैतामहं तथा चक्रं त्रैलोक्यम् अहितस्वरम् ।
विचित्राम् अशनीं चैव शुष्कार्द्रं चाशनिद्वयम् ॥
रौद्रं तद् उग्रं शूलं च कङ्कालं मुसलं तथा ।
अस्त्रं ब्रह्मशिरश् चैव ब्राह्मम् अस्त्रं तथैव च ॥
ऐषीकम् अस्त्रम् ऐन्द्रं च आग्नेयं शैशिरं तथा ।
वायव्यं मथनं नाम कापालम् अथ किंकरम् ॥
तथा चाप्रतिमां शक्तिं क्रौञ्चम् अस्त्रं तथैव च ।
अस्त्रं हयशिरश् चैव सोमास्त्रं शिशिरप्रभम् ॥
पैशाचम् अस्त्रम् अमितं सार्पम् अस्त्रं तथाद्भुतम् ।
मोहनं शोषणं चैव संतापनविलापनम् ॥
दर्पणं पातनं चैव त्वाष्ट्रं चैव सुदारुणम् ।
कालमुद्गरम् अक्षोभ्यं क्षोभणं च महाबलम् ॥
संवर्तं मोहनं चैव तथा मायाधरं परम् ।
गान्धर्वम् अस्त्रं दयितम् असिरत्नं च नन्दकम् ॥
प्रस्वापनं प्रमथनं वारुणं चास्त्रम् उत्तमम् ।
अस्त्रं पाशुपतं चैव यस्याप्रतिहता गतिः ॥
एतान्य् अस्त्राणि सर्वाणि हिरण्यकशिपुस् तदा ।
चिक्षेप नारसिंहस्य दीप्तस्याग्रेर् यथाहुतिः ॥
अस्त्रैः प्रज्वलितैः सिंहम् आवृणोद् असुराधिपः ।
विवस्वान् घर्मसमये हिमवन्तम् इवांशुभिः ॥
स हि वर्षानिलोद्धूतो दैत्यानां सैन्यसागरः ।
क्षणेनाप्लावयत् सिंहं मैनाकम् इव सागरः ॥
प्रासैः पाशैश् च शूलैश् च गदाभिर् मुसलैस् तथा ।
वज्रैर् अशनिकल्पैश् च शिलाभिश् च महाद्रुमैः ॥
मुद्गरैः कूटपाशैश् च शूलोलूखलपर्वतैः ।
शतघ्नीभिश् च दीप्ताभिर् दण्डैर् अपि सुदारुणैः ॥
परिवार्य समन्तात् तु निहन्युस् ते हरिं तदा ।
स्वल्पम् अप्य् अस्य न क्षुण्णं ऊर्जितस्य महात्मनः ॥
ते दानवाः पाशगृहीतहस्ता @
महेन्द्रवज्राशनितुल्यवेगाः ।
समन्ततो ऽभ्युद्यतबाहुशस्त्राः @
स्थितास्त्रिशीर्षा इव नागपोताः ॥
सुवर्णमालाकुलभूषिताङ्गाश् @
चीनांशुकाभोगविभूषिताङ्गाः ।
मुक्तावलीदामविभूषिताङ्गा @
हंसा इवाभान्ति विशालपक्षाः ॥
तेषां च वायुप्रतिमौजसां वै @
केयूरमालावलयोत्कटानि ।
तान्य् उत्तमाङ्गान्य् अभितो विभान्ति @
प्रभातसूर्यांशुसमप्रभाणि ॥
क्षिपद्भिर् उग्रज्वलितानलोपमैर् @
महास्त्रपूगैः स समावृतो बभौ ।
गिरिर् यथा संततवर्षिभिर् घनैः @
कृतान्धकारो ऽद्भुतकन्दरद्रुमः ॥
तैर् हन्यमानो ऽपि महास्त्रजालैर् @
महाबलैर् दैत्यगणैः समेतैः ।
नाकम्पताजौ भगवान् प्रतापवान् @
स्थितः प्रकृत्या हिमवान् इवाचलः ॥
संतापितास्ते नरसिंहरूपिणा @
दितेः सुताः पावकदीप्ततेजसः ।
भयाद् विचेलुः पवनोद्धुता यथा @
महोर्मयः सागरवारिसंभवाः ॥
शतैर् धनुर्भिः सुमहातिवेगतो @
युगान्तकालप्रतिमाञ् शरौघान् ।
एकायनस्थे मुमुचुर् नृसिंहे @
महासुराः क्रोधविदीपिताक्षाः ॥
खराः खरमुखाश् चैव मकराशीविषाननाः ।
ईहामृगमुखाश् चान्ये वराहमुखसंस्थिताः ॥
बालसूर्यमुखाश् चैव धूमकेतुमुखास् तथा ।
चन्द्रार्धचन्द्रवक्त्राश् च दीप्ताग्निप्रमुखास् तथा ॥
हंसकुक्कुटवक्त्राश् च व्यादितास्या भयावहाः ।
पञ्चास्या लेलिहानाश् च काकगृध्रमुखास् तथा ॥
विद्युज्जिह्वास्त्रिशीर्षाश् च तथोल्कामुखसंस्थिताः ।
महाग्रहनिभाश् चान्ये दानवा बलदर्पिताः ॥
कैलासवपुषस् तस्य शरीरे शरवृष्टयः ।
अवध्यस्य मृगेन्द्रस्य न व्यथां चक्रुर् आहवे ॥
एवं भूयो ऽपरान् घोरान् असृजन् दानवाः शरान् ।
मृगेन्द्रस्योरसि क्रुद्धा निःश्वसन्त इवोरगाः ॥
ते दानवशरा घोरा मृगेन्द्राय समीरिताः ।
विलयं जग्मुर् आकाशे खद्योता इव पर्वते ॥
ततश् चक्राणि दिव्यानि दैत्याः क्रोधसमन्विताः ।
मृगेन्द्राय क्षिपन्त्य् आशु प्रज्वलन्तीव सर्वशः ॥
तैर् आसीद् गगनं चक्रैः संपतद्भिः समावृतम् ।
युगान्ते संप्रकाशद्भिश् चन्द्रसूर्यग्रहैर् इव ॥
तानि चक्राणि दिव्यानि मृगेन्द्रेण महात्मना ।
ग्रस्तान्य् उदीर्णानि तदा पावकार्चिःसमानि वै ॥
तानि चक्राणि वदनं प्रविशन्ति विभान्ति वै ।
मेघोदरदरीं घोरां चन्द्रसूर्यग्रहाव् इव ॥
तानि चक्राणि सर्वाणि मृगेन्द्रेण महात्मना ।
निगीर्णानि प्रदीप्तानि पावकार्चिःसमानि वै ॥
हिरण्यकशिपुर् दैत्यो भूयः प्रासृजद् ऊर्जिताम् ।
शक्तिं प्रज्वलितां घोरां हुताशनतडित्प्रभाम् ॥
ताम् आपतन्तीं संप्रेक्ष्य मृगेन्द्रः शक्तिम् उत्तमाम् ।
हुंकारेणैव रौद्रेण बभञ्ज भगवांस् तदा ॥
रराज भग्ना सा शक्तिर् मृगेन्द्रेण महीं तले ।
सविस्फुलिङ्गा ज्वलिता महोल्केव नभश्च्युता ॥
नाराचपङ्क्तिः सिंहस्य सृष्टा रेजे विदूरतः ।
नीलोत्पलपलाशानां मालेवोज्ज्वलदर्शना ॥
गर्जित्वा तु यथाकामं विक्रम्य च यथासुखम् ।
तत् सैन्यम् उत्सारितवांस् तृणाग्राणीव मारुतः ॥
ततो ऽश्मवर्षं दैत्येन्द्रा व्यसृजन्त नभोगताः ।
नगमात्रैः शिलाखण्डैर् गिरिकूटैर् महाप्रभैः ॥
तद् अश्मवर्षं सिंहस्य गात्रे निपतितं महत् ।
दिशो दश प्रकीर्णं हि खद्योतप्रकरो यथा ॥
तमश्मौघैर् दितिसुतास् तदा सिंहम् अरिंदमम् ।
प्राच्छादयन् यथा मेघा धाराभिर् इव पर्वतम् ॥
न च तं चालयाम् आसुर् दैत्यौघा देवम् आस्थितम् ।
भीमवेगा बलश्रेष्ठं समुद्र इव मन्दरम् ॥
ततो ऽश्मवर्षे निहते जलवर्षम् अनन्तरम् ।
धाराभिर् अक्षमात्राभिः प्रादुर् आसीत् समन्ततः ॥
नभसः प्रच्युता धारास् तिग्मवेगाः सहस्रशः ।
आवृण्वन् सर्वतो व्योम दिशश् चोपदिशस् तथा ॥
धाराणां संनिपातेन वायोर् विस्फूर्जितेन च ।
वर्धता चैव वर्षेण न प्राज्ञायत किंचन ॥
धारा दिवि च संसक्ता वसुधायां च सर्वशः ।
न स्पृशन्ति स्म तं तत्र निपतन्त्यो ऽनिशं भुवि ॥
बाह्यतो ववृशे वर्षं नोपरिष्टात् तु वृष्टवान् ।
मृगेन्द्रप्रतिरूपस्य स्थितस्य युधि मायया ॥
हते ऽश्मवर्षे तुमुले जलवर्षे च शोषिते ।
ससृजुर् दानवा मायाम् अग्निं वायुं च सर्वशः ॥
नभसः प्रच्युतश् चैव तिग्मवेगः समन्ततः ।
ज्वालामाली महारौद्रो दीप्ततेजाः समन्ततः ॥
स सृष्टः पावकस् तेन दैत्येन्द्रेण महात्मना ।
न शशाक महातेजा दग्धुम् अप्रतिमौजसम् ॥
तम् इन्द्रस् तोयदैः सार्धं सहस्राक्षो ऽमितद्युतिः ।
महता तोयवर्षेण शमयाम् आस पावकम् ॥
तस्यां प्रतिहतायां तु मायायां युधि दानवाः ।
ससृजुर् घोरसंकाशं तमस् तीव्रं समन्ततः ॥
तमसा संवृते लोके दैत्येष्व् आत्तायुधेषु वै ।
स्वतेजसा परिवृतो दिवाकर इवाबभौ ॥
त्रिशिखां भ्रुकुटीं चास्य ददृशुर् दानवा रणे ।
ललाटस्थां त्रिकूटस्थां गङ्गां त्रिपथगाम् इव ॥
ततः सर्वासु मायासु हतासु दितिनन्दनाः ।
हिरण्यकशिपुं दैत्या विषण्णाः शरणं गताः ॥
ततः प्रज्वलितः क्रोधात् प्रदहन्न् इव तेजसा ।
नादं महान्तम् अकरोन् मृगेन्द्रस्येव पश्यतः ।
हिरण्यकशिपुर् दैत्यश् चालयाम् आस मेदिनीम् ॥
ततः प्रक्षुभिताः सर्वे सागराः सलिलाकराः ।
चलिता गिरयः सर्वे सकाननवनद्रुमाः ॥
तस्मिन् क्रुद्धे तु दैत्येन्द्रे तमोभूतम् अभूज् जगत् ।
तमसा समवच्छन्नं न प्राज्ञायत किंचन ॥
तदा हिरण्यकशिपुः क्रुद्धः कालान्तकोपमः ।
आवहः प्रवहश् चैव विवहश् च समीरणः ।
एते चान्ये च बहवो घोरा दानवयोधिनः ।
परावहः संवहश् च उद्वहश् च महाबलः ॥
तथा परिवहः श्रीमान् मारुता भयशंसिनः ।
इत्य् एते क्षुभिताः सप्त मारुता गगनेचराः ॥
ये ग्रहाः सर्वलोकस्य क्षये प्रादुर् भवन्ति वै ।
ते ग्रहा गगने हृष्टा विचरन्ति यथासुखम् ॥
कल्पान्त इव समभवत् क्षुब्धा देवाः सवासवाः ।
विचेरुर् मारुतास् तत्र तथा कल्पान्तशंसिनः ॥
पुष्कलाद्यास् तथा मेघाः प्रावर्षन्त समन्ततः ।
तस्मिन् प्ररुषिते दैत्ये क्षुब्धो मूलसमूलकः ॥
अयोगतश् चचाराशु सर्वेष्व् ऋक्षेषु चन्द्रमाः ।
सग्रहं सहनक्षत्रं प्रजज्वाल नभो निशि ॥
विवर्णत्वं च भगवान् गतो दिवि दिवाकरः ।
कृष्णः कबन्धश् च महांल् लक्ष्यते स्म नभस्तले ॥
अमुञ्चच् चासितां सूर्यो धूमवर्तिं महाभयाम् ।
गगनस्थश् च भगवान् अभीक्ष्णं परिविष्यते ॥
सप्त धूमनिभा घोराः सूर्या दिवि समुत्थिताः ।
सोमस्य गगनस्थस्य ग्रहास् तिष्ठन्ति शृङ्गगाः ॥
वामे च दक्षिणे चैव स्थितौ शुक्रबृहस्पती ।
शनैश् चरो लोहिताङ्गो लोहितार्कसमद्युतिः ॥
समं समभिरोहन्ति दुर्गाणि गगनेचराः ।
शृङ्गाणि शनकैर् घोरा युगान्तावर्तका ग्रहाः ॥
चन्द्रमाः सह नक्षत्रैर् ग्रहैः सप्तभिर् आवृतः ।
चराचरविनाशाय रोहिणीं नाभ्यनन्दत ॥
गृहीतो राहुणा चन्द्र उल्काभिर् अभिहन्यते ।
उल्काः प्रज्वलिताश् चन्द्रे प्रचेलुर् घोरदर्शनाः ॥
देवानाम् अपि यो देवः सो ऽप्य् अवर्षत शोणितम् ।
अपतद् गद्गनाद् उल्का विद्युद्रूपाशनिस्वना ॥
अकाले च द्रुमाः सर्वे पुष्पिताश् च फलन्ति च ।
लताश् च सफलाः सर्वा याः प्रादुर् दैत्यनाशनम् ॥
फले फलान्य् अजायन्त पुष्पे पुष्पं तथैव च ।
उन्मीलन्ति निमीलन्ति हसन्ति च रुदन्ति च ॥
विक्रोशन्ति च गम्भीरं धूमायन्ति ज्वलन्ति च ।
प्रतिमाः सर्वदेवानां कथयन्ति युगक्षयम् ॥
आरण्यैः सह संसृष्टा ग्राम्याश् च मृगपक्षिणः ।
चुक्रुशुर् भैरवं तत्र मृगेन्द्रे समुपस्थिते ॥
नद्यश् च प्रतिलोमानि वहन्ति कलुषोदकाः ।
अपराह्णगते सूर्ये लोकानां क्षयकारके ।
न प्रकाशन्ति च दिशो रक्तरेणुसमाकुलाः ॥
वानस्पत्या न पूज्यन्ते पूजनार्हाः कथंचन ।
वायुवेगेन हन्यन्ते भिद्यन्ते प्रणुदन्ति च ॥
तदा च सर्वभूतानां छाया न परिवर्तते ।
अपराह्णगते सूर्ये लोकानां च युगक्षये ॥
तदा हिरण्यकशिपोर् दैत्यस्योपरि वेश्मनः ।
भाण्डागारायुधागारे निविष्टम् अभवन् मधु ॥
तथैव चायुधागारे धूमराजिर् अदृश्यत ॥
स च दृष्ट्वा महोत्पातान् हिरण्यकशिपुस् तदा ।
पुरोहितं तदा शुक्रं वचनं चेदम् अब्रवीत् ॥
किम् अर्थं भगवन्न् एते महोत्पाताः समुत्थिताः ।
श्रोतुम् इच्छामि तत्त्वेन परं कौतूहलं हि मे ॥
शृणु राजन्न् अवहितो वचनं मे महासुर ।
यदर्थं एते दृश्यन्ते महोत्पाता महाभयाः ॥
यस्यैते संप्रदृश्यन्ते राज्ञो राष्ट्रे महासुर ।
देशो वा ह्रियते तस्य राजा वा वधम् अर्हति ॥
अतो बुद्ध्या समीक्षस्व यथा सर्वं प्रणश्यति ।
बृहद् भयं हि नचिराद् भविष्यति न संशयः ॥
एतावद् उक्त्वा शुक्रस् तु हिरण्यकशिपुं तदा ।
स्वस्तीत्य् उक्त्वा तु दैत्येन्द्रं जगाम स्वं निवेशनम् ॥
तस्मिन् गते तु दैत्येन्द्रो ध्यातवान् सुचिरं तदा ।
आसां चक्रे सुदीनात्मा ब्रह्मवाक्यम् अनुस्मरन् ॥
असुराणां विनाशाय सुराणां विजयाय च ।
दृश्यन्ते विविधोत्पाता घोरा घोरनिदर्शनाः ॥
एते चान्ये च बहवो घोरा ह्य् उत्पातदर्शनाः ।
दैत्येन्द्राणां विनाशाय दृश्यन्ते कलनिर्मिताः ॥
ततो हिरण्यकशिपुर् गदाम् आदाय सत्वरम् ।
अभ्यद्रवत वेगेन धरणीम् अनुकम्पयन् ॥
हिरण्यकशिपुर्दैत्यः पदा संघृष्टवान् महीम् ।
संस्पृष्टवांस् तदा सर्वं जगद् एतद् अकम्पयत् ।
संदष्टौष्ठपुटः क्रोधाद् वराह इव मूर्छितः ॥
तथा क्रुष्टे नृपश्रेष्ठ तस्मिन् घोरे महासुर ।
चचाल पृथिवी सर्वा सशैलवनकानना ॥
मेदिन्यां कम्पमानायां दैत्येन्द्रेण महात्मना ।
महीधरेभ्यो नागेन्द्रा निष्पेतुर् भयविक्लवाः ।
विषज्वालाकुलैर् वक्त्रैर् विमुञ्चन्तो हुताशनम् ॥
चतुःशीर्षाः पञ्चशीर्षाः सप्तशीर्षाश् च पन्नगाः ।
वासुकिस् तक्षकश् चैव कर्कोटकधनंजयौ ।
एलापत्रः कालियश् च महापद्मश् च वीर्यवान् ॥
सहस्रशीर्षधृङ् नागो हेमतालध्वजः प्रभुः ।
शेषो ऽनन्तो महीपालो दुष्प्रकम्पः प्रकम्पिताः ॥
दीप्तान्य् अन्तर्जलस्थानि पृथिवीधरणानि च ।
तदा क्रुद्धेन दैत्येन कम्पितानि समन्ततः ॥
पातालतलचारिण्यो नागतेजोधराः शिवाः ।
नागास् तेजोधराश् चापि पातालतलचारिणः ।
पाताले सहसा क्षुब्धे दुष्प्रकम्प्याः प्रकम्पिताः ।
आपश् च सहसा क्रुद्धा दुष्प्रकम्प्यरसाः शुभाः ।
नदी भागीरथी चैव सरयूः कौशिकी तथा ॥
सूर्यदेहा तथा तापी अन्या नद्यस् तथैव च ।
यमुना चैव कावेरी कृष्णा वेण्णा तथैव च ।
सुवेण्णा च महाभागा नदी गोदावरी तथा ॥
चर्मण्वती च सिन्धुश् च तथा नदनदीपतिः ।
मेकलप्रभवश् चैव शोणो मणिनिभोदकः ॥
सुस्रोता नर्मदा चैव तथा वेत्रवती नदी ।
गोमती गोकुलाकीर्णा तथा पूर्वा सरस्वती ॥
मही कालनदी चैव तमसा पुष्पवाहिनी ॥
सीता चेक्षुमती चैव देविका च महानदी ।
जम्बूद्वीपं रत्नवन्तं सर्वरत्नोपशोभितम् ।
सुर्वणकूटकं चैव सुवर्णाकरमण्डितम् ॥
महानदश् च लौहित्यः शैलकाननशोभितः ।
पत्तनं कोशकाराणां द्रुमिलं रजताकरम् ॥
मागधांश् च महाग्रामान् पुण्ड्रान् वङ्गांस् तथैव च ।
सुह्मान् मल्लान् विदेहांश् च मालवान् काशिकोसलान् ॥
भवनं वैनतेयस्य सुपर्णस्य च कम्पितम् ।
कैलासशिखराकारं यत् कृतं विश्वकर्मणा ॥
रक्ततोयो भीमवेगो लोहितो नाम सागरः ।
शुभः पाण्डुरमेघाभः क्षीरोदश् चैव सागरः ॥
उदयश् चैव शैलेन्द्र उच्छ्रितः शतयोजनः ।
सुवर्णवेदिकः श्रीमान् नागपक्षिनिषेवितः ॥
भ्राजमानो ऽर्कसदृशैर् जातरूपमयैर् द्रुमैः ।
सालैस् तालैस् तमालैश् च कर्णिकारैश् च पुष्पितैः ॥
अयोमुखश् च विपुलः पर्वतो धातुमण्डितः ।
तमालवनगन्धश् च पर्वतो मलयः शुभः ॥
सुराष्ट्राश् च सुबाह्लीकाः शूराभीरास् तथैव च ।
भोजाः पाण्ड्याश् च वङ्गाश् च कलिङ्गास् ताम्रलिप्तकाः ॥
तथैवान्ध्राश् च पौण्ड्राश् च वामचूडाः सकेरलाः ।
क्षोभितास् तेन दैत्येन सदेवाः साप्सरोगणाः ॥
अगस्त्यभवनं चैव यद् अगस्त्यकृतं पुरा ।
सिद्धचारणसंघैश् च सेवितं सुमनोहरम् ॥
विचित्रनानाविहगं सुपुष्पितलताद्रुमम् ।
मूल पाठ: Harivaṃśa, Appendix I · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0