भाषा

ENहिગુ
ग्रंथ पाठ

हरिवंश · भाग 441460

पीत्वा च सहिताः सर्वे प्रस्थिताः कामरूपिणः ॥
विष्णुर् एवाग्रणीस् तेषां भविष्यति महाबलः ।
दिवं च वसुधां चैव भोक्ष्यामः सह शत्रुभीः ॥
समूलपत्रशाखाश् च सपुष्पाः सपलाशिनः ।
सर्वग्रहांश् च गृह्णीमः सुधां च वसुधातले ॥
उद्धृत्य गिरिपादेभ्यो गन्धमादनसानुजम् ।
प्रभाष्य वचनं देवा मन्दरस्य प्रकम्पने ॥
समुद्धर्तुं प्रधावन्ति कम्पयन्ति स्म मेदिनीम् ।
निश्चयेन महावीर्या बाहुभिः परिणाहयन् ॥
न शेकुस् ते समुद्धर्तुं शैलेन्द्रं दनुवंशजाः ।
निपेतुर् जानुभिर् जुष्टा विपुले पर्वतान्तरे ॥
समाधायात्मनात्मानं तपसा दग्धकिल्बिषाः ।
पितामहं प्रपद्यन्त शिरोभिः कामरूपिणः ॥
तेषां मनोभिलषितं ब्रह्मा सर्वत्रगो वशी ।
ज्ञात्वा बहुविधैर् वाक्यैर् व्याजहार सरस्वतीम् ॥
अशरीरां शरीरस्थां परया वर्णसंपदा ।
सर्वलोकपतिर् ब्रह्मा लोकानां हितकाम्यया ॥
आदित्यैर् वसुभिश् चैव रुद्रैश् च समरुद्गणैः ।
देवैर् यक्षैः सगन्धर्वैः किंनरैश् च प्रगाथिभिः ॥
समेत्य सहितैः सर्वैः शक्य उद्धरितुं गिरिः ।
अमृतार्थे महातेजा धातुभिः समरञ्जितः ॥
सुरासुरगणाः सर्वे समुत्पाट्य महागिरिम् ।
हस्तारूढाः प्रपश्यन्ति वीरुधो हिमवद्रसम् ॥
एतच् छ्रुत्वा च वचनं सर्वेषाम् अन्तिके तदा ।
दैतेया बाहुबलिनो मनोभिर् वाग्भिर् एव च ॥
विक्रीडभूता वसुधा बभूव लवणाम्भसः ।
न च केचित् पिबन्त्य् अन्ये देवा नैव च दानवाः ।
यत्र पुष्करं विन्यस्तं सहितैर् देवदानवैः ॥
सुरासुरगणाः सर्वे सहिता लवणाम्भसः ।
मन्दरं पुष्करं कृत्वा नेत्रं वासुकिम् एव च ॥
कूर्मपृष्टं ततः प्राप्य मन्दरं न्यस्तवांस् तदा ।
विष्णुर् एव महाबाहुः पर्वतं यन्त्रवत् ततः ॥
ततो मथितुम् आरेभे देवदैत्यसमागमे ।
यतः पुच्छं ततो देवा असुरा मस्तके स्थिताः ।
एतस्य ह सनिश्वासा उक्षिता असुरास् तदा ॥
समाः सहस्रं मथितं जलम् ओषधिभिः सह ।
क्षीरभूतं समायोगाद् अमृतं समपद्यत ।
क्षीराद् दध्नः समभवन्न् अवनीतं समुद्धृतम् ।
मथ्यमाने ततस् तस्य समुत्पत्तिः क्रमेण सः ॥
उचैश्रवास् तथाश्वश् च ऐरावतम् अनन्तरम् ।

ततो लक्ष्मीः समुद्भूता विष्णुवक्षःस्थलाश्रया ॥
ततो धन्वन्तरिर् देव उद्भूतः कलशान्वितः ।
कलशात् तत् समुद्भूतम् अमृतं तत्र दृष्टवान् ॥
तज् जह्रुर् असुराः पूर्वम् आक्रान्ता लोभमन्युना ॥
तदा पश्चाज् जह्रुर् देवाः कामतेजोबलान्विताः ।
धन्वतरिस् तथा मद्यं श्रीर् देवी कौस्तुभो मणिः ।
शशाङ्को विमलश् चापि समुत्तस्थुः समन्ततः ।
उच्चैःश्रवा हयो रम्यः पीयूषं तदनन्तरम् ॥
पश्चाद् देवास् तदादातुम् उद्यता राहुम् अब्रुवन् ।
दृष्ट्वा दैत्यं स्थितं पातुं मध्ये तं राहुम् अव्ययम् ।
न तु केचित् पिबन्त्य् एते दैत्या नैव च दानवाः ॥
चिच्छेदाथ हरिः संख्ये राहोश् चक्रेण कं तदा ।
अनिर्भुक्तं पितृगणैर् मुनिभिश् च सनातनैः ॥
तन्द्रिहस्ताद् अमृतं जहार पृथिवी स्वयम् ।
जहारान्तर्गता देवी ब्रह्मवाक्यप्रचोदिता ॥
निहते दैत्यसंघाते विष्णोश् चातिपराक्रमे ।
दैतेया दानवेयाश् च किम् इच्छन्ति पराक्रमात् ॥
दानवा राज्यम् इच्छन्ति पराक्रम्य महाबलाः ।
तप इच्छन्ति सहिता देवाः सत्यपराक्रमाः ॥
अथ कालस्य महतो हिरण्यकशिपुस् तदा ।
यजते ब्रह्मणः क्षेत्रे प्राप्तैश्वर्यः स कामदः ॥
यजेद् बहुसुवर्णेन राजसूयेन पार्थिवः ।
क्रतुना दानवश्रेष्ठो वसुधायां महाबलः ॥
गङ्गायमुनयोर् मध्ये यद् अभूद् विपुलं तपः ।
समेयुस् तत्र सहिता यजमाने महासुरे ॥
ब्राह्मणा वेदविद्वांसो महाव्रतपरायणाः ।
यतयश् चापरे सिद्धा योगधर्मेण भारत ॥
मुनयो वालखिल्याश् च धन्या धर्मेण शोधिताः ।
बहवो हि द्विजा मुख्या नित्यं धर्मपरायणाः ॥
ऋषयश् च महाभागा विप्रैः पूज्याः सहस्रशः ।
विपुलै रत्नविभवैर् ह्रियमाणैस् ततस् ततः ॥
शुक्रस् तु सह पुत्रेण दैत्यं याजयते प्रभुः ।
हिरण्यकशिपुर् मध्ये गणानां ज्वलनप्रभः ॥
हिरण्यकशिपुश् चैव व्याजहार सरस्वतीम् ।
कामाद् वरं ददानीति तद् वै संप्रतिपद्यताम् ॥
विष्णुर् वामनरूपेण भिक्षां तां प्रत्यगृह्णत ।
हिरण्यकशिपोर् हस्ताद् द्वे पदे पदम् एव च ॥
ततः क्रमितुम् आरेभे विष्णुः सत्यपराक्रमः ।
त्रींल् लोकांस् त्रिपदैः क्रान्त्वा दिव्यं वपुर् अधारयत् ॥
हृतराज्याश् च दैतेयाः पातालविवरं ययुः ।

ससैन्यगणसंबद्धाः सप्रासाः सासितोमराः ॥
सयन्त्रलगुडाश् चैव सपताकारथध्वजाः ।
सचर्मवर्मकोशाश् च सायुधाः सपरश्वधाः ॥
तथेन्द्रविष्णुसहिताः सद्यस् ते ऽभ्युत्थिता गणाः ।
अभ्यषिञ्चन्प्रमुदिता लोकानाम् अधिपं सुराः ॥
स तान् स्वधामृतेनाशु पितॄन् वै समतर्पयत् ॥
ब्रह्मा तद् अमृतं दिव्यं महेन्द्राय प्रयच्छति ।
अक्षयश् चाव्ययश् चैव संवृतस् तेन कर्मणा ॥
ततः शङ्खम् उपध्मासीद् द्विषतां लोमहर्षणम् ।
पितामहकरोद्भूतं जनित्रे प्रथमे पदे ॥
तं श्रुत्वा शङ्खशब्दं तु त्रयो लोकाः समाहिताः ।
निर्वृतिं परमां प्राप्ता इन्द्रं नाथम् अवाप्य च ॥
सर्वैः प्रहरणैश् चैव संयुक्ता वह्निसंभवैः ।
मन्दराग्रेषु विहतैर् ज्वलद्भिर् इव पावकैः ॥
ततो महति वृत्तान्ते स्थिते राज्ये महोदये ।
देवानां मानुषाणां च सहवासो ऽभवत् तदा ॥
एकतः समधीयन्ते सहिताः प्ररुदन्ति च ।
एकतो वेदघोषांश् च प्रवदन्ति महार्षयः ।
स्वयं च भागं गृह्णन्ति यज्ञकर्मणि भारत ॥
प्राचेतसं ततो दक्षं दीक्षित्वा वै बृहस्पतिः ।
वाजिमेधाय भगवान् ऋषिभिः परिवारितः ॥
तस्मिन् पैतामहे यज्ञे दक्षस्य विदितात्मनः ।
शामित्रम् अकरोद् रुद्रो भागार्थे सह नन्दिना ॥
रुद्रस्यैव हि तद् रूपं द्विधाभूतं तदीप्सया ।
जातः परमधर्मात्मा नन्दी पुरुषविग्रहः ॥
तेन योगेन राजेन्द्र यत् तद् ब्रह्म सनातनम् ।
विहितं सत्यवचनैस् तेनैव परमात्मना ॥
एवंभूतो महादेवः शामित्रम् अकरोत् प्रभुः ॥
एवं कर्मणि निर्वृत्ते वाजिमेधात्मके तदा ।
देवाश् च भागं गृह्णन्ति दक्षस्य च महात्मनः ॥
ततः क्रुद्धो महादेवश् चापम् उद्यम्य वीर्यवान् ।
नन्दिना सह भूतैश् च समुत्तस्थौ सभान्तरे ॥
सरूपैश् चाप्य् अरूपैश् च विरूपाक्षैर् घटोदरैः ।
ऊर्ध्वनेत्रैर् महाकायैर् विकटैर् वामनैस् तथा ॥
शिखिभिर् जटिभिश् चैव त्र्यक्षैर् वै शङ्कुकर्णिभिः ।
चीरिभिश् चर्मिभिश् चैव कूटमुद्गरपाणिभिः ॥
सघण्टाचीरिभिश् चैव मुञ्जमेखलधारिभिः ।
सहस्रकटकैश् चापि स्वर्णकुण्डलधारिभिः ॥
सडिण्डिमैः सभेरीकैः समृदङ्गैः सवेणुभिः ।
एतैः परिवृतो देवो मखं तं समुपारुजत् ॥

सशङ्खमुरजैश् चापि सतालतलपाणिभिः ।
उग्रायुधधरो देवः सपिनाक इवान्तकः ॥
विरराजार्चिभिर् दीप्तैर् मखैर् मखवतां वरः ।
कालाग्निर् इव दीप्तार्चिर् जगद् दग्धुम् इवोद्यतः ॥
नन्दी पिनाकपाणिश् च जघ्नतुर् मखम् उत्तमम् ।
युगान्त इव कालाग्निः क्षिप्रं दग्धुम् इवोद्यतः ॥
यूपम् उत्क्षिप्य धावन्ति निशाचरगणास् ततः ।
त्रासयन् मुनिसंघांश् च चीरचर्मनिवासिनः ॥
हवींष्य् अन्ये पिबन्त्य् एव जिह्वाभिस् ताम्रलोचनाः ।
भक्षयन्ति पशून् अन्ये रसनान्तैः प्रलम्बिभिः ॥
मुमुचुश् चापरे यूपान् प्रसभं प्रहरन्ति च ।
वह्निम् अन्ये प्रसिञ्चन्ति वारिभिः प्रहसन्ति च ॥
सोमम् अन्ये जहुः केचिन् नेत्रैस् ताम्रजपोपमैः ।
दर्भान् केचिद् विलुम्पन्ति हस्तैः पद्मदलप्रभैः ॥
बभञ्जिरे च शालाग्रान् कलशांश् चापविद्धिरे ।
चिच्छिदुः काञ्चनान् वृक्षाञ् शोभार्थम् उपकल्पितान् ॥
बिभिदुश् चैव बाणैश् च मुमुचुश् च हिरण्मयान् ।
लुलुपुश् चैव पात्राणि ममन्थुश् चारणीम् अथ ॥
आरुजंश् चैव प्राग्वंशांल् लुलुपुश् च समाहिताः ।
चखादिरे पुरोडाशान् नखाग्रैश् च चकर्तिरे ॥
एवं दिवा च रात्रौ च भिद्यमानो महामखः ।
चुक्रोश च महानादान् भिद्यमान इवार्णवः ॥
धनुः सशरम् आदाय पूर्वदत्तं स्वयंभुवा ।
कृतं कीचकवेणुभ्यां सशरं सुमहद्बलम् ॥
प्रतिगृह्य महादेवः स शरे समयोजयत् ।
धनुर् विगृह्य जानुभ्यां जघान स महाक्रतुम् ॥
स विद्धस् तेन बाणेन खं समुत्पतितः क्रतुः ।
मृगो भूत्वा नर्दमानो ब्रह्माणम् उपधावति ॥
शरेणाभिहतस् त्राणं न लेभे प्रशमं भुवि ।
शरणार्थी ह्य् अहं प्राप्तः शरेणान्तर्गतेन च ॥
तम् उवाच मृगं ब्रह्मा शुभं सानुनयं वचः ।
स्वरेणोत्तमवीर्येण गम्भीरेण सुभाषिणा ।
एवंरूपो नभसि त्वं भविष्यसि महामृग ॥
विजितश् च त्रिपर्वेण शरेणानतपर्वणा ।
तिष्ठन् नक्षत्रशिरसि सह रुद्रेण नित्यशः ॥
सोमेन सह संयुक्तो ह्य् अक्षयेणाव्ययेन च ।
दिवि संचारभूतश् च ध्रुवश् चैव महाध्रुवः ॥
ज्योतिषां ज्योतिभूतस् त्वं ध्रुवश् चैव महाध्रुवः ॥
यच् चैतद् रुधिरं दिव्यं क्षतात् समभिनिःसृतम् ।
नभस्य् उत्पतितं चैव प्रवेगेन प्रधावतः ॥

क्षतजं बहुवर्णं च क्षेत्रमण्डलसंज्ञितम् ।
निमित्तभूतं भूतानां वर्षे वर्षप्रदं तथा ॥
सुखं दुःखं च भूतानां दर्शने संप्रवर्तते ।
इन्द्रियश्रवणाच् चैव नभसीन्द्रायुधो ऽभवत् ॥
चक्षुषी मानुषे राजन् विस्मयात् समवेक्षितुम् ।
अद्भुतं बहुचित्रं च मनसा संप्रकल्पितम् ॥
न तु रात्रौ प्रदृश्येत खे तु सव्रणसंज्ञितम् ।
दिनस्यैव सदा त्व् अग्रे महत् कार्यं प्रदृश्यते ।
भूमाव् एव समुत्तिष्ठेद् आकाशे प्रविलीयते ॥
शतशश् च समं सर्वे प्रधावन्ति प्रचेतसः ।
भयाद् रुद्रस्य महतो धन्विनो बाणपाणयः ॥
नन्दी रुद्रगणैः सार्धं पिनाकी समतिष्ठत ।
युगान्तकाले ज्वलितो ब्रह्मदण्ड इवोद्यतः ॥
विष्णुः शृङ्गाग्रसंभूतं प्रगृह्य विपुलं धनुः ।
प्रातिष्ठत महाबाहुः पाणिना चक्रम् आदधत् ॥
गदां सघण्टाम् अन्येन खड्गम् अन्येन पाणिना ।
प्रगृह्याप्य् अग्रतो ऽतिष्ठद् रुद्रायोद्यतपाणये ॥
ततः शृङ्गाग्रसंभूतं प्रगृह्य विपुलं धनुः ।
शङ्खं चाप्रतिमं लोके शरांश् च नतपर्वणः ॥
विष्णुर् अग्रे स्थितो भाति सबलः संहताञ्जलिः ।
बद्धगोधाङ्गुलित्राणः सचन्द्र इव तोयदः ॥
आदित्या वसवश् चैव दिव्यैः प्रहरणैः सह ।
विष्णुम् एवाभितः सर्वे तिष्ठन्ति ज्वलनप्रभाः ॥
मरुतश् चैव विश्वे च रुद्रम् एवाभिपेदिरे ।
गन्धर्वकिंनराश् चैव नागा यक्षाः सपन्नगाः ॥
ऋषयो न्यस्तदण्डाश् च उभयोः पक्षयोर् हिताः ।
ज्वलन्तः शान्तये नित्यं लोकानां हितकाम्यया ॥
रुद्रः शरेणाभ्यहनद् विष्णुम् एवाग्रणी रणे ।
हृदि सर्वाङ्गसंधीषु तीक्ष्णाग्रेण सुपत्रिणा ॥
न चकम्पे तदा विष्णुः सर्वात्मा सर्वसंभवः ।
न च रोषमना नित्यं वृतः सर्वैः षडिन्द्रियैः ॥
विष्णुश् च धनुर् आदाय शरेण समयोजयत् ।
जत्रुदेशे मुमोचाशु ब्रह्मदण्डम् इवोद्यतम् ॥
स विद्धस् तेन बाणेन महादेवो न कम्पते ।
वज्रेणेव महासंधिर् मन्दरस्य विचाल्यते ॥
ततः प्रसभम् आप्लुत्य रुद्रं विष्णुः सनातनम् ।
कण्ठे जग्राह भगवान् नीलकण्ठस् ततो ऽभवत् ॥
अनादिनिधनो देवः क्षमतां भगवन् मम ।
सर्वभूतागमाचार्यो मम कर्ता च कर्मणाम् ॥
कर्मणां च प्रकर्ता च विकर्ता चैव भारत ।

अरोषत्वाच् च भूतानां सर्वभूतेषु चोत्तमः ॥
स्वयम् एव हि यत् कर्म विधत्ते कर्मयोनिषु ।
असत्कर्म च सत्कर्म निधत्ते सर्वयोनिषु ॥
तयोः शुभतमो राजन् स्वयम् एव तथाकरोत् ॥
अन्तरिक्षाच् छुभा वाचः श्रूयन्ते परमाद्भुताः ।
सिद्धानां वदनोन्मुक्ताः सनातन नमो ऽस्तु ते ॥
नन्दी पिनाकम् उद्यम्य बलवान् रुद्रसंभवः ।
मूर्धन्य् अभिजघानाजौ विष्णुं क्रोधेन मूर्छितः ॥
ततः प्रहसितो विष्णुर् नन्दीं दृष्ट्वा सुरोत्तमः ।
स्तम्भयाम् आस भगवान् सर्वभूतपतिर् हरिः ॥
विष्णुर् ब्रह्मसमो भूत्वा तेजसा प्रज्वलन्न् इव ।
क्षमया च समायुक्तः स्थितः स्थाणुर् इवाचलः ॥
अचिन्त्यश् चाप्रमेयश् च अजेयश् चाप्य् अरिंदमः ।
युगान्ताग्निसमो भूत्वा शान्तात्मा हरिर् अव्ययः ॥
प्रसन्नः कल्पयाम् आस भागं रुद्राय धीमते ।
विष्णुर् धर्मपरो नित्यं त्यक्तकामः सुरर्षभः ॥
विष्णूना चैव राजेन्द्र स यज्ञः संधितः पुनः ।
यथापक्षं च ते सर्वे गणा आसन् महीपते ।
तस्मिन् युद्धे महाघोरे विष्णो रुद्रस्य चैव ह ॥
पक्षं पक्षं भवद् युद्धं दक्षयज्ञविनाशने ।
विनाशश् चैव यज्ञस्य तदा लोके प्रतिष्ठितः ॥
सर्वभूतेषु राजेन्द्र हितो यज्ञः सनातनः ।
दक्षो यज्ञफलं चैव प्राप्तवान् स प्रजापतिः ॥
इमां दक्षाध्वरां दिव्यां कथाम् अमितबुद्धिमान् ।
श्रावयेद् यस् तु विप्रेभ्यः शुचिः प्रयतमानसः ।
अधीत्य सर्वम् अध्यात्मं देवलोके महीयते ॥
एष पौष्करको नाम प्रादुर्भावो महात्मनः ॥
प्रादुर्भावः पुराणेषु विष्णोर् अमिततेजसः ।
सतां कथयतां विप्र वाराह इति नः श्रुतः ॥
न जाने त्व् अस्य चरितं निखिलं च सविस्तरम् ।
न धर्मगुणसंस्थानं न हेतुं न मनीषितम् ॥
किमात्मको वराहो ऽसौ किंवीर्यः कास्य देवता ।
किमाचारः किंप्रभावः किं वा तेन पुरा कृतम् ॥
एतन् मे शंस तत्त्वेन वाराहं श्रुतिविस्तरम् ।
यज्ञार्थं च समेतानां द्विजातीनां महात्मनाम् ॥
ज्ञातीनां चापि सर्वेषाम् ऋषीणां मोक्षकाङ्क्षिणाम् ।
प्रमाणार्थं द्विजश्रेष्ठ तन् मे वद महामुने ॥
हन्त ते कथयिष्यामि पुराणं वेदसंमितम् ।
नानाश्रुतिसमायुक्तं कृष्णद्वैपायनेरितम् ।
समाहितमना भूत्वा शृणु राजन् यथातथम् ॥

महावराहचरितं कृष्णस्याद्भुतकर्मणः ।
यथा नारायणो देवो वाराहं वपुर् आस्थितः ॥
दंष्ट्रया गां समुद्रस्थाम् उज्जहारारिसूदनः ।
विस्तरेणैव सर्वाणि कर्माणि रिपुघातिनः ।
छान्दसीभिर् उदाराभिः श्रुतिभिः समलंकृतः ।
शुचिः प्रयत्नवान् भूत्वा निबोध जनमेजय ॥
इदं पुराणं परमं पुण्यं वेदैश् च संमितम् ।
नानाश्रुतिसमायुक्तं नास्तिकाय न कीर्तयेत् ॥
पुराणम् एतद् अखिलं सांख्यं योगं च वेद यः ।
कार्त्स्न्येन विधिना प्रोक्तं सो ऽस्यार्थं वेदयिष्यति ॥
विश्वेदेवास् तथा साध्या रुद्रादित्यास् तथाश्विनौ ।
प्रजानां पतयश् चैव सप्त चैव महर्षयः ॥
मनःसंकल्पजाश् चैव पूर्वजाश् च महर्षयः ।
विद्याधरा महात्मानः पूर्वजा ऋषयस् तथा ।
वसवो ऽप्सरसश् चैव गन्धर्वा यक्षराक्षसाः ॥
दैत्याः पिशाचा नागाश् च भूतानि विविधानि च ।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा म्लेच्छादयो भुवि ॥
चतुष्पदानि सत्त्वानि तिर्यग्योनिगतानि च ।
जङ्गमानि च सत्त्वानि यच् चान्यज्जीवसंज्ञितम् ॥
पूर्णे युगसहस्रान्ते ब्राह्मे ऽहनि तथागते ।
निर्वाणे सर्वभूतानां सर्वोत्पातसमुद्भवे ॥
हिरण्यरेतास् त्रिशिखस् ततो भूत्वा वृषाकपिः ।
शिखाभिर् विधमंल् लोकान् संशोषयति देहिनः ॥
दद्यमानास् ततस् तस्य तेजोराशिभिर् अग्रतः ।
विविर्णवर्णा दग्धाङ्गा हतार्चिष्मद्भिर् आननैः ॥
साङ्गोपनिषदा वेदा इतिहासपुरोगमाः ।
सर्वविद्याक्रियाश् चैव सत्यधर्मपरायणाः ॥
ब्रह्माणम् अग्रतः कृत्वा प्रभवं विश्वतोमुखम् ।
पूर्वदेवगणाश् चैव त्रयस्त्रिंशच् च छन्दजाः ॥
तस्मिन्न् अहनि संप्राप्ते तं हंसं महदक्षरम् ।
प्रविशन्ति महायोगं हरिं नारायणं प्रभुम् ॥
तेषां भूयः प्रविष्टानां निधनोत्पत्तिर् उच्यते ।
यथा सूर्यस्य सततम् उदयास्तमयाव् इह ॥
पूर्णे युगसहस्रान्ते कल्पो निःशेष उच्यते ।
तस्मिञ् जीवकृतं सर्वं निःशेषम् अवतिष्ठते ॥
संहृत्य लोकान् सर्वान् स सदेवासुरपन्नगान् ।
कृत्वात्मगर्भं भगवान् आस्त एको जगद्गुरुः ॥
यः स्रष्टा सर्वभूतानां कल्पान्तेषु पुनः पुनः ।
अव्यक्तः शाश्वतो देवस् तस्य सर्वम् इदं जगत् ॥
नष्टार्ककिरणे लोके चन्द्ररश्मिविवर्जिते ।

त्यक्तधूमाग्निपवने क्षीणयज्ञतपःक्रिये ॥
अपक्षिगणसंपाते सर्वप्राण्यचरे पथि ।
अमर्यादाकुले रौद्रे सर्वतस् तमसा वृते ॥
अदृश्ये सर्वलोके ऽस्मिन्न् अभावे सर्वकर्मणाम् ।
प्रशान्ते सर्वसंपाते नष्टे वैरपरिग्रहे ॥
गते स्वभावसंस्थाने लोके नारायणात्मके ।
परमेष्ठी हृषीकेशः शयनायोपचक्रमे ॥
पीतवासा लोहिताक्षः कृष्णो जीमूतसंनिभः ।
शिखासहस्रविकचं जटाभारं समुद्वहन् ॥
श्रीवत्सकलिलं पुण्यं रक्तचन्दनरूषितम् ।
वक्षो बिभ्रन् महाबाहुः सविद्युद् इव तोयदः ॥
पुण्डरीकसहस्रस्य मालास्य शुशुभे तदा ।
पत्नी चास्य स्वयं लक्ष्मीर् देहम् आश्रित्य तिष्ठति ॥
ततः स्वपिति धर्मात्मा सर्वलोकपितामहः ।
किम् अप्य् अमितविक्रान्तो योगनिद्राम् उपागतः ॥
निद्राविष्ट इवाभाति निद्रायोगम् उपागतः ।
ततो युगसहस्रे तु पूर्णे स पुरुषोत्तमः ।
स्वयम् एव विभुर् भूत्वा बुध्यते विबुधाधिपः ॥
ततश् चिन्तयते भूयः सृष्टिं लोकस्य लोककृत् ।
पितृदेवासुरनरान् पारमेष्ठ्येन कर्मणा ॥
ततश् चिन्तयते कार्यं देवेषु समितिंजयः ।
संभवं सर्वलोकस्य विदधाति स वाक्पतिः ॥
कर्ता चैव विकर्ता च संहर्ता च प्रजापतिः ।
धाता विधाता प्रभवः संयमो नियमो यमः ॥
नारायणपरा देवा नारायणपराः क्रियाः ।
नारायणपरा यज्ञा नारायणपरा श्रुतिः ॥
नारायणपरो मोक्षो नारायणपरा गतिः ।
नारायणपरो धर्मो नारायणपरः क्रतुः ।
नारायणपरं ज्ञानं नारायणपरं महत् ।
नारायणपरं सत्यं नारायणपरं पदम् ॥
नारायणपरो देवो न भूतो न भविष्यति ।
स स्वयंभूर् इति ज्ञेयः स ब्रह्मा भुवनाधिपः ।
स वायुर् इति विज्ञेय एष यज्ञः प्रजापतिः ॥
सदसच् च स विज्ञेयः स यज्ञः स प्रजाकरः ।
यद् वेदितव्यं त्रिदशैस् तद् एष परिविन्दति ।
यच् च वेद्यं भगवतो देवा अपि न तद् विदुः ॥
प्रजानां पतयः सप्त ऋषयश् च सहामरैः ।
नास्यान्तम् अधिगच्छन्ति तेनानन्त इति श्रुतिः ॥
यद् अस्य परमं रूपं तन् न पश्यन्ति देवताः ।
प्रादुर्भावेषु संभूतं यत् तद् अर्चन्ति देवताः ॥

प्रादुर्भावे तु यद् रूपं तद् अर्चन्ति दिवैकसः ।
दर्शितं यद् अनेनैव तद् अवेक्षन्ति देवताः ।
यन् न दर्शितवान् देवः कस् तद् अन्वेष्टुम् अर्हति ॥
ग्रामणीः सर्वभूतानाम् अग्निमारुतयोर् गतिः ।
तेजसस् तपसश् चैव निधानम् अमृतस्य च ॥
चतुराश्रमधर्मेषु चातुर्होत्रफलाशनः ।
चतुःसागरपर्यन्त+ चतुर्युगविवर्तकः ॥
तद् एष संहृत्य जगत् कृत्वा गर्भस्थम् आत्मनः ।
मिमोचाण्डं महायोगी धृतं वर्षसहस्रिकम् ॥
हिरण्यगर्भगर्भस्थः ससृजे पुरुषोत्तमः ।
सुरासुरद्विजभुजगाप्सरोगणैर् @
महौषधिक्षितिधरयक्षगुह्यकैः ।
प्रजापतिः श्रुतिधररक्षसां कुलं @
तदासृजज् जगद् इदम् आत्मना प्रभुः ॥
जगदण्डम् इदं सर्वम् आसीत् पूर्वं हिरण्मयम् ।
प्रजापतेर् भूतिमयम् इतीयं वैदिकी श्रुतिः ॥
ततो वर्षसहस्रान्ते बिभेदोर्ध्वमुखं विभुः ।
लोकसंजननार्थाय बिभेदाण्डं पुनः पुनः ॥
भूयो ऽष्टधा बिभेदाण्डं विभुर् वै लोकयोनिकृत् ।
चकार जगतश् चात्र विभागं सर्वभागवित् ॥
यच् छिद्रम् ऊर्ध्वम् आकाशं परा सुकृतिनां गतिः ।
विहितं विश्वयोगेन यद् अधस् तद् रसातलम् ॥
यद् अण्डम् अकरोत् पूर्वं देवलोकसिसृक्षया ।
समन्ताद् अष्टधा योगी छिद्राणि कृतवांस् तु सः ।
दिशश् च विदिशः सर्वा मनसैवाकरोद् विभुः ॥
नानारागविरागाणि यान्य् अण्डशकलानि वै ।
बहुवर्णधराश् चित्रा बभूवुस् ते बलाहकाः ॥
यद् अण्डमध्ये स्कन्नं तद् द्रवम् आसीत् समाहितम् ।
जातरूपं तद् अभवत् तत् सर्वं पृथिवीतले ॥
तस्य क्लेदो ऽर्णवौघेन प्राच्छाद्यत समन्ततः ।
पृथिवी निखिला राजन् युगान्ते सागरैर् इव ॥
यच् चाण्डम् अकरोत् पूर्वं देवलोकचिकीर्षया ।
तत्र यत् सलिलं स्कन्नं सो ऽभवत् काञ्चनो गिरिः ॥
तेनाम्भसा प्लुताः सर्वा दिशश् चोपदिशस् तथा ।
अन्तरिक्षं च नाकं च यच् चान्यत् किंचिद् अन्तरम् ॥
यत्र यत्र जलं स्कन्नं तत्र तत्रोत्थितो गिरिः ।
शैलैः सहस्रैर् गहना विषमा मेदिनी कृता ॥
तैः सा पर्वतजालौघैर् बहुयोजनविस्तृतैः ।
पीडिता गुरुभिर् देवी पृथिवी व्यथिताभवत् ॥
महामते भूमितले दिव्यं नारायणात्मकम् ।

हिरण्मयं समुद्दिष्टं तेजो विमलरूपि तत् ॥
अशक्ता वै धारयितुम् अधस्तात् प्रविवेश ह ।
पीड्यमाना भगवतस् तेजसा तेन सा क्षितिः ॥
पृथिवीं विशतीं दृष्ट्वा ताम् अधो मधुसूदनः ।
उद्धारार्थं मनश् चक्रे तस्याः स हितकाम्यया ॥
मत्तेज एव बलवत् समासाद्य तपस्विनी ।
रसातलं विशेद् देवी पङ्के गौर् इव दुर्बला ॥
मत्तेज एषा वसुधा समासाद्य तपस्विनी ।
तद् अहं धारयिष्यामि पृथिव्या हितकाम्यया ॥
त्रिविक्रमायामितविक्रमाय @
महानृसिंहाय चतुर्भुजाय ।
श्रीशार्ङ्गचक्रासिगदाधराय @
नमो ऽस्तु तस्मै पुरुषोत्तमाय ॥
त्वयात्मा धार्यते देव त्वया संधार्यते जगत् ।
त्वं धारयसि भूतानि भुवनं त्वं बिभर्षि च ॥
यत् त्वया धार्यते किंचित् तेजसा च बलेन च ।
ततस् तव प्रसादेन मया पश्चात् तु धार्यते ॥
त्वया धृतं धारयामि नाधृतं धारयाम्य् अहम् ।
न हि तद् विद्यते भूतं यत् त्वया नावधार्यते ॥
त्वम् एव कुरुषे वीर नारायण युगे युगे ।
मम भारावतरणं जगतो हितकाम्यया ॥
तवैव तेजसाक्रान्तां रसातलतलं गताम् ।
त्रायस्व मां सुरश्रेष्ठ त्वाम् एव शरणं गताम् ॥
दानवैः पीड्यमानाहं राक्षसैश् च दुरात्मभिः ।
त्वाम् एव शरणं नित्यम् उपयामि सनातनम् ॥
तावन् मे ऽस्ति भयं भूयो यावन् न त्वां ककुद्मिनम् ।
शरणं यामि मनसा शतशो ऽप्य् उपलक्षिता ॥
मा भैर् धरणि कल्याणि शान्तिं व्रज समाहिता ।
एष त्वाम् उचितं स्थानं मानयामि मनीषितम् ॥
ततो महात्मा मनसा दिव्यं रूपम् अचिन्तयत् ।
किं नु रूपम् अहं कृत्वा उद्धरामि वसुंधराम् ॥
जले निमग्नां धरणीं येनाहं वै समुद्धरे ।
इत्य् एवं चिन्तयित्वा तु देवस् तत्करणे मतिम् ॥
जलक्रीडारुचिस् तस्माद् वाराहं वपुर् अस्मरत् ।
हरिर् उद्धरणे युक्तस् तदा भूमेः स भूमिधृक् ॥
अधृष्यः सर्वभूतानां वाङ्मयं ब्रह्मसंमितम् ।
दशयोजनविस्तारम् उच्छ्रितं शतयोजनम् ॥
नीलमेघप्रतीकाशं मेघस्तनितनिस्वनम् ।
महागिरेः संहननं श्वेतदीप्तोग्रदंष्ट्रिणम् ॥
विद्युदग्निप्रतीकाशम् आदित्यसमतेजसम् ।

पीनवृत्तायतस्कन्धं दृप्तशार्दूलविक्रमम् ॥
पीनोन्नतकटीदेशं वृषलक्षणपूजितम् ।
रूपम् आस्थाय विपुलं वाराहम् अमितं हरिः ।
पृथिव्युद्धरणार्थाय प्रविवेश रसातलम् ॥
वेदपदो यूपदंष्ट्रः क्रतुदन्तश् चितीमुखः ।
अग्निजिह्वो दर्भलोमा ब्रह्मशीर्षो महातपाः ॥
अहोरात्रेक्षणधरो वेदाङ्गश्रुतिभूषणः ।
आज्यनासः स्रुवस् तुण्डः सामघोषस्वनो महान् ॥
धर्मसत्यमयः श्रीमान् क्रमविक्रमसत्कृतः ।
क्रियासत्रमहाघोणः पशुजानुर् महाकृतिः ॥
उद्गाताङ्गो महालिङ्गो बीजौषधिमहाफलः ।
वाय्वन्तरात्मा मन्त्रस्फिग् विकृतः सोमशोणितः ॥
वेदिस्कन्धो हविर्गन्धो हव्यकव्यातिवेगवान् ।
प्राग्वंशकायो मतिमान् नानादीक्षाभिराचितः ॥
दक्षिणाहृदयो योगी महासत्रमयो महान् ।
उपाकर्मोष्ठरुचकः प्रवर्ग्यावर्तभूषणः ॥
नानाछन्दोगतिपथो गुह्योपनिषदासनः ।
छायापत्नीसहायो वै मणिशृङ्ग इवोच्छ्रितः ।
भूत्वा यज्ञवराहो ऽसौ द्रागधः प्राविशद् गुरुः ॥
अद्भिः संछादिताम् उर्वीं स ताम् आर्छत् प्रजापतिः ।
रसातलतले मग्नां रसातलतलं गतः ।
प्रभुर् लोकहितार्थाय दंष्ट्राग्रेणोज्जहार गाम् ॥
ततः स्वस्थानम् आनीय पृथिवीं पृथिवीधरः ।
मुमोच पूर्वं सहसा धारयित्वा धराधरः ॥
ततो जगाम निर्वाणं मेदिनी तस्य धारणात् ।
चकार च नमस्कारं तस्मै देवाय शंभवे ॥
एवं यज्ञवराहेण भूत्वा भूतहितार्थिना ।
उद्धृता पृथिवी देवी लोकानां हितकाम्यया ॥
अथोद्धृत्य क्षितिं देवो जगतः स्थापनेच्छया ।
पृथिवीप्रविभागाय मनश् चक्रे ऽम्बुजेक्षणः ।
रसातलगताम् एवं विचिन्त्य स सुरोत्तमः ॥
ततो विभुः प्रवरवराहरूपधृग् @
वृषाकपिः प्रसभम् अथैकदंष्ट्रया ।
अधोगताम् एवम् अचिन्त्यविक्रमः @
सुरोत्तमः प्रवरवराहरूपधृक् ।
समुद्धरद् धरणिम् अतुल्यविक्रमो @
महायशा लोकहितार्थम् अच्युतः ॥
तस्योपरि जलौघस्य महती नौर् इव स्थिता ।
विततत्वात् तु देहस्य न ययौ संप्लवं मही ॥
ततः स चिन्तयाम् आस प्रविभागं क्षितेर् विभुः ।

समुच्छ्रयं च सर्वेषां पर्वतानां समन्ततः ॥
विलेखनं प्रमाणं च गतिं प्रसवम् एव च ।
माहात्म्यं च विशेषं च नदीनाम् अन्वचिन्तयत् ॥
चतुरन्तां धरां कृत्वा कृत्वा चैव महार्णवम् ।
मध्ये पृथिव्याः सौवर्णम् अकरोन् मेरुपर्वतम् ॥
प्राचीं दिशम् अथो गत्वा चाकरोदयपर्वतम् ।
शतयोजनविस्तारं सहस्रं च समुच्छ्रयात् ॥
जातरूपमयैः शृङ्गैस् तरुणादित्यसंनिभैः ।
आत्मतेजोगुणमयैर् वेदिकाभोगकल्पितैः ॥
विविधांश् च महास्कन्धान् काञ्चनान् पुष्करेक्षणः ।
नित्यपुष्पफलान् वृक्षान् कृतवांस् तत्र पर्वते ॥
शतयोजनविस्तारं ततस् त्रिगुणम् उच्छ्रितम् ।
चकार स महादेवः पुनः सौमनसं गिरिम् ॥
सर्वकामफलैर् वक्षैर् वृतं रसमनोरमैः ।
नानारत्नसहस्राणां कृत्वा तत्र सुसंचयम् ।
वेदिकां बहुवर्णां च संध्याभ्राभाम् अकल्पयत् ॥
सहस्रशृङ्गं च गिरिं नानामणिशतालयम् ।
कृतवान् वृक्षगहनं षष्टियोजनविस्तृतम् ॥
आसनं तत्र परमं सर्वभूतनमस्कृतम् ।
कृतवान् आत्मनः स्थानं विश्वकर्मा प्रजापतिः ॥
शैशिरं च महाशैलं तुषारचयसंनिभम् ।
चकार दुर्गगहनं कन्दरान्तरमण्डितम् ॥
शिशिरप्रभवां चैव नदीं द्विजगणाकुलाम् ।
चकार पुलिनोपेतां वसुधाराम् इति श्रुतिः ॥
सा दिशं निखिलां प्राचीं पुण्यैर् मुखशतैश् चिताम् ।
शोभयत्य् अमृतप्रख्यैर् मुक्ताशङ्खविभूषितैः ॥
नित्यपुष्पफलोपेतैश् छादयद्भिः सुसंहितैः ।
भूषिताभ्यधिकं कान्तैः सा नदीतीरजैर् द्रुमैः ॥
कृत्वा प्राचीविभागं तु दक्षिणायाम् अथो दिशि ।
चकार पर्वतं रम्यं सर्वं काञ्चनराजतम् ॥
एकतः सूर्यसंकाशम् एकतः शशिसंनिभम् ।
स बिभ्रच्छुशुभे ऽतीव द्वौ वर्णौ पर्वतोत्तमः ॥
तेजसा युगपद् व्याप्तं सूर्याचन्द्रमसोर् इव ।
वपुष्मन्तम् अथो तत्र भानुमन्तं महागिरिम् ॥
सर्वकामफलैर् वृक्षैर् वृतं रम्यैर् मनोरमैः ।
चकार कुञ्जरं चैव कुञ्जरप्रतिमाकृतिम् ॥
सर्वतः काञ्चनगुहं बहुयोजनविस्तृतम् ।
ऋषभप्रतिमं चैव ऋषभं नाम पर्वतम् ॥
हेमकाञ्चनवृक्षाढ्यं पुष्पहासं स सृष्टवान् ।
महेन्द्रम् अथ शैलेन्द्रं शतयोजनम् उच्छ्रितम् ॥

जातरूपमयैः शृङ्गैः सुपुष्पितमहाद्रुमैः ।
मेदिन्यां कृतवान् देवः प्रतिक्षोभम् इवाचलम् ॥
नानारत्नसमाकीर्णं सूर्येन्दुसदृशप्रभम् ।
चकार मलयं चाद्रिं चित्रपुष्पितपादपम् ।
मैनाकं च महाशैलं शिलाजालसमाकुलम् ॥
दक्षिणस्यां दिशि शुभं चकार स महाचलम् ।
सहस्रशिरसं विन्ध्यं नानाद्रुमलतायुतम् ।
नदीं च विपुलावर्तां विपुलश्रोणिभूषिताम् ॥
क्षीरसंकाशसलिलां पयोधाराम् इति श्रुतिः ।
सुरम्यां तोयकलिलां विचित्रां दक्षिणां दिशम् ।
दिव्यतीर्थशतापाङ्गीं प्लावयन्तीं शुभाम्भसा ॥
दिशं याम्यां प्रतिष्ठाप्य प्रतीचीं दिशम् आगमत् ।
अकरोत् तत्र शैलेन्द्रं शतयोजनम् उच्छ्रितम् ।
शोभितं शिखरैश् चित्रैः सुप्रवृद्धैर् हिरण्मयैः ॥
काञ्चनीभिः शिलाभिश् च गुहाभिश् च विभूषितम् ।
समाकुलं सूर्यनिभैः सालैस् तालैश् च भास्वरैः ॥
शुशुभे जातरूपैश् च श्रीमद्भिश् चित्रवेदिकैः ।
षष्टिं गिरिसहस्राणि तत्रासौ संन्यवेशयत् ।
मेरुप्रतिमरूपाणि वपुषा प्रभया च ह ॥
सहस्रजलधारं च पर्वतं मेरुसंनिभम् ।
पुण्यतीर्थगुणोपेतं भगवान् संन्यवेशयत् ।
षष्टियोजनविस्तारं तावद् एव समुच्छ्रितम् ॥
आत्मरूपोपमं तत्र वाराहं नाम नामतः ।
निवेशयाम् आस विभुर् दिव्यं वैदूर्यपर्वतम् ।
राजताः काञ्चनाश् चैव यत्र दिव्याः शिलोच्चयाः ॥
तत्रैव चक्रसदृशं चक्रवन्तं महाबलम् ।
सहस्रकूटं विपुलं भगवान् संन्यवेशयत् ॥
शङ्खप्रतिमरूपं च राजतं पर्वतोत्तमम् ।
सितद्रुमलताकीर्णं शङ्खं नाम न्यवेशयत् ॥
सुवर्णरससंभूतं पारिजातं महाद्रुमम् ।
महतः पर्वतस्याग्रे पुष्पहासं न्यवेशयत् ॥
शुभाम् अतिरसां चैव घृतधाराम् इति श्रुतिः ।
वराहः सरितं पुण्यां प्रतीच्याम् अकरोत् प्रभुः ॥
प्रतीच्यां संविधिं कृत्वा पर्वतान् काञ्चनोज्ज्वलान् ।
गुणोत्तरान् उत्तरस्यां संन्यवेशयद् अग्रतः ॥
ततः सौम्यगिरिं सौम्यम् अन्तरिक्षप्रमाणतः ।
रुक्मधातुप्रतिच्छन्नम् अकरोद् भास्करोपमम् ॥
स तु देशो विसूर्यो ऽपि तस्य भासा प्रकाशते ॥
तस्य लक्ष्म्याधिकं भाति तपता रविणा यथा ।
सूक्ष्मलक्षणविज्ञेयस् तपतीव दिवाकरः ॥

सहस्रशिखरं चैव नानातीर्थसमाकुलम् ।
चकार रत्नसंकीर्णं भूयो ऽस्तं नाम पर्वतम् ॥
मनोहरगुणोपेतं मन्दरं चाचलोत्तमम् ।
उद्दामपुष्पगन्धं च पर्वतं गन्धमादनम् ॥
चकार तस्य शृङ्गेषु सुवर्णरससंभवाम् ।
जम्बूं जाम्बूनदमयीम् अत्यन्ताद्भुतदर्शनाम् ॥
गिरिं त्रिशिखरं चैव तथा पुष्करपर्वतम् ।
शुभ्रं पाण्डुरमेघाभं कैलासं च नगोत्तमम् ॥
हिमवन्तं च शैलेन्द्रं दिव्यधातुविभूषितम् ।
निवेशयाम् आस हरिर् वाराहीं तनुम् आस्थितः ॥
नदीं सर्वगुणोपेताम् उत्तरस्यां दिशि प्रभुः ।
मधुधारां स कृतवान् दिव्यां मुखशताकुलाम् ॥
सर्वे चैव क्षितिधराः सपक्षाः कामरूपिणः ।
तदा कृता भगवता विचित्राः परमेष्ठिना ॥
स कृत्वा प्रविभागं तु पृथिव्या लोकभावनः ।
देवासुरगणोत्पत्तौ कृतवान् बुद्धिम् अक्षयाम् ॥
सर्वासु दिक्षु क्षतजोपमाक्षश् @
चकार शैलान् विविधाभिरामान् ।
हिताय लोकस्य स लोकनाथः @
पुण्याश् च नद्यः सलिलोपगूढाः ॥
जगत्स्रष्टुमना देवश् चिन्तयाम् आस पूर्वजः ।
तस्य चिन्तयतो वक्त्रान् निःसृतः पुरुषः किल ॥
ततः स पुरुषो देवं किं करोमीत्य् उपस्थितः ।
प्रयुवाच स्मितं कृत्वा देवदेवो जगत्पतिः ।
विभजात्मानम् इत्य् उक्त्वा गतो ऽन्तर्धानम् ईश्वरः ॥
अन्तर्हितस्य देवस्य सशरीरस्य भास्वतः ।
प्रशान्तस्येव दीपस्य गतिस् तस्य न विद्यते ॥
ततस् तेनेरितां वाणीं सो ऽन्वचिन्तयत प्रभुः ।
हिरण्यगर्भो भगवान् य एष च्छन्दसि श्रुतः ॥
एष प्रजापतिः पूर्वम् अभवद् भुवनाधिपः ।
तदाप्रभृति तस्याद्यो यज्ञभागो विधीयते ॥
जाम्बूनदमयान् दिव्यान् कृतवान् भूतदर्शनः ।
विभजात्मानम् इत्य् उक्तस् तेनास्मि सुमहात्मना ।
कथम् आत्मा विभज्यः स्यात् संशयो ह्य् अत्र मे महान् ॥
इति चिन्तयतस् तस्य ओम् इत्य् एवोत्थितः स्वरः ।
स भूमाव् अन्तरिक्षे च नाके च कृतवान् स्वनम् ॥
तं चैवाभ्यसतस् तस्य मनसारमयत् प्रभुः ।
हृदयाद् देवदेवस्य वषट्कारः समुत्थितः ॥
भूम्यन्तरिक्षनाकानां भूर्भुवःसुवरात्मिकाः ।
महास्मृतिमयाः पुण्या महाव्याहृतयो ऽभवन् ॥

छन्दसां प्रवरा देवी चतुर्विंशाक्षराभवत् ।
तत्पदं संस्मरन् दिव्यां सावित्रीम् अकरोत् प्रभुः ॥
ऋक्सामाथर्वयजुषश् चतुरो भगवान् प्रभुः ।
चकार निखिलान् वेदान् ब्रह्मयुक्तेन कर्मणा ॥
ततस् तस्यैव मनसः सनः सनक एव च ।
सनातनश् च भगवान् वरदश् च सनन्दनः ॥
सनत्कुमारश् च विभुस् तत्र जज्ञे सनातनः ।
मानसाश् चैव पूर्वाद्या इत्य् एते षण्महर्षयः ॥
ब्रह्माणं कपिलं चैव षड् एतांश् चैव योगिनः ।
यतयो योगतन्त्रेषु यान् स्तुवन्ति द्विजातयः ॥
ततो मरीचिम् अत्रिं च पुलस्त्यं पुलहं क्रतुम् ।
भृगुम् अङ्गिरसं चैव मनुं चैव प्रजापतिम् ॥
पितॄंश् च सर्वभूतानां देवतासुररक्षसाम् ।
महर्षीन् असृजच् छंभुर् अष्टाव् एतांस् तु मानसान् ॥
एते युगसहस्रान्ते याश् चैषाम् अभवन् प्रजाः ।
कल्पे निःशेषमुक्ते तु ततो गच्छन्ति निर्वृतिम् ॥
ततो युगसहस्रान्ते कल्पो निःशेष उच्यते ।
भूयो वर्षसहस्रान्ते उत्पत्तिस् तु विधीयते ।
एतेषाम् एव देवानां प्रजाकारणयोगिनाम् ॥
किं तु कर्मविशेषेण देवतानां युगे युगे ।
नामजन्मविशेषाश् च तथा युगविपर्यये ॥
अङ्गुष्ठाद् दक्षिणाद् दक्ष उत्पन्नो भगवान् ऋषिः ।
तस्थैव तु पुनर् भार्या वामाङ्गुष्ठाद् अजायत ॥
तत्र तस्याभवत् कन्या विश्रुता लोकमातरः ।
याभिर् व्याप्तास् त्रयो लोकाः प्रजाभिर् मनुजाधिप ॥
अदितिं च दितिं कालाम् अनायुं सिंहिकां मुनिम् ।
प्राधां क्रोधां च सुरभिं विनतां सुरसां तथा ॥
इरां क्रोधवशां चैव सुरसां च त्रयोदश ।
दनुं कद्रूं च दुहितॄः प्रददौ कश्यपाय तु ।
प्रजाः संचिन्त्य मनसा गतिज्ञेनान्तरात्मना ॥
अरुन्धतीं वसुं यामीं लम्बां भानुं मरुत्वतीम् ।
संकल्पां च मुहूर्तां च साध्यां विश्वां च भारत ॥
मनवे ब्रह्मपुत्राय कन्या दक्षो ददौ दश ।
ताश् च सर्वान् अवद्याङ्ग्यः कन्याः कमललोचनाः ॥
पूर्णचन्द्रानना दिव्या गन्धवत्यो मनोरमाः ।
कीर्तिं लक्ष्मीं धृतिं पुष्टिं बुद्धिं मेधां क्रियां तथा ।
मतिं लज्जां वसुं चैव दक्षो धर्माय वै ददौ ॥
आत्रेयस् तु ततो भूतस् तस्य तोयात्मकः प्रभुः ।
पुत्रो गृहाणाम् अधिपः सहस्रांशुस् तमिस्रहा ॥
तस्मै नक्षत्रयोगिन्यः सप्ताविंशतिर् उत्तमाः ।

रोहिणीप्रमुखाः कन्या दक्षः प्राचेतसो ददौ ॥
एतासां पुत्रपौत्रं तु प्रोच्यमानं मया शृणु ।
कश्यपस्य मनोश् चैव धर्मस्य शशिनस् तथा ॥
अर्यमा वरुणो मित्रः पूषा धाता पुरंदरः ।
त्वष्टा भगो ऽंशः सविता पर्जन्यश् चेति विश्रुताः ॥
अदित्यां जज्ञिरे देवाः कश्यपस्य महात्मनः ।
दित्यां पुत्रद्वयं जज्ञो कश्यपाद् इति नः श्रुतम् ॥
हिरण्यकशिपुश् चैव हिरण्याक्षश् च वीर्यवान् ।
द्वाव् अप्य् अमितविक्रान्तौ तपसा कश्यपोपमौ ॥
हिरण्यकशिपोः पुत्राश् चत्वारः संबभूविरे ।
तपःसिद्धा योगसिद्धा ब्रह्मचर्ये च सुस्थिताः ॥
सत्यव्रतपरा नित्यं शान्ताश् चैव जितेन्द्रियाः ।
अहिंसापरमोपेता मोहरागविवर्जिताः ॥
ऋजुप्रभावा दक्षाश् च वीरा निकृतिनिश्चये ।
सर्वे तेजस्विनः शूराः सर्वे भवपरायणाः ॥
भवाय तु भवं देवं श्रीगर्भं परमेश्वरम् ।
पिशिताशनं भूतेशं भूतानां पतिम् अव्ययम् ॥
अक्षयं परमं देवम् अव्ययं भवनं परम् ।
पराच् च परमं देवं परावरपरं परम् ॥
अनादिम् अव्यक्तभवम् ईश्वरं पुरुषोत्तमम् ।
सुरासुरगुरुं देवं सर्वलोकादिम् उत्तमम् ॥
पदम् अव्यक्तभूयिष्ठं कृत्तिचर्मनिवाससम् ।
हिरण्यकशिपोः पुत्राः प्रपन्नाश् च पिनाकिनम् ॥
हिरण्यकशिपोः पुत्राः पञ्चैव सुमहाबलाः ।
प्रह्रादश् चैव संह्रादस् तथानुह्राद एव च ।
ह्रदश् चैव तु विक्रान्तः पञ्चमो ऽनुह्रदस् तथा ॥
प्रह्रादः पूर्वजस् तेषाम् अनुह्रादस् ततो ऽपरः ॥
संह्रादश् चैव ह्रादश् च कनीयांसौ बभूवतुः ।
प्रह्रादस्य त्रयः पुत्रा विक्रान्ताः सुमहाबलाः ।
विरोचनश् च प्राह्रादिर् दैत्येन्द्रो ऽभून् महायशाः ॥
विरोचनश् च जम्भश् च सुजम्भश् चेति विश्रुताः ।
विरोचनस् तु प्राह्रादिर् आसीत् समितिदुर्जयः ।
बलिर् विरोचनसुतो बाण एको बलेः सुतः ॥
बाणस्य चेन्द्रदमनः पुत्रः परपुरंजयः ।
बलेस् तु पुत्रो बलवान् बाण एव प्रतापवान् ॥
अनुह्लादस्य ये पुत्रा ख्याताः सर्वत्र भारत ।
दनोः पुत्रास् तु बहवो वंशे ख्याता महासुराः ।
विप्रचित्तिः प्रथमजस् तेषां राजा बभूव ह ॥
गणः प्रजज्ञे क्रोधायाः पुत्रपौत्रम् अनन्तकम् ।
रौद्राः क्रोधवशा नाम क्रूरकर्माण एव ते ॥

सिंहिका सुषुवे राहुं ग्रहं चन्द्रार्कमर्दनम् ।
ग्रस्तारं चैव चन्द्रस्य सूर्यस्य च विनाशनम् ॥
कालायाः कालकल्पस् तु गणः परमदारुणः ।
अभवद् दीप्तसूर्याक्षो नीलमेघसमप्रभः ॥
सहस्रशीर्षा शेषश् च वासुकिस् तक्षकस् तथा ।
बहूनां कद्रुपुत्राणाम् एते प्राधान्यम् आगताः ॥
धर्मात्मानो वेदविदः सदा प्राणिहिते रताः ।
लोकतन्त्रधराश् चैव वरदाः कामरूपिणः ॥
तार्क्ष्यश् चारिष्टनेमिश् च गरुडश् च महाबलः ।
अरुणश् चारुणिश् चैव विनतायाः सुताः स्मृताः ॥
इमाश् चाप्सरसः पुण्या विविधाः पुण्यलक्षणाः ।
सुषुवे ऽष्टौ महाभागा प्राधा देवर्षिपूजिताः ॥
अनवद्याम् अनूकां च अनूनाम् अरुणप्रियाम् ।
अनुगां सुभगां चैव स्त्रियः प्राधा व्यजायत ॥
अलम्बुषा मिश्रकेशी पुण्डरीका तिलोत्तमा ।
सुरूपा लक्ष्मणा क्षेमा तथा रम्भा मनोरमा ॥
अमिता च सुबाहू च सुवृत्ता सुमुखी तथा ।
सुप्रिया च सुगन्धा च सुरथा च प्रमाथिनी ॥
काश्या शारद्वती चैव मौनेयाप्सरसः स्मृताः ।
विश्वावसुर् भरण्या च गन्धर्वाश् चैव विश्रुताः ॥
मेनका सहजन्या च पर्णिनी पुञ्जिकस्थला ।
घृतस्थला घृताची च विश्वाची चोर्वशी तथा ॥
अनुम्लोचेति विख्याता प्रम्लोचेति च ता दश ।
मनोवती तथा चैव दिव्या अप्सरसः स्मृताः ।
प्रजापतेस् तु संकल्पात् संभूता भुवनश्रियः ॥
अमृतं ब्राह्मणा गावो रुद्राश्चेति चतुष्टयम् ।
सुरभ्यपत्यम् इत्य् एतत् पुराणे निश्चयो महान् ॥
एतद् वै कश्यपापत्यं मनोर् वंशं निबोधत ।
संक्षेपेणैव तत्सर्वं कीर्तयिष्यामि ते ऽनघ ॥
विश्वेदेवास् तु विश्वायाः साध्या साध्यान् व्यजायत ।
मरुत्वत्या मरुत्वन्तो वसोस् तु वसवः स्मृताः ।
भानोस् तु भानवस् तात मुहूर्तास् तु मुहूर्तजाः ॥
लम्बा घोषं विजज्ञे ऽथ नागवीथी च जामिजा ।
पृथिवीविषयं सर्वं मरुत्वत्याम् अजायत ॥
संकल्पायास् तु कौरव्य जज्ञे संकल्प एव च ।
धर्मस्य पुत्रो लक्ष्म्यास् तु कामो जज्ञे जगत्प्रियः ॥
यशो हर्षश् च कामस्य रत्यां पुत्रद्वयं स्मृतम् ।
सोमस्य पुत्रो रोहिण्यां जज्ञे वर्चा महाप्रभः ॥
उदयन्न् एव भगवान् वर्चस्वी येन जायते ॥
पुरूरवाश् च भगवान् उर्वशी येन युज्यते ।

एवं पुत्रसहस्राणि स्त्रीणां चैव परस्परम् ।
एतावत् तु जगन्मूलं यत्र लोकाः प्रतिष्ठिताः ॥
प्रजापतिस् तु भगवान् गुणतः प्रेक्ष्य देहिनः ।
आधिपत्येषु युक्तेषु नियोजयति योगवित् ॥
दिशो दश क्षितिम् ऋषयो ऽर्णवान् नगान् @
द्रुमौषधीर् उरगसरित्सुरासुरान् ।
प्रजापतीन् भुवनसृजो नभो भुवः @
क्रिया मखान् अथ कृतवान् गिरींश् च सः ॥
त्रयाणाम् अपि लोकानाम् आदित्यानां च भारत ।
चकार शक्रं राजानम् आदित्यसमतेजसम् ॥
स वज्री कवची जिष्णुर् अदित्याम् अभिजज्ञिवान् ।
स्मृतीसहायो द्युतिमान् यथा सो ऽध्वर्युभिः स्तुतः ॥
जातमात्रो ऽथ भगवान् अदित्या स कुशैर् वृतह् ।
तदाप्रभृति देवेशः कौशिकत्वम् उपागतः ॥
अभिषिच्याधिराज्ये तु सहस्राक्षं पुरंदरम् ।
ब्रह्मा क्रमेण राज्यानि व्यादेष्टुम् उपचक्रमे ॥
यज्ञानां तपसां चैव नक्षत्रग्रहयोस् तथा ।
द्विजानाम् ओषधीनां च सोमं राज्ये ऽभ्यषेचयत् ॥
दक्षं प्रजापतीनां तु अम्भसां वरुणं पतिम् ।
पितॄणां सर्वनिधनं कालं वैश्वानरप्रभम् ॥
गन्धर्वाणां च सर्वेषां महादेवः कृतः प्रभुः ।
गन्धर्वाणां च सर्वेषां भूतानां च शरीरिणाम् ।
शब्दकालबलानां च वायुर् ईशस् तदा कृतः ॥
सर्वभूतपिशाचानां मातॄणां च गवां तथा ।
उन्मादग्रहरोगाणां व्याधीनाम् ईतिनां तथा ॥
प्रेतानां चैव सर्वेषां महादेवः कृतः प्रभुः ।
यक्षाणां राक्षसानां च गुह्यकानां धनस्य च ॥
रत्नानां चैव सर्वेषां कृतो वैश्रवणः प्रभुः ।
सर्वेषां दंष्ट्रिणां शेषो नागानाम् अथ वासुकिः ।
सरीसृषाणां सर्वेषां प्रभुर् वै तक्षकः कृतः ॥
सागराणां नदीनां च मेघानां वर्षितस्य च ।
आदित्यानाम् अवरजः पर्जन्यो ऽधिपतिः कृतः ॥
गन्धर्वाणाम् अधिपतिं चक्रे चित्ररथं प्रभुम् ।
सर्वाप्सरोगणानां च कामदेवः कृतः प्रभुः ॥
चतुष्पदानां सर्वेषां वाहनानां च सर्वशः ।
महेश्वरध्वजः श्रीमान् गोवृषो ऽधिपतिः कृतः ॥
दैत्यानां च महातेजा हिरण्याक्षः प्रभुः कृतः ।
दानवानां च सर्वेषाम् अनीकानां तथैव च ॥
विप्रचित्तः प्रथमजस् तेषां राज्ये ऽभिषेचितः ।
हिरण्यकशिपुश् चैव यौवराज्ये ऽभिषेचितः ॥

गणानां कालकेयानां महाकालः कृतः प्रभुः ।
अनायुषायाः पुत्राणां वृत्रो राजा तदा कृतः ॥
आदित्यस्य विभोः पुत्रो धर्मराजो महायशाः ।
सिंहिकातनयो यस् तु राहुर् नाम महाग्रहः ।
उत्पातानाम् अनेकानाम् अशुभानां पतिः कृतः ॥
ऋतूनाम् अथ सर्वेषां युगानां चैव भारत ।
पक्षाणां च क्षपाणां च तथाहस्तिथिपर्वणाम् ॥
कलाकाष्ठामुहूर्तानां गतेर् अयनयोस् तथा ।
कृतः संवत्सरो राजा योगस्य गणितस्य च ॥
पक्षिणाम् अथ सर्वेषां नागानां च महाबलः ।
सुपर्णो भोगिनां चैव गुरुडो ऽधिपतिः कृतः ॥
अरुणो गुरुडभ्राता जपापुष्पचयप्रभः ।
योगानां चैव सर्वेषां साध्यानाम् अधिपः कृतः ॥
पुत्रो ऽस्य विरथो नाम कश्यपस्य प्रजापतेः ।
सारथ्ये योजितश् चासीत् सूर्यस्यामिततेजसः ।
राजा प्राच्यां दिशि तथा वासवो ऽधिपतिः कृतः ॥
आदित्यस्य विभोः पुत्रो धर्मराजो महायशाः ।
दक्षिणस्यां दिशि यमो महेन्द्रेणाभिसत्कृतः ॥
कश्यपस्यौरसः पुत्रः सलिलान्तर्गतस् तथा ।
अम्बुराज इति ख्यातः प्रतीच्यां दिशि पार्थिवः ॥
पुलस्त्यपुत्रो द्युतिमान् महेद्रप्रतिमः प्रभुः ।
एकाक्षः पिङ्गलो नाम सौम्यायां दिशि पार्थिवः ॥
एवं विभज्य राज्यानि स्वयंभूर् लोकभावनः ।
लोकांश् च त्रिदिवे दिव्यान् अददात् स पृथक् पृथक् ॥
कस्यचित् सूर्यसंकाशान् कस्यचिद् वह्निसंनिभान् ।
कस्यचिद् विद्युदुद्योतान् कस्यचिच् चन्द्रनिर्मलान् ॥
नानावर्णान् कामगमान् अनेकशतयोजनान् ।
सतां सुकृतिनां लोकान् पापदुष्कृतिदुर्लभान् ॥
ये च भासा विभान्त्य् अग्रे सौम्यास् तारागणा इव ।
एते सुकृतिनां लोका ये जाताः पुण्यकर्मिणः ॥
ये यजन्ति मखैः पुण्यैः समाप्तवरदक्षिणैः ।
स्वदारनिरताः क्षान्ता ऋजवः सत्यवादिनः ॥
दिनानुग्रहकर्तारो ब्राह्मणा लोभवर्जिताः ।
ते त्यक्तरजसः शान्ता यान्ति तत्र तपोज्ज्वलाः ॥
एवं नियुज्य तनयान् स्वयं लोकपितामहः ।
पुष्करं ब्रह्मसदनम् आरुरोह प्रजापतिः ॥
सर्वे स्वयंभुदत्तेषु पालनेषु दिवौकसः ।
रेमिरे स्वेषु लोकेषु महेन्द्रेणाभिपालिताः ॥
स्वयंभुवा शक्रपुरःसराः सुराः @
कृता यथार्हं प्रतिपालनेषु ते ।

यशो दिवं च प्रतिपेदिरे शुभं @
मुदं च जग्मुर् मखभागभोजिनः ॥
कदाचित् तु सपक्षास् ते पर्वता धरणीधराः ।
प्रस्थिता धरणीं त्यक्त्वा नूनं तस्यैव मायया ॥
तदासुराणां निलयं हिरण्याक्षेण पालितम् ।
दिशं प्रतीचीम् आगम्य ह्रदे ऽमज्जन् यथा गजाः ॥
तत्रासुरेभ्यः शंसन्त आधिपत्यं सुराश्रयम् ।
तच् छ्रुत्वाथासुराः सर्वे चक्रुर् उद्योगम् उत्तमम् ॥
क्रूरां च बुद्धिम् अतुलां पृथिवीहरणे रताः ।
आयुधानि च सर्वणि जगृहुर् भीमविक्रमाः ॥
चक्राशनींस् तथा खड्गान् भुशुण्डीश् च धनूंषि च ।
प्रासान् पाशांश् च शक्तीश् च मुसलानि गदास् तथा ॥
केचित् कवचिनः सज्जा मत्तान् नागान् समास्थिताः ।
केचिद् अश्वरथान् युक्ता अपरे ऽश्वा महारथाः ॥
केचिद् उष्ट्रांस् तथा खड्गान् महिषान् गर्दभान् अपि ।
स्वबाहुबलम् आस्थाय केचिच् चापि पदातयः ॥
परिवार्य हिरण्याक्षं तलबद्धाः पताकिनः ।
इतश् चेतश् च निश्चेरुर् हृष्टाः सर्वे युयुत्सवः ॥
ततो देवगणाः पश्चात् पुरंदरपुरोगमाः ।
दैत्यानां विदितोद्योगाश् चक्रुर् उद्योगम् उत्तमम् ॥
महता चतुरङ्गेण बलेन सुसमाहिताः ।
बद्धगोधाङ्गुलित्राणास् तूणवन्तः समार्गणाः ॥
उग्रायुधधरा देवाः स्वेष्व् अनीकेष्व् अवस्थिताः ।
ऐरावतगतं शक्रम् अन्वगच्छन्त पृष्ठतः ॥
ततस् तूर्यनिनादैश् च भेरीणां च महास्वनैः ।
अभ्यद्रवद् धिरण्याक्षो देवराजं पुरंदरम् ॥
तीक्ष्णैः परशुनिस्त्रिंशैर् गदातोमरशाक्तिभिः ।
मुसलैः पट्टिसैश् चैव छादयाम् आस वासवम् ॥
ततो ऽस्त्रबलवेगेन सार्चिष्मत्यः सुदारुणाः ।
घोररूपा महावेगा निपेतुर् बाणवृष्टयः ॥
शिष्टाश् च दैत्या बलिनः शितधारापरश्वधैः ।
परिघैर् आयसैः खड्गैः क्षेपणीयैश् च मुद्गरैः ॥
गण्डशैलैश् च विपुलैर् अश्मभिश् चाद्रिसंनिभैः ।
घातनीभिश् च गुर्वीभिः शतघ्नीभिस् तथैव च ॥
युगैर् यन्त्रैश् च निर्मुक्तैर् अर्गलैश् च विदारणैः ।
सर्वान् देवगणान् दैत्याः संनिजघ्नुः सवासवान् ॥
धूम्रकेशं हरिश्मश्रुं नानाप्रहरणायुधम् ।
रक्तसंध्याभ्रसंकाशं किरीटोत्तमधारिणम् ॥
नीलपीताम्बरधरं सितोद्वृत्तोग्रदंष्ट्रिणम् ।
आजानुबाहुं हर्यक्षं वैदूर्याभरणोज्ज्वलम् ॥

मूल पाठ: Harivaṃśa, Appendix I · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc